०१ एतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायसङ्ग्रहः

लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः

एतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायसङ्ग्रहः

वामनाधिकरणम्

लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः

सुधा

अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति । परमा-ख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम् । तदुभयसिध्द्यर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्त-न्यायान् सङ्ग्रहेण दर्शयति लिङ्गमिति ।

अनुव्याख्यानम्

लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ॥

पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ॥

बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ॥

अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥

लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ॥

बहुतादृक्त्वमुक्तस्य विरोधोर्थात्तथागतिः ॥

समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ॥

ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ॥

सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ॥

एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् ।

शेषवाक्यार्थचन्द्रिका

ननु लिङ्गं साधारणमित्याद्युत्तरभाष्यमनर्थकम् । न चैतत्पादीयाधि-करणविषयपूर्वपक्षसिद्धान्तन्यायानां सङ्ग्रहेण प्रदर्शनार्थं तदिति वाच्यम् । वक्तव्यविशेषाभावे विषयाद्यप्रदर्शनेऽप्यविरोधात् । तद्भावे तु सम्यगेव व्याख्येयतया, सङ्ग्रहेण विषयादिप्रदर्शनस्य पक्षद्वयेऽप्ययोगादित्याशङ्कां सङ्ग्रहप्रयोजनोक्त्या परिहरन्नेव तत्परतयोत्तरवाक्यं योजयति अतःपरा-णीति । ननु किं तल्लिङ्गशब्दादि, कुत्र च साधारणं, कतं च साधारणम् । साधारणत्वे वा कथं तस्य भगवदेकविषयत्वम् । किञ्चैताल्लिङ्गशब्दबाहुल्यादिकं कथं च तस्य पूर्वपक्षसिद्धान्तसम्बन्धित्वमित्यत आह एतच्चेति ॥ व्याख्यातमिति । प्राणानां ग्रन्थिरसि’ इत्यादिना ‘यस्मिन्द्यौः’ इत्यादिना ‘तेषामेव’ इत्यादिना चेति शेषः । अत्र साधारणमित्यस्य विचार्या इत्यस्य च यथाऽन्वयं लिङ्गवचनविपरिणामेन सर्वत्रान्वयो द्रष्टव्यः । द्विस्थिता इत्येतत्तु साधारणमित्यस्योक्तरीत्या सर्वत्रानुवृत्तिज्ञापनार्थमेवोक्तम् । यद्वा उक्तरीत्या साधारण शब्देन सर्वेषामुभयत्र प्रसिद्धिः । द्विस्थिता इत्यनेन तु पूर्वोत्तरपक्षहेतुमक्तेत्यवधेयम् । लिङ्गमिति पृथगुक्तत्वाच्छब्दौ शब्दा लिङ्गशब्दावित्यत्र शब्दशब्दो नामविषयो बोध्यः ॥ तत्रैवावगन्तव्यमिति । एतच्च न्यायविवरणस्यागतार्थत्वायोक्तम् । अन्यथैतट्टी-कानुसारेण न्यायावगतौ, पृथक् न्यायविवरणस्याध्ययनाध्यापदादिरूपप्रेक्षावत्प्रवृत्तिविषयत्वं न स्यादिति सप्रदायः ।

‘ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः । सिद्धान्तयुक्तयोर् ज्ञेयः’ इति निरवकाशश्रुति-लिङ्गबाहुल्यादीनामेव सिद्धान्तन्यायतया कथनात् । मुक्तोपसृप्यतेत्यादिसिद्धान्तन्यायप्रदर्शकोत्तर-वाक्यवैय्यर्थ्यं सिद्धान्तन्यायेष्वप्यवान्तरभेदसूचनेन परिहरन्नुत्तरग्रन्थतात्पर्यमाह सूत्रसूचितानिति । अतच्छब्दादित्यनेन यता रुद्रसमाख्यास्थाना रुद्रपिनाक्यदिनामलिङ्गानामपि मुख्यतो रुद्रादिशब्दत्वं नास्ति । तथा विष्णुसमाख्यनां विष्णादिशब्दानामपि रुद्रादिशब्दत्वं मुख्यतो नास्ति । ‘न तु नारायणादीनां नाम्नामन्यत्र सम्भवः । अन्यनाम्नां गतिर्विष्णुः’ इति भाष्योदाहृतस्मृतेः । तथाच रुद्रसमाख्या सावकाशा विष्णुसमाख्या निरवकाशेति सूचनेन रुद्रादिशब्दानामन्तकत्वादिलिङ्गानां च विष्णौ मुख्यत्वलाभात् । श्रुतिर्लिङ्गबाहुल्यन्यायस्तत्सूत्रखण्डसूचितः । एवमनुक्त्यादीनामपि तत्तत्सूत्रसूचितत्वं द्रष्टव्यम् ॥ साक्षादुक्तानिति । मुक्तोपसृप्यव्यपदेशादित्यादिभिर्मुक्तोपसृप्य-त्वादिन्यायानां साक्षादभिधानादिति भावः । सिद्धान्तन्यायेषु सूत्रसूचितत्वतत्तत्सुत्रसाक्षादुक्तत्व-रूपोक्तप्रकारद्वैविध्यस्य भाष्यकृत्संमतत्वं भाष्यकारीयज्ञापकोक्त्या दर्शयति अत एवेति । अन्यथोभयत्र दृश्यन्त इत्येव वा प्रदर्शिता इत्येव अवक्ष्यदिति भावः ।

परिमल

तदुभयेति । भाष्ये स्पष्टव्याख्यानं पुनर्व्याख्यानप्रतिज्ञेत्युभयसिध्द्यर्थमित्यर्थः ॥ यद्वा अवक्तव्यत्वप्रतिज्ञातत्वोभयसिध्द्यर्थमित्यर्थः ॥ विषयेति । विषयान् पूर्वपक्षन्यायात्सिद्धान्तन्यायाश्चेत्यर्थः ॥ तत्रैवावगन्तव्यमिति । तदस्माभिः किञ्चिदत्र विक्रियते । ‘द्युभ्वादी’त्यत्र सर्वाधारत्वं लिङ्ग, ‘भूमाक्षर’नययोर्भूमाक्षरनामनी, ‘ईक्षती’त्यत्र सृष्टिस्थानं, ‘दहर’इत्यत्र हृत्पद्मस्थत्वलिङ्गं ‘अनुकृते’-रित्यत्रानुकूल्येन गृह्यमाणत्वलिङ्कं, पुनरपि ‘शब्दादेव प्रमितः’ ‘कम्पनात्’ ‘ज्योतिः’ ‘आकाश’ इति चतुर्षु नयेषु क्रमेण ईशान-वज्र-ज्योतिः-आकाशशब्दाः, ‘सुषुप्ती’त्यत्र स्वप्नादिद्रष्टृत्वं लिङ्गम्, ‘पत्यादी’त्यत्र ब्राह्मणशब्दश्चेहपादे विचार्यन्त इत्यर्थः । विचार्यपदं यथायोगं विपरिणामेन सर्वत्रान्वेति । अत्र लिङ्गवचनविपरिणामेन सर्वविशेषणेन साधारणशब्देन सर्वेषामुभयत्र प्रसिद्धिः, द्विस्थिता इत्यनेन तु ‘पूर्वात्तरपक्षहेतुमत्तोक्तेति भेद’ इति चन्द्रिका । बाहुल्यं लिङ्गशब्दानामिति रुद्रादिप्रापकश्रुतिलिङ्गबाहुल्यम् । ‘भूमे’त्यत्र प्राणाद्भूयसोऽनुक्तिः, चशब्देनोत्क्रमणलिङ्गं समुच्चीयते, ‘अक्षर’नये अत्तेत्युक्त्वा ‘न तदश्नाति किञ्चने’ति विरुद्धता, ‘ईक्षति’नये अन्यस्यान्यथाभावादृष्टिः, ‘दहर’नये वाक्यान्वयाभावः ‘अनुकृति’नये ‘कथं नु तदि’ति तच्छब्दश्रुतिर्ज्ञानिसुखपरामर्श इति भ्रमः, ‘शब्दादेवे’त्यत्र प्राणापाननेतृत्वादिलिङ्गस्यान्यत्र विष्णोरनवकाशभ्रमः, ‘कम्पनादि’त्यत्र वज्रश्रुत्युद्य-तत्वरूपनिरवकाशश्रुतिलिङ्गाख्यद्वयं, ‘ज्योति’र्नये बहूनां जीवप्रापकाणां तादृक्त्वं निरवकाशत्वं, ‘आकाश’नये उक्तस्य यौगिकार्थस्य विष्णोः स्वीकारे वैनामेति निपातविरोधः, ‘सुषुप्ति’नये जीवेशाभेदेनेश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः, ‘पत्यादि’नये निरवकाशश्रुतिद्वयेन विरिञ्चब्रह्मणोरैक्यमिति समस्तमेतदिति, क्रमादुक्तद्वादशनयानाम् अत्र पादे पूर्वपक्षयुक्तय इत्यर्थः । एतेन ‘मुक्तोपसृप्यते’त्याद्यपि स्पष्टम् ।

श्रीनिवासतीर्थीया

॥ तदुभयेति । स्पष्टार्थत्वेनावक्तव्यत्वव्याख्याकरणप्रतिज्ञेत्युभय-सिध्यर्थमित्यर्थः ॥ सङ्ग्रहेणेति । तथा च विस्तरतोऽव्याख्यानाद्भाष्ये स्पष्टार्थता विषयादिकथनेन संक्षेपतो व्याख्यानाद्य्वाख्यानकरणप्रतिज्ञा चोपपन्नेत्यर्थः ।

वाक्यार्थरत्नमाला

सम्यगेवेति । ततश्च विषयादिमात्रप्रदर्शनमयुक्तमिति भावः । व्याख्ये-यतयेत्यंतं पक्षद्वयेऽप्ययोगोपपादकम् । तयेत्यनन्तरमित्येवमिति पूरणेतु स्पष्ट उपपाद्योपपादकभावे । मूले करोमीति चेति । करोम्यन्वपीति योज्यम् । कथं तस्य भगवदिति । यद्यपीदं पृथङ्न समाहितं तथापि बलवत्वप्रतिपादनेन तत्समाधानलाभ इति भावेनेदमुक्तम् । अस्य स्वप्नस्य चरमत्वेऽपि साधारणमित्येतत्सङ्गतत्वाक्रमव्यत्यासः । ग्रन्थिरसीत्यादिनेति । आदिपदेन रुद्रादौ प्रसिद्धिसाध-करुद्रोवै लोकायतनं, वायुना वै गौतमेत्यादेर् विष्णौप्रसिद्धिसाधकसर्वे वा एते प्राणाश्चेत्यादि विष्णावेवोताश्च प्रेताश्च भवन्तीत्यादेर्द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गमिति प्रथमाधिकरण-विषयोपाधिप्रदर्शनप्रतिज्ञाभागस्य च ग्रहणवत्प्राणोवा आशाया भूयान्विष्णुर्वेदेवेभ्यो भूयांस्तस्माद्भूया-न्नामेत्यादेर्भूमशब्दोऽज्ञानां साधारण इत्यादिशब्दो ब्राह्मण इतीत्यन्ततत्तदुपाधिपदर्शनपरग्रन्थस्य ग्रहणम् । यस्मिन्द्यौरित्यादिनेत्यादिपदेन पृथिवी चान्तरिक्षमित्यादेरर्थादभेदप्राप्तिरिति समस्तमेतदि-त्यन्तस्य ग्रहणम् । तेषामेवेत्यादिनेत्यादिपदेन लिङ्गशब्दानामित्यादिमपादस्थाल्लिङ्गं स शब्दश्च चतुर्मुखेऽनवकाश इति समस्तमेतदित्यन्तस्य ग्रहणम् । रघूत्तमस्वामिकृतन्यायमालाप्रदीपानुसारेण च तत्र पादे पूर्वपक्षसिद्धान्तन्यायविवेको ज्ञेयः । चन्द्रिकानुसारेणाक्षरयोजनामाह । अत्रेति । लिङ्गशब्दावित्यनन्तरम् इह इति संपूर्य विचार्य इति योजनायां द्विस्थिता इत्यस्य वैय्यर्थ्यम् । साधारणपदेनैव तदर्थलाभादत आह । द्विस्थिता इति । न्यायतया कथनादिति । न्यायतया कथनात्प्राप्तं यन्मुक्तोपसृप्यतेत्यादिसिद्धान्तं न्यायप्रदर्शकोत्तरवाक्यवैयर्थ्यं तदिति योजना । सूचितत्वं दृष्टव्यमिति । रघूत्तमतीर्थकृतन्यायमालाप्रदीपाद्यनुसारेणेति शेषः । मूलेऽभिधायेत्यनेनैव बाहुल्यं लिङ्गेति भाष्यविषयोऽपि सूचितः । साक्षात्सूत्रोक्तन्यायप्रदर्शनाय प्रवृत्तानुव्याख्याने गौणमुख्यसूत्रोक्त-मुक्तोपसृप्यत्वादीनामिव प्रथमसूत्रोक्तात्मशब्दानुपादानं कुत इति विचार्यं मान्यान्प्रति ॥