ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ
अथ अदृश्यत्वाधिकरणम्
ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ
असामर्थ्येनेत्यत्र मक्षिकाणामभावो निर्मक्षिकमित्यभाववाचित्वेऽव्ययीभावविधानादिति भावः । किमविशिष्टयोरित्यत्र प्रतियोगित्वानुयोगित्वाख्यविशेषरहितयोरित्यर्थः । तृतीयेऽन्तर्भवतीत्यत्र तृतीये बाधकसद्भावादिति तृतीये पक्षे । किं चान्यारादितरर्त इत्यत्र अन्यपदोपलक्षितपृथक्तवे पञ्चमीं वदता अन्यपदोक्तान्योन्याभावेऽपि पञ्चम्या विधानसम्भवादस्मादयमन्य इति व्यवहाराच्च पञ्चमीप्रयोगात्को विशेषः पृथक्तवान्योन्याभावयोः । अन्यथा अस्मादयं पूर्व इत्यत्रेव अस्यायमादिरित्यत्र पञ्चम्या अदर्शनादादित्वपूर्वत्वयोरपि भेदप्रसङ्गः, घटं जानामि, घटस्य ज्ञानवानहं, पीठे आस्ते, पीठमध्यास्ते इत्यादौ विभक्तिवैचित्र्यदर्शनेन कर्मणोरधिकरणयोश्चैक्यायोगप्रसङ्गात् । कथं तर्हि घटः पटो नेत्यत्र पञ्चम्यभाव इति चेन्न भेदवाचकपदप्रयोगे पञ्चमी । वाक्यरूपेण भेदप्रतिपादने तु न पञ्चमीति ग्रन्थ एव वक्ष्यमाणत्वात् । अन्यथा इमौ पृथगित्यत्र तवापि न कुतः पञ्चमी । अन्यथा दारभार्या-पदयोर्लिङ्गवचनभेदेन दारभार्ययोरप्यैक्यं न स्यात् । एकेनैव स्वरूपभेदेनोपपत्तावित्यत्र द्रव्ये गुणादिपञ्चके च स्वरूपभूतान्योन्याभावेनोपपत्तावित्यर्थः । यदपि अन्य इत्यर्थग्रहणमिति वचनादिति तदप्यन्यपदार्थभूतेतरत्वस्य पृथग्ग्रहणान्न सूत्रहृदयम् । तत्त्वंभावेनेति सूत्रितत्वादित्यत्र तत्त्वं समवायस्य एकत्वं भावेन स्वभावेनेत्यर्थः । समवायस्येति षष्ठ्यर्थस्य पृथगभावेनेत्यत्र भेदस्यान्योन्या-भावरूपत्वेन तदभावस्य चाभावः ‘‘अभावाभावो भाव एवे’’ति वचनात्पुनरेकत्वमेव तदिति तेन सह समवायस्येति षष्ठ्यर्थस्य पृथगभावादित्यर्थः । न ह्यवयवावयव्यादीनामिति समवायेन अवयवावय-व्यादीनां सम्बन्धो न ह्यस्तीत्यर्थः । सम्बन्धानिरूपणादित्यत्र भावाभावयोस्संयोग- समवायोर-सम्भवात्स्वरूपसम्बन्धस्य च विशेषैकनिर्वाह्यत्वादित्यर्थः ॥ १-२-६,७ ॥
इति श्रीमद्वादिराजपूज्यचरणविरचितन्यायसुधाटिप्पण्यां प्रथमाध्यायस्य द्वितीयः पादः ॥