०९ विष्णोदोषातिनदूरत्वनिश्चयात् स्वातन्त्र्य•भिप्रायेणैव अमङ्कशब्दप्रयोगः

अतो दोषातिदूरत्वात्संशयस्याप्यसम्भवात्

विष्णोदोषातिनदूरत्वनिश्चयात् स्वातन्त्र्य•भिप्रायेणैव अमङ्कशब्दप्रयोगः

अतो दोषातिदूरत्वात्संशयस्याप्यसम्भवात्

सुधा

किमतो यद्येवमित्यत आह अत इति ।

अनुव्याख्यानम्

अतो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ॥

दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ॥

स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ॥

यतः स्वातन्त्र्यं कारणं मुख्यं चातः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबद्धावराद्या दोषशब्दा अपि विष्णवि = विष्णौ ‘जीवा एव तु दुःखिन’ इत्यादौ प्रयुज्यन्त इति सम्बन्धः । सत्यपि निमित्ते यथा राजा बद्ध इत्यादिप्रयोगाभावस्तऽथा विष्णुर्दुःखीत्यादिप्रयोगाभावोऽपि कुतो न भवेद् अत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य प्रतिबन्धकत्वसम्भवादित्यत उक्तं दोषेति ।

निरनिष्टो निरवद्य इत्यादिश्रुतेर्विष्णौ दोषातिदूरत्वनिश्चयात् । प्राज्ञबुद्धिव्यपेक्षया दोषाणां विष्णुगत्वस्य तद्विषयस्य संशयस्यासम्भवात् । निमित्तसद्भावात्प्रतिबन्धकाभावादपीत्यपेरर्थः ।

एतदुक्तं भवति । सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णवेभ्यो भयात्स्यात् । तत्कारणं च तदप्रीतिः । तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः । तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम् । तस्याप्युभयत्र योग्यतादिसद्भावः । न चासावस्ति प्रकृते । विष्णुवैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः । अन्यथा जरद्गवादि-वाक्येऽपि तत्प्रसङ्गात् । यद्यपि वाक्यतात्पर्याज्ञेऽप्रीतिसम्भवस्तथाऽपि सदभिप्रायवाक्यप्रयोग-

निवृत्तौ किमायातमिति । एतदप्युक्तम् । प्राज्ञबुद्धिव्यपेक्षयेति । स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः ।

शेषवाक्यार्थचन्द्रिका

शब्दप्रवृत्तिहेतुत्वमुख्यत्वव्युत्पादनप्रयोजनाभिधायकत्वान्नोत्तरवाक्यवै- य्यर्थ्यमित्याशयेन स्वातन्त्र्यस्य शब्दवृत्तिहेतुत्वादिव्युत्पादनस्य कैमर्थ्याकाङ्क्षामुत्थापयति किमत इति । स्वातन्त्र्यं मुख्यकारणमिति प्रकृतस्वातन्त्र्यहेतुत्वतन्मुख्यत्वयोरत इत्यनेन परामर्श इत्याशयेनाह यत इति । अत इत्यस्य योग्यतया व्यवहितेनैव सम्बन्धमाह अत इत्यादि । दुःखिबद्धावराद्या इत्युपक्रमानु-सारेणोक्तं दुःखिबद्धेत्यादि । दुःखिबद्धावराद्या इत्यत्र दोषशब्दत्वमेवादिशब्दसङ्ग्राह्यतावच्छेद-कतयाऽभिमतमतो नातिप्रसङ्ग इत्यभिप्रेत्य दोषशब्दा इत्युपसंहारे उक्तमिति द्रष्टव्यम् । ‘घेर्ङिती’त्यस्य ‘अच्च घेः’ इत्यनेन बाधिततयाऽप्रसक्तेराह विष्णवीति । मूले विष्णवीति प्रयोगस्तु छान्दस इति भावः । एतावतैव प्रयोजनाभिधानाद्दोषातिदूरत्वादित्यादेर्वैय्यर्थ्यमित्यतः प्रतिबन्धकाभावोपपादकत्वान्न तद्वैयर्थ्यमिति भावेन प्रतिबन्धकशङ्कामुत्थापयति सत्यपीति । विष्णुगत्वस्य संशयस्येत्यन्वय-मित्यभिप्रेत्य कथं तर्हि सामानाधिकरण्यमित्यतो विषयविषयिभावः षष्ठ्यर्थः सम्बन्ध इत्याह तद्विषयस्येति । संशयस्यापीत्यपिशब्दस्य यथाश्रुतस्यानर्थक्याद्भिन्नक्रमत्वमाश्रित्य तदर्थमाह निमित्तेति । अनेन संशयस्यासम्भवादपीत्यपिशब्दान्वय उक्तो भवति । विष्णोर्दोषातिदूरत्वस्य स्वरूपसतो न संशयाभावहेतुत्वम् अप्रयोजकत्वात्, निश्चितस्यापि न साक्षादतोऽपेक्षितसाध्याध्याहारेण संशयाभावोपपादनपूर्वकं प्रतिबन्धकाभावमुपपादयितुमाह एतदिति ॥ अन्यतेति । वाक्यार्थव्यति-रेकनिश्चयेऽपि योग्यताध्यवसाय इत्यर्थः ॥ तत्प्रसङ्गादिति । योग्यताध्यवसायप्रसङ्गादित्यर्थः । वाक्यतात्पर्याज्ञ इति । विष्णुर्दुःखीत्यादिवाक्यस्य यत्तात्पर्यमन्यगतदुःखादिनियाकताप्रतिपादकत्वरूपं तज्ज्ञानशून्य इत्यर्थः । वाक्यतात्पर्याज्ञानिनि अप्रीत्यादेः सम्भवेन तत्प्रतिबद्धत्वाद्दुःखीत्यादिवाक्य-प्रयोगसम्भवेऽपि वाक्यतात्पर्यज्ञानिनामप्रीत्याद्यसम्भवेन न तान्प्रति विष्णुर्दुःखीत्यादिवाक्य-प्रयोगनिवृत्तिप्राप्तिरित्याह तथाऽपीति । सन् अभिप्रायो = वाक्यतात्पर्यं येषां ते सदभिप्रायः । वाक्यतात्पर्यज्ञानिन इति यावत् । तान्प्रतीति योज्यम् । यं प्रति अप्रीत्यादि प्रतिबन्धकं न तं प्रति दुःख्यादिप्रयोगः । यं प्रति दुःख्यादिप्रयोगो न तं प्रति अप्रीत्यादि प्रतिबन्धकमपीति भावः । दोषशब्दाश्च माधव इति वा दोषशब्दाश्च केशव इति वा पादपूणे कर्तुं शक्येऽपि यद्भाष्यकारीयं विष्णवीति वचनं न तत्पादपूरणार्थं नापि महाशास्त्रप्रयोक्तॄणामसाधुत्वाज्ञानमूलकं तत्कल्पयितुं शक्यं किन्तु प्रयोजनान्तरार्थमेवेत्यभिप्रेत्य तत्प्रयोजनमाह स्वस्येति । ‘अस्येदिन्द्रो वा वृधे वृष्ण्यं शवो मदे मृतस्य विष्णवी’त्यादिवैदिकप्रयोगदर्शनादिति भावः । छन्दगत्वादच्चघेरित्यस्याप्रवृत्त्या घेर्डितीत्यस्यैव च प्राप्त्या गुणेऽवादेशे च विष्णविति रूपनिष्पत्तिर्द्रष्टव्या ।

परिमल

उभयार्थेति । दोषवत्त्वतत्प्रतिस्वातन्त्र्यरूपोभयार्थ- प्रतीतिजनकत्वमित्यर्थः । विष्णाविति वाच्ये विष्णवीति कथमित्यत आह स्वस्य परमवैदिकतेति । ‘मदे सुतस्य विष्णवी’ति वेदे श्रुतो वैदिकः प्रयोगः ।

यादुपत्यम्

अन्यथेति । वाक्यार्थव्यतिरेकनिश्चयेऽपि योग्यताऽध्यवसाय इत्यर्थः ॥ वाक्यतात्पर्याज्ञ इति । विष्णुर्दुःखीत्यादि यद्वाक्यं तस्य यत्तात्पर्यमन्यगतदुःखादिनियामकता-प्रतिपादकत्वरूपं तदज्ञ इत्यर्थः ॥ तथाऽपीति । तं प्रति प्रयोगनिवृत्तिसम्भवेऽपीत्यर्थः । सन्त उक्ततात्पर्यज्ञानिनस्तदभिप्रायकास्तान्प्रति प्रवृत्तो योऽयं वाक्यप्रयोगस्तन्निवृत्तिसाधकं किमपि नागत-मित्यर्थः । अयं भावः । ये वाक्यतात्पर्यं न जानन्ति तान्प्रति प्रयोगनिवृत्तिरिष्टैव । ये तु तज्जानन्ति तान्प्रति न प्रयोगनिवृत्तिः । अप्रीत्यादेः प्रयोगप्रतिबन्धकस्याज्ञानिगतत्वेऽपि ज्ञानिष्वभावादिति ॥ वैदिकः प्रयोग इति । ‘अस्येदिन्द्रो वा वृधे वृष्ण्यशवो मदे सुतस्य विष्णवी’त्यादौ वेदे प्रयोगदर्शनादिति भावः । अन्यथा ‘अच्च घे’रित्यस्य प्रसङ्गेन विष्णाविति स्यादिति ध्येयम् ।

श्रीनिवासतीर्थीया

वैदिकप्रयोगनिवृत्तिरिति । दुःखस्वामित्वाद्दुःखीत्येवं समीचीनाभि-प्रायोपेतं यद्वाक्यं तस्य या प्रयोगनिवृत्तिरित्यर्थः । अन्यथेति । प्रतिपाद्यार्थस्य बाधितत्वनिश्चयेऽपि यदि योग्यताऽध्यवसायः स्यादित्यर्थः । प्राज्ञबुद्धिव्यपेक्षयेत्यस्य व्यावर्त्यमाह यद्यपीति ।

वाक्यार्थरत्नमाला

छान्दस इति भाव इति । तादृशप्रयोगप्रयोजनं तूतरत्र मूल एव व्यक्तमिति भावः । विषयविषयीति । व्यधिकरणषष्ट्या वैते इति सूचितमनेन भवति ॥ न साक्षादिति । संशयभावहेतुत्वामिति वर्तते । जरद्गवादीति मूलम् । जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थित इत्यादिवाक्यं जरद्गवादिवाक्यम् । तच्च वाक्यार्थचन्द्रिकायामेव जिज्ञासाधिकरणपूर्वपक्षे प्रसिद्धत्वेन शङ्खः कदल्यामित्येतदेवोदाहृतमिति नेह टीकाकृदुदाहृतवानिति ज्ञेयम् । विष्णुशब्दस्य केशवादिनामसु पाठमाश्रित्य माधवकेशवपदोपादानम् । इतित्यस्येतिप्रकारेणेत्यर्थाद्वापन शब्दस्य ग्रहणमिति प्रतीयते । विष्णवीत्यादीति । अस्येदिन्द्र इति मन्त्रः पञ्चमाष्टके सप्तमाध्याये । आदिपदेन षष्टाष्टकप्रथमाध्यायगतं यत्सोममिन्द्र विष्णवीत्यस्य ग्रहणम् ।