ॐ अन्तर उपपत्तेः ॐ
**अथ अन्तराधिकरणम् **
ॐ अन्तर उपपत्तेः ॐ
रमतेर्ञमन्ताड्ड इत्यत्र ‘‘रमु क्रीडाया’’मिति धातोर् ञमन्ताड्डप्रत्ययः स्यादित्यर्थः । अत्र ञमन्तादिति ञम्प्रत्याहारान्तर्गतो मकारो ग्राह्यः । उपपदलोप इत्यत्रोपपदान्तस्य रेफस्य लोप इत्यर्थः । कडाराः कर्मधारये इत्यत्र बहुवचनमाद्यर्थे । कडारः घटः घटकडारः नीलो घटः घटनीलः, श्रेष्ठो मन्त्री मन्त्रिश्रेष्ठ इत्याद्युदाहरणं द्रष्टव्यम् । एवं च कडारादिशब्दाः कर्मधारयसमासे पूर्वं परतो वा प्रयोक्तव्या जैमिनिकडार इतिवदिति सूत्रार्थः । एवं च घटकडार इतिवत् सुखविशिष्टेतिशब्दः साधुरिति ज्ञेयम् । तदा स एव प्रथमागत इत्यत्र ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचे’’ति श्रुतौ सर्वनियामकत्वेन प्रथमप्राप्त इत्यर्थः । अक्ष्यादित्ययोरैक्यादादित्यस्थ एवाग्निरक्षिस्थ इति त्वश्रुतोऽर्थः कस्मात्कल्प्यते ॥ १-२-४,५ ॥