पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन्कल्पयन्ति चेत्
पृथक्तवान्योन्याभावस्वरूपभेदानामैक्यम्
पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन्कल्पयन्ति चेत्
सुधा
अथ मतम् । भेदस्त्रिविधोऽस्माभिरभ्युपगम्यते । पृथक्तवम् अन्योन्याभावः, स्वरूपं चेति । तत्र द्रव्ये त्रिविधोऽपि सम्भवति । गुणादिपञ्चके तु द्विविध एव । पृथक्तवस्य गुणत्वेन तत्रासंभवात् । अभावे तु स्वरूपभेद एव । तत्रान्योन्याभावाभ्युपगमेऽनवस्थाप्रसङ्गात् । अतोऽ-न्योन्याभावस्य भेदत्वेऽपि, भेदस्य (तु) स्वरूपत्वेऽपि, नान्योन्याभावस्य धर्मिस्वरूपत्वम् । स्वरूपभेदातिरिक्तभेदत्वादन्योन्याभावस्येत्यत आह पृथक्त्वेति ।
अनुव्याख्यानम्
पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन्कल्पयन्ति चेत् ॥
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ॥
अभावोऽन्योन्याभावः स धर्मी रूपमात्मा यस्यासौ तद्रूपः । आद्यग्रहणेन दृष्टहानिरदृष्ट-कल्पना च गृह्यते । तत्र तु तथाकल्पने त्वित्यर्थः ।
कथं पृथक्त्वान्योन्याभावस्वरूपभेदानां भेदाङ्गीकारे कल्पनागौरवादिकमित्यत आह पृथक्त्वेति ।
अनुव्याख्यानम्
पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ॥
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ॥
अन्यत्वमन्योन्याभावः । भेदः स्वरूपभेदो घटात्पृथक् घटो न भवति पट एवेति । पृथक्तवा-न्योन्याभावस्वरूपभेदाः सर्वैर्लौकिकैर्वैदिकैश्च पर्यायेणैव क्रमेणैव पृथग्वाक्यतया व्यवह्रियन्ते, न जातु एकवाक्यनिवेशेन ।
एतदुक्तं भवति । यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वाद् एकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कल्पनागौरवम् । यथा च घटादिव्यवहारान् पर्यायेणैव कुर्वाणैस्त-न्निमित्तमेकतयैव दृष्टमिति, तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति । तथा पृथगा(क्त्व)दि व्यवहाराणामपि पर्यायत्वाद् एकेनैव स्वरूपभेदेनोपपत्तौ, निमित्तत्रयकल्पने कल्पनागौरवम् । नियमेनासहप्रयोक्तृभिः पृथक्तवादीनामैक्यं दृष्टमिति, तत्परित्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्ट-कल्पना च स्यादिति । अविनाभावित्वान्न सहप्रयोग इति चेत् । मा भूद्घटात्पृथगित्युक्तवा घटो न भवतीति प्रयोगः । घटो न भवतीत्युक्त्वा घटात्पृथगिति कस्मान्न भवेत् । पृथक्त्वे सति अन्योन्या-भावादिकं नियतं न त्वन्योन्याभावे पृथक्त्वमिति परेणैव व्युत्पादितत्वात् । न चायमस्ति नियमोऽ-विनाभूतं सह नोच्यत इति । पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वादीनीति तदीयग्रन्थ एव व्यवहारदर्शनात् । लौकिकाः प्रयोजनमात्रपराः । अन्यतमव्यवहारेणैव तत्प्रयोजन-सिद्धेर्न सह व्यवहरन्तीति चेन्न । वैदिकैरप्येवमेव व्यवहारात् । तदिदमुक्तम् । वैदिकैरपीति । किञ्च पर्यायप्रयोगस्यान्यथात्वकल्पनं क्वचिदपर्यायप्रयोगे सति स्यात् । अन्यथा घटादिव्यवहारेऽपि तथा-प्रसङ्गात् । न चैतदस्ति । तत्कथमन्यथाकल्पनं निर्मूलमुपपद्येत इति । एतदप्युक्तं सर्वश इति, सततमिति च ।
शेषवाक्यार्थचन्द्रिका
तथाऽप्यन्योन्याभावस्य भेदत्वव्युत्पादनमात्रेणैवाभिमतप्रयोजनसिद्धेर्न तत्त्रैविध्येऽपि काचित्क्षतिरित्यनर्थकं तत्त्रैविध्यनिराकरणमित्यतस् तत्त्रैविध्यपक्षेऽनिष्टप्रदर्शनपूर्वकं तं पक्षमुत्थाप्य, तन्निरासकतयोत्तरवाक्यं योजयति अथ मतमिति । द्विविध इत्युक्तया प्राप्तां कश्चिद्द्विविधो भेद इत्यव्यवस्थां विधाद्वयसूचनेन परहिरन्नेव पृथक्त्वासम्भवहेतुं चाह पृथक्त्वस्येति ॥ तत्रेति । गुणादिपञ्चक इत्यर्थः । अन्यथा गुणादिपञ्चकस्य द्रव्यतायाः, अतिव्याप्ततया गुणवत्वस्य द्रव्यालक्षण-त्वस्य वा प्रसक्तेरिति भावः । कुतस्तत्र स्वरूपभेद एवेत्यतः पृथक्त्वस्य गुणत्वेनाभावेऽसम्भव-स्योक्तरीत्या सिद्धत्वादन्योन्याभावमात्रासम्भवे हेतुमाह तत्रेति । पृथक्त्वान्यत्वभेदा इत्युत्तरवाक्यानु-सारेण सामान्यशब्दोऽप्यभावशब्दोऽभावविशेषान्योन्याभावपर इत्याह अभाव इति । पूर्ववाक्येनैव भेदत्रैविध्यस्य दूषितत्वान् नोत्तरेण कृत्यमित्यतो भेदत्रैविध्ये प्रतिज्ञातकल्पनागौरवाद्युपपादकत्वान्न वैयर्थ्यमिति भावेन, तद्वाक्यं तथा योजयति कथमिति । अन्योन्याभाववत एवान्यशब्दार्थत्वादन्योन्या-भावस्यैव च तद्धर्मत्वाद् अन्यत्वमन्योन्याभाव इत्याह अन्यत्वमिति । पृथक्त्वान्योन्याभावयोः पृथगभिधानात्साधारणोऽपि भेदशब्दस् तद्विशेषपर इत्याह भेद इति । पृथक्त्वादि व्यवहारस्वरूपप्रदर्शनं घटात्पृथगित्यादि । सर्वश इत्यस्य प्रतिपदं सर्वैरिति । पर्यायेणेति भाष्यपदानुवादस्तद्-व्याख्यानं क्रमेणेति । तस्यैव विवरणं पृथग्वाक्यतयेत्यादि । पृथक्त्वान्योन्याभावस्वरूपभेदानां पर्यायेणैव व्यवह्रियमाणत्वेऽपि कथं तत्त्रैविध्यकल्पने कल्पनागौरवादिकमित्यतस्तथा दृष्टत्वादित्याह एतदुक्तं भवतीति ॥ अविनाभावित्वादिति । तथा चान्यथासिद्धत्वादसहप्रयोगस्य न तेन पृथक्त्वादीना-मैक्यसिद्धिरिति भावः । अविनाभावाभावेऽप्यसहप्रयोगान्नान्यथासिद्धिरित्याशयेनाह मा भूदिति घटो न भवतीति । प्रयोग इत्युपलक्षणम् । पट एवेति प्रयोग इत्यपि द्रष्टव्यम् । घटो न भवतीत्युक्त्वेत्यप्युप-लक्षणम् । पट एवेत्युक्त्वेत्यपि द्रष्टव्यम् ॥ कस्मादिति । पृथक्त्वस्यान्योन्याभावादिनाऽविनाभाववद् अन्योन्याभावादेः । पृथक्त्वाविनाभावाभावेनाविनाभावादसहप्रयोगानुपपत्तेरिति भावः । कुतः पृथक्त्वान्योन्याभावादिकयोर् अन्योन्यभावादिपृथक्त्वाविनाभावभावाभावावित्यत आह पृथक्त्वे सतीति ॥ न त्वन्योन्याभाव इति । न त्वन्योन्याभावादिक इत्यर्थः । अत एव पूर्वमन्योन्याभावादिकमिति आदिपदम् । अत्र सतीति नियतमिति चानुवर्तते । तथा चान्योन्याभावादिके सति न पृथक्त्वं नियत-मित्यर्थः ॥ परेणैवेति । भेदत्रैविध्यवादिनेत्यर्थः । पृथक्त्ववति द्रव्येऽन्योन्याभावादेः सत्त्ववद् अन्योन्याभावादिमति गुणादौ पृथक्त्वस्यासत्त्वेनाव्यभिचारव्यभिचाराभ्यामेवोक्तनियमानियमसिद्धिरिति भावः । अङ्गीकृत्याऽविनाभूतस्यासहप्रयोगनियमं, घटो न भवतीत्युक्त्वा घटात्पृथगिति प्रयोग आपादितः । इदानीं तूक्तनियमस्यैवाभावाद्घटात्पृथगित्युक्त्वापि, घटो न भवतीति प्रयोगो वर्जनीय एवेत्याह न चेति । नापीत्यर्थः । कुतो न नियम इत्यतो व्यभिचारादित्याह पृथिवीति ॥ तदीयग्रन्थ एवेति । प्रशस्तपादभाष्य एवेत्यर्थः । यद्यपि क्षितिजलज्योतिरनिलमनसां क्रियावत्त्वमूर्तत्वपरत्वा-परत्ववेगवत्त्वानीति तत्र पठितम् । तथाऽप्यर्थानुवादोऽयमित्यदोषः । वैदिकैरित्यनेन व्यावर्त्यां शङ्कां दर्शयति ॥ लौकिका इति । मूले सर्वश इत्यादिना सूचितम् असहप्रयोगस्यान्यथासिद्धत्वमाह किञ्चेति ॥ पर्यायप्रयोगस्येति । असहप्रयोगस्येत्यर्थः ॥ अन्यथाकल्पनीयमिति । अविनाभूतत्वनिमित्तत्व- कल्पनमित्यर्थः ॥ क्वचिदपर्यायप्रयोग इति । क्वचित्सहप्रयोग इत्यर्थः ॥ अन्यथेति । क्वचित्सह-प्रयोगाभावेऽपि पर्यायप्रयोगस्याऽविनाभावित्वनिमित्तत्वकल्पन इत्यर्थः । घटादीत्यादिपदेन कलश-कुम्भयोर्ग्रहणम् ॥ तथाप्रसङ्गादिति । अविनाभावित्वादसहप्रयोगप्रसङ्गादित्यर्थः । अस्तु तर्हि क्वचित् सहप्रयोगादेव पर्यायप्रयोगस्यान्यथाकल्पनमित्यत आह न चेति ।
परिमल
परेणैव व्युत्पादितत्वादिति । अथ मतमित्यादिग्रन्थेनेति भावः । क्रियावत्त्व-मूर्तत्वेत्यादि । तेषामन्योन्यमविनाभावाभ्युपगमादिति भावः ॥ अपर्यायप्रयोगे सतीति । परेण सहप्रयोगे निर्णीते सतीत्यर्थः ॥ घटादिव्यवहारेऽपीति । घटकरीरकलशादिव्यवहारेऽप्यसहप्रयोगस्य प्रयोजनान्तर प्रसङ्गादित्यर्थः ॥ न चैतदिति ॥
यादुपत्यं
क्वचिदपर्यायप्रयोग इति । क्वचित्सहप्रयोगे प्रमिते सतीत्यर्थः ॥ अन्यथा घटादिति । घटकलशादिव्यवहारेऽप्यविनाभावादेव न सहप्रयोग इति स्यादिति भावः ॥
श्रीनिवासतीर्थीया
अनवस्थेति । अभावेऽपि चेदितरान्योन्याभावस्वरूपभेदोऽङ्गीक्रियते तर्हि तस्याप्य भावत्वेन तत्राप्यन्योन्याभावरूपभेदाङ्गीकारप्रसक्त्याऽनवस्थेत्यर्थः । भेदस्येत्यर्थः स्वरूप-भेदस्येत्यर्थः। तद्रूपः स्वरूपभेदः । पृथग्वाक्यतया भिन्नवाक्यनिवेशेन । जातु कदाऽपि ॥ एकेनैवेति । पृथुबुध्नोदराकारत्वरूपेणैकेनैव प्रवृत्तिनिमित्तेनेत्यर्थः । घटत्वादित्यत्रादिपदेन कलशत्वादिग्रहणम् ॥ निमित्तत्रयेति । पृथक्त्वादिनिमित्तत्रयेत्यर्थः ॥ अविनाभावित्वादिति । न तु पर्यायत्वादित्यर्थः । घटात्पटः पृथक् । घटादन्य इति एकदा न प्रयुज्यते । कुतः । यत्र पृथक्त्वं तत्रान्योन्याभाव इति व्याप्तेः सत्वेन व्याप्यभूतपृथक्त्वोक्त्या व्यापकीभूतोऽप्यन्योन्याभावादिर्लब्ध इति न तयोः सहप्रयोग इति भावः। उभयं क्रमेणोपपादयति ॥ पृथक्त्वे सतीति । पृथक्त्वे सत्यन्योन्याभयो नियतः । यत्र पृथक्वं तत्रान्योन्याभावः । द्रव्ये दर्शनादिति त्वयोक्तत्वात् । तथाच व्याप्योक्त्या व्यापकस्य लब्धत्वेनादौ घटात्पृथगित्युक्त्वा पश्चाद्घटो न भवतीति प्रयोगो मा भूत् । तथाऽप्यादौ घटो न भवतीत्युक्त्वा पश्चाद्घटात्पृथगिति तु स्यादेव । न चात्रापि पूर्वोक्तरीत्याऽन्योन्याभावस्य पृथक्त्वव्याप्तत्वेन व्याप्य-भूतान्योन्याभावस्तत्र पृथक्त्वमिति यावद् व्याप्तिर्नैव । रूपं रसो न भवतीति प्रतीत्या गुणादौ व्यभिचारस्य पृथक्त्वस्य गुणत्वेन तत्रासम्भवादिति त्वयोक्तत्वादिति भावः ॥ पृथिवीत्यादि । पृथिवीत्वादीनां क्रियावत्त्वादिनाऽविनाभूतत्वादिति भावः ॥ न सहेति । घटो न भवतीत्युक्त्वा घटात्पृथगिति न व्यवहरन्तीत्यर्थः ॥ अन्यथाकल्पनमिति । अविनाभावित्वेन वा, लौकिका-नामन्यतमव्यवहारेण प्रयोजनसिद्ध्या वा न प्रयोग इत्यन्यथाकल्पनमन्यथासिद्धिकल्पनमित्यर्थः । एवमुत्तरत्रापि । अपर्यायप्रयोगे क्वचिद्युगपत्प्रयोगे । यथा धूमवत्त्वादग्निमानिति क्वचित्सहप्रयोगोऽस्तीति कृत्वा कदाचिद्धूमवत्त्वादित्युक्तेऽविनाभावाद्वह्निर्गम्यत इति दृष्टम् । तद्वदत्रापि पृथक्त्वादीनां पर्याय-प्रयोगस्य सहाप्रयोगस्येति यावत् । अविनाभावेनान्यथासिद्धिकल्पनं तदा स्याद्यदि कस्मिंश्चित्प्रयोगे पृथक्त्वादित्रयमपि युगपत्प्रसज्येत । न चैवम् । तस्मादन्यथासिद्धिर्न कल्प्येत्यर्थः ॥ अन्यथेति । क्वचित्पर्यायप्रयोगाभावेऽपि पर्यायप्रयोगस्याविनाभावादिनाऽन्यथासिद्धिः कल्प्यते, तर्हि घटकरीर-कलशादीनां पर्यायेण क्रमेण प्रयोगः कुत इत्युक्ते घट इत्युक्तौ कलशो लभ्यते । घटाविनाभूत-त्वात्कलशस्येत्यप्यन्यथासिद्धिकल्पना स्यात् । न तु घटस्यैव कलशत्वादिति । तत्र चैतावदेव वाच्यम् । क्वचिदसहप्रयोगाभावान्नान्यथासिद्धिः कल्प्येति । सममेतत्प्रकृतेऽपीति ॥ सर्वश इति । क्वचिद-पर्यायप्रयोगे सति पर्यायप्रयोगस्यान्यथाकल्पना कार्या । न चैवम् । किन्तु सर्वशः सततं पर्यायेणैव प्रयोगादिति भावः सूचित इति ध्येयम् ।
पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः
पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः
सुधा
अथ मतम् । पृथक्तवान्योन्याभावयोस्तावत्स्फुटो विवेकः । यत्पृथक्तवमवधिनिरूप्यम् । अन्योन्याभावस्तु प्रतियोगिनिरूप्यः । किं च, ‘अन्यारादितरर्त’ इति पृथक्त्ववाचिपदयोगे पञ्चम्यनुशिष्यते । अन्य इत्यर्थग्रहणमिति वचनात् । अन्यथा भिन्नो घटात्पटोऽर्थान्तरं घटात्पट इत्यादौ पञ्चमी न स्यात् । अनुशासनान्तराभावात् । तथा च पृथक्त्वमेव चेदन्योन्याभावस् तदा घटो न भवति पट इत्यत्रापि पञ्चमी स्यात् । न चैवम् । तेन जानीमोऽन्यत्पृथक्त्वम्, अन्यश्चान्योन्याभाव इति । स्वरूपभेदस्य चाभ्याम् उभयाभ्यां विवेकः । परनिरूप्यत्वविरहाद्विधिरूपत्वाच्च । एवं च व्यवहारपर्यायताऽन्यथोपपादनीयेति ।
शेषवाक्यार्थचन्द्रिका
पृथक्त्वान्योन्याभावस्वरूपभेदानां भेदस्य युक्त्यादिसिद्धत्वान्न सहा-प्रयोगस्याविनाभावित्वादिनिमित्तकत्वकल्पनं निर्मूलमित्याशयेन लीलावतीकिरणावल्यादावुपपादितं तद्भेदमुत्थापयति अथ मतमिति ॥ यत्पृथक्त्वमवधीत्यादि । उपलक्षणमेतत् । पृथक्त्वं विधिरूपम् अन्योन्याभावस्तु निषेधरूप इत्यपि द्रष्टव्यम् । ननु पञ्चम्यन्तपदाभिलप्यमानं प्रतियोगित्वमेवावधित्व-मिति कथं प्रतियोग्यवधिनिरूप्यत्वाभ्यां पृथक्त्वान्योन्याभवयोर्भेद इत्यरुचेराह किञ्चेति । ‘अन्य आराद् इतर ऋते दिक्शब्द अञ्चूत्तरपद आच् आहि’ इत्येतैर्युक्ते पञ्चमीविभक्तिर्भवतीत्युदाहृतसूत्रार्थः ॥ पृथग्वाचीति । पृथक्त्ववद्वाचिपदयोग इत्यर्थः । पृथक्त्ववाचिपदयोग इति पाठेऽप्ययमेवार्थोऽनुसन्धेयः। पृथक्शब्दस्य पृथक्त्वविशिष्टवाचितया पृथक्त्ववाचित्वाभावात् । नन्वत्र सूत्रे पृथक्शब्दानुपादानात्कथं तद्योगे पञ्चम्यनुशासनमेतदित्यत आह अन्य इत्यर्थग्रहणमिति वचनादिति । अन्य इत्यर्थग्रहणमिति वृत्तौ व्याख्यानादित्यर्थः । तथा चान्यार्थका अन्यशब्दपर्याया यावन्तः शब्दास्तद्योगे पञ्चम्या अनेन विधानात् । पृथगादिशब्दानामप्यन्योन्याभाववद्वाचकतयाऽन्यशब्दे पर्यायत्वात्तद्योगे भवत्येवेदं पञ्चम्यनुशासनमिति भावः । ननु ‘स्वं रूपं शब्दस्याशब्दसंज्ञेऽति न्यायेनान्य इत्यस्य शब्दग्रहण-सम्भवादर्थग्रहणत्वाश्रयणमनर्थकमित्यतः शब्दग्रहणत्वे, अन्यो देवदत्तो यज्ञदत्तादित्यत्रैव पञ्चमी स्यात् । न तु भिन्नादिशब्दयोगे । अर्थग्रहणे त्वन्यो भिन्नो विधर्मा अर्थान्तरमितरः पृथगित्यादौ पञ्चमी भवतीत्यर्थग्रहणमेवेदमित्याह अन्यथेति । ननु शब्दग्रहणत्वेऽन्यारादिति सूत्रेण भिन्नादिशब्दयोगे पञ्चम्यप्राप्तावपि लक्षणान्तरेणैव तद्योगेऽपि पञ्चम्युपपत्तेः, किमर्थग्रहणत्वाश्रयणेनेत्यतः स्यादेवं यदि भिन्नादियोगे पञ्चमीविधायकं लक्षणान्तरं स्यात् । न चैतदस्तीत्याह अनुशासनान्तरेति । तथा च शब्दग्रहणेऽनेन पञ्चम्यसंभवाल्लक्षणान्तरस्य चाभावेन तेनापि तदप्राप्तेर्भिन्नो देवदत्तो यज्ञदत्तादित्यादौ पञ्चम्यनुपपत्तिप्रसङ्गात् तत्र पञ्चम्युपपत्त्यर्थमन्य इत्यर्थग्रहणमावश्यकमिति भावः । अस्तु पृथक्त्ववद्वाचिपदयोगे पञ्चम्यनुशासनमिदं सूत्रं, किमेतावतेत्यत आह तथा चेति । अन्यपर्यायशब्दयोगे पञ्चम्यनुशासनाद्घटात्पटोऽन्य इत्यत्रेव घटः पटो नेत्यत्रापि घटात्पटो नेति पञ्चमी स्यादित्यर्थः । न चान्योन्याभाववद्वाचकपदप्रयोगे पञ्चम्यनुशासनादन्यशब्दस्य तादृशतया तद्योगे पञ्चम्युपपत्तावपि नशब्दस्यान्योन्याभाववाचकत्वेन तद्वद्वाचकत्वाभावान्न घटः पटो नेत्यत्र पञ्चमीप्रसङ्ग इति वाच्यम् । भूतले न घटः न पचतीत्यादौ नञः केवलप्रतिषेध इव, लोकेऽपटो घट इति समासे, वेदे च ‘नानु-याजेष्वि’त्यादावन्यस्मिन् प्रचुरप्रयोगादिरूपस्य शक्तिप्रमाणस्य सत्त्वेन प्रतिषेधवाचकत्ववदन्योन्या-भाववद्वाचकत्वोपपत्तावपि केवलान्योन्याभावे क्वाप्यप्रयोगेण तद्वाचकत्वाभावेनान्योन्याभाववद्वाचक-नञ्प्रयोगे घटः पटो नेत्यत्र पञ्चम्या वज्रलेपत्वात् । उपलक्षणं चैतत् । अपटो घट इति समासे नञाऽन्योन्याभाववत एवाभिधानात्तत्रापि पञ्चमी स्यादित्यपि द्रष्टव्यम् । इष्टापत्तिमाशङ्क्य परिहरति न चेति । पृथक्त्वान्योन्याभावयोर्भेदमुपपाद्य स्वरूपभेदस्य पृथक्त्वान्योन्याभावाभ्यां भेदमुपपादयति परनिरूप्यत्वेति । पृथक्त्वान्योन्याभावयोरवधिप्रतियोगिरूपपरनिरूप्यत्वात्ताभ्यामस्य युक्तो भेद इति भावः ॥ विधिरूपत्वाच्चेति । यद्यपि पृथक्त्वस्यापि विधिरूपत्वान्न विधिरूपत्वं पृथक्त्वात्स्वरूप-भेदस्य विवेचकं सम्भवति । तथाप्यन्योन्याभावमात्रविवेचकतयैवास्योपन्यास इत्यवधेयम् । पृथक्त्वादि-भेदसमर्थनस्य प्रयोजनमाह एवं चेति ॥ अन्यथेति । अविनाभावनिमित्तकत्वेनेत्यर्थः ।
परिमल
अपर्यायप्रयोगस्य प्रयोजनान्तरं क्वचित्प्रमितत्वं च नास्तीत्यर्थः । असहप्रयोग-स्यान्यथाकल्पनं समूलमिति शङ्कते । अथ मतमिति ॥ यदिति । यस्मादित्यर्थः । पाणिनीयसूत्रबलाच्च पृथक्त्वान्योन्याभावयोर्भेदः सिध्यतीत्याह किञ्चेति । ननु अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते, इति सूत्रे अन्य आराद् इतर, ऋते दिक्शब्द अञ्चूत्तरपद अच् आहीत्येवंरूपशब्दयोगे पञ्चमी भवतीत्ये-वोच्यते । न च पृथक्त्ववाचिशब्दयोग इति तत्राह अन्य इतीति ॥ वचनादिति । वृत्तिकारस्येति योज्यम् ॥ आभ्यां विवेक इति । पृथक्त्वान्योन्याभवाभ्यां पार्थक्यमित्यर्थः ।
यादुपत्यं
यत्पृथक्त्वमवधिनिरूप्यमित्यादि । इदमुपलक्षणम् । यत्पृथक्त्वं भावरूप-मन्योन्याभावस्तु अभावरूप इत्यपि द्रष्टव्यम् ॥ किञ्चान्यारादितरेति । एतैर्योगे पञ्चमी स्यादिति तदर्थः । एवं चान्यारादितरर्त इति सूत्रैकदेशस्यैवात्र ग्रहणमिति ध्येयम् । नन्वत्र पृथक्त्ववाचिपदं नोपात्तमित्यत आह अन्य इत्यर्थेति । तथा चान्यत्वार्थका येऽन्यशब्दपर्यायाः पृथक् भिन्नोऽर्थान्तर-मित्यादयः शब्दास् तद्योगेऽपि पञ्चम्यत्रानुशिष्टेति गम्यत इति भावः । विधिरूपत्वाच्चेति । इदं च स्वरूपभेदस्यान्योन्याभावादेव विवेकसाधनायोक्तमिति ज्ञातव्यम् ॥ अन्यथोपपादनीयेति । अविना-भावादिनेति शेषः ।
श्रीनिवासतीर्थीया
अवधीत्यादि । अवधित्वं प्रतियोगित्वं च भिन्नमिति शङ्कितुर्हृदयम् । अन्यथा अर्थग्रहणाभावे । आभ्यां पृथक्त्वान्योन्याभावाभ्याम् । विवेको भेदः । परो ऽवध्यादिः ॥ विधीति । पट एवेति प्रतीयमानस्य स्वरूपभेदस्य विधिरूपत्वादन्योन्याभावस्य निषेधरूप-त्वान्नानयोरेक्यमित्यर्थः ॥ एवं चेति । त्रयाणां भेदस्य सत्त्वादित्यर्थः । पर्यायता=क्रमेण प्रयोगः । अन्यथा=अविनाभावादिना ।