तत्र प्रयोगबाहुल्यं यदि तत्परता किमु
महायोगरूढिलक्षणम्
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु
सुधा
महायोगरूढिस्वरूपं निरूपयन्नाह तत्रेति ।
अनुव्याख्यानम्
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥
यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्रैव चेत्प्रयोगबाहुल्यं स्यात्तदा तस्या वृत्तेः परता परममुख्यता किमु वक्तव्येति । अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्ति तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम् । कैमुत्यकथनं तु शङ्कानिरासार्थम् । तथा हि । किमत्र प्रयोगबाहुल्यमात्रं लक्षणमुतानवधिकप्रवृत्तिनिमित्तविशेषितम् । नाद्यः । रूढिमात्र-त्वात्परममुख्यत्वायोगात् । न द्वितीयः । अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेष्यवै-यर्थ्यात् । न च समाहारेण विधाऽन्तरं भवति । तथा सति असिद्धबाधितसमाहारोऽपरो
हेत्वाभासः स्यादिति ।
अत्र द्वितीय एवाभ्युपगम्यते । न चोक्तदोषः । विशेषणमात्रेण परममुख्यत्वे, विशेष्यसद्भावेन सुतरां तत्सिद्धेः । न ह्यस्माभिः परममुख्यतामात्रसिद्धये विशिष्टोपादानं क्रियते । किन्तु समाहाररूपविधान्तर सिद्धये । न चातिप्रसङ्गः । वैषम्यात् । अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोग-बाहुल्यं खलु विवक्षितम् । न समाहारमात्रम् । एतदर्थं च तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम् । न चैवं महायोगस्यात्र प्रवेशः । अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति ।
शेषवाक्यार्थचन्द्रिका
साकाङ्क्षत्वादपेक्षितपूरणेन वाक्यं योजयति यत्रेति ॥ प्रयोगेति । इदं च ‘अखण्डशक्तौ प्रमाणमपि उक्तःप्रयोगोऽसाधारणत्वाल्लक्षणं च भवती’त्यभिप्रेत्यैवोक्तं, न तु शक्तिर्नास्तीत्यभिप्रेत्य ‘शक्तिश्चैवान्विते स्वार्थे शब्दानुमानुभूयते’ इत्यादिना पूर्वं गवादिशब्देष्वपि शक्त्युक्तेः ‘बहुलातिप्रयोगतः । रूढमित्येव साध्यं स्यादि’त्यादिना प्रयोगेण रूढिसाधनाच्च । अत्रापि टीकायां ‘प्रयोगयुक्तसादृश्यमित्युत्तरग्रन्थव्याख्यानावसरे ‘प्रयोगशब्दस्य सामर्थ्यमर्थ’ इति वक्ष्यमाणत्वाच्चेति द्रष्टव्यम् । कैमुत्यघटितत्वभ्रान्तिं निष्कृष्टलक्षणोपदर्शनेन परिहरति अत्रेति । प्रवृत्तिनिमित्तं निर्वचनलभ्योऽर्थः । प्रदर्शितलक्षणस्यातिव्याप्त्यादिशून्यतया लक्षणपदानां चाति-व्याप्त्यादिपरिहारमात्रप्रयोजकत्वान्न तस्य लक्षरप्रवेश इति भावः । किमर्थं तर्हि मूले तदभिधानमित्यतः प्रयोजनान्तरार्थं तदित्याह कैमुत्येति ॥ शङ्कानिरासार्थमिति । महायोगरूढिलक्षणा परममुख्यवृत्तिरेव नास्तीति शङ्कापरिहारार्थमित्यर्थः ।
प्रयोगेति । अनुमापकमपि असाधारणत्वाल्लक्षणमपि भवतीत्यभिप्रेत्यैवमुक्तमिति मन्तव्यम् ॥ रूढिमात्रत्वादिति । अन्यथा रूढानां घटादिशब्दानामपि परममुख्याताऽपत्त्या जगत्यपि परममुख्य-तावृत्तिप्रसङ्गेन ‘तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यते’ति सिद्धान्तहानिरिति भावः । अनवधिकप्रवृत्तिनिमित्तविशेषितं प्रयोगबाहुल्यमिति द्वितीयेऽपि किं परममुख्यतासिद्धये प्रयोगबाहुल्योपादानं किं वा महायोगरूढिरूपविदाऽन्तरसिद्धये तदिति विकल्पं मनसि निधायाऽद्यं दूषयति अनवधिकेति । अस्तु तर्हि द्वितीयो, महायोगेऽतिप्रसक्ततया तत्परिहाराय विशेष्यस्यार्थ-वत्त्वादित्यत आह न चेति । अस्तु समाहारमात्रेणापि विधाऽन्तरसिद्धिरित्यत आह तथा सतीति । एवं शङ्काप्रकारं प्रदर्श्य कैमुत्यकथनेन तन्निरासप्रकारमुपदर्शयितुं विकल्पितपक्षयोर् द्वितीयं पक्षं गृह्णाति अत्रेति । तत्रोक्तदोषमाशङ्कते न चेति । अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वसिद्धेर्विशेष्य-वैयर्थ्यमित्यर्थः । स्यादेवं यदि परममुख्यतासिद्धये विशेष्योपादानमभिमतं स्यान्न चैवं किन्तु विधाऽन्तरसिद्धये, न च विशेषणभात्रेण विधाऽन्तरं सिध्यतीति तत्सिद्धये विशिष्टोपादनमर्थवदिति परिहारं वक्तुं मुलोक्तं कैमुत्यं योजयति विशेषणमात्रेणेति । तथा च कैमुत्यकथनेन परममुख्यप्रवृत्तौ तारतम्यलाभान्महायोगादन्याऽपि तदुत्कृष्टा परममुख्यताऽस्तीति सूचितं भवति । एवं मूलोक्तं कैमुत्यमुपपाद्य तल्लब्धमर्थं दर्शयन्नेव वैयर्थ्यं परिहरति न हीति । तर्ह्यसिद्धिबाधसमाहारोऽप्यपरो हेत्वाभासः स्यादिति प्रागुद्भावितदोषमाशङ्क्य निषेधति न चेति । तत्रैकेनैवोद्देश्यस्य दुष्टत्वबोधस्य सिद्ध्या दुष्टत्वबोधेऽसिद्धिबाधयोः परस्परानपेक्षतया तत्समाहाररूपदोषान्तरकल्पकाभावेन तस्यादोषत्वेऽपि प्रकृते नारायणाऽदिशब्देभ्य उद्देश्यस्य पूर्णगुणो विष्णुरिति विशिष्टबोधस्य प्रवृत्ति-निमित्तनिरवधिकत्वप्रयोगबाहुल्याभ्यां परस्परानपेक्षाभ्यामसिद्ध्या उद्देश्यसिद्धौ परस्परसापेक्षत्वनियमेन कल्पकसद्भावाद्विधाऽन्तरसिद्धिरित्याशयेन परिहरति वैषम्यादित्यादिना । प्रवृत्तिनिमित्तेति । निर्वचनलभ्योऽर्थः । ननु तत्रेति मूले प्रयोगबाहुल्यस्य निरवधिकप्रवृत्तिनिमित्तापेक्षत्वबोधकशब्दाभावान्न लाभः सम्भवतीति कथं तद्विवक्षितत्वसिद्धिरित्यत आह एतदर्थं चेति । नन्वेवं महायोगरूढि-रूपवृत्तिसिद्धावपि न महायोगरूपवृत्त्यन्तरसिद्धिः । महारूढियोग एव तस्यान्तर्भूतत्वेन पृथक्त्वा-योगादिति नोक्तरीत्या परममुख्यताद्वैविध्यसिद्धिरित्याशङ्क्य निषेधति न चेति । कुतो न वाच्यमित्यतः स्यादेवं यदि निरवधिकं स्वतन्त्रं वा प्रवृत्तिनिमित्तमपेक्ष्य शब्दस्य प्रतिपदाकत्वमात्रं महायोगः स्यान् न चैतदस्ति किन्त्वतिबहुलप्रयोगाभावे सतीत्यतिबहुलप्रयोगाभावविशेषणविशेषितमेव । तस्य च न महायोगरूढिलक्षणायामन्तर्भावः सम्भवतीति युक्तं तद्द्वैविध्यमित्याह अतिबहुलेति ।
परिमल
हेत्वाभासःस्यादितीति । इतिशब्दस्येतिशङ्कानिरासार्थमिति पूर्वेणान्वयः ॥ समाहाररूपविधाऽन्तरसिद्धय इति । अत एव अग्रे ‘सनिरुक्तिकं’ विद्वद्रूढिं च तत्रगामि’ति रूढेर्योगसाहित्यं मूल एव वक्ष्यत इति भावः । न चैवं ‘अवयववृत्तिर्योर्गोऽखण्डवृत्ती रूढि’रित्यादिना वक्ष्यमाणदिशा विरोधाद्वृत्त्यन्तरं न समाहाररूपमिति शङ्क्यम् । योगरूढ्योः पङ्कजाऽदिशब्दे यथाक्रमं पङ्कजनिकर्तृत्वपद्मत्वरूपभिन्नधर्मनियतयोरपि तद्द्वारा एकस्मिन्धर्मिणि सैन्धवशाब्दवृत्त्योरिव समाहारसम्भवादुभयकार्यदर्शनस्य समाहारेणोपपत्तौ वृत्त्यन्तरकल्पने गौरवाच्च । अत एव प्रागानन्द-मयनयान्ते ‘बहुलातिप्रयोगतः । रूढमित्येव साध्यं स्यादि’त्यत्र रूढियोगादौ व्यभिचारं मूलोक्तहेतोराशङ्क्य तत्र साध्यस्यापि सत्त्वान्न व्यभिचार इत्युक्तवा ‘समाहारावृत्तयो हि ता’ इत्युक्तम् । अन्यथा मूलोक्तहेतोर्व्यभिचारोऽपरिहार्यः स्यात् । अत एव सन्न्यायरत्नावल्यां ‘न चावयववृत्त्य-खण्डवृत्त्योरेकस्य शब्दस्यैकस्मिन्नर्थे विरुद्धत्वाद्योगरूढिवृत्तिर्नास्तीति वाच्यम् । तस्याः पङ्कजाऽदिषु शब्देषु दृष्टत्वात्’ इत्युक्तमिति भावः । असिद्धबाधितसमाहारोऽप्यपरो हेत्वभासः स्यादित्युक्त-मित्याशङ्क्य निराह न चातिप्रसङ्ग इति । वैषम्यादित्युक्तमेवाह अनवधिकेति । अनवधिकप्रवृत्ति-निमित्तपदम् अनवधिकप्रवृत्तिनिमित्तहेतुकशब्दवृत्तिपरम् । प्राक् तथैव तात्पर्यवर्णनात् । प्रयोगबाहुल्य-पदमपि ‘बहुलातिप्रयोगतः । रूढमित्येव साध्यं स्यादि’त्येतदविरोधाय प्रयोगबाहुल्यज्ञाप्या-खण्डशब्दवृत्तिपरम् । एवं चावयववृत्तिरूपयोगवृत्तिसापेक्षाखण्डवृत्तिरिह विवक्षिता । न तु अन्योन्यनिरपेक्षयोगरूढिसमाहारः विधाऽन्तरत्वेन विवक्षित इत्यर्थः । यथा योगरूढेन पङ्कजपदे-नोद्देश्यभूते पङ्कजनिकर्तृत्वविशिष्टपद्मबोधे जनयितव्ये तत्र योगवृत्तिनिरपेक्षरूढिमात्रमसमर्थमिति योगसापेक्षैव रूढिरुपेया । तथा योगरूढेन नारायणाऽदिशब्देन गुणाऽश्रयत्वाद्यवयवार्थविशिष्ट-विष्णुत्वादिरूपार्थबोधे उद्देश्यभूते जनयितव्ये नारायणाऽदिपदगतरूढिमात्रमसमर्थमिति योगवृत्ति-सापेक्षैव तत्र रूढिः समर्थेति सापेक्षयोर्योगरूढयोः समाहार एव योगरूढिरूपविधान्तरमित्यङ्गीक्रियते । असिद्धिबाधसमाहारे तु नैवम् । तत्र दुष्टत्वप्रतीतेरेवोद्देश्यत्वात् तस्याश्चान्योन्यनिरपेक्षेण अन्यतरेणापि सम्भवाद्वैषम्यमिति भावः ॥ एतदार्थमिति । योगसापेक्षरूढेर् योगरूढिरूपविधाऽन्तरत्व-सिद्ध्यर्थमित्यर्थः । तत्रेति मूलपदानुवादः । सत्यन्ता व्याख्या ॥ तत्रेति । महायोग इत्यर्थः ।
यादुपत्यं
तत्रैव चेत्प्रयोगबाहुल्यमिति । तत्रैव विषये चेद्रूढ्यनुमापकं प्रयोगबाहुल्यमित्यर्थः । एवमग्रेऽपि प्रयोगबाहुल्यमस्तीत्यादौ रूढ्यनुमापकमिति शेषः । न तु प्रयोगबाहुल्यमेव रूढरित्य-भिप्रायः । ‘बहुलातिप्रयोगतो रूढिमित्येव साध्यं स्या’दित्युक्तविरोधादिति ज्ञातव्यम् । ‘प्रवृत्तिनि-मित्तमिति’ इत्यादौ प्रवृत्तिनिमित्तपदेन परममुख्यवृत्तिरेव नास्तीति शङ्कानिरासार्थमित्यर्थः ॥ प्रयोगमात्रबाहुल्यलक्षणमिति । अनुमापकमपि असाधारणत्वाल्लक्षणमित्यभिप्रेत्येदमुक्तमिति ध्येयम् ॥ रूढिमात्रत्वादिति । लौकिकरूढिसहचरितत्वादित्यर्थः ॥ परममुख्यत्वायोगादिति । परममुख्यवृत्ति-लक्षणत्वायोगादित्यर्थः । ननु महायोगरूढिरूपा परममुख्यवृत्तिरत्र लक्ष्यतयाऽभिप्रेता न परमुख्यवृत्ति-मात्रं येन विशेष्यवैयर्थ्यं स्यात् । तत्र च महायोगेऽतिव्याप्तिवारणाय विशेष्यं सार्थकमेवेत्याशयेनाऽशङ्क्य निराकरोति न च समाहारेणेति । ततश्च परममुख्यवृत्तिर्महायोगरूपैव नान्याऽस्तीति ‘तथा ही’त्यादिशङ्कग्रन्थाभिप्राय इति ज्ञातव्यम् । सुतरां तत्सिद्धेरिति । तथा च कैमुत्यकथनेन परममुख्यवृत्तौ तारतम्यलाभान्महायोगापेक्षयाऽधिका महायोगरूढिरूपाऽन्या परममुख्यवृत्तिरेवात्र लक्ष्यतयाऽभिप्रेता । अतो न विशेष्यवैयर्थ्यरूपोक्तदोष इति सूचितमिति भावः । एतदेवोपपादयति न ह्यस्माभिरित्यादिना ॥ परममुख्यतामात्रसिद्धय इति । परममुख्यशब्दवाच्यतामात्रसिद्धय इत्यर्थः । लक्षणोक्तेर्व्य-वहारार्थत्वात् । परममुख्यवृत्तिमात्रस्येदं न लक्षणमिति यावत् ॥ न चातिप्रसङ्ग इति । तथा सति असिद्धबाधितेत्यादिनोक्त इत्यर्थः ॥ अनवधिकप्रवृत्तिनिमित्तापेक्षेति । अन्यथा नारायणाऽदिशब्देभ्य उद्देश्यस्य गुणपूर्णोविष्णुरित्यादिबोधस्यासिद्धिरिति भावः ॥ न समाहारमात्रमिति । असिद्धिबाध-समाहारवत् कार्यजनने परस्परनपेक्षसमाहारो नेत्यर्थः । असिद्धिबाधसमाहारो हि न हेत्वाभासान्तरम् । उद्देश्याया दुष्टत्वबुद्धेरन्यतरमात्रेणैव जायमानत्वात् । न ह्येवं प्रकृत इति भावः ॥ अत्र प्रवेश इति । तथा च न सा पृथग्वृत्तितया वक्तव्येति भावः ॥
श्रीनिवासतीर्थीया
ननु प्रयोगबाहुल्यस्य प्रवृत्तिनिमित्तसापेक्षताज्ञापकं किमित्यत आह एतदर्थमिति । प्रयोगबाहुल्यस्यानवधिकप्रवृत्तिनिमित्तसापेक्षताप्राप्त्यर्थमित्यर्थः । बाहुल्ये सति प्रवृत्तिहेतुबाहुल्यापेक्षासहितप्रयोगबाहुल्ये सतीत्यर्थः ॥ न चैवमिति । अनवधिकप्रवृत्तिनिमित्ता-पेक्षप्रयोगबाहुल्यस्य महायोगरूढिलक्षणत्वे निरवधिकप्रवृत्तिनिमित्तसापेक्षवृत्तिरूपमहायोगस्यात्र महायोगरूढिलक्षणे प्रवेशः प्राप्तः । महायोगलक्षणस्य महायोगरूढ्यामतिव्याप्तिर्न स्यादित्यर्थः । कुतो नेत्यत आह अतीति । तत्र महायोगलक्षणे । तथा च प्रयोगबाहुल्याभावे सति निरवधिकप्रवृत्ति-निमित्तसापेक्षवृत्तिर् महायोग इति विवक्षितत्वान्नातिव्याप्तिरिति भावः ।
वाक्यार्थरत्नमाला
तर्कताण्डवानुसारेणाह । इदं चेति । प्रवृत्तिनिमित्तवतीत्यत्रत्य प्रवृत्तिनि-मित्तपदमनूद्य व्याचष्टे प्रवृत्तीति । बहुलातिप्रयोगत इति प्राचीनानुसारेणाह । अनुमापकमपीति । प्रवृत्तिनिमित्तेति निर्वचनलभ्योऽर्थ इति । प्रवृत्तिनिमित्तेत्यनेन निर्वचनलभ्योऽर्थो गृह्यत इति शेषः । प्रतीकोपादानानन्तरं निर्वचनलभ्योऽर्थ इत्यनन्तरमित्यर्थ इति पाठस्तु स्पष्ट एव । निमित्तापेक्षत्व-बोधकेति । यद्यपि यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्रेत्यनेनोभयोरेकत्र समावेशमात्रं प्रतीयते । तथापि प्रयोगबाहुल्यस्य तदपेक्षत्वं तु न प्रतीयते । वस्तुगत्या समावेशसम्भवादित्याशयः । न तल्लाभ इति पाठः । लाभ इत्येव पाठेऽपि बुध्याविवेकेनापेक्षत्वस्येति वर्तते । तत्र प्रवृत्तिहेतोरिति
मूलम् । तत्रेत्येतत्प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यमित्यर्थः । सतिसप्तम्यास्त्रलिति भावः ।
तस्यचेति । उक्तरूपमहायोगस्य चेत्यर्थः । रूढिलक्षणायामिति । तद्रूपायां वृत्तावित्यर्थः । उक्तं च रूपवृत्तीति प्राक् ।