०४ स्वातन्त्र्य शब्दप्रवृत्तिकारणत्वाभावे बाधककथनम्

कुतो राज्ञि जयोऽन्यथा

स्वातन्त्र्य शब्दप्रवृत्तिकारणत्वाभावे बाधककथनम्

कुतो राज्ञि जयोऽन्यथा

सुधा

स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् । तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बाधकमाह कुत इति ।

अनुव्याख्यानम्

कुतो राज्ञि जयोऽन्यथा ॥

अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः । कथम् । स्वधामोपविष्टे राज्ञि जयः कुतः, न कुतोऽपि यतः, इत्यर्थः । जयस्य राजगतत्वा-

भावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात् तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात् । न चैवम् । तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति । लक्षणया प्रयागोऽस्त्विति चेन्न । तदस्यास्तीति निमित्तसाम्यात् । अन्यथा वैपरीत्यस्याप्यापातात् । पराजयस्य प्रकृतत्वेऽपि जयग्रहणं व्याप्त्यर्थम् ॥

शेषवाक्यार्थचन्द्रिका

ननु स्वातन्त्र्यस्य प्रकृतिकारणतायाः, तद्गतत्वापेक्षया मुख्यतायाश्च पूर्ववाक्येनैव सिद्धेरुत्तरवाक्यवैय्यर्थ्यमित्यतो विपरीतप्रतिज्ञया विपर्ययस्यापि प्रसङ्गेन प्रतिज्ञामात्रस्या-साधकतया प्रतिज्ञातप्रमेयद्वयोपपादकत्वात् । नोत्तरवाक्यवैयर्थ्यमित्याशयेन तत्तत्प्रतिज्ञातोपपादकत्वे हेतुं सूचयन्नुत्तरवाक्यमवतारयति स्वातन्त्र्यमपीति । प्रकृतोपयोगितया अन्यथेत्यस्यार्थमाह अन्यथेति । मूले निमित्तवाचको जयशब्दस् तन्निमित्तकजयिशब्दोपलक्षणमिति भावेनाह जय इति ॥ कुत इति । न स्यादित्यर्थः । ननु स्वातन्त्र्यस्य कारणत्वाभावेऽपि न राज्ञि जयिशब्दानुपपत्तिः । जयस्य राजगतत्वादेव तत्र तच्छब्दप्रवृत्त्युपपत्तेरित्याशयेन पृच्छति कथमिति । जयस्य राजगतत्वाभाव-समर्पकतयाऽपि तदेव वाक्यं योजयति स्वेति । तात्पर्यार्थमाह जयस्येत्यादि । न चोत्कर्षेण वर्तमानत्वस्यापि जयिधात्वर्थत्वात्तदाश्रयत्वस्य च राज्ञ्यपि सत्त्वान्न स्वातन्त्र्यं तन्निमित्तमिति वाच्यम् । राजा शत्रून् जयतीत्यभिभवाभिप्रायेणापि तत्प्रयोगात्तदाश्रयत्वस्य राज्ञ्यसत्त्वेन तत्र स्वातन्त्र्यनिमित्त-त्वस्यैवाश्रयणीयत्वात् ॥ लक्षणयेति । जयाश्रयभृत्यसम्बन्धाद्राज्ञि जयिशब्दस्य लाक्षणिकत्वमित्यर्थः । ‘तदस्यास्त्यस्मिन्निति मतुबि’ति सूत्रविहितसम्बन्धसामान्यरूपनिमित्तस्य राजभृत्ययोः साम्यान्न तत्र लक्षणेत्याह तदस्येति । अन्यथेति । तद्गतत्वस्यैव प्रवृत्तिनिमित्तत्वमङ्गीकृत्य तस्य च भृत्य एव सत्त्वात् तत्रैव जयिशब्दो मुख्यः, राज्ञि तु जयाश्रयभृत्यसम्बन्धाल्लाक्षणिक इत्यङ्गीकारे स्वाम्यस्यैव प्रवृत्तिनिमित्तत्वात्तस्य च राज्ञ्येव सत्त्वात्तत्रैव मुख्यः, भृत्ये तु स्वाम्याश्रय राजसम्बन्धाल्लाक्षणिक इत्यापि स्यादित्यर्थः । न च स्वाम्याश्रय राजादि पूर्वकत्वाभावन् न भृत्ये जयिशब्दस्य लाक्षणिकत्वमिति वाच्यम् । तथा सति जयाश्रयभृत्यधीपूर्वकत्वाभावेन राज्ञ्यपि लक्षणाऽभाव-प्रसङ्गादिति भावः । ननु ‘राज्ञि यद्वत्पराजय’ इति पूर्ववाक्ये प्रकृतत्वात् ‘कुतो राज्ञी’त्युत्तरवाक्येऽपि पराजयस्यैव ग्रहणे कर्तव्ये जयग्रहणमनर्थमित्यतः ‘दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः । शब्दा ब्रह्मणि वर्तन्त’ इति पूर्ववाक्योक्तानुमानमूलभूता ‘यः शब्दो यदधीनप्रवृत्तिनिमित्तकः स तद्वाचक’ इति विवक्षितसामान्यव्याप्तिर्बहुषु स्थलेषु गृहीतेत्यतो न व्यभिचारामर्हतीति सूचयितुं जयग्रहणं कृतमित्याह पराजयस्य प्रकृतत्वेऽपीति ।

परिमल

निमित्तसाम्यादिति । तदाश्रय इव तत्स्वामिन्यपि तदस्यास्तीति सूत्रेऽस्मिन्नित्य-स्येवास्यापीत्युक्तस्वामित्वरूपनिमित्तस्य सत्त्वादिति भावः ॥ वैपरीत्यस्येति । स्वामिन्येव मुख्यप्रयोगः । आश्रये लक्षणिक इत्यस्येत्यर्थः ॥ व्याप्त्यर्थमिति । स्वातन्त्र्येण निमित्तेन शब्दप्रयोग-स्योदाहरणान्तरप्रदर्शनार्थं स्वातन्त्र्यनिमित्तत्वाव्यभिचारार्थमित्यर्थः ।

यादुपत्यं

साम्यादिति । तदस्यास्तीति सूत्रविहितसम्बन्धसामान्यरूपनिमित्तस्य राजभृत्ययोः साम्यादित्यर्थः ॥ व्याप्त्यर्थमिति । व्याप्तिग्राहकभूयोदर्शनार्थमित्यर्थः । ततश्च ‘दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः । शब्दा ब्रह्मणि वर्तन्ते’ इति पूर्वोक्तनुमाने यः शब्दो यदधीनप्रवृत्तिनिमित्तकः स तद्वाचक इति विवक्षितसामान्यव्याप्तिग्राहकभूयःसहचारप्रदर्शनाय जयग्रहणमिति भावः ।

श्रीनिवासतीर्थीया

लक्षणयेति । राज्ञि जयिशब्दस्येति शेषः । तथाच तत्र स्वातन्त्र्यं न निमित्ततया कल्प्यमित्यर्थः ॥ अन्यथेति । निमित्तसाम्येऽपि यदि लक्षणया प्रयोगोऽङ्गीक्रियते तर्हि जीवादावपि दुःख्यादिशब्दप्रवृत्तौ न तद्गतत्वं निमित्तत्वेन कल्पनीयम् । किन्तु लक्षणयैव तत्रापि प्रयोगोऽस्त्विति वैपरीत्यं स्यादित्यर्थः ।

वाक्यार्थरत्नमाला

तदेव वाक्यमिति । अनेन स्वधामोपविष्ट इति मूलपदेन युद्धार्थे स्वयमगत्वाऽमात्यादीनेव आज्ञाप्य स्थिते राज्ञीति व्याख्यानं सूचितमिति सूचितं भवतीति ज्ञेयम् । लक्षणाभावसंभवादिति पाठः स्वरसः । लक्षणाभावप्रसङ्गादिति पाठे तु परेण लक्षणाया आशङ्कनेन तदिष्टत्वात्तदभावापादनमेतदित्यवधेयम् । प्रकृतत्वादिति । पराजयस्यैवेति वक्ष्यमाणमत्रापि सम्बध्यते । मूलभूतेति । सामान्यव्याप्तिरित्युत्तरेण सम्बन्धः । व्याप्तिप्रकारप्रदर्शनं यः शब्द इत्यादि ।