०६ स्वातन्त्र्यमेव शब्दप्रवृत्तिनिमित्तम्, प्रयोगाभावस्तु प्रतिबन्धकानिमित्तः

भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः

स्वातन्त्र्यमेव शब्दप्रवृत्तिनिमित्तम्, प्रयोगाभावस्तु प्रतिबन्धकानिमित्तः

भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः

सुधा

ननु यदि स्वाम्यं प्रवृत्तिनिमित्तं स्यात्तदा भृत्ये बद्धे मृते वा, राजा बद्धो राजा मृत इति प्रयोगः स्यात् । न चैवमस्ति । तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्तमिति । न च वाच्यं प्रयोगे सति निमित्तानुसरणम् । न तु निमित्तमस्तीति प्रयोग इति । अमुख्यप्रयोगविषयत्वादस्य न्यायस्य । तत्र हि निमित्तं न सामग्री । किन्तु तदेकदेशः । मुख्यप्रयोगे तु निमित्तमेव सामग्री । न हि सिंहशब्दस्य शार्दूले प्रयोगाभाववद् उपगोरपत्येऽप्यौपगवशब्दप्रयोगाभावो भवतीति । अत्र वक्तव्यम् । कोऽयं प्रयोगो नाम । किं शब्दशक्तिः प्रयोगमूलं व्याकरणमिति यथा । किं वोच्चारणम् । नाद्यः प्रसङ्गस्येष्टत्वात् । विपर्ययपर्यवसाने चासिद्धेः । द्वितीये त्वन्यथासिद्धिमाह भृत्येति ।

अनुव्याख्यानम्

भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥

कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥

राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा बद्धो मृत इत्यादिवाक्यं न प्रयुज्यते । किं कारणम् । स प्रयोगः संशयस्य कारणं स्यादित्येव । न तु स्वातन्त्र्यस्य अकारणत्वात् । कुतः संशयस्य कारणम् । राज्ञोऽपि बन्धादियोग्यत्वात् । इदमुक्तं भवति । भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तं, प्रयोगाभावस्तु प्रतिबन्धकनिमित्तः । राजा बद्धो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात् । किं राजाधीनस्य भृत्यस्य बद्धत्वादिनैवमुच्यते । किं वा राज्ञ एव बद्धत्वादिनेति । आकाङ्क्षासन्निधियोग्यतानामुभयत्र सद्भावेनार्थद्वयप्रतीतेरवर्जनीयत्वात् । न च संशयो मा भूदित्येवं निवृत्तः प्रयोगोऽकारणत्वं स्वातन्त्र्यस्य गमयति । न हि मणिमन्त्रादिप्रति-बद्धोऽग्निर्नाधाक्षीदिति न तत्कारणमिति ।

शेषवाक्यार्थचन्द्रिका

ननु भृत्यबन्धादिकमित्युत्तरभाष्यमनर्थकम् । न च बद्धादिशब्दप्रयोग-स्यान्यथासिद्धिव्युत्पादनार्थं तदिति वाच्यम् । तद्व्युत्पादनस्य प्रकृतासङ्गतत्वात् । न च बद्धादिशब्द-प्रयोगस्य परेणापादितत्वान्नाप्रयोगोपपादनस्य प्रकृतासङ्गतिरिति वाच्यम् । आपादकाभावेन परेण बद्धादिशब्दप्रयोगस्यापादयितुमशक्यत्वात् । न च स्वातन्त्र्यस्य प्रवृत्तिनिमित्तत्वमेवापादकमिति वाच्यम् । तथाऽपि प्रयोगे सति निमित्तस्यानुसरणीयतया निमित्ते सति प्रयोगान पादनस्य च न्यायसिद्धतया, तद्विरोधे निमित्तसद्भावेन प्रयोगापादनानौचित्यात् । अस्तु वा कथञ्चित्प्रयोगापादनं तथाऽप्यनुच्चारणस्यान्यथासिद्धिव्युत्पादनमात्रेण न तत्परिहारसिद्धिः । प्रयोगशब्दार्थतया शक्तेरपि परेण वक्तुं शक्यत्वेनोच्चारणमात्रपरतया परविवक्षायां नियामकाभावादित्यतो विषयभेदेन न्यायविरोध-परिहारपूर्वकं प्रयोगापादनमुपपाद्य प्रयोगशब्दार्थतया सम्भावितपक्षान् बहिरेव विकल्प्य स्पष्टदूषणतया भाष्यकृदुपेक्षितपक्षं बहिरेव प्रदूष्य परिशिष्टपक्षनिरासपरतयोत्तरवाक्यप्रवृत्तिर्नासङ्गतिरित्यभिप्रेत्य तद्वाक्यं तथा योजयितुं स्वातन्त्र्यस्य निमित्तत्वेऽतिप्रसङ्गं तावदाशङ्कते नन्विति । विषयभेदेन न्यायविरोधं परिहर्तुं तमाशङ्कते न चेति । ननु निमित्ते सत्यमुख्यप्रयोगस्येव मुख्यप्रयोगस्याप्यनापादनस्यैव मुख्यप्रयोगस्येवामुख्यप्रयोगस्याप्यापादनस्यैव वा सम्भवे नार्धजरतीया-श्रयणं युक्तमित्यतो निमित्तस्य मुख्यामुख्यप्रयोगौ प्रति सामग्रीत्वासामग्रीत्वाभ्यां वैलक्षण्याद-सामग्रीत्वेनामुख्यप्रयोगानापादनं सामग्रीत्वाच्च मुख्यप्रयोगापादनमिति युक्तं वैषम्याश्रवणमित्याशयेनाह तत्र हीति ॥ किन्तु तदेकदेश इति । न च सामग्रैस्येकदेशः कार्याव्यभिचारी येन सत्यपि तस्मित्कार्यापादानमुपपद्येतेति भावः ॥ सामग्रीति । तथा च सामग्य्राः कायाव्यभिचाराद्युक्तं निमित्ते सति मुख्यप्रयोगापादनमिति भावः । एतदेव दृष्टान्तेन दर्शयति न हीति । शार्दूल इति । सिंहसादृश्यरूपनिमित्तवतीति शेषः । प्रयोगशब्देन कुतः शक्तिप्रसक्तिरित्यतस्तत्र तस्य प्रयोगदर्शनादित्यभिप्रेत्य तं दर्शयति प्रयोगमूलमिति । शक्तिमूलमित्यर्थः ॥ असिद्धेरिति । बद्धादिशब्दानां राज्ञि शक्तेरेव सत्त्वेन शक्त्याभावस्यासिद्धेरित्यर्थः। अपेक्षिताध्याहारपूर्वकमाकाङ्क्षाक्रमेण विवक्षितार्थोप-पादकतया वाक्यं योजयति राजाऽधीनेत्यादिना । ननु मुख्यप्रयोगे निमित्तस्य सामग्रीत्वात्तस्याश्च कार्याव्यभिचारात्कथं सत्यां सामग्य्रां कार्याभावः, तथा सति निमित्तस्य सामग्रीत्वाभावप्रसङ्गादि-त्यतोऽप्रतिबद्धसामग्य्रा एव कार्यजनकतया, सति प्रतिबन्धके कार्याभावो युक्त एवेत्यभिप्रेत्य विवक्षितं हेतुहेतुमद्भावं सयुक्तिकमुपपादयितुमाह इदमिति ॥ अर्थेति । उदाहृतकोटिद्वयेत्यर्थः ॥ न चेति । अत्र ‘न चे’त्यस्य स्वातन्त्र्यस्याकारणत्वं न च गमयतीति सम्बन्धः । प्रतिबद्धस्य कार्याजनकत्व-मात्रेणाकारणत्वेऽतिप्रसङ्गं सूचयन्नुक्तमुपपादयति न हीति ।

परिमल

यदपि सन्न्यायरत्नावल्यां ‘प्रयोगे सति निमित्तानुसरणं नतु निमित्तमस्तीति प्रयोग’ इति तदप्यनूद्य निराह नचवाच्यमिति ॥ तत्र हीति । अमुख्यप्रयोगे । निमित्तं मुख्यार्थसादृश्यं वा । तदेकदेश इत्युक्तं सामग्य्रेकदेशत्वं निमित्तमेव सामग्रीत्युक्तं च व्यनक्ति न हीति । सिंहशब्दस्य चैत्रे प्रयोगः शार्दूले अप्रयोगोऽस्ति । मुख्यार्थसादृश्यस्य सामग्रीत्वे शार्दूलोऽपि प्रयोगः स्यात् । स नास्तीति सामग्य्रेकदेशत्वमेव तस्य । तथा औपगवशब्दस्य उपगोरपत्यत्वं निमित्तं तस्यापत्या-मित्यण्प्रत्ययविधानात् । एवं चोपगवापत्यत्वरूपमुख्यप्रयोगनिमित्तस्य सामग्रीत्वाभावे उपगोरपत्येऽपि क्वचिदौपगवशब्दाप्रयोगः स्यात् शार्दूले सिंहशब्दप्रयोगाभावात् । नचैवमतो मुख्यप्रयोगे निमित्तं सामग्य्रेवेति भावः । प्रयोगमूलं शब्दशक्तिमूलम् । व्याकरणकोशोपमानादेः शब्दशक्तिमूलत्वात् ॥ प्रसङ्गस्येति । राज्ञिबद्धादिशब्दप्रयोगः स्यादिति प्रसङ्गस्येत्यर्थः । राज्ञिबद्धादिशब्दशक्तेः सत्त्वादिति भावः ॥ विपर्ययेति । नास्ति च प्रयोग इत्यस्य वेत्यर्थः ॥ अकारणत्वादिति । न प्रयुज्यत इत्यन्वयः । व्युत्पन्नस्य स्वातन्त्र्यमपि निमित्तमिति जानतः ॥

यादुपत्यं

शार्दूल इति । सिंहसादृश्यरूपनिमित्तवतीति शेषः ॥

श्रीनिवासतीर्थीया

तत्र हीति । अमुख्यप्रयोग इत्यर्थः । मुख्यार्थबाधस्तत्सादृश्यं प्रयोजन चैतावती सामग्री । अतः सामग्य्रेकदेशभूतसादृश्यरूपनिमित्तसद्भावमात्रेण न सिंहशब्दः शार्दूले प्रयुज्यते । मुख्यप्रयोगे प्रवृत्तिनिमित्तस्यैव सामग्रीत्वेन तत्सत्वे तत्प्रयोगस्यौपगवशब्दे दर्शनात्प्रकृते च स्वाम्यनिमित्तकप्रयोगस्य मुख्यत्वात्तस्मिन्निमित्ते सति बद्ध इत्यादिप्रयोगः स्यादेवत्यर्थः ॥ प्रयोगो नामेति । भृत्ये बद्धे मृते वा राजा बद्धो मृत इति प्रयोगः स्यादित्यत्रापाद्यमान इत्यर्थः । ननु प्रयोगपदस्य शब्दशाक्त्यर्थकत्वं कुत्र दृष्टमित्यत आह प्रयोगेति । यस्य शब्दस्य यत्रार्थे शक्तिरस्ति स शब्दस्तत्र साधुरित्युच्यते व्याकरणेन । तथा च प्रयोगः शब्दशक्तिर्मूलं कारणमुपजीव्यं यस्य व्याकरणस्येत्यर्थः ॥ इष्टत्वादिति । यदि स्वाम्यं निमित्तं स्यात्तदा बद्ध इत्यादि प्रयोगः स्यादित्यस्य बद्धादिशब्दानां शक्तिः स्यादित्यर्थः । तथा चेष्टापत्तिः । न हि बद्धादिशब्दानां बद्धादिरूपेऽर्थे राज्ञि शक्तिर्नाङ्गीकृतेति भावः ॥ असिद्धिरिति । नास्ति च प्रयोगस्तस्मात्स्वाम्यं प्रवृत्तिनिमित्तं नेति विपर्ययपर्यवसाने चासिद्धिः । शब्दशक्तिरूपप्रयोगस्य सत्वादित्यर्थः । उभयत्रेति । राज्ञो बद्धत्वं भृत्यस्य बद्धत्वं च विवक्षित्वा क्रियामाणे प्रयोगद्वय इत्यर्थः । न च गमयतीत्यन्वयः ।

वाक्यार्थरत्नमाला

परेणापादितत्वादिति । आपादयितुं शक्यत्वादित्यर्थः । अत एव वक्ष्यति । आपादयितुमशङ्क्यत्वादिति । सम्भावितपक्षौ बहिरेव विकल्प्येति पाठः । पक्षानिति तु लेखकप्रयुक्तं बहुवचनम् । प्रयोगदर्शनादिति । प्रयोगोत्पत्तिशास्त्रत्वाच्छब्देषु नाव्यवस्था स्यादित्येत्तद्-व्याकरणाधिकरणे स्मृतिपादोपांत्ये भाष्यकारीयप्रयोगमूलं व्याकरणमित्यादिरूपप्रयोगमूलकग्रन्थकारप्रयोगदर्शनादित्यर्थः । सिंहसादृश्यरूपेति । हिंसकत्वरूपेत्यर्थः । सत्यपि तस्मिन्निति । तस्मिन्नपि सतीति सम्बन्धः । तेन न वैयर्थ्यशङ्काविकासः । सतीत्येव पाठस्तु स्वरस एव । शक्तिमूलमिति । शब्दशक्तीत्यर्थः । नानिष्टमित्यर्थ इति । तथासति उच्चारणरूपप्रयोगः स्यादिति तु प्रयोगो नामोच्चारणामिति द्वितीयान्तर्भूतमिति न पृथक् तन्निरासस्यावश्यकतेति भावः । शक्तयभावस्यासिद्धेरित्यर्थ इति । विपर्ययपर्यवसानसहितापादनस्यानुमानताप्रतिपादकैवमनिष्टापादनं विपर्यये पर्यवसानं चोभयं मिलितमेवानुमितिसाधनं भवतीति तर्कस्य प्रामाण्यमुपपद्यत इति पद्धतौ यथार्थज्ञानसाधनत्वोपपत्यर्थं विपर्यये पर्यवसानस्यादरणेन न निर्धूमस्तस्मान्निर्वह्निर्नेति साधनप्रकारमाश्रित्यानुमानत्वोपपादनसिद्धेः प्रकृतेऽपि यदि साम्यं प्रवृत्तिनिमित्तं स्यात्तर्हि राज्ञि बद्धादिशब्दशक्तिः स्यान्नचासावस्ति ततो न साम्यं प्रवृत्तिनिमित्तमिति विपर्ययपर्यवसानसाहित्येनानुमानताया वाच्यतया आपाद्याभावस्य हेतुताप्राप्तेः । साधनीभूतशक्त्यभावस्यासिद्धिर्दूषणतयोक्तेति स्पष्टमिति तदुपपादनमात्रं कृतमिति द्रष्टव्यम् ।