०५ यथेष्टविनियोगयोग्यत्वमेव मुख्यत्वम्

न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते

यथेष्टविनियोगयोग्यत्वमेव मुख्यत्वम्

न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते

सुधा

स्वातन्त्र्यस्य मुख्यकारणत्वमुपपदायति न हीति ।

अनुव्याख्यानम्

न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ॥

यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ॥

हिशब्दो यस्मादित्यर्थे । तावद्यावदिति क्रियाविशेषणे । जयस्यान्यगत्वेऽपि भृत्यगतत्वेऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत्प्रयुज्यते तावज्जयाधिकरणस्यापि भृत्यस्य सम्बन्धितया न प्रयुज्यते यस्मात्तस्मात्स्वातन्त्र्यं तत्र मुख्यं स्यादिति सम्बन्धः । स्वातन्त्र्यादिति वक्तव्ये स्वातान्त्र्याभासमात्रत इति वचनं किमुतानुपचरितस्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम् । भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न । भृत्यज्ञानेऽपि तदुपलम्भात् । ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः । अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत् । सत्यम् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्तेऽसिद्धि-रनेनाभिधीयते । न तु प्रयोगप्राचुर्येण मुख्यता साध्यते । येन व्यभिचारचोदना सङ्गता स्यात् । यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनाऽन्यथासिद्धिर्व्यभिचारो वा शक्यते वक्तुम् । तथाऽपि ‘जगद्वाचित्वादि’ति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिद्धिरेवोक्ता । कुतस्तर्हि मुख्यतासिद्धिरिति चेत् । उच्यते । तदस्यास्तीति हि दुःख्यादिशब्दप्रवृत्तिनिमित्तमुक्तम् । यच्च यदधीनसत्ताप्रतीतिप्रवृत्तिकं, तत्तस्य मुख्यतो भवति, यथेष्टविनियोगयोग्यत्वात् । न तु यत्र यत्सम्बद्धं तस्य तन्मुख्यतः । यथेष्टविनियोगायोग्यत्वात् । न हि जीवेन दुःखादिकं हातुमुपदातुं वा शक्यते । अतः स्वातन्त्र्यमेव मुख्यमिति । अथवाऽभिधानवृत्तावेव स्वातन्त्र्यतद्गतत्वयोर्निर्धारणायां स्वातन्त्र्यं मुख्यमिति प्रतिज्ञातम् । तत्र प्रयोगप्राचुर्यस्य हेतुत्वाभिधाने न कश्चिद्दोषः । प्रकरणवशादेव व्यभिचारपरिहारात् ।

शेषवाक्यार्थचन्द्रिका

न हीत्युत्तरवाक्यस्यापि स्वातन्त्र्योपपदकत्वभ्रान्तिं निकरोति स्वातन्त्र्यस्येति । ननु तावद्यावच्छब्दयोः शब्दविशेषणतयाऽनियतलिङ्गविशेषणशब्दानां विशेष्य-निघ्नतया पुल्लिङ्गशब्दरूपविशेष्यलिङ्गतायां तावान्यावानिति भवितव्यं तावद्यावदिति तु कथमित्यत आह तावद्यावदिति क्रियाविशेषणे इति । साधनं परित्यज्य धात्वर्थमात्रविशेषणं क्रियाविशेषणमित्यर्थः । ततश्च क्रियाद्वारेण स्त्रीलिङ्गत्वे प्राप्ते क्रियाव्ययविशेषणानां क्लीबत्वमेकवचनान्तत्वं वाच्यमिति तद्विशेषणानां क्लीबत्वैकवचनान्तत्वाव्ययत्वविधाना‘दव्ययादाप्सुप’ इति सुब्लोपे तावद्यावदित्युप-पन्नमिति ध्येयम् । व्यवहितत्वादन्वयं दर्शयति जयस्येत्यादिना ॥ स्वातन्त्र्यादिति वक्तव्य इति । तद्गतत्वापेक्षया स्वातन्त्र्यस्य मुख्यत्वव्युत्पादनावसरे स्वातन्त्र्यादित्येव वक्तव्यत्वादिति भावः । राज्ञि जयशब्दप्रयोगप्राचुर्यस्य मुख्यार्थभूतभृत्याज्ञाननिमित्तत्वादिनाऽन्यथासिद्धत्वान्न तद्गतत्वापेक्षया स्वातन्त्र्यस्य मुख्यत्वसाधकत्वं तस्येत्याशङ्कते भृत्येति । तदुपलम्भाद् राज्ञि प्रयोगप्राचुर्योपलम्भात् । तथा च न मुख्याज्ञाननिमित्तत्वादिनाऽन्यथासिद्धिरिति भावः । माऽस्त्वन्यतासिद्ध्या प्रयोगप्राचुर्यस्य स्वातन्त्र्स्य मुख्यत्वासाधकत्वं व्यभिचरिततया तु स्यादेवेत्याशङ्कते नन्विति ॥ अज्ञातेति । न ज्ञातो मुख्यार्थो येषां ते तथोक्तास्ते च ते लाक्षणिकादयश्च । आदिपदेन गौणपरिग्रहः । तेषां प्रयोगेष्वित्यर्थः । अग्निर्माणवक इति व्यवहारादनवगताग्निशब्दमुख्यार्थस्य माणवकेऽग्निशब्दव्युत्पत्त्या तत्रैव प्रयोगप्राचुर्य-सम्भवादिति भावः । उपलक्षणमेतत् । नूतनयौगिकशब्देषु तत्प्राचुर्याभावेऽपि मुख्यत्वदर्शनेन व्यतिरेकव्यभिचाराच्चेत्यपि द्रष्टव्यम् । अनेनेति । न हीत्यादिवाक्येनेत्यर्थः । तथा च न हीत्यादिवाक्यावैय्यर्थ्यमिति भावः ॥ यद्यप्यत्रेति । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम्, स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परकीयानुमानेऽपीत्यर्थः ॥ व्यभिचारो वेति । अज्ञातमुख्यलाक्षणिकादि-प्रयोगेषिष्वति शेषः ॥ जगद्वाचित्वादिति सूत्रदिशेति । न प्रसिद्ध्यन्यथाऽनुपपत्त्याऽन्यस्यैव मुख्यवाच्यत्वं कल्प्यम् । लोकस्य जगत्येव शब्दव्यवहारेण तत्रैव तच्छ्रोतॄणां व्युत्पत्तेः । तथा परमात्मनि बहुलव्यवहाराभावेन तत्र व्युत्पत्त्यभावाज्जगति प्रसिद्धेरन्यथोपपत्तेः । अग्रिर्माणवक इति व्यवहारादनवगताग्निशब्दमुख्यार्थस्य माणवक एवाग्निशब्दव्युत्पत्त्या तत्र प्रयोगप्राचुर्यवदिति सूत्रार्थः । एवाग्निशब्दव्युत्पत्त्या तत्र प्रयोगप्राचुर्यवदिति सूत्रार्थः । तथा च मुख्यज्ञानादिनाऽन्यत्र प्रसिद्धेस्तत्र समर्थितत्वात्तन्न्यायेन तद्गतत्वे प्रयोगप्राचुर्यस्यापि मुख्याज्ञाननिमित्तत्वादिनाऽन्यथासिध्द्यादेस्तत्र सूचितत्वान्नान्यथासिध्द्यादिकमत्राक्तमिति भावः ॥ कुतस्तर्हीति । न हीत्यादेरसिद्ध्यभिधायकत्वेन मुख्यतासाधकताऽसम्भवादन्यस्य च साधकस्याभावात् । भवितव्यं च तया । अन्यथेति शेषः । जीवादिष्वेव दुःख्यादिशब्दानां मुख्यत्वेन भगवति तदभावा ‘त्तत्तु समन्वयादि’त्यस्यानुपपत्ति-प्रसङ्गादतोऽस्यैव मुख्यतासाधकत्वाभिप्राय उक्तव्यभिचारतादवस्थ्यमिति भावः । न हीत्यादि भाष्यस्यासिद्ध्यभिधायकतयाऽनेन स्वातन्त्रस्य तद्गतत्वापेक्षया मुख्यत्वासिद्धावपि प्रकारान्तरेणैव तत्सिद्धेर्न समन्वयसूत्रानुपपत्तिरित्याह उच्यत इति । नन्वेवं स्वातन्त्र्यस्य युक्तयन्तरेण तद्गतत्वापेक्षया मुख्यत्वसाधने पूर्वग्रन्थविरोधः । तत्र न हीत्यादिग्रन्थस्य स्वातन्त्र्यस्य मुख्यकारणत्वोपपादकतया योजितत्वादित्यरुचेराह अथवेति । अज्ञातमुख्यलाक्षणिकादिषु व्यभिचारात्कथं दोषाभाव इत्यत आह प्रकरणवशादिति । प्रकरणप्राप्तविशेषणबलादेवेत्यर्थः । ततश्च यो यच्छब्दवाच्यत्वे सति प्रचुरतरतत्प्रयोगविषयः स तच्छब्दवाच्येषु मुख्य इति व्याप्तिस्वरूपपर्यवसानान्नोक्तव्यभिचारः । न च दृष्टान्तभावान्नोक्तप्रकारा व्याप्तिः सम्भवतीति वाच्यम् । यौगिकार्थापेक्षया रूढस्य मुख्यतया तस्यैव वा, रूढेष्वपि गोशब्दवाच्यत्वे सति प्रचुरतरप्रयोगविषयस्य सास्नादिमत्पदार्थस्य तच्छब्दवाच्येषु स्वार्थेषु मुख्यतया तस्यैव वा, दृष्टान्तत्वसम्भवादिति भावः । न व्यभिचार इत्येव वक्तव्ये न कश्चिद्दोष इति सामान्यवचनं न केवलं भृत्यज्ञानेऽपि तदुपलम्भादित्युक्तरीत्याऽन्यथासिद्ध्यभाव एव किन्तु व्यभिचारोऽपि नेत्यभिप्रायेणेति द्रष्टव्यम् ।

परिमल

क्रियाविशेषणे इति । प्रयुज्यत इति क्रियाविशेषणे इत्यर्थः । शब्दविशेषणत्वे यावानित्यादि स्यादिति भावः ॥ अज्ञातमुख्येति । अज्ञातो मुख्यो=मुख्यार्थो येषां शब्दानां ते च ते लाक्षणिकाश्च तादृशशब्दानां प्रयोगेष्वित्यर्थः ॥ अनेनेति । न हीति श्लोकेन प्रयोगप्राचुर्या-भावस्यासिद्धिरुच्यत इत्यर्थः ॥ मुख्याज्ञाननिमित्तत्वादिनेति । अज्ञाननिमित्तकप्रयोगमूलकत्व-भ्रान्तिमूलकत्वादिरादिपदार्थः ॥ व्यभिचारो वेति । ‘मञ्चाःक्रोशन्ती’त्यादिरूढलक्षणाप्रयोगेषु सत्यपि प्रयोगप्राचुर्ये मुख्यत्वाभावात्तत्प्रयोगप्राचुर्यं मुख्यत्वव्यभिचारीति वा नूतनयौगिकप्रयोगेषु प्रयोगा-प्राचुर्येऽपि मुख्यत्वसत्त्वात्प्रयोगाप्राचुर्य- ममुख्यत्वव्यभिचारीति वा व्यभिचारो वक्तुं शक्यत इत्यर्थः ॥ जगद्वाचित्वादितीति । अत्रैव पादे ‘समाकर्षोदि’त्यधिकरणे शब्दानां महायोगविद्वद्रूढिभ्यां भगवति मुख्यानामेवान्यत्र जगति व्यवहार इति समाकर्षादितिसूत्रेणोक्ते सति कथं तर्हि जगति प्रसिद्धिरिति शङ्कायां शब्दानां जगद्वाचित्वाज्जगद्वाचित्वज्ञानाज्जगत्येव व्युत्पत्तिग्रहादिति यावत् । जगति प्रसिद्धिर् मुख्यार्थभगवदज्ञानमूलेति तत्रार्थस्य भाष्यादिदिशा व्यक्तत्वादिति भावः ॥ स्वातन्त्र्यमेवेति । यथेष्टविनियोगकर्तृत्वरूपस्वातन्त्र्यमेवेत्यर्थः । नन्वेवं स्वातन्त्र्यस्य मुख्यत्वोपपादनं मूलारूढं न प्राप्तमित्यनुशयादाह अथवेति ॥ न कश्चिदिति । प्रयोगप्राचुर्यस्य व्यभिचारदोषो वा मूले मुख्यत्वानुपपादनदोषो वा नेत्यर्थः । ननु नहीति श्लोके स्वातन्त्र्यं शब्दवृत्तौ मुख्यं निमित्तम् । प्रचुरप्रयोगहेतुत्वाद्रूढिनिमित्तजातिवदित्युक्ते मञ्चाः क्रोशन्तीत्यादिरूढलक्षणाप्रयोगहेतौ क्रोशत्पुरुष-मञ्चसम्बन्धे व्यभिचारः कथं परिहार्यः । अभिधानवृत्तावेवाभिधाननिमित्तयोस्तद्गतत्वस्वातन्त्र्यर्योर्मध्ये तद्गतत्वापेक्षया स्वातन्त्र्यं मुख्यम् । तद्गतत्त्वापेयास्य प्रचुरप्रयोगहेतुत्वाद्यौगिकरूढशब्दनिमित्त-योरवयवार्थजात्योर्मध्येयोगापक्षया जातिवदित्यभिधानवृत्तिमात्रज्ञापकशाब्दस्य नहीति श्लोकेऽभावादि-त्यत आह प्रकरणवशादिति । प्रकरणप्राप्तविशेषणबलादित्यर्थः । तथा च ‘यो यच्छब्दवाच्यत्वे सति प्रचुरप्रयोगविषयः स तच्छब्दवाच्येषु मुख्य’ इति व्याप्तिलाभान्न कोपि दोष इति भावः ॥ प्रकरणवशादिति । ‘दुःखिबद्धावराद्यास्तु शब्दा’ इत्यादिपूर्वोत्तरवाक्येषु जीवादिवाचिनोऽप्येते ब्रह्मणि वर्तन्त इत्याद्युक्तिपर्यालोचनया अस्मिन्प्रकारे अभिधावृत्तेरेव प्रस्तुतत्वप्रतीत्या अभिधावृत्ति-प्रकरणवशादेव अभिधावृत्तै स्वातन्त्र्यं तद्गतत्वापेक्षया मुख्यं निमित्तम् । प्रचुरप्रयोगहेतुत्वादित्यस्य लाभेन रूढलाक्षणिकादिप्रयोगे व्यभिचारशङ्कऽनवकाशेन तत्परिहारादित्यर्थः ।

यादुपत्यं

क्रियाविशेषण इति । अन्यथा शब्दविशेषणत्वापत्त्या तावान् यावानिति स्यादिति भावः ॥ अज्ञातमुख्येति । अज्ञातमुख्याश्च लाक्षणिकादयश्च तेषां प्रयोगेष्वित्यर्थः । न ज्ञातो मुख्योऽर्थो येषु ते तथा । यथा म्लेच्छादीनां यावादिशब्दाः । तेषां यवादिशब्दमुख्यार्थाज्ञानेऽपि प्रियङ्ग्वादिष्वेव सङ्केतेन प्रयोगप्राचुर्यात् । लाक्षणिका, आदिपदोपात्ता गौणाश्च रूढा एव विवक्षिताः । प्रयोगप्राचुर्यस्य तत्रैव सम्भवादित्यवधेयम् । न तु प्रयोगप्राचुर्येणेति । न चैवं स्वातन्त्र्यस्य मुख्यकारणत्वमुपपाद-यतीत्यवतारिकाविरोधः । स्वातन्त्र्यस्यामुख्यतासाधकप्रयोगाप्राचुर्यस्यासिद्ध्यभिधाने बाधकाभावेन तन्मुख्यतोपपादनलाभादित्याशयात् ॥ जगद्वचित्वादिति । न प्रसिद्ध्यन्यथाऽनुपपत्त्याऽन्यस्यैव मुख्यवाच्यत्वं कल्प्यम् । लोकस्य जगत्येव शब्दव्यवहारेण तत्रैव तच्छ्रोतॄणां व्युत्पत्तेः । परमात्मनि तथा बहुलव्यवहाराभावेन व्युत्पत्त्यभावाच्च जगति प्रसिद्धेरन्यथोपपत्तेः । अग्निर्माणवक इति व्यवहारादनवगताग्निशब्दमुख्यार्थस्य माणवकेऽग्निशब्दव्युत्पत्तिसम्भवादिति तत्सूत्रार्थपर्यालोचनयेत्यर्थः ॥ प्रकरणवशादिति । प्रकरणप्राप्तविशेषणबलादेवत्यर्थः । तथा च यो यच्छब्दवाच्यत्वे सति प्रचुरतत्प्रयोगे विषयः न कश्चिद्दोष इति वचनं मुख्यतासाधनायात्र पूर्वमिव यत्नान्तरानुसरणप्रयासोऽपि नास्तीति ज्ञापयितुम् ।

श्रीनिवासतीर्थीया

यद्यप्यत्रेत्यनन्तरं तद्गतत्वमुख्यत्वसाधकस्येति शेषः ॥ मुख्येति । स्वातन्त्र्यरूपमुख्यनिमित्तेत्यर्थः । व्यभिचार इति । रूढलाक्षणिकशब्देष्वित्यर्थः । मुख्यतासिद्धिः । स्वातन्त्र्यस्य । निर्धारणायां मुख्यामुख्यत्वनिर्धारणायाम् ॥ हेतुत्वति । तथा चाभिधावृत्तौ यत्र यस्य प्रयोगप्राचुर्यं तत्तत्र मुख्यमिति विवक्षितमित्यर्थः ॥ न कश्चिद्दोष इति । हेतोरेवाभावादज्ञात-मुख्यलाक्षणिकादौ न व्यभिचार इत्यर्थः ।

वाक्यार्थरत्नमाला

वाक्यस्यापीति । वाक्यस्यापि स्वातन्त्र्योपपादकत्वमस्तीति या भ्रान्तिस्तामिति योजना । यज्ञमिति क्रियाविशेषणमिति दैवमेवापरे यज्ञमित्येतच्चतुर्थाध्यायगीता-भाष्यटीकानुसारेण व्याचष्टे । साधनं परित्यज्येति । धात्वर्थमात्रविशेषणे इत्यर्थः । इति द्विवचनोपेतः पाठः । विशेषणमिति पाठे द्वित्वाविवक्षया प्रातिपदिकार्थमात्रकथनमिति बोध्यम् । अत्र साधनशब्देन क्रियां प्रति कर्तृकरणादिकं यत्तद्गृह्यते । अव्ययीभावश्चेति सूत्रीयक्रियाविशेषणानां चेत्येतत्काशिकाव्या-ख्यानावसरे क्रियाद्वारेण स्त्रीलिङ्गत्वे प्राप्ते वचनमिति मञ्जर्यामुक्तम् । परवल्लिङ्गमिति सूत्रे क्रियाव्ययविशेषणानां क्लीबत्वमेकवचनान्तत्वं वाच्यमित्येतत्प्रक्रियायामुक्तम् । तदुभयानुसारेणेदं विशिष्टप्रतिपादनम् । अत्र क्रियाविशेषणत्वोपपादनमानन्दमयाधिकरणे उक्तोऽन्नमय इत्यादीत्येतन्मूल-टीकाव्याख्यानरीत्या द्रष्टव्यम् । विवृतं चैतदानन्दमयाधिकरणीयविचारावसरे ॥ भृत्यस्य प्रयोगाधिकरणतया भृत्ये इति वाच्ये षष्ट्यनुपपत्तिरित्यत उक्तं मूले भृत्यस्य सम्बन्धितयेति । नूतनयौगिकेति । योगप्रकारस्य शब्दान्तरे व्याकरणे दर्शितत्वेऽपि यत्र शब्दे तादृशयोगेन प्रयोगो न दृश्यते । आधुनिकेन तु पुंसा योगांतरमालम्ब्य शब्दान्तरमर्थ विशेषे सङ्केतितं तत्र प्रयोगप्राचुर्याभावेऽपि अवयवार्थानुगमेन मुख्यत्वसद्भावादित्यर्थः । चन्द्रिकाव्याख्यानानुसारेणेदं व्याख्येयमस्ति । प्राचीन-ग्रन्थेऽपि चन्द्रिकानुसृताऽस्ति । यद्यप्यत्रेत्यत्रापिशब्दोऽत्रापीति सम्बध्यत इति भावेन परकीयानुमानेऽपीत्यर्थ इत्युक्तमिति ज्ञेयम् । तत्वप्रकाशिकानुसारेण सूत्रं व्याचष्टे । न प्रसिध्यन्यथानुप-पत्येत्यादिना तद्गतत्व इति । तद्गतत्वे निमित्ते सति यत्प्रयोगप्राचुर्यं तस्याज्ञाननिमित्तत्वे-नान्यथासिद्ध्यादेर्न मुख्यतासाधकत्वमित्येतत्तत्र सूचितमित्यर्थः । न हीत्यादेरिति । प्रयोगप्राचुर्या-सिद्धिशङ्कानिरासकत्वेन व्याख्यानादित्यर्थः । उक्तरीत्येति शेषः । अन्यस्य च साधकस्याभावादि-त्यनन्तरं कुतो मुख्यतासिद्धिरित्यर्थ इति पाठान्तरं भवितव्यं चेत्यादिः पाठः । क्वचित्पुस्तके तथापाठाभावस्तत्र कुतो मुख्यतासिद्धिरित्यर्थ इति शेषपूरणेन योजना ज्ञेया । मास्तु मुख्यतासिद्धिरित्यतः शङ्काभिप्रायमाह । भवितव्यं च तयेति । स्वातन्त्र्यमुख्यतासिध्या भवितव्यं चेत्यर्थः । कुतो भवितव्यमित्यतस्तदभावे परोक्तं बाधकमाह । अन्यथाजीवादिष्वेवेति । जीवादिष्वेवेत्यतः प्रागन्यथेत्यस्य क्वचिदभावस्तत्र पाठेऽन्यथेत्यस्य शेषतया पूरणेन योजना द्रष्टव्या । अनुपपत्तिप्रसङ्गात् । अनुपपत्तिपरिहारोपायाभावेन तत्प्रसङ्ग एव स्यादित्यर्थः । तस्यैव वेति । दृष्टान्तत्वसम्भवादित्युत्तरेणान्वयः । प्रचुरतरप्रयोगेऽपि । गोशब्दप्रयोगेत्यर्थः ।