०२ अत्तृत्वाधिकरणम्

ॐ अत्ता चराचरग्रहणात् ॐ

अथ अतृत्वाधिकरणम्

ॐ अत्ता चराचरग्रहणात् ॐ

विरुद्धधर्माध्यासस्येत्यत्र अध्यासस्येति परमतरीत्योक्तम् । क्वचिदनीश्वरपरिस्पन्देत्यत्र परिस्पन्दः मुक्तानामितस्ततो गमनानि । न हीश्वरपरिस्पन्दक्रिया कदाऽपि न संयोगविभागलक्षणं फलमित्यत्र परिच्छिन्नकृष्णरामाद्यवतरणरूपक्रियाया वैकुण्ठाद्विभागस्य भूमौ संयोगस्य च सर्वैरुपलभ्यमान-त्वादित्यर्थः । गगनादिना व्यभिचार इत्यत्र कदाचिदेव घटसंयोगजननादिति भावः । ततश्चोत्तर-प्रदेशेत्यत्र कार्यस्य तद्देशसंयोगविनाशोऽपि ग्राह्यः । तत्तत्कार्यजननशक्तिरेवेत्यत्र परमते सृष्ट्यादि-क्रियाजनकप्रयत्नवदिति दृष्टान्तोऽनुसन्धेयः । स्वरूपसत्याः शक्तेः क्रियानुकूलव्यक्तिर्नाम क्रियाजन्य-फलसम्पत्त्यनुकूल आदिकारणीभूतपरमाण्वादीनां दर्शनस्पर्शनान्योन्यमेलनादिघटकतया फलोपहित-त्वाख्यावस्थाविशेषः । सोऽपि शक्तिरूपेण भगवदवतारानुकूलप्रयत्नवच्छक्तिरूपेण सर्वदाऽस्ति । तस्यापि नानित्यत्वम् । कथं तत्र व्यवहारोऽर्थक्रिया वेत्यत्र प्रलयाख्यप्रध्वंसोत्पादे व्यक्तेर् व्यवहारस्य च सर्वैरपेक्षणीयत्वादिति भावः । अर्थक्रिया द्वितन्तुकावयवक्रिया । परिस्पन्दाभावे प्रामाणा-भावादित्यत्र कुलालस्येव परमाणूनामन्योन्यमेलनस्य तदीयहस्तपरिस्पन्दसाध्यत्वादित्यपि द्रष्टव्यम् । तर्हि प्रथमप्राप्तत्वादित्यत्र ‘‘अणोरणीयानि’’ति श्रुतौ प्रथमप्राप्तत्वादित्यर्थः । वक्ष्यमाण-गुहानिहितत्वोपयोगित्वे परिच्छेदस्यैव न्यायप्राप्तत्वादित्यपि द्रष्टव्यम् । सन्धानकरणीलताया दैववशात् हस्तात्पातेन द्वैधीभावे तयैव पुनः सन्धानकरणस्य सर्वैर्वक्तव्यत्वात्परत्र भेदकार्यकारिविशेषस्य स्वस्मिन् भेदव्यवहारे सति स्वेनैव निर्वाह्यत्वमिति किमपूर्वमिति भावेनोक्तं स्वनिर्वाहक इति ।निर्बाधं प्रमाणमस्तीत्यत्र घटनाशे क्रियाशक्तेरपि नाशदर्शनेन विपरीतप्रमाणस्यैव सत्त्वाच्चेत्यपि द्रष्टव्यम् । विशेषानुपलब्धेरित्यत्र अन्धकारे चलतो हस्तस्य अन्यत्र नीयमानघटस्य च चलनरूपक्रिया सर्वशरीर-व्यापित्वचैव गृह्यते । आकाशघटयोर्गुणरूपसंयोगविभागौ न त्वचा गृह्येते । अन्यथा अन्धकारे स्वनारीमुखचुम्बनाय न कोऽपि मुखमवनमयेदित्यपि दूषणं द्रष्टव्यम् । तदोभयत्रापीत्यत्र संयोगिपदार्थद्वयेऽपीत्यर्थः । तथैव परत्रारम्भकत्वमपीत्यत्र स्वाश्रयस्वाश्रयसमवेताभ्यामन्यत्रापीत्यर्थः। एवं च शरीरात्मसंयोगेनापि शरीराकाशसंयोगोत्पत्तिरपि स्यादिति भावः ॥ १-२-२,३ ॥