अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले
संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव अमङ्गलशब्दाप्रयोगः
अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले
सुधा
न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम् । व्याख्यानतः संशयनिवृत्तिसम्भवात् । यथोक्तम् । ‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमि’ति । अन्यथा राजा जयीत्यपि प्रयोगो न स्यात् ।
तत्राप्युक्तविधया संशयावतारादित्यत आह अमङ्गलत्वादिति ।
अनुव्याख्यानम्
अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ।
अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥
तुशब्दोऽवधारणे । शब्दस्येति जात्येकवचनम् । राज्ञो बन्धनादावमङ्गले योगाद्योग्यता-सद्भावात् । आकाङ्क्षादेश्च स्फुटत्वाद्राजा बद्ध इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजन-कत्वसम्भवात् । राज्ञोऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात् । अयमभिसन्धिः । न केवलं संशयप्राप्तेः प्रयोगाभावः । किन्तु संशयनिमित्ताप्रीतिहेतु-कानर्थशङ्कयैव । न पुनः स्वातन्त्र्यस्याकरणत्वादिति । तर्हि राजा पराजयीत्यपि न प्रयोक्तव्यमिति चेत् । भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसिद्धतया संशयानुत्पादात् ।
शेषवाक्यार्थचन्द्रिका
नन्वमङ्गलत्वादित्युत्तरभाष्यमनर्थकम् । न च संशयनिमित्ताप्रीतिहेतु- कानर्थशङ्कायाः प्रयोगप्रतिबन्धकत्वकथनार्थं तदिति वाच्यम् । प्रयोगस्योक्तरीत्या संशयकारणतया तन्मात्रस्यैव प्रयोगप्रतिबन्धकत्वसम्भवेन विशिष्टप्रतिबन्धकत्वकल्पनानर्थक्यादित्यतः संशयकारणत्व-मात्रस्य प्रयोगप्रतिबन्धकत्वानपपत्तेर्युक्तमेव विशिष्टस्य प्रतिबन्धकत्वकल्पनमित्याशयेन संशय-कारणतायां प्रयोगप्रतिबन्धकत्वानुपपत्तिशङ्कामुत्थापयति न संशयेति । व्याख्यानस्य संशयनिवर्तकत्वे परिभाषां प्रमाणयति यथेति ॥ ‘एकशतं षष्ठ्यर्थ’ इति ‘अस्तेर्भूरि’त्यादौ यत्रानेकेषां योगानां प्राप्तिस्तत्र स्थाने षष्ठीग्राह्येति नियमार्थं प्रवृत्ते ‘षष्ठी स्थाने योगे’ति सूत्रे स्थान इत्युक्तेऽप्यनन्तरे वा समीपे वेति सन्देहात्तन्निवृत्तये ‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमि’ति भाष्यकारेणोक्तम् । व्याख्यानेन विशेषप्रतिपत्तिरर्थनिश्चयो भवत्येव न तु सन्देहाल्लक्षणाभासः । एवं च स्थान इति व्याख्यास्यामः । ततश्चार्थनिश्चय’ इति भाष्यकृता व्याख्यनस्य सन्देहनिवर्तकताया उक्तत्वाद्य्वाख्यानेन तन्निवृत्त्या अप्रतिबद्धसामग्रीबलाद्बद्धादिशब्दप्रयोगोऽवर्जनीय एवेति भावः । संशयकारणत्वमात्रस्य प्रयोगप्रतिबन्धकत्वेऽनिष्टमाह अन्यथेति ।
तत्राप्युक्तविधयेति । राजा जयीति प्रयोगेऽप्याकाङ्क्षासन्निधियोग्यतानामुभयत्र सत्त्वेनार्थद्वयप्रतीते-रवर्जनीयतया किं राजाधीनस्य भृत्यस्य जयित्वेनैवमुच्यते । किंवा राज्ञ एव जयित्वे नेति व्युत्पन्नस्य संशयप्रसङ्गेन प्रयोगप्रतिबन्धसम्भवादिति भावः । जयीत्यपीत्युपलक्षणम् । पराजयीत्यपि द्रष्टव्यम् । प्रयोगाभावस्यान्यथासिद्ध्युपपादकस्याप्रियत्वादेवेत्यवधारणस्यात्राश्रवणात्तदर्थतया तुशब्दं व्याचष्टे तुशब्द इति । अमङ्गलत्वाच्छब्दानामिति शब्दानां बहुत्वावगत्या शब्दैकत्वविवक्षया शब्दस्येत्येक-वचनानिर्वाहान्नेनं व्यक्त्यैक्यनिबन्धनमेकवचनं किन्तु जातिरूपार्थैक्यनिबन्धनमेवेत्याह शब्दस्येतीति । राज्ञो योगादमङ्गल इत्यादेरानर्थक्यमित्यतोऽमङ्गलत्वादित्यर्थे हेत्वर्थसमर्पकत्वान्न तदिति भावेन योग्यतया हेतुहेतुमद्भावेन योजनामाह राज्ञ इत्यादिना । कथमेतावता राजा बद्ध इत्यादिप्रयोगाभावस्या- न्यथासिद्धिः समर्थितेत्यत आह अयमिति ॥ तर्हीति । संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कायाः स्वातन्त्र्यनिमित्तकशब्दप्रयोगप्रतिबन्धकत्व इत्यर्थः ॥ नेति । तत्राप्युक्तविधया संशयनिमित्त-काप्रीतिहेतुकानर्थशङ्कायाः सत्त्वेन तया स्वातन्त्र्यस्य प्रतिबद्धत्वादिति भावः । प्रसिद्धतयेति । निर्णीतत्वेनेत्यर्थः । तथा चैककोटिनिर्णयान्न तत्र संशय इति प्रतिबन्धकाभावाद्युक्तः स्वातन्त्र्य-निमित्तकः पराजयीत्यादिप्रयोग इति भावः ।
परिमल
यथोक्तमिति । लणितिसूत्रे महाभाष्ये उक्तमित्यर्थः । अलक्षणम् = असूत्रमित्यर्थः । तत्र हि प्रत्याहारसूत्रेषु अ इ उ ण् लणिति णकारानुबन्धं द्विःकथमुपात्तवान् सूत्रकारः । तथात्वे ‘अणुदित्सवर्णस्य चाप्रत्यय’ इत्येवमादावणित्ययं किं पूर्वेण णकारेण गृहीतप्रत्याहारस्य निर्देशोऽथ परेणेति सन्देहावस्कन्दनादित्याशङ्क्य व्याख्यानतो विशेषप्रतिपत्तिर् न हि सन्देहादलक्षणमिति परिभाषाज्ञापनाय द्विरुपात्तो णकारानुबन्ध इत्युक्त्वा अणुदित्सवर्णस्येत्येकं विनान्यत्र सर्वत्र न परेणेति व्याख्यास्यामः । न हि सन्देहमात्रादलक्षणं भवतीत्युक्तम् ।
यादुपत्यं
व्याख्यनत इति । परिभाषेयम् । अलक्षणम् = अज्ञापकमित्यर्थः ।
श्रीनिवासतीर्थीया
उक्तविधयेति । किं राजाऽधीनस्य भृत्यस्य जयादिनैवमुच्यते किंवा राज्ञ एव जयादिनेत्युक्तविधयेत्यर्थः ॥ तर्हीति । यद्यमङ्गलशब्दप्रयोगो न कर्तव्यस्तर्हित्यर्थः । तत्रापि किं राजा स्वयमेव पराजित उत भृत्यद्वारेति तत्रापि संशयावतारेण तन्निमित्तराजतत्पुरुषाप्रातिहेतु-कानर्थशङ्का स्यादिति भावः ।
वाक्यार्थरत्नमाला
परिभाषामिति । भाष्यकारीयामिति शेषः । परिभाषाकर्तृविचारस्तु दृश्यत्वाधिकरणेऽस्माभिः कृतोऽवधेयः । बहवो हि षष्ट्यर्थाः स्वस्वामिसम्बन्धसमीपसमूह-विकारावयवाद्यास् तत्र यावन्तः शब्दे सम्भवन्ति तेषु प्राप्तेषु नियमः क्रियते इत्येतत्काशिकाव्याख्यानावसरे मञ्जर्यामेकशतं षष्ट्यर्था इत्यादिकं षष्टीदण्डकाभिधग्रन्थोक्तरीत्या प्रतिपादितम् । भाष्ये सूत्रं प्रत्याख्यातं कथमस्तेर्भूरित्यत्र सन्देहः । स्थानेऽनन्तरं समीप इति । तत्र लक्ष्यानुरोधात् स्थान इति व्याख्यास्याम इति च मञ्जरीग्रन्थोऽस्ति । परिभाषाविवरणमप्युक्तस्थले उक्तरीत्याऽस्ति । तत्सर्वं मनसि निधाय सूत्रप्रवृत्तिमुपवर्ण्य व्याख्यानत इत्येतत्परिभाषाप्रवृत्ति-वर्णनपूर्वकं तदर्थवर्णनादिकं जन्माधिकरणवाक्यार्थचन्द्रिकायां कृतं तदनुसारेण स्वयमपि परिभाषाप्रवृत्तिवर्णनादिकं कुर्वन्नेव प्रकृतोपयोगं स्पष्टयति । एकशतमित्यादिना । इतीति । इति षष्टीदण्डके षष्ट्यर्थानामनेकेषामुक्तत्वादित्यर्थः । योगानामिति । सम्बन्धानामित्यर्थः । अस्तेरित्युक्ते हि अस्तेः स्थाने अनन्तरे समीपे इत्येव योगाः प्राप्ताः । स्वस्वामिभावादेः शब्देऽसम्भवात् । प्राप्तयोगेष्वप्यानन्तर्यसामीप्ययोरस्तेर्भूरित्यत्रासम्भवेन लक्ष्यानुरोधेन नियमस्यावश्यकत्वादिति भावः ।
स्थानेषष्टीति । स्थाने योगैव षष्टीत्यर्थः । तथैव पाठस्तु स्पष्ट एव । अन्यच्च स्थाने योगो यस्याः सेति व्यधिकरणबहुव्रीह्याश्रयणात् सप्तम्या अलुगश्चाश्रयणात् स्थाने निमित्तभूते सति योगस्थान्यादेशलक्षणो यस्याः सा स्थानेयोगेत्यर्थो ध्येयः । अथवा स्थानेऽनन्तरे वा समीपेवेत्यनेन योगनिमित्तभूतस्थानादीनामेव संशयकोटितयोक्तत्वाद्योगपदोक्तसम्बन्धं पुरस्कृत्य स्थानेषष्ठीत्येव यथाश्रुतं व्याख्येयम् । स्थान इत्यनेनापि स्थान्यादेशभावलक्षणसम्बन्धैकदेशस्य व्यवहारः । विषयविषयिभावादिसम्बन्धस्थले विषयित्वादेः सम्बन्धैकदेशस्यापि सबन्धत्वेन व्यवहारदर्शनात् । स्थानशब्दश्चात्र प्रसङ्गवाची । यथादर्भाणां स्थाने शरैः प्रस्तरितव्यमिति । दर्भाणां प्रस्तरणार्हतया प्राप्रौ शराणां प्रस्तरणं कार्यमित्यर्थप्रतीतेः । एवमिहापि अस्तेः प्रसङ्गे प्राप्तौ भूः प्रयोक्तव्यः । अस्त्यर्थं प्रतिपादयितुमुद्युक्त आर्धधातुके विषये भवतिना प्रतिपादयेदिति यावत् । न तु गोःस्थाने अश्वो बध्यतामित्यत्रेवापकर्षार्थः । तत्र हि गा गोष्ठतोऽपसार्याश्वं बधानेति गम्यते । तदिहास्तिमपकृष्य भवति प्रयोक्तव्यमित्यर्थः प्राप्तः । न चायं युक्तः । शब्दार्थसम्बन्धस्य नित्यतया सत्तारूपादर्थादस्तेर-पकर्षायोगादार्ध धातुके परतोऽस्तेरप्रयोगस्य भूशब्दप्रयोगस्य च स्वाभाविकतया प्रकृतिप्रत्यय-समुदायस्यापि नित्यत्वात्तत्र प्रकृतेरपकर्षायोगेनार्धधातुकादपकर्षस्याप्ययोगात् । न वा श्लेष्मनिवृत्ति-निमित्तं कटुकमौषधमित्यर्थके श्लेष्मस्थाने कटुकमौषधमित्यत्रेव निवृत्तिवचनः । तथासति हि अस्तेर्निवृत्तये भूः प्रयोक्तव्य इत्यर्थः प्राप्नोति । न चासौ सम्भवति । अस्तेरुद्देशसामर्थ्येन निवृत्तेरयोगात् । मथुरायां व्यापादितस्य सुघ्ने जीवनायोगाद् आर्धधातुके निवर्तितस्य सार्वधातुके श्रवणायोगाच्च । शिष्टमाकरे स्पष्टम् । स्थाने इत्युक्तेऽपीति । अनेकसम्बन्धसंशयनिवृत्तयेऽस्तेर्भूरित्यादौ स्थाने योगैव सा षष्टीति सूत्रकारेण स्थाने इत्युक्त्या संशयनिराकरणेऽपीत्यर्थः । इत्युक्तेऽपीत्यनन्तरं स्थानेऽनन्तरं समीपेवेति पाठः । स्थानपदाभावो लेखकागतः । स्थानेऽनन्तरं समीप इतीत्यादि भाष्यानुगुण्यात् । अत्र चेत्युक्तेऽपि भाष्यकारेणेत्युक्तमिति सम्बन्धः । तथा च सूत्रकारेणैवमुक्तेऽपि भाष्यकारेण तु प्रकारान्तरमभिहितमित्यर्थसूचनेन तत्सूत्रं प्रत्याचक्षाणेनेति लभ्यते । अस्तेर्भूरित्यत्र स्थान इत्यादि भाष्यानुसारेणात्रापि स्थानेत्यतः प्रागस्तेर्भूरित्येतत् पूरणीयम् । अस्तेर्भूरित्यादाविति प्रकरणाद् बुध्या विवेकेनास्तेर्भूरित्यस्यानुवृत्तिर्वा । भाष्यकारेणोक्तिमित्युक्तेयमिति मूलस्यभाष्यकारे-णोक्तमित्यर्थ इति व्याख्यानं च सूचितं भवति । सन्देहं व्युत्पाद्य तन्निवृत्तये इति पाठस्तु स्वरस एव । सन्देहादिति पाठेऽपि सन्देहं व्युत्पाद्येति ल्यब्लोपनिमित्ता पञ्चमी । अनन्तरे समीपे वेति । यद्यपि समीपानन्तरशब्दयोस् तुल्यार्थतया पृथक्प्रयोगः कथमत एव न्यासमञ्जर्योः स्थानेऽनन्तरं वेत्येव संशयप्रदर्शित इत्याभाति । तथापि व्यवहितस्यापि समीपत्वेनानन्तराद्भेदेनोपादानसम्भव इति हरदत्तः । एवं चेति । अत्र प्रागुक्तमञ्जर्यनुसारेण भाष्यानुसारेण च लक्ष्यानुरोधादिति शेषः । अत्रार्थनिश्चय इत्यन्तं परिभाषाव्याख्यानम् । इति भाष्यकृतेत्यादिकं प्रकृतोपयोगप्रदर्शनम् । इतीत्यस्य तथाचेत्यर्थः । इति तथाचेति पाठस्तु स्वरस एव । अनेनैवं प्राप्ताख्यानं सूचितं भवति । सन्देहपरिहारस्य विशेषव्याख्यानमात्रेण सम्भवात् किं स्वतन्त्र प्रयोगान्तरकरणेनेति । सिद्धेशब्दार्थसम्बन्ध इत्यादौ ग्रन्थारम्भवार्तिक व्याख्यानरूपभाष्योक्तरीत्या सिद्धशब्दस्य नित्यार्थकत्वेन व्याख्यानमात्रेण सन्देहनिवृत्तेरिष्टतायामविवादादिति ज्ञेयम् । अधिकं जन्माधिकरणे सविस्तरमुपपादितमस्माभिः । जातिरूपेति । शब्दत्वरूपजातिस्त्वेकैवेति भावः । प्रतिबद्धत्वादिति भाव इति । प्रतिबद्धत्वकल्पनोपपत्तेरित्यर्थः ।