विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम्
चतुर्थपादीयधिकरणविषयपूर्वपक्षसिद्धान्तयुक्तिसङ्ग्रहः
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम्
सुधा
अत्र न सर्वाणि व्याख्यातानि । ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिद्धान्तयुक्तीराह विरोधीति ।
अनुव्याख्यानम्
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥
पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ॥
यद्वा अत्राद्येन श्लोकेनाधिकर(णार्थो)णोपाधयः कथ्यन्ते । विरोधीति परमैश्वर्यविरोध्यर्थाः । सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः । बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः । कारणेति अवान्त-रकारणवाचिनः । स्त्रीति स्त्रीलिङ्गः । निषेधो वाच्यो येषामस्ति ते निषेधिनः । अथवा । द्वन्द्वात्पर इन्प्रत्ययो द्रष्टव्यः । तथात्वे विरोध्यादयोऽर्था ग्राह्याः । शब्दानामिति शेषः । एतानि एतत्पाद-गतानि सर्वशः स्थानानि अधिकरणानि एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वयसिद्धिरित्यपि प्रतीयेत । अतः पृथगित्युक्तम् ।
शेषवाक्यार्थचन्द्रिका
न सर्वाणीति । ‘न संख्ये’त्यस्य ‘कारणत्वेने’त्यस्य चाव्याख्यानादिति भावः ॥ प्रतिज्ञेति । परमाख्यविद्याव्याख्यां करोमीति प्रतिज्ञेत्यर्थः । विषयाऽदीत्यादिपदेन पूर्वपक्षसिद्धान्तन्यायसङ्ग्रहः ॥ अधिकरणार्थोपाधय इति । अयमाशयः । नात्र तत्तदधिकरणे तत्तच्छब्दसमन्वय एव प्रतिपाद्यते । तथा सत्येतत्पादीयाधिकरणसप्तकेन सप्तानां शब्दानां समन्वयसिद्ध्यापत्त्याऽन्यत्रैव प्रसिद्धानां लिङ्गात्मकाशेषशब्दसमन्वयासिद्धि प्रसङ्गेन पादस्यैव व्यर्तत्वप्रसङ्गात्, किं नाम एकैकत्राधिकरणे समानन्यायानामनेकशब्दराशीनामेव निर्णयो वाच्यः । न च निर्णेतव्यशब्दावच्छेदकोपाध्यकथनेऽसौ युज्यत इत्यावश्यकमवच्छेदकोपाधिकथनमिति । परमैश्वर्य-विरोध्यर्था इति । परमैश्वर्यविरोध्यवरत्वाद्यर्था इत्यर्थः ॥ उक्तवक्ष्यमाणव्यतिरिक्ता इति । नन्वेवमुक्त-वक्ष्यमाणव्यतिरिक्तसर्वविषयकत्वस्य सर्वाधिकरणसाधारणत्वाद्विशेषोक्त्यनुपपत्तिः । अनुव्याख्याने व्युत्पत्तेरशक्यत्वस्य द्वितीये पूर्वपक्षहेतुत्वेनोक्त्यनुपपत्तिश्च । ज्योत्याद्यवयवानामब्रह्मत्वेन ज्योति-रित्यादिसमुदायस्य ब्रह्मणि व्युत्पत्तिसम्भवादिति चेन्न । अवरादिशब्दानां पञ्चजनादिशब्दानां चेह विचार्यत्वेऽपि येन वाक्यरूपेण पूर्वत्रोत्तरत्र च विचार्यता तेन रूपेण द्वितीये न विचार्यता किन्तु पदादिरूपेणैवेत्यभिप्रायकत्वेनोक्तवक्ष्यमाणातिरिक्तग्रहणस्य ज्योतिरधिकरणे तेषामविचार्यत्वभिप्रा-यक्ताभावेनोकेत्तदेषानवकाशात् ॥ बाहुल्यविशिष्टेति । बहुत्वविशिष्टेत्यर्थः । विरोधीत्यादेः परमैश्वर्य-विरोध्यर्थकशब्दपर्यन्तत्वाश्रयद्विरोध्यवरत्वाद्यर्थपरत्वे लाघवं मनसि निधाय पक्षान्तरमाह अथवेति । पक्षद्वयेऽपि विशेष्यानुक्त्या प्रसक्तां वाक्याऽऽभासतां तत्पूरणेन परिहरति शब्दानामिति ॥ शेष इति । अन्यपदार्थतयेति भावः । सर्वश इत्युक्तत्वात्पूर्वपादीयाधिकरणनामपि विरोधीत्याद्युक्ताशब्द-समन्वयपरत्वमिति भ्रान्तिनिरासार्थमेतानीत्युक्तमिति भावेन तन्निरासोपयोगितया एतानीति
व्याचष्टे एतत्पादगतानीति ॥ एषामिति । विरोधिसर्वेत्याद्युक्तानामित्यर्थः । प्रत्येकमिति । प्रत्यधिकरणमित्यर्थः ।
परिमल
प्रतिज्ञेति । ‘व्याख्यां करोम्यन्वपि चाहमेव’ इत्युक्तप्रतिज्ञा व्याहन्येतेत्यर्थः । पूर्वं विचारधर्मिस्वरूपोक्तिपरतया व्याख्यातम्, इदानीमधिकरणे समन्वीयमाना एवंजातीयका इत्येवंरूप-क्रोडीकारकैकधर्माक्रान्ततया तत्तदधिकरणसमन्वेतव्यशब्दराशिप्रदर्शनपरतया व्याचष्टे यद्वेति ॥ परमेति । परमैश्वर्यविरोध्यर्थका दुःरिवबद्धावरादिशब्दा इति आद्यनयै सर्वेति ज्योतिर्नयोपाधिः । उक्ता इति । पूर्वत्रावरादिशब्दानाम् उत्तरत्र पञ्चजनादिशब्दानां येन वाक्यरूपेण विचार्यता न तेन रूपेण द्वितीये ज्योतिर्नये विचार्यता किन्तु पदवर्णस्वरादिरूपेणेति उक्तवक्ष्यमाणप्रकारातिरिक्तप्रकारकसर्व-शब्दत्वमुपाधिरित्यर्थः । अन्यथोक्तवक्ष्यमाणातिरिक्तसर्वविषयत्वस्य सर्वाधिकरणसाधारण्याद्वि-शिष्योक्तिर्नस्यादित्युक्तं चन्द्रिकायाम् । २ । बाहुल्येति । ‘न संख्योपसङ्ग्रहात्’ इत्यस्योपाधिः ‘पञ्चपञ्चजना’ इत्येवमादिबाहुल्यविशिष्टार्थवाचिनः । ३ । ‘कारणत्वेन चे’त्यस्योपाधिः कारणेति । कार्यत्वे सति कारणमवान्तरकारणं तद्वाचिनः । आत्मन ‘आकाशः सम्भूत’ इत्यादयः । ४ । स्त्रीलिङ्गा इति प्रकृतिश्चेति षष्ठस्योपाधिः । ५ । ‘एतेन सर्व इति सप्तमनयस्योपाधिर्निषेध इत्यादि । ६ । एतानीत्यस्य व्याख्या एतत्पादगतानीति । पूर्वार्धस्यार्थानुवाद एषां शब्दानामिति । समन्वयार्था-नीत्यस्यार्थः समन्वयप्रयोजनानीति । बहुव्रीहिरयम् ।
यादुपत्यम्
प्रतिज्ञेति । परमाख्यविद्याव्याख्यां करोमीति प्रतिज्ञेत्यर्थः । सर्वेत्युक्तवक्ष्य-माणेति । यद्यपि ज्योतिरधिकरणे योगवृत्त्या सर्वेषामपि पदवर्णादीनां समन्वय उक्तः । तथाऽप्युक्त-वक्ष्यमाणातिरिक्तग्रहणमवरादीनां लिङ्गानां पञ्चजनादिशब्दानां च येन वाक्यरूपेण पूर्वत्रोत्तरत्र च विचार्यता तेन रूपेण ज्योतिरधिकरणे न विचार्यता किन्तु पदादिरूपेणैवेत्यभिप्रेत्य । अन्यथोक्त-वक्ष्यमाणातिरिक्तसर्वविषयत्वस्य सर्वाधिकरणसाधारण्याद् विशेषोक्तिर्न स्यादिति ज्ञातव्यम् ।
श्रीनिवासतीर्थीया
॥ प्रतिज्ञेति । परमाख्यविद्याव्याख्यां करोमीति प्रतिज्ञेत्यर्थः ॥ सर्वेति । एतत्पादीयसर्वेत्यर्थः । विषयेत्युक्तया तत्तदधिकरणसमन्वेतव्यतत्तच्छब्दमात्रमेव प्राप्तम्, न तत्समान-जातीयशब्दान्तरसङ्ग्रहः । तत्सङ्ग्राहकानुक्तेरित्यत आह यद्वेति । उपाधयः समन्वेतव्यशब्द-ताऽवच्छेदकीभूता धर्मा इत्यर्थः ॥ द्वन्द्वात्पर इति । पूर्वं विरोधिनश्च सर्वे च बाहुल्याश्च कारणाश्च स्त्रियश्च निषेधिनश्च ये शब्दास्तेषामिति द्वन्द्वसमास एव कृतः । इदानीं तु विरोधि च सर्वं च बाहुल्यं च कारणं च स्त्री च निषेधश्च विरोधिसर्वबाहुल्याकारणस्त्रीनिषेधा इति द्वन्द्वं कृत्वा पश्चाद्विरोध्यादयो निषेधान्ता अर्था येषां शब्दानां ते शब्दास्तथा तेषामित्यर्थो ज्ञेयः ॥ प्रत्येकमिति । एकैकस्मिन्नधिकरणे सर्वेषां विरोध्यादिशब्दानां समन्वयः सिध्द्यतीति प्रतीतिः स्यादित्यर्थः ॥ १-४-५ ॥
वाक्यार्थरत्नमाला
समन्वय एव प्रतिपाद्यत इति । प्रतिपाद्यत इत्यङ्गीकर्तुं शक्यमित्यर्थः । निर्णयो वाच्य इति वक्ष्यमाणानुसारात् । आद्येऽधिकरणे परमैश्वर्यविरोध्यवरत्वेत्यादिचन्द्रिकानुसारेण व्याचष्टे । अवरत्वाद्यर्था इति । अत्र परमैश्वर्यविरोधिभूता अर्था येषांते इति शब्दानामेव ग्रहणं मूले । विरोधिपदस्य विरोध्यर्थकत्वे लक्षणाश्रयणात् । टीकायामपि विरोधिभूतं यदवरत्वादि तदर्थो एषामिति बहुव्रीहिरेवेति ज्ञेयम् । यद्वक्ष्यति मूलकारः । तथात्वे विरोध्यादयो आर्था ग्राह्य इति । उक्तवक्ष्यमाणव्यतिरिक्ता इति मूलेऽपि शब्दानामेव ग्रहणमिति स्पष्टमेव । द्वन्द्वात्पर इन्प्रत्यय इति पक्षे तु सर्वशब्देन तदर्थग्रहणमिति द्रष्टव्यम् । अन्यथोक्तवक्ष्यमाणव्यतिरिक्तेत्यादिचन्द्रिकानुसारेणाक्षिप्य सुधायामुक्तवक्ष्यमाणेत्यादिचन्द्रिकानुसारेण समाधत्ते । नन्वेवमुक्तवक्ष्यमाणेत्यादिना । सर्वाधि-करणेति । सर्वेष्वपि अधिकरणेषु सापेक्षया पूर्वोत्तराधिकरणयोः समन्वेतव्यतयोक्ता वक्ष्यमाणाश्च ये शब्दास् तदतिरिक्तशब्दविषयतायाः सत्वेन विशिष्यात्रैवोक्तवक्ष्यमाणातिरिक्तशब्दत्वस्योपाधितया- भिधानानुपपत्तेरित्यर्थः । ननु उक्तवक्ष्यमाणशब्दयोः समभिव्याहृतपरत्वे उक्तातिप्रसङ्गप्राप्तावपि तयोर् ज्योतिरधिकरणापेक्षया पूर्वोत्तराधिकरणोक्तवक्ष्यमाणावरादिपञ्चजनादिशब्दातिरिक्ते ज्योतिरादिशब्द-रूपविशेषपरत्वाङ्गीकारे नानुपपत्तिरित्यतो नेदं शक्यते वक्तुम् । तथा सत्यनुव्याख्याने ज्योतिरादिशब्देषु पूर्वपक्षन्यायतया व्युत्पत्तेरशक्यत्वस्य अवरादिपञ्चजनादिसाधारणतयाभिधानानुपपत्तेः । अतोऽस्या-धिकरणस्योक्तवक्ष्यमाणशब्दविशेषत्वस्यापि भावादुक्तमनुपपन्नमेवेत्याह । अनुव्याख्यान इति । अनुव्याख्यान इति । अथवा उक्तवक्ष्यमाणशब्दातिरिक्तशब्दविषयत्वमस्याधिकरण स्याङ्गीकृत्यायं दोष उक्तः । वस्तुस्तु नोक्तवक्ष्यमाणातिरिक्तेति सङ्कोचः सम्भवति अस्य ज्योतिरादिशब्दविषयत्व-वदुक्तवक्ष्यमाणावरादिपञ्चजनादि शब्दविषयताया अपि सत्वात् । अत एवानुभाष्ये व्युत्पत्तेर-शक्यत्वरूपसर्वशब्दसाधारणन्यायस्य पूर्वपक्षहेतुत्वेनोक्तिः । अन्यथा तदनुपपत्तिः स्यादित्यत आह । अनुव्याख्यान इति । ननु नोक्तन्यायस्य साधारणत्वम् । अवरादिशब्देषु प्रकृत्यादेरन्यपरत्वमङ्गीकृत्य व्युत्पत्तेः सम्भवादित्यतस्तर्हि ज्योतिरादिशब्देष्वपि उत्तरीत्या व्युत्पत्तिसम्भवेन तन्न्यायस्या-सम्भवापत्तेरित्याह । ज्योत्याद्यवयवानामिति । समुदायस्येत्यतःपरमपिशब्दोऽध्याहार्यः । ततश्च सर्वाधिकरणसांकर्यमिति भावः । सत्यम् अनुव्याख्याने पूर्वपक्षहेतुतयोक्तन्यायस्य सर्वाधिकरणस्थ-शब्दसाधारणत्वमिति । न च तावतोक्तदोषः । विचार्यरूपभेदेनासङ्करोपपत्तेः । उक्तवक्ष्यमाणाति-रिक्तत्वमपि न सर्वथोक्तवक्ष्यमाणातिरिक्तत्वमेव किं तर्हि येन रूपेण पूर्वोत्तराधिकरणयोः समन्वयो विहितस्तदाकारव्यतिरेकेण समन्वीयमानत्वमपि । अतो नानुपपत्तिरित्याशयेन समाधत्ते । अवरादिशब्दानामित्यादिना । इति परामर्शेन व्याख्यानान्नासंगत्यादि शंक्यम् ।