०५ चिन्तिताविति शब्दसाधुत्वकथनम्

अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ

चिन्तिताविति शब्दसाधुत्वकथनम्

अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ

सुधा

ननु चिन्तिताविति कथम् । विप्रतिषेधे परं कार्यमिति स्त्रीलिङ्गेन भाव्यम् । मैवम् । इतीमौ विषयावित्यध्याहारात् ॥ १-३-७ ॥

शेषवाक्यार्थचन्द्रिका

ननु चिन्तिताविति कथमिति । पुल्लिङ्गं कथमित्यर्थः । ननु चात्र का कथन्ता । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणावित्यत्रेव चिन्तितश्च चिन्तिता च चिन्तितावित्यत्र पुंसः शेषेण तल्लिङ्गोपपत्तेः । न चात्र ‘वृद्धो यूना’ इति पूर्वसूत्रात्तल्लक्षणश्चेदेव विशेष इत्यनुवर्तते । तत्र च तल्लक्षणश्चेद्विशेष इत्यनेन यत्र सर्वं सरूपं लिङ्गकृतं यत्र वैरूप्यमित्यर्थप्रतिपादनेन कुक्कुटमयूर्यावित्यादिशब्दस्वरूपकृतवैलक्षण्ये एकशेषनिषेधात् । एवेत्यनेन तु विशेषकृतवैलक्षण्ये तन्निषेधात् । प्रकृते च अधिकारद्धानिरूपविशेषकृतवैलक्षण्यात् पुमान् स्त्रियेत्यनेन पुंसः शेषो न सम्भवतीति वाच्यम् । तन्नैवकारेणेन्द्रश्चेन्द्राणी चेन्द्राण्यावित्यादावेकशेषनिषेधार्थं स्त्रीपुंसविशेष्यवै-लक्षण्यातिरिक्तप्रत्ययागमादिवैलक्षण्यस्यैवाभिमतत्वेन, प्रकृते विशेष्यकृतवैलक्षण्ये सत्यपि, आगमादिवैलक्षण्याभावेन पुमान् स्त्रियेत्येनेन प्रकृत एकशेषसम्भवात् । तत्कथं पुल्लिङ्गानुपपत्ति-रित्यतोऽत्र चिन्तिताविति द्विवचनान्तस्याधिकार इत्याद्येकवचनान्तेनान्वयानुपपत्त्या तदुपपत्त्यर्थ-मधिकारश्च तद्धानिरिति मूलग्रन्थानुरोधेनाधिकारतद्धानी इत्येवं रूपस्य विरुद्धानेकलिङ्गावय-वद्वन्द्वरूपद्विवचनान्तविशेष्यपदस्याध्याहर्तव्यत्वात् । तद्विशेषणे चिन्तितावित्यस्मिन् शब्दे उक्तरीत्या पुमान् स्त्रियेत्यनेनैकशेषेऽप्यजहत्स्वार्थलिङ्गातिरिक्तलिङ्गानां विशेषणानां विशेष्यनिघ्नतया तल्लिङ्गत्व-नियमात् । विरुद्धानेकलिङ्गावयवद्वन्द्वरूपविशेष्यानुरोधेनानेकलिङ्गतापत्तौ युगपदनेकलिङ्गत्वानुपपत्तेः । पर्यायेण तत्प्रसङ्गे विरुद्धानेकलिङ्गावयवद्वन्द्वानुप्रयोगे परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति परपद-वल्लिङ्गानुशासनात् । कुक्कुटमयूर्यावित्येतदनुप्रयोगे अयं च इयं चेमे इत्यादाविदं शब्दे मयूरीपदलिङ्गवत्तद्धानिपदलिङ्गस्यैव प्राप्त्या चिन्तिते इति स्त्रीलिङ्गस्यैव भाव्यत्वादित्यभिप्रेत्याह विप्रतिषेध इति । विरुद्धलिङ्गद्वयप्राप्तावित्यर्थः । परं कार्यमितीत्यनेन परवल्लिङ्गं द्वन्द्वतत्पुरुष-योरित्येतत्सूत्रं तात्पर्यतः सङ्गृण्हाति । चिन्तिताविति द्विवचनान्तस्याधिकार इत्याद्येकवचने-नान्वयानुपपत्त्या तदन्वययोग्यपदान्तरस्याध्याहर्तव्यत्वेऽपि इमौ विषयावित्यादि- पदान्तराध्याहारेणापि तदन्वयोपपत्तौ अधिकार तद्धानी इत्येवं रूपं पुल्लिङ्गानुपपत्तिशङ्काप्रापकाध्याहारस्याकर्तव्यत्वान्न पुल्लिङ्गानुपपत्तिरिति समाधत्ते मैवमिति । अधिकारतद्धान्योरेव विषयताप्रतिपत्तये इतीमौ इत्युक्तम् । विषयाविति विधेयलिङ्गापेक्षया इमाविति पुल्लिङ्गमिति दर्शयितुं विषयौ इत्युक्तम् । अयमाशयः । चिन्तितावित्येतन्नाधिकारश्च तद्धानिरित्यनेन श्रुतेनान्वेति । येन भिन्नवचनतया विशेषणविशेष्यभावानु- पपत्तिः स्यात् । नाप्यध्याहृतेनाधिकारतद्धानी इत्यनेन । येन चिन्तिते इति प्रसक्त्या चिन्तिताविति पुल्लिङ्गानुपपत्तिः स्यात् । किं त्विमौ विषयावित्यध्याहृतेनैव । तथा च विषयश्च विषयश्च विषयौ, चिन्तितश्च चिन्तितश्च चिन्तितौ, इत्यत्रोभयोरपि पुल्लिङ्गत्वेन स्त्रीपुंसभावनिबन्धनैकशेषप्राप्तेरेवाभावात् सरूपाणामित्येकशेषे शिष्टपुल्लिङ्गप्रयोगोपपत्तिरिति ।

केचित्तु । नन्वधिकारश्चेत्यादेरेकवचनान्तस्य सहत्वानवगमकत्वेन चिन्तिताविति द्विवचनान्तेन विशेषणविशेष्यभावेनान्वयायोगात् । द्विवचनान्तेनान्वयोपपत्त्यर्थमधिकारश्च तद्धानिरिति मूलग्रन्थानु-रोधेनाधिकारतद्धानी इति विशेष्यवाचकविभिन्नलिङ्गावयवद्वन्द्वरूपं द्विवचनान्तं सहत्वावगमकं पदमध्याहार्यम् । तथाच तद्विशेषणीभूते चिन्तितावित्यत्र, चिन्तितश्च चिन्तिता चेत्यस्य विरूपतया सरूपाणामेकशेष इत्येकशेषासम्भवेऽपि, ब्राह्मणश्च ब्राह्मणी च ब्रह्मणौ इत्यत्रेव स्त्रीपुंसमात्रकृतवैलक्षण्येन पुमांस्त्रियेत्यनेन पुंसोऽवशेषे विरुद्धलिङ्गावयवद्वन्द्वविशेषणतया चिन्तित-शब्दात्तदुभयलिङ्गप्रसङ्गे युगपदुभयलिङ्गत्वानुपपत्त्या पर्यायेण विरुद्धलिङ्गद्वयप्रसङ्गे ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इत्यनेनोक्तरूपद्वन्द्वानुप्रयोगे, परपदलिङ्गस्यैव विधानेन, कुक्कुटमयूर्यावित्ये-तद्द्वन्द्वानुप्रयोगे अयं चेयं च इमे इत्यादौ, परपदस्य मयूरीशब्दस्यैवेदं शब्दे लिङ्गप्राप्तिवद् इहापि तद्धानिशब्दस्यैव चिन्तितशब्दाल्लिङ्गप्राप्तौ चिन्तिते इत्येव स्यात् । तत्कथं चिन्तिताविति पुल्लिङ्गमित्यभिप्रेत्य शङ्कते ननु चिन्तिताविति कथमित्यादिना । यद्यप्यत्र ‘अहं च त्वं च पचावः’ इत्यादौ सहत्वानवगमेऽपि द्विवचनान्तेनान्वयदर्शनेनाधिकारश्च तद्धानिश्चेत्येकवच- नान्तस्यापि चिन्तिताविति द्विवचनान्तेनान्वयोपपत्त्या सहत्वावगमक- द्विवचनान्तस्याधिकारतद्धानी इति विशेष्यपदाध्याहारस्यानपेक्षितत्वेन चिन्तितावित्यस्य विरुद्धानेकलिङ्गावयवद्वन्द्वानुप्रयोगत्वाभावेन परवल्लिङ्गमित्यस्याप्राप्तेर्न चिन्तिते इति स्त्रीलिङ्गप्रसङ्ग इति शक्यते समाधातुम् । तथाऽप्यङ्गीकृत्य द्विवचनान्तेनान्वयोपपत्त्यर्थं सहत्वावगमकद्विवचनान्तविशेष्यपदाध्याहारं सहत्वावगमस्य लिङ्गानुप-पत्तिशङ्काऽप्रसञ्जकेनाध्याहृतेन इमौ विषयावित्यादिनाऽप्युपपन्नत्वेनतच्छङ्काप्रसञ्जकस्याधिकारतद्धानी इति विरुद्धानेकलिङ्गावयवद्वन्द्वरूपद्विवचनान्तपदस्यानध्याहार्यत्वान् नोक्तरीत्या चिन्तितशब्दे स्त्रीलिङ्गप्रसङ्ग इत्याशयेन परिहरति मैवमित्यादिना । विषयावित्येवोक्तेऽधिकारतद्धानिव्यतिरिक्तौ विषयाविति शङ्का स्यादतस्तयोरेव विषयत्वप्रतिपत्तय इतीमौ इत्युक्तं विधेयविषयापेक्षयेमाविति पुल्लिङ्गमिति ज्ञापयितुं विषयावित्युक्तमित्याहुः ॥ १-३-४ ॥

परिमल

का कथन्तेत्यत आह विप्रतिषेध इति । विप्रतिषेधे विरोधे सति परं पश्चात्तन-सूत्रोक्तमेव कार्यं कर्तव्यमिति परप्राबल्यन्यायेनेह पूर्वनिर्दिष्टपुल्लिङ्गापेक्षया परनिर्दिष्टस्त्रीलिङ्गेन भाव्य-मित्यर्थः । पुमांस्त्रियेत्येतन्नपुंस्त्वस्त्रीत्वजात्याक्रान्तविषयम् । विशेष्यविभक्तिकस्वतन्त्रस्त्रीपुंसपरञ्चेति भावः ।

यादुपत्यं

ननु चिन्तिताविति कथमिति । द्विवचनं कथमित्यर्थः । स्त्रीलिङ्गेनेत्यतः परम् एकचनेनेति शेषः । चिन्तितशब्दो हि विशेष्यनिघ्नः क्रियावचनः । तस्य चैकवचनान्तस्याप्यधिकार- स्तद्धानिश्च चिन्तितेति सकृत्प्रयोगे समुच्चयार्थकचशब्दसामर्थ्यात् ‘हरिं गुरुं च भजस्व’ इत्यत्रेव प्रत्येक सम्बन्धसिध्द्या अधिकारश्चिन्तिस्तद्धानिश्चा चिन्तिता इति बोधसम्भवान्न द्विवचनेन कृत्यं, प्रत्युतचिन्तितशब्दस्य विशेष्यनिघ्नस्य विशेष्यलिङ्गवचनत्वाद्द्विवचनान्तस्य पुल्लिङ्गस्य विशेष्यस्यत्रा-श्रवणादनन्वय एवेति भावः । नन्वेकवचनप्रयोगेऽपि चिन्तितेति स्त्रीलिङ्गेनैव भाव्यमित्यत्र किं नियामकम् । प्रथमप्रयुक्ताधिकारशब्दानुसारेण चिन्तित इति पुल्लिङ्गप्रयोगस्यैवोचितत्वादित्यत आह विप्रतिषेध इति । यद्यपि सौत्रमेव परत्वं परैरुच्यत इति नास्योदाहरणमत्रोचितम् । तथाऽप्येकस्मिन्विशेषणशब्दे विशेष्यद्वयानुसारेण विरुद्धोभयलिङ्गत्वे प्राप्ते यत्प्रयोगतः परं विशेष्यं तल्लिङ्गमेव विशेषणीभूतशब्दकार्यमित्यर्थस्याप्यत्र सूत्रे विवक्षितत्वाद् युक्तमुदाहरणमित्यवगन्तव्यम् । अन्ये तु चिन्तितश्च चिन्तिता चेत्यत्रैकशेषेकर्तव्ये, विप्रतिषेधे परं कार्यमि’ति स्त्रीलिङ्गस्यैव विशेषे, चिन्तिते इति स्त्रीलिङ्गेनैव भाव्यम् । चिन्तिताविति पुल्लिङ्गं कथमिति शङ्काभिप्रायमभिधाय तत्र न तु ‘पुमान् स्त्रिया’ इति सूत्रेणैवात्र पुल्लिङ्गशेषो भविष्यति अतः काऽत्र कथन्तेत्याशङ्क्य यत्र स्त्रीपुंसमात्रकृतं वैलक्षण्यं, ब्राह्मणश्च ब्राह्मणी चेत्यादौ तत्रैव तत्सूत्रप्रवृत्तिः । ‘तल्लक्षणश्चेद् विशेष’ इत्यनुवृत्तेः । प्रकृते चाधिकारतद्धानिरुपविशेष्यकृतवैलक्षण्यस्यापि सत्त्वेन तत्प्राप्त्यसम्भवादिति परिहृत्य, स्यादेवं यद्यधिकारतद्धानिविशेषणमेतत्स्यात् । न चैवम् । किन्त्वध्याहृतस्येमौ विषयावित्यस्यैवातो नात्र स्त्रीलिङ्गप्रसक्तिरिति समाधानाभिप्रायमाहुः ॥ १-३-४ ॥

इति श्रीमद्वेदेशतीथपूज्यपादशिष्येण यदुपतिना विरचितायां सुधाटिप्पण्यां

प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥ १-३ ॥

वाक्यार्थरत्नमाला

यद्यपि मूले तदभावश्चेति व्याख्यानेन व्याख्यानापेक्षया पुल्लिङ्गमिति सूचितम् । यच्छे्रयतयोरेकमित्येतत्पञ्चमगीताभाष्ये सन्यासः श्रेयोऽधिकः स्यादिति श्रेयःपदमनूद्य सन्यासपदानुसारेणाधिक इति पुल्लिङ्गेन व्याख्यानदर्शनात् । तथाच व्याख्यानापेक्षया सामानाधिकरण्यं सम्भवतीति प्राप्त्योक्तशङ्कादिकमनवकाशमिति भाति । तथाप्यधिकरणविषयोपक्रमानुसारेण विषयपदयोजनया प्रकारान्तरेण समाधातुं पुनः शङ्केति ज्ञेयम् । अजानता महिमानं तवेदमित्यादाविव व्याख्यानाश्रयणेनापि लिङ्गोपपत्तेः सिद्धत्वात् । विनैवैतेनेति मूलेऽधिकरणयोरित्यनेनोपस्थापित- मधिकरणद्वयमेतेनेति परामृशते । यद्वा सामान्ये नपुंसकेनैतेनेत्युक्तमिति न दोषः । एवं पूर्वेणानेनेत्युत्तरत्रापि ज्ञेयम् । अत्रेतीत्यादिकमित्यर्थ इत्यन्तमन्तर्भावेत्यादिध्येयमित्यन्तानन्तरं यथा तथापाठः । व्यत्यासो लेखकागतः । पुंसः शेषेणेति । पुमान् स्त्रियेत्यनेनेति शेषः । वक्ष्यति च पुमानित्यादिना ब्राह्मणश्च ब्राह्मणीचेत्यादाविवेति शेषः । लिङ्गकृतं तु वैरूप्यमिति पाठो मञ्जर्यनुसारी यत्रवैरूप्यमिति यत्रेति पक्ष्युक्तपाठेतु पूर्वं यत्रेत्यस्यानुवादाय स्पष्टीकरणार्थमिति न वैय्यर्थ्यं शङ्कनीयम् । विशेषकृतवैलक्षण्यादिति । न च स्त्रीपुंस्त्वातिरिक्तवैलक्षण्यं न प्रतीयत इति कथमेतदिति वाच्यम् । चिन्तितश्च चिन्तिताचेत्यनयोरधिकारतद्धानिरूपभिन्नविशेषकृतत्वस्यैव स्त्रीत्वादिव्यतिरिक्तवैलक्षण्यस्य सत्वेन तस्यैव च विशेषकृततया दोषाभावान् मञ्जर्यां पदान्तरगम्येऽपि तल्लक्षणविशेषे भवति । यथागौश्चायं गौश्चेयमेतौ गावौ चरत इतीत्यादिना यत्र स्त्रीपुल्लिङ्गयोर्ङीबाधिरूपो विशेषोनास्ति तादृशे एतौ गावौ एतौ ग्रामण्यावेतौ खलघावित्यादिरूपेऽयमित्यादिरूपपदान्तरमण्यविशेषमङ्गीकृत्य स्त्रीपुंसकृतवैलक्षण्यस्योपपादनदर्शनात् । तथा तत्रोक्तरूपवैलक्षण्यानङ्गीकारे पुमानित्यनेनैकशेषाप्राप्तेः सरूपाणामित्यनेनैकशेषस्य स्वीकार्यतया स्त्रीलिङ्गगोशब्दस्यापि विशेषसम्भवात्पक्षे तद्विशेषणीभूतैत-च्छब्दस्यापि स्त्रीलिङ्गतयैते गावावित्यापत्यैतौ गावावित्यादिकं यन्नियमतोऽस्ति तन्न स्यात् । अत्र प्रकारान्तरेणैताविति पुल्लिङ्गोपपत्तिशङ्कातत्परिहारादिप्रकारनिरूपणं तत्वबोधिन्यां ज्ञेयम् । रमायान्तु तत्तदितरकृतविशेषविरहरूपे विशिष्टाभावतात्पर्यात् । सचेह विशेषाभावादस्त्येवेत्येवं विवक्षयैतौ गावावित्यादावपि पुमानिति सूत्रप्रवृत्तिसम्भवात्तेनैकशेषे एताविति पुल्लिङ्गनियमोपपत्तिरिति प्रतिपादितमिति ज्ञेयम् । बन्धमिथ्यात्वं नैवेत्येतत्सम्बन्धिमूलटीकायां वस्तुकृतमित्यस्य वस्तुना परमार्थसता निष्पन्नमिति व्याख्यानं तत्र वस्तुनिमित्तकत्वस्य विवक्षायाः सत्वाद्वैषम्यम् । किञ्च पूर्ववाक्ये यत्र सर्वं सरूपं लिङ्गकृतं तु वैरूप्यमित्यत्र रूपसाम्यवैषम्ययोर्व्याहततया स्वरूपस्य वैषम्याजनकत्वेन शब्दस्वरूपकृतं वैषम्यं नास्तीति वस्तुमशक्यतयाच यत्र शब्दस्वरूपे साम्यं लिङ्गे च वैषम्यमित्येव विवक्षणीयत्वेन विशेषकृतमित्यत्रापि विशेष्ये विद्यमानमित्येवार्थस्य प्रकरणप्राप्तत्वात् । उक्तं च वृद्धोयूनेति सूत्रीयकाशिकायाम् । समानायामाकृतौ वृद्धयुवप्रत्ययौ भिद्येते इति । स्त्रीपुंसकृतइति मञ्जर्या अप्युक्त एवार्थः । गोत्रयुवप्रत्ययकृतं वैरूप्यमित्येतत्कौमुदीशेषीस्थनार्थकृतं शब्दस्येत्यादेरप्ययमेवार्थः । तादृशस्य वैलक्षण्यस्य च चिन्तितश्च चिन्तिताचेत्येतद्विशेष्यभूतयोरधिकार तद्धानिरूपशब्दयोः सत्वेन तदतिरिक्तवैलक्षण्यस्य चानभिधानेन तन्निषेधायोग इति ज्ञेयम् । प्रत्ययागमादीति । यद्यपीन्द्रेन्द्राणयावित्यादिष्वेकशेषनिषेधः पुंयोगादाख्यायामित्युक्त पुंयोगादित्यादिकं काशिकादावुक्तं तथापि पुंयोगनिमित्तक आनुगागमः । एवं स्त्रियामन्यत्रवा विहितः प्रत्ययोऽपि द्रष्टव्यः। तत्प्रयुक्तं वैलक्षण्यमपि प्रत्ययागमादिकृतं भवत्येवेति न दोषः । अभिमतत्वेनेति । एकशेषनिषेधं प्रति निमित्ततयेति पूरणीयम् । आगमादीति । इन्द्रेन्द्राण्यावित्यादाविवेति शेषः । एकवचनान्ते-नान्वयानुपपत्येति । ननु त्वं चाहं च पचाव इत्युत्तरत्रोदाहरणाद् भाष्ये उदाहरणाच्च तद्रीत्या युक्त एवैकवचनान्तस्य द्विवचनान्तेनान्वय इतीति चेन्न । भिन्नवचनान्तानामप्यन्वयाङ्गीकारे सर्वत्र ग्रन्थे तथाभूतानामन्वयोपपत्यर्थम् एतौ एते इत्यादिपदानामुपादानं व्यर्थं स्यात् । अत्र मूलेऽपि अधिकाररूपो विषयस्तद्धानिरूपश्च विषय इत्यध्याहारादित्येव समाधेयत्वापात्ताच्च । अपशूद्राधिकरणे हारश्चेत्वाचहारेत्वानाविति प्राप्तद्विवचनस्य व्यत्ययेनैकवचनं हारेत्वेति प्रतिपाद्य तथासति सहगोभिरस्त्वित्यत्रत्यास्त्वित्यनेन सम्बन्धानुपपत्तिपरिहाराय तथात्वे प्रत्येकमन्वय इति प्रतिपादनानुपपत्तेश्च । निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यत इति वैशेषिकाधिकरणीयानुव्याख्यानमूले प्रत्येकं सम्बन्धादेकवचनमिति प्रतिपादनेन तद्विरोधाच्च । अनुप्रमाणमेतानीत्यत्र प्रत्येकं सम्बन्धोक्तेश्च । अत एव चोपमेत्यधिकरणे ‘‘तदधीनत्वमेवेति किञ्चित्सादृश्यमेव चः । संप्रकाशयत’’ इत्यनुव्याख्यानमूले इत्युभावर्थद्वयं संप्रकाशयत इति द्वेधोक्तेश्च । अत एव महाभाष्ये शङ्काग्रन्थे त्वंचाहं च वृत्रहन्नुभौ संप्रयुज्यावहायित्येवमुभावित्य-स्यान्वयघटकतयोक्तिः ।

यदप्युच्यत इत्यादिप्रत्याख्यानं च । भाष्यस्थशङ्काग्रन्थे युष्मदस्मदोरनेकशेषभावात्त-दधिकरणानामप्यनेकशेषभावादविप्रतिषेध इत्युक्त्वा तदुपपादनाय क्रियापृथक्त्वेच द्रव्यपृथक्त्व-दर्शनमनुमानमुत्तरत्रानेकशेषभावस्येत्यभिहितं तु क्रियायामेकशेषप्रापकमपि न सर्वत्रेति तद्बलाच्चिन्ति-तादिशब्देष्वेकवचनान्तत्वेऽपि द्विवचनान्तेनान्वय इत्यपि न शङ्कावकाशवती । केचित्पक्षीयवक्ष्य-माणोक्तयनुसारेण सहत्वावगत्या द्विवचनान्तेनान्वयाङ्गीकारस्तु ग्रन्थकृत्संमत एवेत्यास्ताम् ।

अधिकारतद्धानीत्येवंरूपस्येति । अधिकारश्चेति मूलानुसारेणाधिकारतद्धानीत्येवं रूपेणाध्या-हारेप्यधिकारश्च तद्धानिरिति श्रूयमाणपदयोस्तु न वैयर्थ्यम् । अध्याहारान्तरव्या-वर्त्तनेनाधिकारतद्धानीत्येवरूपाध्याहारविशेषलाभायैव तत्पदोपयोगाङ्गीकारात् । त्वं चाहं चेत्यादि भाष्योहृतवाक्ये उभावित्यस्यैव क्रियान्वयेऽपि तत्समर्पकतयैव त्वं चेत्यादिश्रूयमाणैकवचनान्तयोरुपयोग इत्यस्य सिद्धत्वात् । उषास्वाहाचपर्जन्योमित्रोग्निरित्याद्यनुव्याख्याने उतरोत्तरतस्त्वेत इत्याद्यन्वयघटक एतइति प्रयोगदर्शनाच्च । इतीमौ विषयाविति समाधानमूलोक्ताध्याहारपक्षेऽपि श्रूयमाणपदयोरितीत्ये-तत्समर्पकतयोपयोग इति सिद्धमेव । एवमेकवचनान्तयोर्द्विवचनान्तेनान्वयानुपपत्तिशङ्कापरिहाराय मूलानुरोधेनाधिकारतद्धानी इति द्विवचनान्तपदाध्याहारमङ्गीकारयित्वा तदाश्रयणेन मूलोक्तं पुल्लिङ्गानुपपत्तिविप्रतिषेध इत्युत्तरवाक्यं विवृण्वन्नेव विशदयति । तद्विशेषण इत्यादिना । इत्यस्मिन् शब्दे इत्यस्य स्त्रीलिङ्गस्यैव भाव्यत्वादित्युत्तरेण सम्बन्धः । पुलिङ्गस्थाने स्त्रीलिङ्गप्राप्तेरिति भावः । एकशेषेऽपीति । चिन्तिताविति शब्द इत्यस्यात्रापि सम्बन्धः । तच्छब्दप्रकृतिभूतप्रातिपदिक इति च तदर्थः । अजहत्स्वार्थलिङ्गेति । स्वार्थो द्रव्यं तथालिङ्गमित्यादिना प्रातिपदिकार्थनिरूपणावसरे स्वार्थद्रव्यलिङ्गसङ्ख्याकारकरूपपञ्चक्वचतुष्कत्रयद्वयपक्षेष्वपि लिङ्गस्यापि प्रातिपदिकार्थत्वोक्तेः स्वार्थेत्युक्तम् । स्पष्टं चेदं बहुषु बहुवचनं प्रातिपदिकार्थेत्यादिसूत्रीयकैय्यटमञ्जरीशेष्यादाविति ज्ञेयम् । यद्वा यानि पदानि स्वस्वार्थस्य लिङ्गं न जहाति लिङ्गत्रयेपि नियतलिङ्गानि आदिर् विषय इत्यादीनि पुल्लिङ्गादीनीति यावत् । तत्पदातिरिक्तेति योज्यम् । विरुद्धानेकलिङ्गावयवद्वन्द्वरूपेति । न च विशेष्यस्यैकलिङ्गतया कथं तदनुरोधेन चिन्तितावित्यत्रानेकलिङ्गप्राप्त्यभिधानमिति वाच्यम् । नह्यत्र विशेष्ये लिङ्गद्वयमपि तिष्टतीत्युच्यते । अपितु विरुद्धलिङ्गावयवत्वप्रयुक्तं लिङ्गद्वयं प्राप्तमित्येव । ततश्च लिङ्गद्वयप्राप्तौ तन्निर्धारणाय परवल्लिङ्गमिति सूत्रप्रवृत्तेः सिद्धतया कुक्कुटमयूर्यावित्यादिविशेष्यपद इव विशेषणपदेऽपि परवल्लिङ्गमिति सूत्रप्रवृत्तेः प्राक्च लिङ्गद्वयं प्रसक्तमिति युक्ताऽनेकलिङ्गप्राप्तिः । तथाच विशेष्येऽनेकलिङ्गप्राप्तिवद्विशेषणीभूतचिन्तित शब्देऽपि एकशेषोत्तरं विरुद्धलिङ्गकाधिकारतद्धा-निरूपावयवकद्वन्द्वरूपविशेष्यानुसारेण विरुद्धलिङ्गद्वयप्राप्तिः स्यादेव । विशेष्ये परवल्लिङ्गमित्य-नेनैकलिङ्गनिश्चयेऽपि वस्तुतस्तत्र तदुभयलिङ्गप्रसक्तिरनिवार्यैवेति परेणापि स्वीकृतत्वात् । तथाचावयवलिङ्गनिमित्तकमेव विशेषणपदे लिङ्गद्वयं प्रसक्तमित्युक्तौ न कोपि दोषः । अत एव विशेष्यवत्परवल्लिङ्गमित्यनेन परवल्लिङ्गताचिन्तितशब्देऽभिधास्यत इत्यलम् ।

युगपदनेकेति । अत्रापि पूर्वोक्तरीत्या लिङ्गद्वयप्राप्तिरवधेया । ततस्तदनुपपत्तिमुद्भाव्य पर्यायेणतत्प्रसङ्गाभिधानं युक्तमेव । मञ्जर्याद्यनुसारेण चेदमुक्तमिति ज्ञेयम् । द्वन्द्वानुप्रयोगे परवल्लिङ्गमिति । अयंभावः । सूत्रे द्वन्द्वतत्पुरुषयोरिति न सप्तमी किन्तु षष्ट्येव । तत्रापि समासार्थस्य लिङ्गातिदेशाद् द्वन्द्वार्थस्य तत्पुरुषार्थस्यचेत्यर्थः । तथाच समासार्थस्य समास इवानुप्रयोगेऽपि सत्वेन परवल्लिङ्गताविधानं युक्तमेव । अत एवोक्तं मञ्जर्यां परवल्लिङ्गमितिसूत्रे द्वन्द्वस्य तत्पुरुषस्यचेति द्वन्द्वार्थस्य तत्पुरुषार्थस्यचेत्यर्थः । तेनानुप्रयोगेपि तदेव लिङ्गं भवतीति । एवं शेष्यादावपि । अधिकः सूत्रविचार आकरे । तत्र परपदात्पूर्वमित्यादेरुक्तेः । किञ्चोक्तार्थानङ्गीकारे इमे एता इत्यादिरूपानुप्रयोगे एकशेषोत्तरं परवल्लिङ्गतापि न सिध्येत् । त्यदादीनि सर्वैर्नित्यमिति सूत्रे मिथस्त्यदादिषु यद्यत्परं तच्छिष्यत इत्युक्तावपि एकस्मिन्नेव त्यदादिशब्दे स्त्रीपुंस्त्वकृतवैलक्षण्ये सति परशेषविधायकत्वाभावेन तेनैकशेषाप्रसङ्गात् । अत्र द्वन्द्वतत्पुरुषविशेषणनामिति वक्तव्यमिति भाष्यकृता द्वन्द्वतत्पुरुषविशेषण-योस्त्यदादीनीति सूत्रेण एकशेषोऽङ्गीक्रियत इत्युक्तेश्च । उक्तं च कैय्यटे । न्यायसिद्धमिदम् । परवल्लिङ्गद्वन्द्वतत्पुरुषोरिति समासार्थस्य लिङ्गातिदेशात्तद्विशेषणस्यापि सर्वनाम्नस्तल्लिङ्गस्य सिद्धत्वादिति । मञ्जर्यामपि समासार्थस्य लिङ्गातिदेशात्तद्विशेषणस्यापि सर्वनाम्नस्तदेव लिङ्गं भवतीति प्रतिपादनात् । एवं चानुप्रयोगे प्रकारान्तरेणैकविशेषानुपपत्तेः पुमान् स्त्रित्येत्यनेनैकशेष इत्येव वाच्यम् । तदुत्तरं च परवल्लिङ्गमित्यनेन परवल्लिङ्गतायामिम इत्यादेर्निष्पत्तिश्च वाच्या । तथाच कथमनुप्रयोगे परवल्लिङ्गत्वानाश्रयणम् । एतेन द्वन्द्वतत्पुरुषयोरित्यस्य यथाश्रुतार्थाश्रयणेनानुप्रयोगे परवल्लिङ्गत्वानुप-पत्तिचोदनमप्यनवकाशमिति ॥

मयूरीपदलिङ्गवदिति । नचेमे इत्यस्य कुक्कुटमयूर्यावित्येतदनुप्रयोगतया कुक्कुटमयूरीपदमात्र-लिङ्गत्वाभावेन तल्लिङ्गत्वोक्तययोग इति वाच्यम् । मयूरीपदमात्रलिङ्गत्वोक्तेः प्रकृते अभावेन मयूरीपदलिङ्गत्वमात्रोक्तेश्चोभयपदलिङ्गत्वाविरोधेनात्र क्षुद्रोपद्रवानवकाशात् । किञ्च इमे इत्यत्रत्य-स्त्रीलिङ्गमयूरीपदेऽप्यस्तीति तस्य तल्लिङ्गत्वोक्तिमात्रस्योपपन्नत्वेऽपि कुक्कुटपदगतपुल्लिङ्गस्येमे इति पदेसमवेततयेमे इत्यत्रोभयपदलिङ्गत्ववचनस्यैवायोगः । अपि च परवल्लिङ्गतोत्तरमैकपद्यप्रयुक्तैकपदे परपदलिङ्गमात्रमेव भवति । तथा च तदेव लिङ्गं पूर्वपदलिङ्गतयाऽपि व्यवह्रीयमाणमित्येव । न तु पूर्वोत्तरपदयोर्लिङ्गद्वयमस्ति । येनोभयलिङ्गत्वं वक्तव्यत्वेन वाच्यं स्यात् । उत्तरपदलिङ्गमेव पूर्वपदीयमित्येतावपि पूर्वपदं तेन लिङ्गेन लिङ्गवदित्युच्यत इति तस्यास्वाभाविकत्वम् । स्वाभाविकमेव हि तल्लिङ्गतयोच्यमानं युक्तम् । ततश्चेम इत्यत्र स्त्रीलिङ्गस्य मयूरीपदस्वाभाविकत्वलिङ्गत्वेऽपि कुक्कुटपदस्वाभाविकलिङ्गत्वाभावेनोभयपदस्वाभाविकलिङ्गत्वाभावात्तदङ्गीकृत्य मयूरीपदलिङ्गत्व-निराकरणायोगः । उभयानुप्रयोगत्वमात्रेणोभयलिङ्गत्वशङ्कनं चानवकाशम् । परवल्लिङ्गतोत्तरं परपद-लिङ्गत्वस्वीकारिणाऽपि उभयानुप्रयोगतां स्वीकृत्यैव तत्स्वीकारस्य कृतस्य कृततयोभयानुप्रयोग-त्वस्याप्रयोजकत्वाद् उत्तरपदलिङ्गेन पूर्वपदस्य लिङ्गवता व्यवहारमात्रस्येष्टत्वेऽपि वस्तुतस्तदभाव इत्युक्तमेवेत्यलम् । तद्धानिपदलिङ्गस्यैवेति । अत्रापि परवल्लिङ्गत्वप्रयुक्तं परपदलिङ्गमेवास्तीत्याशयेन तद्धानिपदेत्येवोक्तम् । शिष्टमुपपादनं पूर्वोक्तरीत्येति न कश्चिक्षुद्रोपद्रवः । विप्रतिषेधे परमिति मूलस्य प्रतीतार्थानुपपत्तेरनुकरणरूपमूलाभिप्रेतमर्थं वक्तुं विप्रतिषेध इत्येतत्तावद्य्वाचष्टे । विरुद्धलिङ्गद्वयेति ।

संगृह्णातीति । अनेन परं कार्यमिति परकार्यविधायकपरवदिति सूत्रेणेत्यर्थ उक्तो भवति । अनुकरणस्वभावश्च मूलकारः । अत्रपदेऽन्ययोगव्यवच्छेदः पादप्रयोजनम् इत्युक्तत्वाद् एवकारार्थो हि स प्रसिद्धः । उपसर्गत्वतो वेस्त्वित्युत्तरपादव्याख्यावसरे उपसर्गाः क्रियो योग इति शङ्कावाक्यम् । अधिकमन्तराधिकरणे उदाहृतं ज्ञेयम् । तथाऽसम्भवस्तु सतोनुपपत्तेरित्येतत्सूत्रीयस्वतन्त्रत्वात्परमात्मन इत्यनुभाष्यमूलेऽनवस्थितेरसम्भवाच्चेति युक्तिरुक्ता । यदि किमपीत्यादिना टीकायामर्थान्तरं च कथितम् । यदुपतीये च । यद्यपि अधिकारतद्धानी इति विशेष्यमध्याहृतमित्येकमेव लिङ्गं प्राप्नोति । तथापि विरुद्धलिङ्गावयवद्वन्द्वतयाऽन्तर्गतं लिङ्गद्वयं परवल्लिङ्गताविधिप्रवृत्तेः प्राक् प्राप्तमस्तीति तद्विशेषणेऽपि परवल्लिङ्गताविधिप्रवृत्तेः प्राक् लिङ्गद्वयप्राप्तिरनिवार्यैव । विरुद्धपदन्तु लिङ्गद्वयापत्तौ तदुभयमप्येकत्रास्त्वित्याशङ्कापरिहारायां तेन लिङ्गयोर्विरुद्धयोरेकत्र समावेशायोगादन्यतरव्यवस्थापनार्थं परवल्लिङ्गमित्यस्य प्रवृत्तिरावश्यकीति प्रतिपादितमिति न विरुद्धपदस्य वैयर्थ्यशङ्कावकाश इति ज्ञेयम् । परवल्लिङ्गं द्वन्द्वेति । ननु चिन्तितावित्यस्यैकपदतया समासत्वाभावेन परवल्लिङ्गमिति सूत्रप्रसक्तययोग इति चेन्न । ऐकपद्यस्य समासप्रयोजनत्वेन समासव्यावर्त्तकत्वानुपपत्तेः । एकशेषस्य सत्वात्समासाभाव इत्यत्र तात्पर्यमिति चेन् न । एकशेषस्य द्वन्द्वापवादत्वेन नपुंसकमनपुंसकेनेत्यादिसूत्रवृत्यादौ वैय्याकरणैरुक्ततया द्वन्द्वप्रसक्तयभावे एकशेषप्रवृत्ययोगेन पूर्वपदासमासत्वव्यवहारोपपत्तेः । वस्तुतस्तु द्वन्द्वार्थस्यैव ग्रहणमिति प्रागुपपादनादेकपदत्वेऽपि एकशेषेऽपिवा द्वन्द्वार्थस्य सत्वाद्युक्ता तत्सूत्रप्रवृत्तिरिति न कश्चिद्दोषः । अध्याहारेणापीति । ननूक्तपदाध्याहारवदधिकारतद्धानी इति पदाध्याहारस्यान्वयानुपपादकत्वात्कथं समुच्चयार्थकापिशब्दप्रयोग इति चेन्न । उक्तार्थास्मरणात् । उक्तं हि एकवचनान्तस्य द्विवचनान्तेनान्वयानुपपत्याऽध्याहारे कृते तदनुपपत्तिपरिहारमात्रं तेनाध्याहारेण भवत्येव । पुल्लिङ्गान्वयानुपपत्तिस्त्वध्याहारोत्तरमुद्भाव्यत इति न तत्परिहारकत्वमध्याहारस्यावश्यक- मित्यादि । अत एवात्र एकवचनान्तेनान्वयेत्यादिनाऽध्याहारनिमित्तानुवादः । वक्ष्यति च । अधिकारतद्धानी इत्येवंरूपलिङ्गानुपपत्तिशङ्काप्रापकाध्याहारस्याकर्त्तव्यत्वादिति । विषयावित्यादिपदं तु मूले उपलक्षणतया अभिप्रेतेमावर्थावित्यध्याहारान्तरविवक्षयेति न कश्चिद्दोष इति ज्ञेयम् । विधेयलिङ्गापेक्षयेति । न च विषयाविति विधेयमनपेक्ष्यापि चिन्तितावित्युपपत्तये इमावित्येव पुल्लिङ्गाध्याहारसम्भव इति वाच्यम् । चिन्तितावित्युपपत्तये पुल्लिङ्गाध्याहारस्यावश्यकत्वे अधिकारश्च तद्धानिरित्येतदनन्तरमितीमावित्येवाध्याहृते चिन्तिताविति द्विवचनान्तेनान्वयोपपत्तावपि अधिकारश्च तद्धानिरितीमे इत्यन्वयापत्या इतीमावित्यस्याधिकार इत्यादिनान्वयायोगात् । अतोविषयावित्य-प्यध्याहार्यम् । तथाऽधिकरणान्तरे विषयप्रतिपादनोपक्रमेणात्र विषयत्वपुरस्कारस्यैवावश्यकतया विषयावित्येवावश्यं पूरणीयत्वात् । ततश्चेतीमाविति पुल्लिङ्गस्याधिकारश्च तद्धानिरित्युक्ताधिकारतद्धानि- विवक्षया सम्भवेऽपि विषयताविधायकविषयावित्यनेनान्वयोपपत्तेर्विधेयलिङ्गापेक्षयैवोपपत्तिरित्य-वश्यमाश्रयणीय मित्यशेषमतिमङ्गलम् ।

वामनाधिकरणम्