अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ
देवानामधिकारस्य शूद्रानामनाधिकारस्य च प्रसङ्गादुपन्यासः
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ
सुधा
नन्वेतद्द्वयमत्र न विचारणीयम् । असङ्गतत्वात् । तथाहि । सङ्गतिस्तावद्द्विविधा भवति । अन्तर्भावलक्षणाऽऽनन्तर्यलक्षणा च । तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति । समन्वयलक्षणे प्रथमाध्यायेऽनन्तर्भावस्य भवद्भिरेवोक्तत्वात् । अध्यायानन्तर्भूतयोश्च पादान्तर्भावा-सम्भवात् । उत्तराऽपि षोढा भवति । प्रसङ्गोपोद्धातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् । तत्र न तावत्प्रथमाऽत्रास्ति । स्मारकाभावात् । न द्वितीया । विनैव तेन प्रकृतसिद्धेः । न तृतीया । समन्वयशेषेणावरुद्धत्वात् । न चतुर्थी । उत्तरं प्रबन्धं प्रति कारणत्वापलम्भात् । न पञ्चमी । पूर्वप्रबन्धकार्यत्वादर्शनात् । नापि षष्ठी । पूर्वेणानेनोत्तरेण चैकस्याजननात् । तस्मादिदं नेहावकाशमर्हतीत्यत आह अधिकारश्चेति ।
अनुव्याख्यानम्
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ॥ ४ ॥
अन्तर्भावलक्षणसङ्गत्यभावेऽपि देवानां वेदविद्याधिकारस् तदभावः शूद्रादीनामत्र प्रसङ्गादेव चिन्तितौ । प्रसङ्गश्च मनुष्याधिकारत्वादिति पूर्वसूत्रोक्त्योपोद्बलित इति भावः । न च प्रसक्तानुप्रसक्तचिन्तनेऽतिप्रसङ्गः । प्रयोजनभावाभावाभ्यां व्यवस्थानात् । प्रकृते च ‘विश्वेदेवा उपासते’ इत्युक्तोपपन्नत्वादिकं प्रयोजनमस्ति ।
शेषवाक्यार्थचन्द्रिका
अत्रेति । तृतीयाध्यायेऽसार्वत्रिकीत्यादावधिकारचिन्तनाद् देवादीनामधिकारभावाभावचिन्ता तत्रैव कर्तव्या, न तु समन्वयप्रतिपादकेऽस्मिन्नव्याय इत्यर्थः । कुतस्तृतीय एवेयं चिन्ताकरणीया, न त्वत्र इत्यतोऽधिकरणमात्रस्य सङ्गतिपञ्चकोपेतत्वनियमात्तृतीये सङ्गतिपञ्चकलाभात्तत्र कर्तव्यात्वापपत्तावपि अत्र शास्त्रसङ्गतिमात्रसम्भवेऽपि अध्यायादिसङ्गतिचतुष्ट-यासम्भवान्नात्र कर्तव्यता सम्भवतीत्यभिप्रेत्याह असङ्गतत्वादिति । कथमध्यायादिसङ्गत्यभाव इत्यतोऽधिकरणस्याध्यायपादसङ्गतेरन्तर्भावरूपत्वादधिकरणादिसङ्गतेश्चानन्तर्यरूपत्वात्तयोश्च प्रकृतेऽसम्भवात् सङ्गत्यभावसिद्धिरिति भावेन सङ्गतिद्वैविध्यमाह सङ्गतिस्तावदिति ॥ अनन्त-र्भावस्येति । तदर्थप्रतिपादकस्यैव तदन्तर्भावनियमात् । अस्य च समन्वयाप्रतिपादकत्वान्न तत्प्रतिपादकेऽध्यायेऽन्तर्भाव इत्यर्थः । यद्यपि ‘दैवतैरपि । ज्ञेयो न वेदैः शूद्राद्यैः’ इति संक्षेपोक्तेः । अतो देवानां वेदविद्याधिकाराभावान्न तदुपास्यत्वं लिङ्गं विष्णोः सम्भवतीत्र-त्यैतदधिकरणपूर्वपक्षटीकानुसारात् । ‘अतो देवानां सर्वविद्याधिकारित्वात्तदुपास्यत्वं हरेर्युक्तमिति । अतो हरिः शूद्राद्यैर्वेदविद्याविज्ञेयो न भवती’ति चैतदधिकरणद्वयसिद्धान्तोपसंहारटीकानुसाराच्च देवोपास्यत्वादिलिङ्गसमन्वयपरत्वस्य स्थितेर् अध्यायार्थसमन्वयप्रतिपादकतयाऽध्यायेऽन्तर्भावोऽस्त्ये-वेति नानन्तर्भावोक्तिर्युक्ता । तथाऽपि फलितदेवोपास्यत्वादौ सङ्गतिप्राप्तावपि मुखतो व्युत्पाद्येऽधिकारादौ न सङ्गतिरिति तदभिप्रायेणायं ग्रन्थ इति द्रष्टव्यम् । अध्यायानन्तर्भूतयोरित्यतः परम् अधिकरणयोरित्यनुवर्तते ॥ असम्भवादिति । पादानन्तर्भूतस्याध्यायानन्तर्भूतत्वनियमा- दध्यायानन्तर्भूतस्य न पादान्तर्भाव इति भावः । एवमध्यायपादान्तर्भावरूपतत्सङ्गत्यभावमुपपाद्य अधिकरणश्रुत्यानन्तर्यरूपाधिकरणादिसङ्गत्यभावमुपपादयिष्यन् तस्य तद्विभागामाह उत्तराऽपीति ।
कास्ता विधा इत्यतः
‘स प्रसङ्ग उपोद्धतो हेतुतावसरस्तथा ।
निर्वाहकैककार्यत्वे षोढा सङ्गतिरिष्यते’ ॥
इत्यभियुक्तोक्तिं मनसि निधाय ता विधा निर्दिशति प्रसङ्गेत्यादि । तत्र प्रसङ्गो नाव्यवतिप्रकरणेन, तेनैव वा प्रकरणेन, स्मारितस्यार्थस्योपेक्षानर्हत्वम् । तथा सति क्वचिदव्यवहितपूर्वप्रकरणेन क्वचिच्च तेनैव स्मारणविवक्षायामननुगमापातात् । किन्तु लाघवात् स्मृतस्योपेक्षानर्हत्वमेव । प्रकृतसिद्ध्युपयोगिनी चिन्तोपोद्धातः । प्रतिबन्धकजिज्ञासापगमोऽवसरप्राप्तिः । कारणत्वं चात्र प्रयोजनकत्वमेव विवक्षितम् । सङ्ग्रहेऽपि हेतुतापदेन तदेव विवक्षितम् । कार्यत्वं प्रयोज्यत्वम् । सङ्ग्रहेऽपि निर्वाहकत्वमुक्त-रूपकार्यत्वमेव कार्यस्यापि कारणनिर्वाहकत्वात् । यत्तु प्रकृतोपयोग्युपपदकतया, प्रकृतोपपदाकोप-पादकतया वा, प्रयोजकत्वापरपर्यायं निर्वाहकत्वं सङ्ग्रहे विवक्षितमिति । तन्न । तथा सति कार्यत्वाख्यापरसङ्गतिप्रसङ्गात् । एकं कार्यं यस्येति व्युत्पत्त्यैककार्यानुकूलत्वमेवैककार्यत्वम् । अत्र
षोढेति न नियमपरम् । तथा सति यत्र पूर्वोक्तातिप्रसङ्गवारणार्थमन्यदभिधीयते तत्रापवाद-लक्षणायास्तथा यत्राधिकाशङ्कां कृत्वा पूर्वस्यातिदेशस् तत्रातिदेशस् तत्रादिदेशिक्याः सङ्गतेभाव-प्रसङ्गात् । किं त्वानन्तर्यसङ्गतेरनेकविधत्व एव । अत एव चन्द्रिकायामानन्तर्यसङ्गतेर्बहुप्रकार-त्वमेवोक्तम् । व्यवहृतं च तत्र तत्रातिदेशापवादयोरपि सङ्गतित्वमित्यवधेयम् । अत्रेति । देवताधिकरणापशूद्राधिकरणयोरित्यर्थः ॥ अन्तर्भावलक्षणसङ्गत्यभावेऽपीति । मुखतो व्युत्पाद्ये देवताधिकारादाविति शेषः । फलिते देवोपास्यत्वे तत्सत्त्वादिति ध्येयम् । ननु स्मारकाभावान्न प्रसङ्गः सम्भवतीत्युक्तमित्यत आह प्रसङ्गश्चेति । उक्त्योपोद्बलित इति तथोक्तिरेव स्मारिकेति भावः ।
परिमल
प्रसङ्गेत्यादि । स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । यथा द्वितीये ‘उत्क्रान्तिगत्यागतीनाम्’ इति नये जीवाणुत्वे हेतूकृतोत्क्रान्तिगत्यागतीनां ‘स्वात्मना चोत्तरयोरि’ति सूत्रे भगवदधीनत्वचिन्तनं प्रासङ्गिकम् । प्रकृतप्रमेयोपयुक्तचिन्तनमुपोद्धातः । यथा जिज्ञासासूत्रे जिज्ञासाकर्तव्यत्वचिन्तनं चिकीर्षितत्वेन बुद्धौ प्रकृतशास्त्रकर्तव्यत्वोपयुक्तम् । उक्तं हि चन्द्रिकायां, ‘शास्त्रेणास्यौपोद्धातिकी सङ्गरिति’ति । वक्तव्यस्य सर्वस्योक्त्यनन्तरं प्राप्तिरवसरप्राप्तिः । यथा पञ्चाधिकरणीतः पश्चादध्यायस्य आरभ्यत्वम् । कारणकार्यत्वेति कारणत्वकार्यत्वेत्यर्थः । वक्ष्यमाणं प्रति कारणत्वमेका सङ्गतिः । यथा समन्वयसूत्रमीक्षतिनयस्य मुख्यवृत्त्या समन्वयस्योक्तावेव तत्साधनायोत्तरस्योत्थानात् । यथा वा आद्याद्वितीयाध्याययोः समन्वयोक्तावेव तत्राविरोधसाधनस्योत्थानात् कार्यत्वसङ्गतिः । यथा गुहां प्रविष्टावित्यस्य अत्तेतिनयकार्यत्वम् । सामान्यचिन्तनस्य विशेषचिन्तां प्रति कारणत्वेन तस्य तत्कार्यत्वात् । पूर्वेणोत्तरेण चैककार्यकरत्वम् । यथा समन्वयसूत्रं शास्त्रयोनिसूत्रेण पूर्वेण सह जगत्कारणत्वं विष्ण्वैकनिष्ठमिति निर्णयं करोति । जिज्ञासासूत्रं चोत्तरेण जन्मादिसूत्रेण सह जिज्ञासाकर्तव्यत्वनिर्णयरूपमेकं कार्यं करोतीत्यादि ध्येयम् । अवरुद्धत्वात् । प्रतिरुद्धत्वादित्यर्थः ॥ प्रसङ्ग इति । स्मृतत्वरूपः । उपोद्बलितः प्रबलित इत्यर्थः । इत्युक्तोपपन्नत्वादिकमिति । देवानामनधिकारे देवा उपासत इत्यस्य अप्रामाण्यापातेन तदुपास्यत्वं ब्रह्मणो ऽनुपपन्नम्
अधिकारे सत्युपपद्यत इति भावः । आदिपेदन मनुष्याधिकारत्वादित्यस्य सामान्यपरस्य पर्युदस्तेतरपरतया प्रमाणाविरुद्धत्वं ग्राह्यम् । एतेन देवोपास्यत्वलिङ्गस्य फलतः समन्वयसिद्धेः फलतोन्तर्भावसङ्गतिरपि सूचिता ।
यादुपत्यं
समन्वयशेषेणेति । समन्वयशेषजिज्ञासया प्रतिबद्धत्वादित्यर्थः । तथाच न प्रतिबन्धकजिज्ञासाविच्छेदरूपावसरप्राप्तिलक्षणा सङ्गतिरित्यर्थः ।
श्रीनिवासतीर्थीया
उक्तत्वादिति । न समन्वयसमर्थनार्थमित्यादिनेत्यर्थः । अत्र देवानामधिकारसमर्थने ॥ स्मारकेति । स्मृतस्योपेक्षानर्हत्वस्य प्रसङ्गलक्षणत्वादित्यर्थः । तेन देवाधिकारसमर्थनेन ॥ प्रकृतेति । समन्वयेत्यर्थः ॥ अवरुद्धत्वादिति । तथाच प्रतिबन्धक-जिज्ञासाविच्छेदो नास्तीति भावः । अनुपलम्भाद् अधिकारसमर्थनस्येति शेषः । प्रसक्तिश्च मनुष्याधिकारत्वादित्यक्ते इत्यादिना भाष्ये दर्शिता ।
वाक्यार्थरत्नमाला
देवादीनामिति । आदिपदेन त्रिवर्णेतरपरिग्रहः । देवानामधिकारभावो ऽन्येषामधिकाराभावश्च तयोश्चिन्तेति यथायोग्यं सम्बन्ध इति ज्ञेयमिति । अध्यायानन्तर्भूतत्वेऽपि पादान्तर्भावः कुतोन भवति विनिगमनाभावेन तदनन्तर्भूतस्यापि पदान्तर्भावोपपत्तेरित्यतोऽ- व्यभिचरितसामानाधिकरण्यस्यैव नियामकत्वान्नानुपपत्तिरित्याशयेन मूलेऽभिप्रेतां व्याप्तिं दर्शयति । पादन्तर्भूतस्याध्यायान्तर्भूतत्वनियमादिति । अनेन विमताधिकरणे पादानन्तर्भूते अध्याया-नन्तरर्भूतत्वादित्यत्र पादान्तर्भूतत्वव्यापकमध्यायान्तर्भूतत्वमिति व्यापकाभावलिङ्गेन व्याप्याभाव-साधनमिति सूचयता व्यभिचारभावप्रतिपादनादव्यभिचरितसामानाधिकरण्यं नियामकतया मूलाभिप्रेतं दर्शितं भवतीति ज्ञेयम् । क्वचित्पादानन्तर्भूतस्याध्यायानन्तर्भूतत्वेति नञ्गर्भः पाठः सतु समव्याप्त्यभिप्रायेण व्याख्येयः । यद्वा वह्निमानेव धूमवानित्यादाविव पादानन्तर्भूतस्या-ध्यायानन्तर्भूतत्वनियमोऽपि पादानन्तर्भूतमेवाध्यायनन्तभूर्तत्वमिति व्याप्तिरेव व्यभिचाराभावप्रदर्शनेन स्फुटीकृतेति तत्पाठेऽपि न दोष इति ज्ञेयम् । अत्र षोढेति न नियमपरम् । तथासति यत्र पूर्वोक्तेत्यादिका टीका । तत्र यत्र पूर्वोक्त इति । पूर्वाधिकरण सिद्धान्तः पूर्वोक्तपदेनेष्टं ह्यतो तथाच पूर्वाधिकरणसिद्धान्तेऽतिप्रसङ्गोनाम तन्न्यायेनान्यदपि स्यादिति पूर्वपक्षः । यथाऽन्तस्थत्वाधिकरणे यदि ब्रह्मशब्दादानन्दमयो ब्रह्म तर्हीद्रादिशब्दादंतस्थ इन्द्रादिर्नतु ब्रह्म तच्छब्दाभावादिति पूर्वसिद्धान्तन्यायेन पूर्वपक्षः । यद्वा यदि ब्रह्मेत्यादिना चन्द्रिकोक्तः । अन्यदभिधीयत इति । पूर्वाधिकरणोक्तश्रुत्या निर्णयमपोद्यलिङ्गेन निर्णय उच्यत इत्युक्ताधिकरणीयचन्द्रिकानुसाराद् विष्णोरन्तस्थत्वसाधकतया श्रुतिं परित्यज्य लिङ्गमुच्यत इत्येवमपवादसङ्गतिस्वरूपसिध्याऽन्यत् पूर्वोक्तसाधकादन्यत् साधकमुच्यत इत्यर्थः । उक्तं च तन्त्रचूडामणावर्थवादपादे प्रथमाधिकरणे
पूर्वसिद्धान्तता यत्र पूर्वपक्षः प्रवर्त्तते ।
तत्रापवादिकी प्रोक्ता सङ्गतिर्न्यायवेदिभिः ॥ इति ।
एतेनातिप्रसङ्गपरिहारसमुचितस्यैव च पूर्वोक्तप्रमाणस्य विवक्षितार्थनिर्णयजनकत्वादसङ्गति-स्थलेप्यक कार्यत्वरूपैव सङ्गतिरित्यधिकसङ्गत्यभाव इत्युमर्जीकोक्तं मूर्खप्रलपितमिति च सिद्धम् । अपवादसङ्गतेरधिकरणस्याधिकरणान्तरनिरूपितायाः स्वरूपेण लक्षणकारिकयोदाहरणेन चाज्ञानात् । पूर्वोक्तप्रमाणस्येत्यनेन हि परेणेदमुदितं भवति । पर्वतस्य वह्निमत्वे धूमरूपप्रमाणे केनचिदभिहिते तर्हि धूमादेव स्थाल्यादिकमपि किं नानुमीयत इत्यतिप्रसङ्गशङ्कायां धूमस्य वह्निनेव स्थाल्यादिना व्याप्त्यभावान्नातिप्रसङ्ग इत्येवं तत्परिहारसमुच्चितस्य पूर्वप्रमाणस्य विवक्षितार्थनिर्णयजनकत्वमिति । नचैवमादिस्थले पूर्वोक्तप्रमाणेऽतिप्रसङ्गपरिहारकरणमपवादसंगत्येति शास्त्रसंस्कारमात्रवानपि समर्थो वक्तुम् । अन्तराद्यधिकरणभावबोधादावुक्तायाः पूर्वमीमांसायामपि तत्र तत्राधिकरणे प्रदर्शिताया अपवादसङ्गतेरेवमन्यथाकरणे तत्वप्रकाशिकाभावबोधादिज्ञानाभावोऽपि प्राप्तः । चन्द्रिकातु परेण न ज्ञायत एव । चन्द्रिकास्थाक्षेपिक्यातिदेशिक्यावित्येतत्कारिकाश्लोकस्य वृद्धश्लोकश्चन्द्रिकोदाहृत इति भ्रान्त्या भवतावृद्धश्लोकताया वक्ष्यमाणत्वाद् अन्तराद्यधिकरणस्थचन्द्रिकाया ज्ञानाभावः स्पष्ट एव । उपोद्घातसङ्गतेरप्येककार्यत्वान्तर्भावस्य प्राप्तेश्च । एवमन्यत्रापीत्यन्तम् । यत्राधिकांशकामिति । यत्र पूर्वाधिकरणसिद्धान्तन्यायेनाधिकरणान्तरस्य गतार्थन्ताशङ्कायां पूर्वापेक्षया अधिकाशङ्कां कृत्वाऽधि-करणारम्भस्तच्छङ्कानिरासार्थेतु पूर्वोक्तन्यायस्यैवातिदेशः क्रियते इत्यर्थः । प्राणाधिकरणीयातिदेशोहि तादृश इत्यनुव्याख्यानव्याख्यावसरे मूले तादृशो ह्यतिदेशो यदा शङ्कायाम् आधिक्ये सति परिहारस्य समानत्वम् । यद्याशङ्कायां न विशेषस्तर्हि पूर्वेणैव परिहृतत्वात्प्राचीनन्यायातिदेशनमनर्थकं स्यात् । प्रत्युदाहरणशङ्कापरिहारे शास्त्रापर्यवसानप्रसङ्गात् । यदिच परिहारोऽविशेषितो नस्यात्कथं तर्ह्यत एवेत्यतिदेश इतीत्युक्तत्वेनोक्तरीत्याऽतिदेशसङ्गतिस्वरूपसिद्धेः । सति चैवं टीकोक्तमाधिक्यं निरसितुं यदुमर्जीकेनातिदेशिक्या एककार्यत्वेन्तर्भावमुपपादयितुमुक्तं प्रसङ्गसिद्धेऽप्यर्थेऽभ्यधिकाशङ्काया अभावात्प्राणेन विना च सिद्धेरभावात्पूर्वप्रमाणसिद्धेर्थेऽभ्यधिकाशङ्कानिराससमुच्चितस्यैव पूर्वोक्त-प्रमाणस्य विवक्षितार्थनिर्णयजनकत्वादिति । तत्पूर्वोक्तरीत्या भावबोधाद्यज्ञानमूलकमिति स्पष्टमेव ।
किञ्च पूर्वप्रमाणेत्यनेनेदमुदितं भवति । धूमादिरूपप्रमाणेन वह्न्यादिरूपेऽर्थे सिद्धेऽप्रयोजक-त्वाशङ्कारूपाभ्यधिकाशङ्कायां तर्केण तन्निरासे सति तत्समुच्चितस्य पूर्वप्रमाणस्य विवक्षितार्थनिर्णय-जनकत्वमिति । न चैवमादिस्थलेऽभ्यधिकाशङ्केति व्यवहारः शास्त्रवासनावताम् । नवा तन्निरासाय पूर्वोक्तधूमादिप्रमाणस्यैवातिदेशः क्रियत इति सचेतनः सम्भावयत्यपि । पूर्वाधिकरणस्योत्तराधिकरणेन सङ्गतिनिरूपणावसरे पूर्वप्रमाणेनेति प्रमाणपुरस्कारोऽज्ञानमूलक इत्यपि पूर्वप्रकारेण सिद्धमेव । उपोद्घातसङ्गतेरप्युक्तरीत्यैककार्यत्वेऽन्तर्भावप्राप्तेश्च । एतेनैव तस्मादिति देशापवादसङ्गत्योरि-त्युपसंहारोऽपि निरस्तः । उक्तरीत्या आधिक्यस्यानिवार्यत्वात् । न्यूनताप्राप्तेश्चेत्यन्तम् । इदंचापवादातिदेशसङ्गत्योराधिक्यकथनमुपलक्षणम् ।
पूर्वन्यायात्ययो यत्र प्रत्युदाहरणातु सा ।
बुद्धिस्थं चिन्त्यते यत्र बुद्धिस्थानात्मिका मता ।
इत्युक्तलक्षणकप्रत्युदाहरणबुद्धिस्थानात्मकसङ्गत्योरप्युक्तातिरिक्तयोः सत्वेन षोढेत्यस्य नियमपर-त्वानुपपत्तेरित्यपि ज्ञेयम् । अन्तस्थत्वाधिकरण एव चन्द्रिकायां युक्तमानन्दमयशब्दो विष्णुपर इति । तस्यार्थविशेषे निरूढत्वाभावात् । इन्द्रादिशब्दास्त्वर्थविशेषे निरूढा नान्यत्रनेतुं शक्या इत्यादिना प्रत्युदाहरणसङ्गतेरभिधानात् । अत एवाष्टविधत्व एवेत्यनुक्तवाऽनेकविधत्व एवेति वक्ष्यति । चन्द्रिकायां बहुप्रकारत्वमुक्तमिति चेति ज्ञेयम् । अनेकविधत्व एवेति । तात्पर्यवदिति पूरणीयम् । अनेकविधत्वमेवेति पाठे आनन्तर्यसङ्गतेस्तर्हि कतिविधत्वमित्याशङ्कानिरासपरतयैतद्वाक्यं योज्यम् । अनेकविधत्वमात्रपरमेवेति पाठस्तु स्वरस एव । ततश्चाधिकसङ्ख्याङ्गीकारेपि न दोष इति फलितमिति बोध्यम् । स्वोक्तार्थं चन्द्रिकासंमत्या द्रढयति । अत एवेत्यादिना । चन्द्रिकायामानंदमयाधिकरण इति शेषः । तत्रहि —
आक्षेपिक्यातिदेशिक्यावुपोद्घातापवादते ।
प्रसङ्गश्चेत्यादिरूपा साचानन्तर्यलक्षणा ॥
इति कारिकामुक्त्वा आनन्तर्यलक्षणापि सङ्गतिराक्षेपिकी । आतिदेशिकी औपोद्घातिकी । आपवादकी प्रासङ्गिकीत्यादिरूपेण बहुविधेत्युक्तमिति ज्ञेयम् । युक्तं तत्रेति । प्राणाधिकरणा-दावन्तराधिकरणादौचेत्यर्थः । यत्तूमर्जीकेन चन्द्रिकोपष्टम्भकनिरासाय चन्द्रिकाया अन्यथासिद्धिः कृता । यत्तु चन्द्रिकायामानन्तर्यसङ्गतेर्बहुप्रकारत्वमुक्तम् । तदाक्षेपिक्यातिदेशिक्यावुपोद्घातापवादते । प्रसङ्गश्चेत्यादिरूपासाचानन्तर्यलक्षणेति वृद्धश्लोकानुसारेण साक्षात्परंपराविभाजकोपाधीनेकीकृत्यैव । नत्वानन्तर्यलक्षणसङ्गतेः षडि्वधत्वापेक्षयाऽति बहुविधत्वाभिप्रायेण ।
स प्रसङ्ग उपाद्घातहेतुतावसरस्तथा ।
निर्वाहकैककार्यत्वे षोढा सङ्गतिरिष्यते ॥
इति वृद्धोक्तिविरोधात् । चन्द्रिकायामतिदेशापवादयोः सङ्गतित्वव्यवहारोऽप्येककार्यकारित्व-रूपसङ्गत्यवान्तरूपत्वाभिप्रायेणेत्यन्तेन । साप्यज्ञानविपरीतज्ञानमूलेति पूर्वोक्तरीत्यादिना स्पष्टम् । चन्द्रिकाकारिकाश्लोकस्य वृद्धवचनतया स्वीकारपूर्वकं चन्द्रिकायां तदनुसारस्य कल्पनात् । षडि्वधत्वापेक्षयाऽतिरिक्तविधावत्वाभिप्रायेणेति प्रयोक्तव्येऽतिबहुविधत्वाभिप्रायेणेत्येतदप्युन्मत्ततामा-वेदयति षडि्वधत्वापेक्षया अधिकविधावत्वस्याभावे बहुविधत्वस्यैवाप्रसक्तत्वेनातिबहुविधत्वस्य सुतरामप्रसक्तेः । वृद्धान्तरवचनविरोधोद्भावनमपि कथं न लज्जाकरमिति स एव जानातु भवदुक्तरीत्यैव वृद्धवचनत्वेन साम्ये सति तद्विरोधेन पूर्ववृद्धवचनस्य स्वार्थपरत्वाभाववर्णनायोगात् ।
अहो अत्याश्चर्यम् । आगन्तुकान्धोऽपि प्रागनन्धत्वादशायां तत्तच्छास्त्रीयप्रमेयज्ञानपूर्वकं तद्-व्याख्या-नादिना तत्संस्कारवान् अन्धतादशायामपि तत्संस्कारेण शिष्यान्बोधयितुं प्रवृत्तस्तत्तद्ग्रन्थनिष्कासनं कारयित्वा प्रमेयमनुभवारूढं कृत्वाऽपरान्बोधयतीति किल सर्वसम्मतम् । उमर्जीकस्तु चन्द्रिकाकारि-कायास्तत्र वृद्धश्लोकत्वेनानुवाद इति यद्विद्याधीशगुरोरित्यत्र श्रीविद्याधीशेति तच्छ्लोकः सर्वस्मिन्पादान्ते पठित इति बाहीकशब्दाञ्चपूर्वव्युत्पत्तिः स्वयं ज्ञातेति परान्वदयितुं बहीकश्च बहीकश्च विपाशायां पिशाचकौ ।
तयोरपत्यं बाहीको नैषासृष्टिः प्रजापतेः । इति कर्णपर्वभारते पाठोऽस्तीति च कल्पितवान् । तेन सज्जनानामन्यतेयं सत्प्रमेये जात्यन्ध इति भातीत्यलमुमर्जीककृष्णाचार्य बौद्धद्धिक्कारेण । प्रकृतमनुसरामः । ननु मूले षोढेति प्रतिज्ञाया प्रसङ्गादिरूपेण षडि्वधत्वं यदुक्तं तत्कथम् । तत्र चूडामणौ षोढेति प्रतिज्ञयापवादिकी आक्षेपकीप्रत्युदाहरणरूपा प्रासङ्गिकीबुद्धिस्थानलक्षण आतिदेशकी इत्येवमेवषडि्वधत्वोक्तेः । अधिकरणसङ्गतेरेवात्र प्रसक्तत्वादिति चेसत्यम् । तथापि कार्यत्वादिसङ्गति-रप्यानन्तर्यसङ्गतित्वेन वाच्यैव । प्रथमाध्यायस्य द्वितीयेन हेतुहेतुमद्भावसङ्गतेः सुधायां प्रतिपादनात् । अन्यत्रापि तत्रावसरसङ्गत्यादेः प्रतिपादनात् । तथाच प्रसङ्ग इत्येतच्छ्लोकोक्तसङ्गतीनां तत्रानुपात्त-तन्त्रचुडामण्युक्तसङ्गतम् । नचात्राभिमतत्वस्थित्या सप्रसङ्ग इत्येतच्छ्लोकोक्तसङ्गतिपुरस्कारो मूलेनानु- पपन्नः । अत एव टीकाकृतोक्ताभिप्रायेणैव बहुविधत्वे तात्पर्यमुक्तमित्यादि ज्ञेयम् । देवताधिकारे देवतोपास्यत्व इत्येवपाठे उपलक्षणया शूद्रानधिकारादिकमपि ज्ञेयम् । प्रागुभयोरप्यभिधानात् । आदिपदयुक्तपाठस्तु स्वरस एवेति ज्ञेयम् ।