०१ सर्वगतत्वाधिकरणम्

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ

प्रथमाध्यायस्य द्वितीयः पादः

अथ सर्वगतत्वाधिकरणम्

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ

ॐ ॥ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ यथा परस्येत्यत्र यथा परेण ‘‘तत्तेज ऐक्षत’’ ‘‘ता आप ऐक्षन्ते’’ति जडेक्षणप्रायपठितत्वेन ‘‘तदैक्षते’’त्यत्रोक्तमपीक्षितृत्वं गौणमित्याशङ्क्य ‘‘गौणश्चेन्नात्म-शब्दादि’’ति निरस्तस्यापि प्रायपाठस्य पुनः प्राणाधिकरणे उद्गीथान्नप्रायपठितत्वात्प्राणोऽप्यन्य इति पूर्वपक्षप्रापकत्वमुक्तं तथेत्यर्थः । कर्तरि चेत्यत्र ‘‘कर्तरि चे’’ति सूत्रस्य कर्त्रर्थकतृजकाभ्यां षष्ठी न समस्यत इत्यर्थः । ततश्चाज्ञात इत्यस्य स्वरूपे असम्यक् ज्ञाते सति तस्मिन्नेवार्थे क प्रत्यय इत्यर्थः । गतिक्रियाफलसंयोगशालीत्यत्र संयोगो अन्त्यचरणसंयोगः । यतो देवदत्त इत्यत्र यतो ग्रामाद् देवदत्तो गच्छतीत्यर्थः । तथा चेत्यत्र कौशाम्बी ग्रामविशेषः, पाटलीपुत्रोऽपि ग्रामविशेषः । तद्वाचिन इत्यत्र इच्छाविषयघटादिवाचिन इत्यर्थः । व्यवहारादिरूपस्येत्यत्र व्यवहारो ऽभिलाप आदिपदेन प्रवृत्त्यादिकं गृह्यते । अन्यथा कर्मकर्तेति पच्यते ओदनस्स्वयमेवेत्यादिव्यवहारे कर्मरूपः कर्ता न स्यादित्यर्थः । दर्शनादर्शनमात्रस्येत्यत्र मात्रपदेनोपाधिव्यभिचारयोरदर्शनं व्यवच्छिद्यते । मानस-प्रत्यक्षावसेय इत्यत्र मानसप्रत्यक्षं यदहमिति प्रत्यक्षं तेनावसेय इत्यर्थः । तत्कर्मतेत्यत्र तद् इत्यस्य वचनमित्यनेन सम्बन्धः । कर्मतातिरिक्तपदेन कर्मतातिरिक्ताऽवभास्यता लक्ष्यते ।

किं चाहमिति प्रत्यय इत्यादेरिदं तात्पर्यम् । अस्ति तावदुक्तविधया अहमित्येव ज्ञानं जानातिश्च धातुर् देवदत्तोऽहं दशमोऽहमित्यादिरूपस्सकर्मकः । अतो ऽयं घट इति प्रत्ययस्य घट इव किञ्चि-दहंप्रत्ययस्य कर्म वक्तव्यम् । कर्ताऽपि वाच्यः । स चाहं पदार्थ एव भवेत्, अन्यस्यात्रोल्लेखाभावात्, अहंपदार्थश्च न बाह्यः घटादिः । नाप्यान्तरं सुखादिकं, तेष्वहंपदसामानाधिकरण्यादर्शनात्, अतोऽहंपदवाच्य आत्मैव कर्ता कर्म चेति न कथं कर्तृकर्मणोरैक्यम् । ज्ञानसुखाख्योपाधिभ्यां विशिष्टे अहंपदार्थे कर्तृकर्मतायामपि विशेष्यांशेन कर्तृकर्मैक्यं स्यादेव । अहमित्येव प्रतीतौ विशेषणी-भूतज्ञानसुखयोरनुल्लिख्यमानयोरुपाधित्वायोगेन केवलाहंपदार्थ एव कर्तृकर्मत्वापरिहाराच्च । अतः मामहं जानामीत्यनुभवे विवदमानेनापि साक्षिरूपे वा मानसप्रत्यक्षरूपे अहं प्रत्यये उक्तविधया कर्तृकर्मणो-रैक्यमङ्गीकरणीयम् । कर्मत्वप्रयुक्तविभक्तिस्तु घटमहं जानामीति घटज्ञानानुव्यवसाय इव मामहं जानामीत्यहंज्ञानानुव्यवसाये स्यात् । न चास्मिन्ननुव्यवसाये विवादः । उक्तविधयाऽहमर्थस्यैव कर्तृत्वे कर्मत्वे च सिद्धे तदभिव्यञ्जकवाक्येऽहमिति कर्त्रर्थविभक्तेःमामिति कर्मार्थकविभक्तेश्च युक्तियुक्तत्वात् । कथमन्यथा पच्यते ओदनः स्वयमेवेति वैयाकरणानां कर्तृकर्मव्यवहार इति ॥ १-२-१ ॥