राज्ञि यद्वत्पराजयः
अधीनत्वनिमित्तः प्रयोगोऽप्यस्ति
राज्ञि यद्वत्पराजयः
सुधा
स्यादेतत् । यद्यपि तदस्यास्तीति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते । तथाऽपि समवायादिरेव न स्वामित्वम् । प्रयोगानुसारित्वात्कृत्तद्धितसमासानाम् । प्रयोगश्च समवायादिनिमित्त एव दृश्यते । न स्वामित्वनिमित्तः । अत एव ‘तदस्यास्त्यस्मिन्निति मतुबि’तीतिकरणो विवक्षितार्थो निबद्धः । तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिर् इत्यतोऽस्ति तदधीनत्वनिमित्तोऽपि प्रयोग इत्याह राज्ञीति ।
अनुव्याख्यानम्
राज्ञि यद्वत्पराजयः ॥
भृत्यसमवेतस्य पराजयस्य राजाऽधीनत्वेन यथा राज्ञि पराजयः पराजयनिमित्तकः पराजयीतिशब्दो वर्तते पराजयी भद्रसेन इति तथेत्यर्थः ।
किञ्च स्वाम्यसम्बन्धेन मतुबर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् ।
शेषवाक्यार्थचन्द्रिका
ननु राज्ञि यद्वत्पराजय इत्युत्तरभाष्यमनर्थकम् । न च स्वातन्त्र्य-निमित्तकप्रयोगप्रदर्शनार्थं तदिति वाच्यम् । तस्याप्यनर्थकत्वात् । न च स्वातन्त्र्यस्य शब्दप्रवृत्ति-निमित्तत्वसिद्धिस्तत्प्रयोजनमिति वाच्यम् । ‘तदस्यास्त्यस्मिन्निति मतुबि’ति सूत्रे सम्बन्धमात्रस्य प्रवृत्तिनिमित्तत्वोक्त्या, समवायादेरिव स्वामित्वस्यापि प्रवृत्तिनिमित्तत्वसिद्धिसम्भवादित्यतः सम्बन्ध-मात्रस्य प्रवृत्तिनिमित्तत्वोक्तावपि कृत्तद्धितसमासानां प्रयोगाधीनत्वेन समवायादिनिमित्तकप्रयोगदर्शनेन समवायादेः प्रवृत्तिनिमित्तत्वोपपत्तावपि स्वामित्वनिमित्तकप्रयोगादर्शनेन न स्वामित्वस्य प्रवृत्ति-निमित्तत्वमित्याशङ्कापरिहारार्थत्वान्नोत्तरभाष्यवैय्यर्थ्यमित्याशयेन तां शङ्कामुत्थापयति स्यादेतदिति ॥ सम्बन्धसामान्यमिति । समवायादयः सर्वेऽपि सम्बन्धा इत्यर्थः ॥ समवायादिरेवेति । प्रवृत्तिनिमित्तमिति सम्बन्धः ॥ नेति । न स्वामित्वं प्रवृत्तिनिमित्तमिति सम्बन्धः । समवायादिरेवेत्युक्तप्रतिज्ञायां नियामकमाह प्रयोगेति । प्रयोगोऽभिधानम् । ‘अभिधानलक्षणाः कृत्तद्धितसमासाः’ इति वैयाकरणोक्तेरिति भावः । अत एव ग्रामं गच्छति आदित्यं पश्यतीत्यदौ ‘कर्मण्यणि’ति न कर्मण्यण् भवति । सुवर्णानिष्कशतमस्यास्तीत्यत्र च मत्वर्थे ‘शतसहस्रान्ताच्च निष्कादि’ति न ठञ् । अत एव च दिशां समाहारे तद्धितार्थोत्तरपदसमाहारे चेति समासाभावः । अन्यथा हि कुम्भकारो नैष्कशतिकः पौर्वशालः पौर्वशालाप्रिय इत्यादाविव ग्रामगाम इत्यादावपि कृत्तद्धितसमासप्रसक्तेरिति ध्येयम् । अस्त्वेवं कृत्तद्धितसमासानां प्रयोगाधीनत्वं, तावताऽपि कुतः समवायादिरेव निमित्तं न स्वामित्वमित्यत आह प्रयोगश्चेति । घटत्ववान् दण्डवानित्यादिप्रयोगाः समवायसंयोगनिमित्तका दृश्यन्त इत्यर्थः । न स्वामित्वनिमित्तक इति । राजाधीनेन शत्रुगतदुःखेन भृत्यगतबन्धादिना च राज्ञि दुःखिशब्दस्य बद्धशब्दस्य च प्रयोगादर्शनादिति भावः ॥ इतिकरण इति । क्रियत इति करण इतिश्चासौ करणश्चेतिकरणः, इतिशब्द इति यावत् ॥ विवक्षितार्थ इति । विशिष्ट एव विषये मतुप् भवतीति ज्ञापनार्थ इत्यर्थः । अनेन सम्बन्धमात्रे मतुबिति लब्धं भवति । तथा चोक्तं तद्-व्याख्यातृभिः । इतिकरणो विवक्षितार्थस् तेन विशिष्ट एव विषये मतुप् भवतीति विज्ञायत इत्यादीति ध्येयम् । ननु ‘राज्ञि यद्वत्पराजय’ इत्यनेन, ‘यथा राज्ञि पराजय’ इति पराजयस्य राजगतत्वोक्तावपि, यत्किञ्चिच्छब्दप्रवृत्तिनिमित्तस्य राजधीनत्वेन राज्ञि तच्छब्दप्रयोगस्यानुक्ततया, कथमस्य तदधीनत्व-निमित्तकप्रयोगप्रतिपादकत्वम् इत्यतः पूर्ववाक्यात् तदधीनत्वहेतुत इत्यस्य, वचनविपरिणामेन शब्दो वर्तत इत्यस्य न हि भृत्यस्येत्युत्तरवाक्याद् भृत्यस्येत्यस्य चानुवृत्ति, पराजय इत्यस्य च निमित्तवाचकस्य नैमित्तिकोपलक्षकत्वं, निमित्तविशेषसमर्पकपराजयशब्दसन्निधानाच्च सामान्य-वाचकस्यापि शब्दशब्दस्य, तद्विशेषपराजयशब्दसन्निधानाच्च, सामान्यवाचकस्यापि शब्दशब्दस्य, तद्विशेषपराजयिशब्दपरत्वं चाश्रित्य, विवक्षितार्थोपपादकतया भाष्यं व्याचष्टे भृत्यसमवेतस्येति । न स्यादिति । तत्र स्वाम्यव्यतिरेकेणान्यस्य षष्ठ्यर्थसम्बन्धस्याभावादिति भावः ।
परिमल
प्रयोगानुसारित्वात्कृत्तद्धितसमासानामिति । ‘अकर्तरि च कारक’ इति सूत्रे ‘अभिधानलक्षणा हि कृत्तद्वितसमासा’ इति भाष्योक्तेरिति भावः ॥ अत एवेति । प्रवृत्तिनिमित्ताश्रय एव प्रयोगदर्शनादेवेत्यर्थः ॥ इतिकरण इति । क्रियत इति करणः । ‘कृत्यल्युटो बहुलमिति बहुलग्रहणात्कर्मणि ल्युट् । ‘इतिश्चासौ करणश्च इतिकरण इति शब्द इत्यर्थः । ‘नवेतिविभाषे’ति सूत्रे ‘अयमितिकरण’ ‘इतिभाष्योक्तस्यैवमेव कैयटे व्याख्यानात् ॥ विवक्षितार्थ इति । ‘तदस्मिन्नस्ती’त्येवं रूपविवक्षितार्थ इत्यर्थः ।
यादुपत्यम्
इतिकरण इति । क्रियत इति करणः शब्दः । इतिश्चासौ करणश्चेतीतिकरणः । इतिशब्द इति यावत् ॥ विवक्षितार्थ इति । ‘इतिकरणस्ततश्चेद्विवक्षे’ति काशिकायामुक्त-
त्वादिति भावः ।
श्रीनिवासतीर्थीया
विवक्षितार्थ इति । विवक्षितार्थसूचक इत्यर्थः । अत्रेतिशब्दस्य व्यर्थत्वाद्य्वर्थं सत्किञ्चिज्ज्ञापयतीति न्यायेनात्र तदस्यास्तीति यस्मिन् सम्बन्धसामान्ये मतुप् विहितः स सम्बन्धो विवक्षित एव ग्राह्यः । अत एव विवक्षितार्थसूचकोऽत्रेतिशब्द इति तदीयव्याख्यानात् ।
ततश्च कृत्तद्धितादिप्रयोगनिमित्ततयाऽस्मद्विवक्षितस्तु सम्बन्धः समवाय एवेति भवतीतिशब्द एतदर्थसूचक इति भावः ।
वाक्यार्थरत्नमाला
कर्मण्यणित्यत्र तद्धितार्थोत्तरपदसमाहारे चेत्यत्रान्यत्र च तत्र वृत्यादौ अनभिधानादादित्यं पश्यतीत्यादावण् न भवतीत्यादेः प्रतिपादनात्तदनुसारेण प्रयोगपदं व्याकुर्वन्नु-दाहरणादि च दर्शयति ॥ प्रयोगोऽभिधानमित्यादिना वैयाकरणोक्तेरिति ॥ कर्मण्यण् अकर्तरि च कारके संज्ञायामित्यादिसूत्रेषु भाष्यकाराद्युक्तेरित्यर्थः ॥ ग्रामग्राम इत्यादावपीति । सुवर्णनैष्कशतिकः द्विदश द्वित्रा इत्यादीनामपिपदेन ग्रहणम् । समासस्तु समाहारे विवक्षितो निषिध्यत इत्यदोषः । विशेषतो व्युत्पाद्यमस्ति । कर्मणि ल्युडन्तमित्याशयेन व्याचष्टे । क्रियत इति करण इति । अत एव नवेति विभाषेति सूत्रे इतिकरण इति भाष्यव्याख्यानावसरे क्रियत इति करणः कर्मणि ल्युडित्युक्तं कैय्यटे । तत्र कृत्यल्युटो बहुलमिति बहुलवचनादिति प्रदीपविवरणकारः । परन्तु सूत्रारम्भसामर्थ्यादेव कर्मादौ ल्युट् सिद्धेर्बहुलग्रहणाप्रयोजनतया वर्णनायोग इति उपाधिखण्डनटीकास्थरमाया रमणमिति पद्यव्याख्यावसरे टीकाकृतैव प्रपञ्चितमित्यवधेयम् । इतिकरणो विवक्षार्थः । इतिकरणाद्विषयनियम इति काशिकानुसारेण शेष्युक्तं व्याख्यानं दर्शयति । इति करण इति । इत्यादीत्यादिपदेन काशिकासङ्ग्रहः । कथमस्येति । राज्ञियद्वदिति वाक्यस्येत्यर्थः । वचनविपरिणामेनेति । शब्दा वर्तंत इत्यत्रत्यबहुवचनस्य विपरिणामेनैकवचनेनेत्यर्थः । अनुवृत्तिमिति । अत्र तदधीनत्वेत्यादेरनुवृत्तिर्यथाश्रुते श्रुतैव । भृत्यस्येत्युत्तरवाक्योक्तस्य त्वनुवृत्तिराकर्षणमिति विवेचनीयम् ।