११ रूढिस्वरूपनिरूपणम्

प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते

रूढिस्वरूपनिरूपणम्

प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते

सुधा

मुख्यवृत्तिरपि त्रेधा भवति । योगो रूढिर्योगरूढिश्चेति । तत्र प्रवृत्तिनिमित्तापेक्षा वृत्तिर्योगः । यथा कुम्भकार, औपगवो, राजपुरुष इति ।

ननु नैतेऽपि यौगिकाः किं नाम रूढा एव । कृत्तद्धितसमासकरणं तु व्युत्पत्तिमात्रार्थम् । यथोक्तम् । वृक्षादिवदमी रूढा इत्यादि । मैवं शब्दार्थविभागस्यावापोद्धाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति मत्वा रूढेः स्वरूपमाह प्रयोगेति ।

अनुव्याख्यानम्

प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥

शेषवाक्यार्थचन्द्रिका

मुख्यवृत्तिरिति । अभिधावाचकत्वादिपदवेद्येत्यर्थः । अत एव तथैवोपसंहरिष्यतीति ध्येयम् । सा च शक्त्या प्रतिपादकत्वमित्यन्यत्र विस्तरः ॥ योग इत्यादि । योगस्य रूढ्यपेक्षया रूढेश्च योगरूढ्यपेक्षया दौर्बल्याद्दौर्बल्यक्रमेणायं निर्देश इति ज्ञेयम् । योगलक्षणानुक्त्या प्रसक्तां भाष्ये न्यूनतां परिहरति तत्रेति ॥ प्रवृत्तिनिमित्तेति । अत्र प्रवृत्तिनिमित्त-पदेनावयवार्थ एवाभिमतः । अन्यथा रूढेरपि घटत्वादिप्रवृत्तिनिमित्तसापेक्षत्वेन तत्रातिप्रसङ्गात् । उत्तरत्र च रूढिलक्षणे आकर एव प्रवृत्तिनिमित्तपदस्थानेऽवयवार्थपदप्रयोगाच्च । वृत्तिश्चात्र तात्पर्यरूपमर्थप्रतिपादकत्वमेव । ततश्चावयवशक्तिसापेक्षमर्थप्रतिपादकत्वं योग इति पर्यवसन्नोऽर्थः । कृदन्तं यौगिकपदमुदाहरति कुम्भकार इति । ‘कर्मण्यणि’ति कुम्भं करोतीत्यत्रार्थेऽण् कृत्प्रत्यय इति ज्ञेयम् । तद्धितान्तं तदुदाहरति औपगव इति । अत्र उपगोरपत्यमित्यस्मिन्नर्थे ‘तस्यापत्यमि’ति तद्धितोऽण्प्रत्ययः । समासरूपं तदुदाहरति राजपुरुष इति । अत्र च ‘षष्ठी’त्यनेन समास इति ज्ञेयम् ।

रूढत्वे कर्मण्यणित्यादिव्याकरणविरोध इत्यतस्तस्य साधुत्वमात्रपरत्वान्न विरोध इत्याह कृत्तद्धितेति । अर्थानुगमदर्शनान्न साधुत्वमात्रपरत्वमाश्रयितुं शक्यमित्याह शब्दार्थविभागस्येति । कुम्भकर्तृत्वादिरूपस्येत्यर्थः । यद्यपि कुम्भप्रातिपदिककरोदिधात्वण्प्रत्ययाः स्वस्वार्थेऽन्यानपेक्षा रूढा एव । तथाऽपि समुदाये कुम्भकर्तृत्वरूपे विशिष्टेऽर्थेऽवयवशक्तिसापेक्षा, न त्वश्वकर्णशब्दः शालाऽख्ये वृक्षविशेष इव तन्निरपेक्षा इति भवन्ति यौगिकाः । एवमौपगवादिशब्दा अपि विशिष्टेऽर्थ एव यौगिकाः । न च वाक्यस्यापि स्वार्थबोधने स्वावयवभूतपदशक्तिसापेक्षत्वाद्योगवृत्तिः स्यादिति वाच्यम् ॥ अवयवशब्देन पदावयस्यैव विवक्षिततया तत्राप्रसङ्गादिति भावः । इत्यादीत्यादिपदेन योगरूढत्व-शङ्कानिरासोऽपि द्रष्टव्य इति सूचयति । औपगवादिपदात्पङ्कजादिपदेभ्य इव योगरूढिनिमित्त-भूतधर्मद्वयप्रकारकबोधाननुभवात् ।

परिमल

शक्त्या प्रतिपादकत्वं मुख्यवृत्तित्वमिति सामान्यलक्षणं स्फुटं मत्वा न्यायविवरणोक्तं लौकिकमुख्यवृत्तिविभागमाह मुख्यवृत्तिरपीति । न्यायविवरणे विभाजितवृत्तिनां लक्षणानुक्तेर् अत्र च कासाञ्चित्तदुक्तेर् महायोगादिलक्षणोक्त्या योगादेरपि तत्सूचितमिति भावेन तदाह प्रवृत्तिनिमित्ता-पेक्षेति । निर्वचनलभ्योऽर्थः प्रवृत्तिनिमित्तम् । प्रवृत्तिहेतोरित्यत्र प्राक्तथा व्याख्यानात् । तेन न रूढावतिव्याप्तिः । वृत्तिर् अर्थप्रतिपादकत्वम् । एवं च अवयवशक्तिलभ्यमर्थमपेक्ष्यार्थप्रतिपादकत्वं योग इत्यर्थः । प्रवृत्तिहेतोर्बाहुल्यं महायोग इति प्रागुक्तलक्षणे बाहुल्यत्यागे सति लौकिकयोगलक्षणं लभ्यत इति दर्शयितुमेवमुक्तम् । वस्तुतस्तु अवयवशक्तिसापेक्षा वृत्तिर्योग इति फलितोऽर्थः । तेन गौरवचोद्यानवकाशः । कृत्तद्धितसमासानां क्रमेणोदाहरणं कुम्भकार इत्यादि, कुम्भं करोतीति कुम्भपदेकर्मण्युपपदे डुकृञ् करण इत्यस्मात् ‘कर्मण्यणि’ति सूत्रेणाण्प्रत्यये ‘अचोञ्णिती’ति वृद्धौ सुपि सति कुम्भकार इति रूपम् । उपगोरपत्यमित्युपगुशब्दादपत्यार्थे ‘तस्यापत्यमि’त्यण्प्रत्यये तद्धितेष्वचामादेरित्यादिवृद्धौ ‘ओर्गुण’ इति गुणे ‘सुपो धात्वि’त्यवयवविभक्तिलोपे सुपि सति औपगव इति रूपम् । राज्ञः पुरुष इति विग्रहे षष्ठीति सूत्रेण समासे ‘सुपो धात्वि’त्यवयवविभक्तिलोपे सति राजपुरुष इति रूपम् ॥ व्युत्पत्तीति । समुदायस्यार्थेन सह वाच्यवाचकसम्बन्धज्ञापनमात्रार्थमित्यर्थः ॥ (यथोक्तमिति ॥) शब्दार्थविभगस्येति । शब्दविभागस्य अर्थविभागस्यचेत्यर्थः ॥ आवापेति । राजपुरुषपदप्रक्षेपेण कश्चिदर्थः प्रतीयते । राजपदोद्वापे अमात्यपदावापेऽन्योऽर्थः प्रतीयते । एवं पुरुषपदेऽपि ध्येयम् । तथा कुम्भपदोद्वापे उदञ्चनपदावापे अन्योऽर्थ इत्यादि ध्येयम् ।

यादुपत्यम्

अत्रापीति । लोक इत्यर्थः ।

प्रवृत्तिनिमित्तापेक्षेति । अत्र प्रवृत्तिनिमित्तपदेन अवयवार्थोऽभिप्रेतः । अतो न घटत्वादि-निमित्तापेक्षायां रूढ्यामतिव्याप्तिरिति ध्येयम् । वृत्तिश्च शब्दबोधानुकूलपदार्थोपस्थितिहेतुः पदपदार्थ-सम्बन्ध इति कश्चित् । तात्पर्यरूपमर्थप्रतिपादकत्वमेवेति सम्प्रदायविदः । कृदन्तं यौगिकं पदमुदाहरति कुम्भकार इति । अत्र ‘कर्मण्यणि’ति अण् कृत्प्रत्यय इति ज्ञेयम् । तद्धितान्तं तदुदाहरति । औपगव इति । अत्र ‘तस्यापत्यमि’ति तद्धितोऽण्प्रत्ययः । समासरूपं तदुदाहरति राजेति । अत्र षष्ठीत्यनेन समास इति ध्येयम् ॥ कृत्तद्धितेति । कृत्तद्धितसमासविधानं तु आप्तेपदेशादिवच्छक्तिमेवेत्यर्थः । यद्यपि कुम्भप्रातिपदिककरोतिधात्वण्प्रत्ययाः स्वार्थेऽन्यानपेक्षा रूढा एव । तथाऽपि समुदायः कुम्भकर्तृत्व-रूपे विशिष्टेऽर्थेऽवयवशक्तिसापेक्षः । न त्वश्वकर्णशब्दो वृक्षविशेष इव तन्निरपेक्ष इति भवति यौगिकः । एवमौपगवाऽदिशब्दा अपि विशिष्टार्थे यौगिकाः । न च वाक्यस्यापि स्वार्थबोधने स्वावयवभूतपद-शक्तिसापेक्षत्वाद्योगवृत्तिः स्यादिति वाच्यम् । एतदर्थमेव लक्षणे वृत्तिपदोपादानात् । वाक्ये च वृत्तेरभावात् । अवयवशब्देन पदावयवस्य विवक्षितत्वान्नोक्तदोष इत्यप्याहुः । इत्यादीत्यत्रादिपदेन योगरूढत्वशङ्कानिरासोऽपि द्रष्टव्य इति सूचयति । औपगवादिपदाद् योगरूढिनिमित्तभूत-धर्मद्वयप्रकारकबोधाननुभवात् ।

श्रीनिवासतीर्थीया

कृत्तद्धितेति । ततश्च कुम्भशब्दोपपदात्कृञ् करणेऽस्मात्कृत् प्रत्ययभूतेऽण्प्रत्यये गुणे कर् इति जाते णित्वादादिवृद्धौ कारेति कृदन्तं ज्ञेयम् । अमी कुम्भकारादिशब्दाः ।

वाक्यार्थरत्नमाला

मुख्यतापदोक्तमुख्यवृत्तिस्वरूपनिरूपणाय प्रवृत्तेन भाष्यकृता प्रयोगबाहुल्यं रूढिरिति रूढिमात्रलक्षणकथनमयुक्तम् । रूढिवद्योगयोगरूढ्योरपि न्यायविवरणे मुख्यवृत्तितयोक्तयोः सत्वेन तल्लक्षणयोरपि कथनीयत्वादित्यतः सत्यं मुख्यं वृत्तिस्त्रिविधाऽस्तीति, किन्तु विधात्रये योगयोगरूढिनिरूपणादिकं स्पष्टत्वात्प्रसिद्धत्वाच्च शिष्यैरेवोहितुं शक्यमिति तदुभयमनिरूप्यैव रूढिमात्रं व्युत्पादनसापेक्षं मया निरूप्यत इति न दोष इत्येवं भाष्यकाराशयं दर्शयन् स्वयं योगस्वरूपं निरूप्य क्रमप्राप्तरूढिलक्षणप्रतिपादकतया प्रयोगेति भाष्यं योजयित्वा योगरूढिस्व-रूपनिरूपणादि च स्वयं कर्त्तुं मुख्यवृत्तिविभागं तावदाहेति मुख्यवृत्तिरपीत्यादिमूलस्यावतारं सिद्धवत्कृत्य प्रतीकोपादानमात्रं कुर्वन् मुख्यवृत्तिपदं व्याचष्टे । मुख्यवृत्तिरितीत्यादिना । अत एव योगलक्षणानुक्तया प्रसक्तां भाष्ये न्यूनतां परिहरतीति तत्रेति वाक्यमवतारितम् । तेनोपयुक्तपूर्वोक्त-भाष्याभिप्रायादिसिद्धेरिति ज्ञेयम् ।

अन्यत्र मुख्यतादिरूपेण शब्दवृत्तित्रयस्य भाष्ये प्रतिपादनात्तद्विवक्षयाऽपिशब्दोपपत्तिः । तत्र परममुख्यवृत्तिर्द्वेधेति पूर्वमूलेन समुच्चयपक्षे न केवलं परममुख्यवृत्तिरवान्तरविभागवती किन्तु मुख्यवृत्तिरपीति योज्यम् । उपसंहरिष्यतीति । एवमव्यवहितामभिधावाचकत्वादिपदवेद्यां मुख्यवृत्तिं निरूप्येत्यनेनोत्तरानुव्याख्यानस्य पूर्वसङ्गतत्वेनावतारव्याजेनोक्तर्थस्योपसंहारसिद्धेरिति भावः । कातत्राभिधेत्यत आह । साच शक्तयेति । उपलक्षणं चैतत् । वाचकत्वं च शक्याप्रतिपाद-कत्वरूपमित्यपि द्रष्टव्यम् । न तु मण्युक्तरीत्या शक्तिरेव । गङ्गायां घोष इत्यत्रापि गङ्गाशब्दस्य तीरे शक्तिसद्भावेन तदभिधत्त इति व्यवहारापातात् । तत्र शक्तेर्मुकीभूतत्वान्न तथा व्यवहार इति चेन्न । अप्रतिपादकत्वातिरिक्तमूकीभावस्याभावेन प्रतिपादकत्वस्यैवाभिधात्वसिद्धेरिति तर्कताण्डवं मनसि निधायोक्तम् अन्यत्र विस्तर इति । योगलक्षणानुक्तयेति । इत्यादि शिष्यैरेवोह्यतामिति मूलेनोक्तलक्षण-कयोगसमर्थनप्रकारस्य शिष्यैरूह्यत्ववचनेऽपि रूढिलक्षणप्रकरणे योगलक्षणमात्रस्य पुरस्कारेण लक्षणानुक्तयेति लक्षणमात्रग्रहणमिति ज्ञेयम् । परिहरतीति । परिहर्तुं स्वयं लक्षणं तावदाहेत्यर्थः । अवयवक्तिसापेक्षा वृत्तिर्योग इति यदपि सुधायां प्रवृत्तिनिमित्तेत्यादि च तर्कताण्डवानुसारेण योगलक्षणं निष्कर्षेणाह । अत्र प्रवृत्तिनिमित्तपदेनेति कृत्तद्धितसमासकरणं त्वित्येतत्स्पष्टयितुं विवेकेनोदाहरणानि योजयति । कृदंतमित्यादिना । उभयत्राण्प्रत्ययस्यैकलक्षणकत्वभ्रान्तिपरिहाराय कृदन्तमित्याद्युप-पादितम् । अण् कृत्प्रत्यय इति । तद्धितोण्प्रत्यय इति च । तस्यापत्यमिति सूत्रस्य हितस्येति षष्टीसमर्थादपत्यमित्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवतीत्यर्थात् प्राग्दीव्यतोणित्यनेनाणित्यर्थः । अर्थानुगमदर्शनादिति तर्कताण्डवानुसारेणोत्तरवाक्याशयमाह । अर्थानुगमेति । कुम्भकर्तृत्वादीति । एतच्च शब्दार्थस्येति बुध्या विविच्य तस्य व्याख्यानम् । विभज्यत इति विभागः । विभज्यमानो यः शब्दार्थः स शब्दार्थविभागपदेनोच्यत इति मनसि निधाय व्याख्यानमेतदिति बोध्यम् । तर्कताण्डवानुसारेणाक्षिप्य समाधत्ते । यद्यपि कुम्भेत्यादिना । शालाख्य इति । राजोपगवादिशब्दानां रूढत्वनिरासेऽपि योगरूढत्वानिरासान्मूलेन्यूनतेत्याशङ्कां मूलस्थादिपदार्थकथनेन परिहरति । इत्यादीति । औपगवादिशब्दानामिति शेषः । कथं तच्छङ्कानिरास इत्यतस्तं प्रकारं दर्शयति । औपगवादीति । अननुभावादित्यनन्तरमितिशब्दोध्याहार्यः । तेनेति । सूचयतीति पूर्वेण सम्बन्धः । तद्युक्तपाठस्तु स्वरस एव ।