ॐ भावं तु बादरायणोऽस्ति हीति ॐ
देवानामधिकारविषये जैमिनिबादरायणमतयोर्भिन्न विषयत्वे नाविरोधः
देवताधिकरणम्
ॐ भावं तु बादरायणोऽस्ति हीति ॐ
सुधा
अत्र देवानां वेदविद्याधिकाराक्षेपार्थं सूत्रद्वयम् ‘मध्वादिष्वसम्भवादनधिकारं जैमिनिः’ ‘ज्योतिषि भावाच्चे’ति । तस्यार्थः । न देवा वैदिकोपासनादावधिक्रियन्ते । तान्प्रति वैदिकविधेरभावात् । ‘आत्मानमुपासीत’ इत्यादिविधिरेव तान्विषयीकरोतीति चेन्न । विकल्पानुपपत्तेः । तथाहि । किं तेषां सर्ववेदोक्तोपासनादावधिकारः । किंवा क्वचित् । नाद्यः । सर्वत्र तेषां नियोज्यत्वाभावात् । तत्साध्यफलकामो हि तत्र नियुज्यते । फलं च तदुच्यते । यदप्राप्तमननुष्ठितसाधनं च । न च सर्वोपासनादिफले देवानां कामः सम्भवति । मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात् । तस्य च तैः प्राप्तत्वात् । सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धन्वात् । अत एव न द्वितीयः । किञ्च जैमिनिरप्येवं मन्यत इति ।
एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकार इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम् । ॐ भावं तु बादरायणोऽस्ति हीति ।
अनुव्याख्यानम्
॥ ॐ भावं तु बादरायणोऽस्ति हीति ॐ ॥
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ॥
यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ॥
विद्याधिराजस्य मतमविरोधस्तयोस्ततः ॥
तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं तस्य परिहारो नास्ति । तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति । मैवम् । भिन्नविषयत्वेन विरोधाभावादित्याह तत्फलायेति ।
तदिति ‘वसूनामेवैको भूत्वा’ इत्यादिश्रुतिप्रसिद्धं परामृशति । सिद्धे ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् । उपासाया विधिरिति सम्बन्धः । अन्यार्थं फलान्तरार्थम् । तथा असिद्धेऽर्थे विधिरुपासाया इत्यत्राप्यनुवर्तते । अत्रेतिशब्दाध्याहारेण मतमिति योज्यम् । तयोर्मतयोः ।
शेषवाक्यार्थचन्द्रिका
॥ भावं तु बादरायणोऽस्ति हीति ॥ ननु तत्फलायेत्युत्तरभाष्यमनर्थकम् । न च जैमिनिमतभगवन्मतयोर्विषय- भेदोपपादनार्थं तदिति वाच्यम् । तत्प्रतिषेदनस्याप्यनर्थकत्वात् । न च तयोर्विरोधाभावोपपादनार्थं तदिति वाच्यम् । तदुपपादनस्य प्रकृते सङ्गत्यप्रतीतेः । न च मध्यादिष्वित्यादिना देवानामधिकारे जैमिनिमतविरोधस्य शङ्कितत्वान्न तद्विरोधपरिहारस्य प्रकृतासङ्गतिरिति वाच्यम् । तथाऽपि तेन शङ्कितविध्युपपत्तिमपरिहृत्य, तच्छङ्कितविरोधमात्रपरिहारे निमित्ताभावादित्यतोऽनुपपत्तिद्वयस्य शङ्कितत्वेऽपि तस्य परिहारार्थं प्रवृत्ते ‘भावं त्वि’ति सूत्रे विध्यनुपपत्तिपरिहारेण तत्परित्यागेन, भाष्यकारीयाविरोधोपपद- नस्योपपन्नत्वादित्याशयेन, सूत्रे प्रसक्तन्यूनताशङ्कापरिहारकतया भाष्यं योजयितुं, विषयप्रदर्शनपूर्वकं सूत्रद्वयमाक्षेपपरतया तावद्योजयति अत्रेत्यादिना । देवानां वैदिकोपासनादावनधिकारः किं तेषां विशेषविधिप्रयुक्तः किंवा सामान्यविधिप्रयुक्त इति विकल्पं मनसि निधायाद्यं दूषयति तान्प्रतीति । द्वितीयमाशङ्कते आत्मानमिति ॥ किंवा क्वचिदिति । मोक्षफलकोपासनादावित्यर्थः ॥ देवतापदेति । वस्वादिपदेत्यर्थः ॥ तस्य चेति । वस्वादिपदस्य वस्वादिभिः प्राप्तत्वान्न तत्रार्थिता सम्भवतीति भावः। न केवलमस्मिन्पक्षे वस्वादीनां मधुविद्याफले वसुत्वादावधिकाराभावो दोषः, किन्तु विद्यासाध्ये वसुत्वादिसाधने ज्ञानेऽर्थित्वाभावोऽप्यपरो दोषो वस्वादीनां सिद्धज्ञानत्वादित्याह सर्वज्ञत्वेनेति । अत्र चशब्दाध्याहारेण नित्यसिद्धत्वाच्चेति योज्यम् । अत एव टीकायां दोषान्तरतया चेदं दूषणभुक्तमिति द्रष्टव्यम् । यद्वा देवतापदस्य प्राप्ततयाऽप्राप्तत्वाभावेनाफलत्वमुपपाद्यानुष्ठितसाधनत्वेनाननुष्ठित- साधनत्वाभावेनाफलत्वमुपपादयति सर्वज्ञत्वेनेति । मोक्षफलकोपासनादावधिकार इति द्वितीयं दूषयति अत एवेति । देवानां मोक्षार्थित्वेऽपि न तत्साधने विद्यासाध्ये ज्ञानेऽर्थिताऽस्ति । तेषां सार्वज्ञ्येन सर्वविद्योक्तज्ञानित्वात् । न हि स्वर्गार्थिनोऽपि कृतयज्ञस्य पुनर्यज्ञविद्याविचारेऽधिकारोऽस्तीति भावः ।
एवं सूत्रद्वयमधिकाराक्षेपपरतयोपपाद्य तत्परिहारतयोत्तरसूत्रमुत्थापयति एवमिति । पदादेरित्यत्रादिपदेन मोक्षपरिग्रहः । अवान्तरफलस्य वस्वादिपदस्य प्राप्तत्वात्परमप्रयोजनस्य च मोक्षस्यार्थतः प्राप्तत्वेनेत्यर्थः ॥ विधेरिति । आत्मानमुपासतेति सामान्यविधेरित्यर्थः । विशेषविधिस्तु स्वरूपेणैव नास्तीति भावः ।
इदानीमुत्तरभाष्यं विरोधपरिहारकतया योजयितुं शङ्कितदोषपरिहाराभावप्रयुक्तं सूत्रे न्यूनत्वमाशङ्कते तत्रेति । ननु भगवन्मतविरुद्धत्वेन जैमिनिमतस्याप्रामाण्यान्न तद्विरोध इत्यन्यथासिद्धत्वान्न तत्परिहार इति न न्यूनत्वमित्यतो न मुनिमतस्याप्रामाण्यमङ्कीकर्तुं युक्तमन्यथा भगवन्मतस्यापि तदापत्तेरित्याशयेनाह तत्किमिति । तथाच विरोधापरिहाराद्भावंत्वित्यपूर्णः परिहार इति शेषः । इदानीं सूत्रे प्रसक्तन्यूनत्वपरिहारकतया भाष्यं योजयति मैवमिति ॥ इति शब्दाध्याहारेणेति । अन्यथा फलान्तरार्थमुपासाया विधिरित्यादेर्भगवन्मतत्वालाभादिति भावः ।
परिमल
अननुतिष्ठतसाधनं चेति बहुव्रीहिः । अनुष्ठितस्यासिसाधयिषितत्वात् । सिसाधयिषि तस्यैव च फलत्वादिति भावः । एतच्च मोक्षस्याफलत्वायोक्तम् । तत्साधनज्ञानस्य देवैः सम्पादितत्वादिति भावः ॥ अत एवेति । स्वयोग्यफलस्य वसुत्वादेर्ज्ञानस्य च प्राप्तत्वेन तत्सकलविद्याविशेषेप्यधिकारासम्भवादेव क्वचिद्विद्यायामधिकार इति कल्पोऽपि नेत्यर्थः ॥ एवमिति । अधिकारो नेति मन्यत इत्यर्थः ॥ पदादेरिति । वसुत्वादिपदमवान्तरफलम् आदिपदोपात्तज्ञानं परमफलमिति ज्ञेयम् । तत्प्रतिविधानार्थं तन्निषेधार्थम् ॥ इत्यादिश्रुतीति । ‘स एतदेवामृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यती’त्यादिश्रुतिसिद्धमित्यर्थः ॥ इति योज्यमिति । विद्याधिराजस्य फलान्तरार्थमसिद्धेर्थे विधिरिति मतमिति योज्यमित्यर्थः ।
श्रीनिवासतीर्थीया
सर्वत्र=सर्ववेदोक्तोपासनादौ ॥ अत एवेति । फलस्य नित्यसिद्धत्वादेव क्वचित् कस्मिंश्चिद्वेदोक्तोपासनादावप्यनधिकार इत्यर्थः । ॐ भावं तु बादरायणोऽस्ति हीति ॐ ॥ अवान्तरेति । ज्ञानरूपेत्यर्थः । उदाहृतं किञ्च जैमिनिरित्यादिनेत्यर्थः ।
वाक्यार्थरत्नमाला
स्वयमेवोत्प्रेक्षितस्य केचित्पक्षस्यास्य पक्षस्य च प्रधानप्रमेये साम्यमेव । अवान्तरविशेषाभिप्रायेण पृथगभिधानम् । प्रकृतासंगतिरिति वाच्यमित्यनन्तरं तद्विरोधपरिहाराकरणेऽपि बाधकाभावेन तत्परिहारस्यानावश्यकत्वात् । आवश्यकत्वे वा तत्परिहारस्य भावं त्वित्यादिना सिद्धान्तयता सूत्रकारेणैव कर्त्तव्यतया भाष्यकारेण तस्याकर्तव्यत्वात् कर्तव्यत्वेऽपि वा तेन शङ्कितेति पाठः स्वरसः । तथा पाठाभावे इति वाच्यमित्यनन्तरम् उक्तोऽर्थो बहिरेवावंगन्तव्यः । अविरोधोपपादनस्येति । विरोधपरिहारोपपादनस्येत्यर्थः । पदप्राप्तमिति मूलम् । अप्राप्तेवाऽननुष्टि-तसाधने वा फलपदव्यवहारात्फलत्वं द्विरूपेण प्रसिद्धमित्यर्थः । एतमर्थं मनसि कृत्वैव यद्वा देवतेति टीकाकृद्वक्ष्यतीति ज्ञेयम् ॥ न केवलमस्मिन्पक्ष इति वाक्ये वसुत्वादावर्थित्वाभाव इति पाठः । अधिकारेति क्वाचित्कपाठेपि अर्थित्वमेवार्थ इति ज्ञेयम् । दोषान्तरतयैवेदमिति पाठः । चशब्दाध्याहारकल्पनाऽत्र पक्षेभवतीत्यपरितोषात्प्रागुक्ताऽननुष्टितसाधनत्वोपपादकत्वेन न योजयति । यद्वेति । प्राप्तेरेकविधत्वाभावादाहाऽवान्तरेति । विषयसप्तमीयमिति मूलम् । अनेन ज्ञातब्रह्मस्व-रूपविषये उपासनाया विधिर्निराकृत इति योजनासूचनेन ज्ञातब्रह्मविषयकोपासनाविधिर्निराकृत इत्युक्तं भवति । ज्ञानं च योग्यतानुसारेण पूर्णमित्येव सिद्धत्वमभिप्रेतम् । न तु सर्वप्रकारेणेति मूल एवाग्रे व्यक्तम् । अत्र जगद्विषयेऽपि सिद्धज्ञानत्वं योग्यतया पूर्णत्वमुपलक्षणया ग्राह्यम् । तथाऽसिद्धेऽर्थे इति मूलम् । अनेनाज्ञातब्रह्मस्वरूपादीनां ब्रह्मस्वरूपादिप्रकाशार्थमिति फलितं भवति । तथा च फलान्तरार्थं ब्रह्मस्वरूपाद्यज्ञानिनां तज्ज्ञानार्थं चोपासनाधिकार इति योजितं भवति ।