ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः
वैश्वानराधिकरणम्
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ
सुधा
॥ ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ अस्याधिकरणस्य नात्रान्तर्भावः सम्भवति । नामात्मकशब्दसमन्वयार्थत्वात् । नापि पूर्वत्र । लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् । न चोभयबहिर्भावः । अन्यत्र प्रसिद्धशब्दविषयत्वात् । न चावक्तव्यता । समन्वयासिद्धिप्रसङ्गात् । तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावः समर्थितः । यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषोऽयम् । अत एव पादद्वयान्ते निबन्धनमिति ज्ञापयितुं पादद्वयार्थं तावदुपसंहरति बहुलिङ्गेति ।
अनुव्याख्यानम्
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ॥
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ॥
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ॥
रूढेत्यस्यैव विवरणं प्रसिद्धैरन्यगत्वेनेति । अन्यथा यौगिकनामपरित्यागः स्यात् । एतच्च लिङ्गानामपि विशेषणम् । साक्षान् मुख्यया वृत्त्या । इदानीं वैश्वानराधिकरणतात्पर्यमाह वैश्वानरादय इति । आदिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयति । तत इति सौत्रात्मशब्दादिकं परामृशति । तद्वाचिनः परमेश्वरवाचिनः ।
ननु कथं वैश्वानरस्य विष्णुत्वनिर्धारः । पक्षान्तरेऽप्यग्न्यादिशब्दानां होमाधिकरणत्वादिलिङ्गानां च श्रवणादित्यत आह तानीति ।
अनुव्याख्यानम्
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ॥
तद्गाः परमेश्वरविषयाः । हीति तथा दृष्ट्युपदेशं हेतुमाचष्टे । यस्मादेवं तस्मादिति पूर्वेण वा सम्बन्धः । अनेन शब्दादिभ्य इति सूत्रस्य तात्पर्यमुक्तं वेदितव्यम् । ननु कथमग्न्यादिशब्दानां विष्णुपरत्वम् । अन्यत्र रूढत्वात् । न च विष्णावपि रूढिरस्तीति वाच्यम् । बहुत्वेनान्यत्र रूढेः प्रबलत्वेनाल्पपरमेश्वररूढि-बाधकत्वोपपत्तेरित्यत आह बहुलाऽपीति ।
अनुव्याख्यानम्
बहुलाऽप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ॥ ७ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने
प्रथमाध्यायस्य द्वितीयः पादः ॥ १-२ ॥