०७ अखण्डवादिनाऽपि विशेषोऽङ्गीकार्यः

अखण्डवादिनोऽपि स्याद्विशेषः

अखण्डवादिनाऽपि विशेषोऽङ्गीकार्यः

अखण्डवादिनोऽपि स्याद्विशेषः

सुधा

अखण्डवादिनाऽपि विशेषमङ्गीकारयति अखण्डेति ।

अनुव्याख्यानम्

अखण्डवादिनोऽपि स्याद्विशेषः

अङ्गीकार्य इति वचनविपरिणामेन सम्बध्यते । नन्वखण्डवादिनोऽपि विशेषोऽङ्गीकार्य इति व्याहतम् । अखण्डत्वं निर्विशेषत्वमित्यनर्थान्तरत्वादित्यत उक्तम् । अनिच्छतोऽपीऽति ।

अनुव्याख्यानम्

अनिच्छतोऽप्यसौ ॥

व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥ ६ ॥

स्वाभ्युपगममात्रेणाखण्डवादित्वेऽपि न्यायप्राप्तत्वाद्विशेषाङ्गीकरणमिति । असौ पूर्वोपपादितः । अनेन पूर्वोक्तार्थस्मरणार्थत्वादस्य न पुनरुक्तिदोष इति सूचितम् । यद्वा । यस्मिन्ननङ्गीकृते सत्यज्ञानादिपदानां पर्यायव्यर्थते स्याताम् । सत्यत्वादीनां ब्रह्मतन्मात्रत्वाङ्गीकारात् । अङ्गीकृते च तन्निवृत्तिः । तस्यापर्यायशब्दप्रवृत्तावभिन्नेऽपि निमित्तत्वात् । असौ इत्यङ्गीकार्यत्वहेतुसूचनम् । ननु ब्रह्मातिरिक्ते सत्यज्ञानानन्दादौ वाचकत्वशक्तिमतां सत्यादिपदानां लक्ष्यमेव ब्रह्माभ्युपगम्यते । तत्कथं पर्यायता । वाच्यार्थभेदसद्भावात् । मैवम् । सत्यज्ञानानन्तानन्दादीनां ब्रह्मातिरिक्तानां परेणा-नङ्गीकृतत्वात् । अस्ति कथञ्चित्सत्यादिकमन्यदिति चेन्न । कथञ्चित्सत्यादिकं वाच्यम् । साक्षात् सत्यादिकं तु लक्ष्यमिति वैपरीत्यस्यानुचितत्वात् । अस्तु वा कथञ्चित्पर्यायतापरिहारः । तथाऽप्येकेन पदेन लक्षितस्यैवान्येनापि लक्षणायां व्यर्थता न परिहर्तुं शक्या । ननु च लक्ष्यार्थभेदाभावेऽपि ब्रह्मण्यारोपिताऽसत्यत्वादिधर्माणां व्यावर्त्यानां बहुलत्वात् तद्-व्यावर्तकत्वेन सार्थक्यं पदानामित्यत आह व्यावृत्त इति । व्याख्यातचरमिदम् । तदेवं विशेषस्य सर्ववादिभिरङ्गीकार्यत्वात्तद्बलेन धर्मधर्म्यादिव्यवहारोपपत्तेर्युक्तम् । अदृश्यत्वादिगुणानां ब्रह्मणैक्यमिति सिद्धम् ॥ १-२-६ ॥

शेषवाक्यार्थचन्द्रिका

अङ्गीकार्या इत्यस्य बहुवचनान्ततया कथमेकवचनान्तविशेषपदेन सम्बन्ध इत्यत उक्तं वचनविपरिणामेनेति । विशेषानिच्छुत्वस्याखण्डवादिनि भेदवादिनि, भेदाभेद-वादिनि, च सत्त्वादत्रैव तदभिधानमनर्थकमित्यतो व्याघातपरिहारार्थं तदित्याशयेन व्याघातशङ्का-मुत्थापयति नन्विति । असावित्यस्यानर्थक्यं परिहर्तुमर्थं तावदाह पूर्वोपपादित इति । जन्माधिकरण उपपादित इत्यर्थः । किमस्य प्रयोजनमित्यतः पौनरुक्त्यशङ्कापरिहार इत्याह ॥ अनेनेति । पूर्वोक्तार्थ-स्मारणस्यापि प्रयोजनविशेषाभावं मन्वानः प्रकारान्तरमाह यद्वेति ॥ पर्यायव्यर्थत इति । पर्यायत्व-व्यर्थत्व इत्यर्थः ॥ अनङ्गीकृतत्वादिति । अन्यथाऽपसिद्धान्तप्रसक्तेरिति भावः । ब्रह्मव्यतिरिक्तस्य पारमार्थिकसत्यादेरभावेऽपि व्यावहारिकस्य तस्य सत्त्वान्नापसिद्धान्त इति शङ्कते अस्तीति । अनुचित त्वादिति । अन्यथा साक्षाद्गङ्गादेर् गङ्गादिपदलक्ष्यत्वं कथञ्चिद्गङ्गादेस्तु तद्वाच्यत्वमित्यपि स्यादिति भावः ॥ लक्षितस्यैवान्येन लक्षणायामिति । अधिकलक्षणायामखण्डार्थत्वभङ्गप्रसक्तेरिति भावः ॥ व्याख्यातचरमिति । ‘न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे’ इत्येतद्-व्याख्यानेनैव व्याख्यातप्रायमित्यर्थः ॥ १-२-६ ॥

परिमल

पूर्वोक्तेः । जन्मादिसूत्रोक्तेत्यर्थः । असावित्यस्यैतादृशबुद्धिस्थपरामर्शित्व-रूपमर्थान्तरमाह यद्वेति ॥ व्याख्यातचरमिदमिति । जन्मादिसूत्रे सत्यज्ञानादिकेऽप्येवमित्यादि-व्याख्यावसर इति भावः ॥ १-२-६ ॥

यादुपत्यम्

पूर्वोपपादित इति । जन्माधिकरणे उपपादित इत्यर्थः । व्याख्यातचरमिति । ‘सत्यज्ञानादिकेऽप्येवं न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे’ इत्येतद्-व्याख्यानेनैव व्याख्यात-प्रायमित्यर्थः । तथाहि । व्यावृत्ते ब्रह्मणि निर्विशेषे सत्यादिपदप्रतिपादितव्यावर्तकविशेषशून्येऽङ्गीकृते सति व्यावर्त्यानामसत्यत्वादीनां बहुत्वतः किं प्रयोजनं, न किमपि । सत्यादिपदानां ब्रह्मणि व्यावर्तक-सत्यत्वाद्यप्रतिपादकत्वेऽसत्त्वादिव्यावृत्तिबोधालाभेन तदर्थमसत्यत्वादिव्यावर्त्यबहुत्वोपन्यासो व्यर्थ इति भावः ॥ १-२-६ ॥

श्रीनिवासतीर्थीया

अङ्गीकृते चेत्यत्र यस्मिन्नित्यनुवर्तते । तन्निवृत्तिस् तयोः पर्यायव्यर्थ-तयोरित्यर्थः । तथाच यस्मिन्नङ्गीकृते सति पर्यायव्यर्थते स्यातां, यस्मिन्नङ्गीकृते च तयोर्निवृत्तिर् असावित्यन्वयः । पर्यायव्यर्थते स्यातामित्यस्योपपादकम् ॥ सत्यत्वादिनामिति । तन्निवृत्तिरित्य-स्योपपादकम् । तस्येति ॥ अङ्गीकार्यत्वे विशेषस्येति शेषः । सत्यज्ञानानन्दादाविति । सत्ताजातिमति तद्-व्याप्यज्ञानत्वादिमति चेत्यर्थः । कथञ्चित्सत्यं व्यावहारिकं सत्यम् । वाच्यं मुख्यवृत्त्या प्रतिपाद्यम् । वैपरीत्यस्यानुचितत्वादित्युक्तत्वात्कथञ्चिदित्युक्तम् ॥ १-२-६ ॥