अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन
अदृश्यत्वादयो गुणाः
अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन
सुधा
यस्त्वन्योन्याभावस्य धर्मिस्वरूपतां क्वापि न मन्यते । स प्रष्टव्यः । किं निमित्तोऽय-मनभ्युपगमः । किं विरोधादुत, प्रमाणाभावात्, अथ बाधकसद्भावात् । आद्ये कथमन्योन्याभावस्य धर्मिणा विरोध इति वक्तव्यम् । विधिनिषेधरूपत्वेनेति चेत्, तदेव कथम् । नञः प्रयोगा-प्रयोगाभ्यामिति चेत् तत्राह अतद्भाव इति ।
अनुव्याख्यानम्
अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन ।
पटस्य ह्यघटत्वं घटादन्यत्वं चैकमेव । अघटो घटादन्य इत्यनयोर्विशेषाप्रतीतेः । विद्येते च नञः प्रयोगाप्रयोगौ इत्यतो व्यभिचार इत्यर्थः । स्थलान्तरे व्यभिचारं दर्शयति दोषाभाव इति ।
अनुव्याख्यानम्
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ॥
आरोग्यं गुणो ऽक्रौर्यं गुण; इति नञ्प्रयोगविषयस्य निषेधस्य रोगाद्यभावस्य, नञ्प्रयोगा विषयो विधिरूपत्वं गुणत्वं, लौकिकवैदिकेषु व्यवहारेषु प्रसिद्धम् । उपलक्षणं चैतत् । अनौदार्यं दोषः, इति गुणाभावस्य दोषत्वमपि प्रसिद्धम् । अतो(ऽपि) व्यभिचार इत्यर्थः । अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनं न औत्प्रेक्षिकम् । किन्तु सूत्रकृतोऽप्यभिमतमिति दर्श(सूच)यितुं सूत्रकृताऽ-प्ययं व्यभिचारः सूचित इत्याह अदृश्यत्वादिकानिति ।
अनुव्याख्यानम्
अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ।
यस्मान्नञः प्रयोगाप्रयोगौ नाभेदविरोधिनौ, तस्मात्तदेव सूचयितुमदृश्यत्वादिगुणक इत्यदृश्य-त्वादीनां नञ्वाच्यानामतथाभूतानां गुणानां चैक्यमाह सूत्रकारः । अन्यथा दृश्यत्वादीत्यवक्ष्य-दिति । अनेन सप्रतियोगित्वनिष्प्रतियोगिकत्वाभ्यां विरोधोऽपि परास्तो वेदितव्यः ।
शेषवाक्यार्थचन्द्रिका
ननु ‘अतद्भावोऽन्यता चे’ति अघटत्वघटान्यत्वयोर्विधिनिषेध- रूपत्वेऽप्यभेदेनानैकान्त्यान्न विधिनिषेधरूपविरोधस्यैक्याभावसाधकत्वम् इत्यर्थवर्णनपरोत्तरवाक्यम-सङ्गतम् । न च विधिनिषेधरूपत्वेन अन्योन्याभावतद्वतोर्विरुद्धत्वान्न दृश्याद्यन्योन्याभावस्य ब्रह्म-स्वरूपत्वमिति निराकरणार्थत्वान् नासङ्गतिरिति वाच्यम् । तथा सत्युक्तन्यायेन लोकेऽप्यन्योन्याभावस्य धर्मिस्वरूपत्वाभावापत्त्या लोके धर्मिस्वरूपत्ववादिनोक्तयुक्तेस्तत्रान्यथयितव्यत्वेन तन्न्यायेन ब्रह्मण्य-प्यन्यथयितुं शक्यत्वेन लोकेऽन्योन्याभावस्य स्वरूपत्ववादिनोक्तानुपपत्तेरशक्यशङ्कत्वादित्यतो विरोधेन स्वरूपत्ववादिन उक्तशङ्काऽनुदयेऽपि लोकेऽप्यन्योन्याभावस्यास्वरूपत्ववादिनो विरोधाभावादुक्त-शङ्कोपपत्तेरुक्तरीत्या तत्परिहारकतयोत्तरवाक्यस्य सङ्गतिरित्याशयेन तर्ह्यनङ्गीकारहेतोरन्यस्यापि सम्भवान्न विरोधमात्रनिराकरणेनान्योन्याभावस्य तं प्रति धर्मिस्वरूपत्वसिद्धिरित्यतः सत्यमिति भावेन संभावितानभ्युपगतहेतून्विकल्प्य प्रथमपक्षनिरासकतयोत्तरभाष्यं योजयति यस्त्विति ॥ क्वापीति । ब्रह्मण्यन्यत्रापीत्यर्थः ॥ कथमिति । किं रूप इत्यर्थः । किं भावाभावरूपः किं वा सप्रतियोगिकत्व निष्प्रतियोगिकत्वरूप इति प्रश्नार्थः ।
यद्वा । कथमित्यत्र सिद्धपदाध्याहारेण साधकप्रमाणप्रश्नोऽयमवगन्तव्यः । ततश्च साधक-प्रमाणाभावेन विरोधस्यैवासिद्धेर्न तेनान्योन्याभावतद्वतोरैक्याभावसाधनमुपपन्नमिति भावः । आद्यं शङ्कते विधीति । विशेषेण सामान्यानुमानमिति भावः ॥ तदेव कथमिति । विधिनिषेधरूपत्वसिद्धौ तेन विरोधसाधनसम्भवेऽपि साधकप्रमाणाभावेन तस्यासिद्धेर्न तेन विरोधसाधनं सम्भवतीति भावः । नञः प्रयोगाप्रयोगयोरेव विधिनिषेधरूपत्वसाधकत्वान्न साधकाभाव इति शङ्कते नञ इति । अयमत्र प्रयोगप्रकारः । घटतद्धर्मिकान्योन्याभावौ नाभिन्नौ विरुद्धत्वात्सम्मतवत् । विमतौ विधिनिषेधरूपौ नञ्प्रयोगाप्रयोगविषयवत्वात्संमतवदिति । अघटत्वे घटान्यत्वे च सत्यपि विधिनिषेधरूपत्वे विरोधा-भावात्तत्र व्यभिचार इति वक्तुं विरोधरूपसाध्यस्यापि तत्र सत्वान्न व्यभिचार इति शङ्कापरिहाराय साध्याभावोपपादकतया मूलं योजयति पटस्य हीति । ननु चाविरोधेऽप्यघटत्वघटान्यत्वयोर्विधि-निषेधरूपत्वस्यैवाभावाद्धेतोरेव तत्रागमनान्न व्यभिचार इत्यतो विधिनिषेधरूपत्वे नञ्प्रयोगाविषयत्व-तद्विषयत्वयोरेव प्रयोजकत्वेन परस्याभिमतत्वात्सत्यपि नञ्प्रयोगविषयत्वेविधिनिषेधरूपत्वाभावे व्यभिचारप्रसङ्गेन विधिनिषेधरूपत्वावश्यंभावान्न हेत्वभावस्तत्रेत्याह विद्येते चेति । अतो विधि-निषेधरूपत्वमावश्यकमिति वाक्यशेषः ॥ अतो व्यभिचार इति । विधिनिषेधरूपत्वस्य विरोध-लक्षणसाध्येनेति शेषः ॥ स्थलान्तर इति । आरोग्यगुणयोरक्रौर्यगुणयोर्वा सत्यपि विधिनिषेधरूपत्वे विरोधस्याभावाद्य्वभिचार इति भावः । कुतस्तयोर्विधिनिषेधरूपत्वं येन तत्र हेतुवृत्ति विधिनिषेधरूपत्वे विरोधस्याभावाद्य्वभिचार इति भावः । कुतस्तयोर्विधिनिषेधरूपत्वं येन तत्र हेतुवृत्तिः स्यादित्यत आह आरोग्यमित्यादिना । न विद्यते रोगो यस्यासावरोगस्तस्य भाव आरोग्यमिति भावस्य नञ्प्रयोग-विषयत्वान्निषेधत्वमिति भावः । सप्रतियोगिकत्वनिष्प्रतियोगिकत्वरूपो विरोध इति द्वितीयपक्षं प्रथम-पक्षोक्तदूषणातिदेशेन दूषयति अनेनेति । अक्रौर्यं गुणः, अनौदार्यं दोषः, इत्यादौ व्यभिचारेणेत्यर्थः । तत्राप्यक्रौर्यानौदार्ययोः सप्रतियोगिकत्वाद्गुणदोषयोश्च निष्प्रतियोगिकत्वादस्ति सप्रतियोगिकत्वनिष्प्रति-योगिकत्वरूपो विरोधः । न च साध्योऽभेदाभावस्तत्रास्तीति भावः ।
परिमल
अक्रौर्यमिति । शान्त्यभावाभाव इत्यर्थः ॥ अनेनेति । निष्प्रतियोगिकसप्रति-योगिकरूपे गुणदोषाभावादावभिन्ने बहुस्थले व्यभिचारकथनेनेत्यर्थः ॥
यादुपत्यम्
आरोग्यमिति । न विद्यन्ते रोगा यस्य सोऽरोगस्तस्य भाव आरोग्यमिति रोगाभावस्य नञ्प्रयोगविषयत्वमित्यर्थः ॥
श्रीनिवासतीर्थीया
तदेव विधिनिषेधरूपत्वमेव ॥ विद्येते चेति । अघट इत्यत्रास्ति नञः प्रयोगः । नास्ति च घटादन्य इत्यत्र । अन्यत्वस्य भावरूपत्वादिति ध्येयम् ॥ अतो व्यभिचार इति । नञ्प्रयोगाप्रयोगविषयत्वप्रयुक्तविधिनिषेधरूपत्वं यत्र तत्रैक्याभाव इति व्याप्तेरघटत्वघटान्यत्वयो-र्व्यभिचार इत्यर्थः । गुणाभावस्य नञ्प्रयोगविषयस्येत्यर्थः ॥ दोषत्वमिति । नञ्प्रयोगाविषयविधिरूप- दोषत्वमित्यर्थः । तदेव अभेदाविरोधित्वमेव ॥ अनेनेति । दोषभावो गुण इत्यादौ व्यभिचारेणेत्यर्थः ।