अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम्
अस्थूलेत्यादिश्रुतिर्ब्रह्मणः निःस्वभावत्वं न वक्ति
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम्
सुधा
एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुप-पादितम् । इदानीं स्थूलत्वादिनिवृत्तिपरत्वेऽपि न दोष इत्येवंपरतया सूत्रं व्यचष्टे अन्येति ।
अनुव्याख्यानम्
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ॥
नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ॥
ब्रह्मणोऽन्यानि वस्तूनि घटादीनि । तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च । तथाविधानां स्थौल्यादीनामभावं नारायणे ‘अस्थूलमनणु’इत्यादिश्रुतिर्वक्ति । न तु तस्य निःस्वभावत्वं येनोक्तविरोधः स्यादित्यर्थः । कुत एवं श्रुतेरर्थसङ्कोचः क्रियते । निःस्वभावत्वमेवार्थः किं न स्यादित्यत आह सर्वधर्मेति ।
अनुव्याख्यानम्
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ॥
दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥ ३ ॥
अत्र=परमेश्वरस्य सस्वभावत्वे न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहत्त्वादौ चेत्यर्थः । इहाच्छायमतम इत्यादेरसङ्कुचितवृत्तित्वमेव ज्ञेयम् । बहुपदविषयत्वादिदं व्याख्यानं स्वशब्देन विधाय सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति ॥ १-३-३ ॥
शेषवाक्यार्थचन्द्रिका
नन्वस्थूलादिपदानां स्थूलत्वादिविपरीताणुत्वाद्यभिधायकत्वाङ्गीकारेण•स्वभावत्वाप्राप्तेस्तन्निरासकोत्तरकारिकानर्थक्यमित्यतो नोत्तरवाक्यं पूर्ववाक्यशेषो येनासङ्गतिः स्यात् । किन्तु प्राग्विकल्पितपक्षद्वयमध्ये द्वितीयपक्षमभ्युपेत्य तत्रोक्तदोषपरिहारकतया सूत्रव्याख्यानार्थमिति नासङ्गत्यादीत्याशयेन पूर्वोत्तरवाक्ययोरर्थभेदं दर्शयन्नेव तद्वाक्यं तथैवावतारयति एवं तावदिति ॥ उक्त विरोध इति । ‘सर्वत्र प्रसिद्धोपदेशात् । अत्ता चराचरग्रहणात् । रूपोपन्यासाच्चे’त्युक्तविरोधः स्यादित्यर्थः । ननु यद्यस्थूलादिपदानां लौकिकस्थौल्यादिराहित्यार्थकत्वेनालौकिकस्थौल्यादिसिद्धिस् तर्हि अच्छायमतमोऽवाय्वनाकाशपदानामपि लौकिकछायतमोवाय्वादिराहित्यार्थकत्वापत्त्याऽलौकिस्कतमोऽ- वाय्वादिसिद्धिः स्यादित्यत आह इहेति । अस्थूलमनण्वित्यादिवाक्येऽस्थूलादिपदानां प्राकृतथौल्यादि-मात्रनिषेधकतया सङ्कुचितार्थत्वेऽपि अच्छायमतमोऽवाय्वनाकाशामित्यादीनां सर्वात्मना तम आदि निषेधकतयाऽसङ्कुचितार्थत्वमेव ज्ञेयम् । अदुःखमसुखमित्येकस्मिन्नपि वाक्येऽसुखमित्यनेन बाह्यसुखनिषेधेऽप्यदुःखमित्यनेन दुःखमात्रनिषेधदर्शनेन योग्यत्वायोग्यत्वयोरेव सङ्कोचासङ्कोच-नियामकतयैकवाख्यस्थत्वादेरप्रयोजकत्वादिति भावः । ननूक्तरीत्याऽस्थूलादिश्रुतिव्याख्यान- द्वयस्याप्युपपन्नत्वेनाविशेषाद् द्वयोरपि स्वशब्देनैव विधेयतया कुतः सूत्रे एकस्यैव स्वशब्देन विधानं द्वितीयस्य चशब्देन समुच्चय इत्यतो ब्रह्माणि सुखादीनामपि व्यवृत्तिसम्भवेन प्रसज्यप्रतिषेधार्थतया व्याख्यानस्य एतच्छतिगतासुखादिपद साधारणतया सकलपदविषयकत्वाद् ब्रह्मणि सुखान्यस्य सुखादिसदृशान्यस्यासम्भवेन पर्युदासार्थतया व्याख्यानस्यासुखादिपदसाधारणत्वाभावेनैतच्छति-गतास्थूलादिकतिपयपदमात्रमिषयकत्वात् । बहुविषयकत्वाल्पविषयकत्वाभ्यां विशेषाद्युक्तमेव स्वशब्देन विधानादिकमित्याह बव्हिति ॥ १-३-३ ॥
परिमल
सूत्रमति । पूर्ववच्चशब्दार्थोऽयमिति भावः । अत्रेत्यनुवादः परमेश्वरस्य सस्वभावत्व इति व्याख्या । सूत्रे शब्दसङ्गृहीतं व्याख्यानं विधिरूपत्वात् स्वशब्देन कर्तुमुचितम् इत्यनौचित्यमाशङ्क्य निराह बहुपदेति । इदं स्थौल्यादिराहित्यार्थत्वरूपं व्याख्यानं श्रुतिगतास्थूलादिसर्वपदविषयत्वाद् अन्यभावव्यावृत्तेरिति वा चशब्देन कृतमित्यर्थः॥ कतिपयेति । अस्थूलादिपदचतुष्टयेत्यर्थः॥१-३-३ ॥
यादुपत्यम्
अतम इत्यादेरित्यत्रादिपदेनावाव्यनाकाशमित्यनयोर्ग्रहणम् ॥ कतिपयेति । अस्थूल मनण्वदीर्घमह्रस्वमिति पदचतुष्टयमात्रविषयत्वात्पूर्वव्याख्यानं कतिपयपदविषयमित्यर्थः ॥ १-३-३ ॥
**श्रीनिवासतीर्थीया **
अणुत्वाद्यभिधायकत्वेति । अस्थूलं स्थूलपरिमाणभिन्नपरिमाणोपेतं तच्चाणुपरिमाणमेवेति नञः पर्युदासार्थत्वमङ्गीकृत्येत्यर्थः ॥ निवृत्तीति । नञः प्रसज्यप्रतिषेधा-थत्वेऽपीत्यर्थः ॥ उक्तविरोध इति । सर्वत्रेत्यादिनोक्तसर्वगतत्वात्तृत्वादिविरोधः स्यादित्यर्थः । चशब्दार्थमाह न केवलमिति । ननु यथास्थूलमित्यादौ प्राकृतस्थौल्यादिकं नास्ति अपि तु अप्राकृतं स्थौल्यादिकमस्तीत्यर्थः क्रियते । एवमच्छायमतम इत्यत्रापि प्राकृतछायातमोनिषेधेऽप्राकृततत्सद्भावः प्रसज्येत । तच्च विरुद्धं तस्मात्कथमेतदित्यत आह इहेति । श्रुतौ प्रसज्यप्रतिषेधपक्ष इत्यर्थः ॥ असङ्कुचितेति । सर्वात्मना निषेध इत्यर्थः । ननु ‘अन्यभावव्यावृत्तेश्च’ इति सूत्रे सूत्रकारः प्रसज्यप्रतिषेधाङ्गीकारेण श्रुतिव्याख्यानं कण्ठतो विधाय पर्युदासाङ्गीकारेण व्याख्यानं चशब्देन कुतः समुच्चितवान् । निमित्ताभावादित्यत आह बह्विति । इदं प्रसज्यप्रतिषेधार्थत्वेन व्याख्यानम् ॥ कति-पयेति । अस्थूलमनण्वह्रस्वमदीर्घमिति पदचतुष्टय एव स्थूलपरिमाणभिन्नपरिमाणोपेतमिति प्राप्नोति । परस्परविरुद्धपरिमाणरूपार्थभिधायकपदत्वादेषाम् । अलोहितमित्यादौ नैवं रूपेणार्थो युक्तः । तद्विरोध्यनुक्तेरिति पर्युदासस्य कतिपयपदविषयकत्वं ज्ञेयम् । यद्यपि लोहितादिभिन्न इत्यर्थः कर्तुं शक्यस्तथाऽप्यस्थूलादिपदेषु यथाऽधिकार्थत्वमायाति न तथा । अपि त्वल्पार्थतेति ध्येयम् ॥१-३-३॥
वाक्यार्थरत्नमाला
अङ्गीकारेणेति । अङ्गीकारपक्षस्य प्रागुपवर्णनेन तत्पक्षेऽस्वभावत्वस्य निस्वभावत्वस्याप्राप्तेरित्यर्थः । अनाकाशपदानामिति । अनाकाशमित्यादिपदानामित्यर्थः । तथापाठस्तु स्वरस एव । तमोवाय्वादीनां सर्वात्मना निवृत्तिरदुःखं ससुखमित्यादिवदिति तत्वप्रकाशिकानुसारेणातम इत्यादेरित्यादिपदविवरणमवाय्वनाकाशमित्यादीनामिति । सर्वात्मनेति । वाय्वादिविषये तत्वप्रकाशिकाप्रपञ्चेऽस्माभिः शङ्का दर्शितास्ति तदनुसारेणोहापि लेख्यम् ॥ उक्तानुसारेणैव परिहाराभिप्राप्त्यवर्णनं टीकायामिति ज्ञेयम् ।
अक्षराधिकरणम्