०१ सर्वेश्वरत्वविरोधिदुःखिबद्धादिशब्दसमन्वयः

ॐ तदधीनत्वादर्थवत् ॐ

सर्वेश्वरत्वविरोधिदुःखिबद्धादिशब्दसमन्वयः

प्रथमाध्यायस्य चतुर्थः पादः

आनुमानिकाधिकरणम्

ॐ तदधीनत्वादर्थवत् ॐ

सुधा

अन्यत्रैव प्रसिद्धशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात्परिशेषाद्वा सिद्धम् । अन्यत्र प्रसिद्धेभ्योऽन्यत्रैव प्रसिद्धानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते ॥ ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ अत्र ‘महतः परम-व्यक्तमव्यक्तात्पुरुषः परः’ इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् । तत्र यदुक्तं पूर्वपक्षिणा‘अव्यक्तं चेत्परं ब्रह्म तदा तस्य पुरुषादवरत्वं प्राप्नोति । न च तद्युक्तम् । सकलश्रुत्यादि-विरोधात्’ इति । तत्परिहारार्थं सूत्रं तदधीनत्वादर्थवदिति ॥ तस्यार्थं विवृणोति दुःखीति ।

अनुव्याख्यानम्

॥ ॐ तदधीनत्वादर्थवत् ॐ ॥

दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥

शब्दा ब्रह्माणि वर्तन्ते

अव्यक्तग्रहणमुपलक्षणम् । यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं प्रतीयते ‘जीवा एव तु दुःखिनः’, ‘योनिमन्ये प्रपद्यन्ते’ इत्यादौ, तस्य सर्वस्यापि समन्वयोऽत्र प्रतिपाद्यत इत्यतो दुःख्यादिग्रहणम् ॥ नाव्यक्तादिशब्दानां ब्रह्मपरत्वेऽप्यवरत्वादिप्राप्त्या सर्वमानविरोधोऽस्ति । यतः स्वस्मिन्नवरत्वाद्यभावेऽपि तद्वतां प्रधानादीनां ब्रह्माधीनन्वेन हेतुना दुःखी, बद्धः, अवर, इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम् । एतदुक्तं भवति । दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः । ततश्च प्रमाणविरोधो वाच्यः । न च दुःख्यादिशब्दो नियमेन दुःखादि-समवायस्य वाचकः । किन्तु तदस्यास्तीति तत्सम्बन्धमात्रस्य । सम्बन्धश्च समवाय इव स्वाम्यमपि भवति । ‘तत्र निरनिष्टो निरवद्यः’ ‘नामानि सर्वाणि यमाविशन्ती’ति निरवकाशश्रुतिद्वया-न्यथाऽनुपपत्त्या दुःखादिनियन्तृत्वेन दुरव्यादिशब्दप्रवृत्तिरित्यङ्गीकारे काऽनुपपत्तिरिति ।

शेषवाक्यार्थचन्द्रिका

यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ॥

अस्त्वेषा भक्तियुता श्रीविद्याधीशपादयोः सेवा ॥ १ ॥

एकवाक्यताऽदिसिद्धयेऽवश्यमभिधातव्यस्य पादप्रतिपाद्यस्य पादान्तर इवात्रानभिधानात्प्रसक्ता-मनुभाष्यकाराणां न्यूनतां परिहरति अन्यत्रैवेति ॥ भाष्यादिति । ‘श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धानामि’त्याद्येतत्पादीयभाष्यादित्यर्थः । ननु भाष्यादेतत्पादार्थसिद्ध्याऽत्र तदनभिधाने पादान्त-रेऽपि भाष्यात्तत्सिद्धेरविशेषात् तत्रापि पादप्रतिपाद्यं न वक्तव्यं स्यात् । यदि च प्रस्थानभेदाद् भाष्यात्सिद्धस्यावश्यवक्तव्यत्वात्तत्र तदभिधानमिति मन्यसे, तदेतदत्रापि तुल्यमित्यरुचेराह परिशेषाद्वेति । समन्वेतव्यतया प्रसक्तेष्वन्यत्र प्रसिद्धादिषु तत्र तत्र तेषां निरूपणेनैतेषा-मेवावशिष्टत्वादित्यर्थः । ननु व्यर्थ एवायं पादः । न चान्यत्रैव प्रसिद्धशब्दसमन्वयार्थत्वात्तत्सार्थक्यम् । इन्द्रादिशब्दानामन्यत्रैव प्रसिद्धानामपि विष्णौ समन्वयस्य प्रथमपाद एव सिद्धत्वात् । न च तेषामन्यत्रैव प्रसिद्धत्वाभावः । तथा सति तृतीयपादवैय्यर्थ्यापातात् । अन्यत्रैवान्यत्रापीत्यतः प्रकारान्तराभावादित्यतः ‘श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धानामि’ति भाष्ये लोकतोऽन्यत्रैव प्रसिद्धा अन्यत्र प्रसिद्धाः, श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धास्त्वन्यत्रैव प्रसिद्धा, इत्यन्यत्र प्रसिद्धेभ्योऽन्यत्रैव प्रसिद्धानां भेदस्योक्तत्वान्नानुपपत्तिरित्याह अन्यत्रेति ।

नन्वेतदप्ययुक्तम् । अन्यत्र प्रसिद्धत्वेनाभिमतस्यानन्दमयनाम्नोऽन्यस्मिन्नर्थविशेषे, सर्वगतत्वान्त-र्यामित्वादिलिङ्गात्मकशब्दजातस्याप्यन्यत्रादित्यादौ, इन्द्रादिशब्दानामिन्द्रादाविव, लोकतोऽप्रसि-द्ध्याऽन्यत्र प्रसिद्धत्वाभावापातात् । प्रत्युतादित्यादिश्रुत्यादिना सर्वगतत्वादेरन्यत्र प्रसिद्धेरुक्तत्वादव-रत्वादिलिङ्गेनान्यत्र प्रसिद्धाव्यक्तादिशब्दानामिवान्यत्रैव प्रसिद्धता स्यात् । यथा च सर्वगतत्वादेरन्यत्र प्रसिद्धिसाधकाऽऽदित्यादिश्रुतिरन्तर्यामित्वादेरन्यत्र प्रसिद्धिसाधकशरीरित्वादिलिङ्गं च लोकतोऽन्यत्र-प्रसिद्धम् । तथाऽव्यक्तादिशब्दस्यान्यत्र प्रसिद्धिसाधकमवरत्वादिलिङ्गमपि लोकतोऽन्यत्र प्रसिद्धमेव । किं चैवमन्यत्रैव प्रसिद्धाव्यक्तादिशब्देष्वपि लोकतोऽन्यत्र प्रसिद्धेः सत्त्वाद् अन्यत्र प्रसिद्धेन्द्राकाशादि-शब्देषु श्रुत्यादिनाऽप्यन्यत्र प्रसिद्धेः सत्त्वात्साङ्कर्यं स्यादिति चेन्न । प्रबलश्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धा अन्यत्रैव प्रसिद्धाः, श्रुत्यादितो लोकतो वाऽन्यत्रैव प्रसिद्धास्त्वन्यत्र प्रसिद्धा, इति विवेकस्य विवक्षितत्वात् । श्रुत्यादेः प्राबल्यं च यद्यप्यापाततो ब्रह्मण्यसम्भवमात्रं न सम्भवति । अव्यक्तादिशब्दानामन्यत्र प्रसिद्धिसाधकावरत्वादीनामिव गुहाप्रविष्टत्वादेरन्यत्र प्रसिद्धिसाधकद्वित्वा-दीनामप्येकस्मिन् ब्रह्मण्यसम्भवेन बलवच्छतिलिङ्गादिभिरन्यत्र प्रसिद्धतयाऽन्यत्रैव प्रसिद्धताऽऽपातात् । नापि सर्वथा ब्रह्मण्यसम्भवः । सिद्धान्तानुदयाऽऽपातात् । तथाऽपि प्रवृत्तिनिमित्तस्य तदधीनत्वादिना ब्रह्मणि शब्दस्य मुख्यत्वेऽपि तस्य शब्दस्य तद्युक्तवाक्यस्य वाऽपरममुख्यवृत्त्याऽन्यपरत्वं विनाऽनुप-पद्यमानत्वमेव श्रुत्यादेर्बलवत्त्वं सम्भवति । न हि गुहां प्रविष्टावित्यादिषु द्विवचनं तद्युक्तवाक्यं वाऽपरममुख्यवृत्त्याप्यन्यपरम् । अन्यत्रैव प्रसिद्धेषु तु ‘अव्यक्तात्पुरुषः परः’ ‘वसन्ते वसन्ते ज्योतिषा यजेत’इत्यादिष्वव्यक्तादिशब्दस्तद्युक्तवाक्यं वाऽपरममुख्यवृत्त्याऽन्यपरमेव । अन्यथा देवतातारतम्य-कर्मादि न सिध्येत् । वाक्यान्तरस्याप्येतत्तुल्यत्वात् । अत एव ‘कामादितरत्र तत्र चायतनादिभ्यः’ इत्यधिकरणेऽपरममुख्यवृत्त्या श्रीतत्त्वापरत्वेनोदाहृता सैषा प्रकृतिरविकृतिरि’ति वाक्यमेव प्रकृत्यधि-करणे टीकायामुदाहृतमिति द्रष्टव्यम् । अथवा ब्रह्मपरत्वे बहुविप्लवापत्तिरूपतर्कानुगृहीतत्वं बलवत्त्वं बहुविप्लवापत्तिश्चैतत्पादीयाधिकरणीयेषु भाष्यटीकोक्तैवानुसन्धेयेति संक्षेपः । विस्तरस्तु तात्पर्यचन्द्रिकायां द्रष्टव्यः । ‘तदधीनत्वादर्थवदि’ति सूत्रार्थविवरणार्थत्वान्न ‘दुःखी’त्याद्युत्तरभाष्य-मनर्थकमित्यभिप्रेत्य सूत्रस्य वैय्यर्थ्यशङ्कां तत्प्रयोजनदर्शनेन परिहर्तुं तत्सुबोधत्वाय पूर्वसूत्रमुपन्यस्य, विषयवाक्यप्रदर्शनपूर्वकं पूर्वसूत्रप्रमेयं तावदनुवदति आनुमानिकमपीति ॥ ॐ आनुमानिक-मप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ उपपादितमिति । भाष्य इति शेषः । इदानीं सूत्रवैय्यर्थ्यशङ्कां परिहरति तत्रेत्यादिना ॥ पुरुषादवरत्वमिति । पुरुषगतपरत्वं प्रति पञ्चम्या अवधित्वस्य बोधितत्वात् तस्य चावरत्वाविनाभूतत्वाद् अव्यक्तादिति पञ्चम्या अवधित्वोक्त्याऽवरत्व-प्राप्तिरिति भावः । सकलश्रुत्यादीति । ‘निरनिष्टो निरवद्य’ इत्यादिश्रुत्यादीत्यर्थः । तेन विष्णोर्दोषात्य-स्पृष्टिनियमप्रतिपादनादिति भावः ॥ ॐ तदधीनत्वादर्थवत् ॐ ॥

ननु चानुमानिकमिति सूत्रेऽव्यक्तस्यैव सूत्रकृता प्रतिज्ञातत्वाद्भाष्यकृता ‘अव्यक्तशब्दः’ इत्येव व्याख्यातव्यम् । दुःखिबद्धावराद्या इति कथं व्याख्यातम् । तथा सति व्याख्यानव्याख्येययोर्विसंवादप्रसङ्ग इत्यतः स्यादयं सूत्रभाष्ययोर्विसंवादः । यदि सौत्रोऽव्यक्तशब्दः स्वमात्रग्राहकः स्यात् । न चैवम् । तथा सति सूत्रत्वव्याघातप्रसङ्गात् । किन्तु ‘उपलक्षणत्वं शब्दानाम्’ इत्युक्तरीत्या शब्दान्तरोप-लक्षणमतो न विसंवाद इत्याह अव्यक्तग्रहणमिति । ननु नाव्यक्तशब्दस्य शब्दान्तरोपलक्षकत्वं सम्भवति । तथा सत्यव्यक्तशब्देन दुरव्यादिशब्दानामिव सर्वशब्दानामुपलक्षयितुं शक्यत्वात् तेनोत्तराधिकरणानारम्भप्रसङ्गादित्यतः किं समानन्यायशब्दान्तरविषयाधिकरणानारम्भप्रसङ्गो वा बाधकः, किंवा न्यायान्तरविषयशब्दान्तरगोचराधिकरणानारम्भप्रसङ्गः । नाद्य इष्टत्वात् । नान्त्यः । वैषम्यात् । दुरव्यादिशब्दानां समानन्यायतासम्बन्धेनोपलक्षणया ग्रहणसम्भवेऽपि तदितरेषामुप-लक्षणायां नियामकसम्बन्धाभावात् । शब्दत्वेन सन्दिग्धशब्दत्वेन वोपलक्षणायाः प्रागेव दूषितत्वादिति भावेन, अव्यक्तशब्देन दुरव्यादिशब्दोपलक्षणानियामकं समानन्यायतासम्बन्धमाह यत्र वाक्य इति । इत्यत इति । इत्यभिप्रायेणेत्यर्थः ॥ स्वस्मिन्निति । ब्रह्मणीत्यर्थः । ‘दुःखिबद्धावराद्यास्त्वि’ति मूले तुशब्दोऽपिशब्दार्थ इत्याशयेनाह इत्याद्या अपीति । ननु दुरव्यादिशब्देन दुःखादिसमवायस्य

प्रतीतेः कथं दुरव्यादिनियन्तृतया दुःख्यादिशब्दप्रवृत्तिरङ्गीकर्तुं शक्यत इत्यतोऽभिप्रायमाह एतदुक्तं भवतीति । अस्तु दुरव्यादिशब्दस्य दुःखादिसम्बन्धमात्रवाचकत्वं, तथाऽपि कुतः समवायस्यैव परित्याग इत्यत आह तत्रेति ।

परिमल

भाष्यादिति । ‘श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धाना‘मित्यादिभाष्यादित्यर्थः ॥ उपपादित इति । श्रुतिलिङ्गादिभिरित्युक्त्या उपपादित इत्यर्थः । तथा च तट्टीकायां बलवदिति विशेषणदानेन विवृतोऽयं विवेक इति न न्यूनताऽऽशङ्केति भावः ॥ ॐ आनुमानिकमप्येकेषां ॐ ॥ अव्यक्तशब्दमिति । ‘अव्यक्तमितिशब्दो यस्य तदिति बहुव्रीहिः ॥ सकलश्रुत्यादीति । सर्वश्रुतिश्रौतस्मृतियुक्तीनामितरासाधारणनिरतिशयसद्धर्मपुरस्कारेणैव ईश्वरपरत्वस्य, ‘सर्वे वेदा युक्तयः सुप्रमाणा’ इत्यादिप्रमाणसिद्धत्वादिति भावः । तत्परिहारार्थम् = अवरत्वपरिहारेण तादृशशब्दार्थत्वं हरेर्व्युत्पादयितुमित्यर्थः । साध्यमध्याहृत्य तत्र हेतुत्वेन मूलं योजयति नाव्यक्तादीत्यादिना । तुशब्दो अप्यर्थ इति मत्व तस्य स्वस्मिन्नवरत्वाद्यभावेऽपीत्येकमर्थमुक्त्वा अन्यमर्थमाह इत्याद्या अपीति । न केवलं गुणवाचकाऽनन्दमयादिशब्दा इत्यर्थः । एवं कल्पनं निर्बीजमित्यत आह एतदुक्तमिति ॥

यादुपत्यम्

अन्यत्र प्रसिद्धेभ्य इति । प्रथमपादे समन्वितानां लोकत एवान्यत्र प्रसिद्धिः । एतत्पादीयानां च श्रुतिलिङ्गादिभिः सेति विवेक इत्यर्थः ॥ ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ पुरुषादवरत्वमिति । अव्यक्तादिति पञ्चम्युक्तेन परत्वावधित्वेनार्थात्प्राप्नोतीत्यर्थः ॥ अव्यक्तग्रहणमिति । आद्यसूत्रे आनुमानिकमित्यनेनेति शेषः । ‘योनिमन्य’ इति वाक्यं योनिप्राप्तिप्रतिपादनद्वारा बद्धत्वप्रतिपादकम् । इदमुपलक्षणम् । ‘कार्यकारणबद्धौ तौ’ सोऽवरः’’ इत्यादिकं साक्षादेव बद्धत्वावरत्वादिप्रतिपादकमपि ग्राह्यम् । अन्यथा कृदन्तेषु बद्धादिषु रूढेषु चावरादिशब्देषु कथमित्यग्रेतनफक्किकानुपपत्तेरित्यवगन्तव्यम् ।

श्रीनिवासतीर्थीया

॥ ॐ आनुमानिकमप्येकेपामिति चेन्न शरीररूपकविन्यस्त-गृहीतेर्दर्शयति च ॐ ॥ अव्यक्तग्रहणं भाष्येऽव्यक्तग्रहणं दुरव्यादिशब्दानामप्युपलक्षणार्थमित्यर्थः । योनिमित्यादौ बद्धत्वमुच्यत इति ध्येयम् । ननूभयोरपि शब्दार्थत्वे स्वाम्यस्यैव ग्रहणे को हेतुरित्यत आह ॥ तत्र चेत्यादि । भगवतो दुरव्यादिशब्दवाच्यत्वे दुःखवत्त्वप्राप्त्या ‘निरनिष्ट’ इति निरवकाशश्रुति-विरोधस् तदर्थं तद्वाच्यताऽनङ्गीकारे, नामानीति निरवकाशश्रुतिविरोध इति श्रुतिद्वयान्यथाऽनुपपत्त्या, अस्ति दुःख्यादिशब्दवाच्यत्वं, दुःखवत्त्वप्रसङ्गस्तु स्वाम्यमादायैव परिहरणीय इति ज्ञायत इति भावः ।

वाक्यार्थरत्नमाला

श्रीवेदव्यासाय नमः ॥ इत्याद्येतत्पादीयेति । इत्यादिकं यदेतत्पादीयं भाष्यं तस्मादित्यर्थः ॥ अनेन पादार्थ इति भाष्यादित्यस्य पादार्थ इत्येतत्प्रमेयं भाष्यात् सिद्धमिति योजना सूचिता भवति । तत्र तत्र तेषां तेषामिति पाठः स्वरसः । तत्र तत्र प्रथमादिपादे तेषां तेषामन्यत्र प्रसिद्धादीनां समन्वयनिरूपणेनेत्यर्थः । आनन्दमयाधिकरणचन्द्रिकानुसारेण भाष्योक्तं पादभेदं समर्थयितुमाक्षिपति ॥ नन्वेतदप्ययुक्तमित्यादिना तात्पर्यचन्द्रिकायां द्रष्टव्य इत्यन्तेन । तत्र श्रुत्यादेः प्राबल्यं चेत्येतत्पर्यंतग्रन्थ आनन्दमयाधिकरणटीकाव्याख्यावसरे व्याख्यातः । उत्तरग्रन्थस्तु चन्द्रिकाटीकानुसारेण व्याकर्तव्योऽस्ति । तृतीयपादीयास्मदीयविचारोऽप्यत्र ज्ञेयः । पूर्वसूत्रमुपन्य-स्येति । सूत्रार्थविचाराभावेन नेदमधिकरणप्रारम्भाय सूत्रोदाहरणमपि तु विषयोपस्थापनायेति पूर्वमेव वर्णितमस्माभिः । किं समानन्यायशब्दान्तरविषयाधिकरणानारम्भप्रसङ्गः किं वेति पाठः सुगम एव । क्वचित् प्रसङ्गो बाधक इति पाठस्तत्र वस्तुगत्या आपाद्यमानस्य बाधकत्वाभिप्रायेण तथोक्तं न तु प्राक् बाधकत्वेन प्रसक्तत्वात् । अत एव नाद्य इष्टत्वादित्यल्पसुगमपाठे इष्टापादनत्वार्थतया प्रतीतिः स्फुटैव । बाधकपदघटितपाठे तु तादृशप्रसङ्गस्येष्टतया बाधकत्वाभावादित्यर्थोऽवधेयः ॥ प्रागेवेति । आनन्दमयनय एवेत्यर्थः । इत्याशङ्कापरिहारायेत्यर्थप्रतीतिवारणायेत्यत इत्यनूद्य तदर्थमाह ॥ इत्यत इति ॥ समवायस्यैवे । सम्बन्धान्तरस्याङ्गीकृत्वादवधारणम् । मूलटीकयोः समवायव्यवहारोऽन्यरीत्येति न दोषः । यद्यपि श्रुत्यादिसमवाये पारदौर्बल्यम् । समवेता इत्यादिप्रयोगात्समवायपदमन्यथयितुं शक्यं तथापीह सम्बन्धमात्रमित्युत्तरत्रोक्तेर्यथास्थितमेव ॥