०१ क्रियाभावरूपलिङ्गसमन्वयः

ॐ अन्तर उपपत्तेः ॐ

क्रियाभावरूपलिङ्गसमन्वयः

अन्तराधिकरणम्

ॐ अन्तर उपपत्तेः ॐ

**सुधा **

ॐ अन्तर उपपत्तेः ॐ ॥ अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम् । तदयुक्तम् । सूत्रे भावस्यैव प्रतिज्ञानात् क्रियाया अनुक्तेरित्यतोऽन्तरशब्दमुभयार्थतया व्याख्याति अन्तरिति ।

अनुव्याख्यानम्

अन्तः स्थित्वा रमणकृदन्तरः स उदाहृतः ॥

रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥

अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः । उणादयो बहुलमित्युपपदलोपः । विवक्षितं चैतत्सूत्रकारस्य । अन्यथा ‘अन्तस्तद्धर्मोपदेशादि’तिवद् अन्तरुपपत्तेरित्यवक्ष्यत् । लघु चैवं सति सूत्रं स्यात् । अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति । ननु च ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच’ इत्येतदत्रोदाहरणवाक्यम् । अत्र चाक्षिस्थ एव प्रतीयते । न तस्य रमण-कर्तृत्वम् । श्रुत्युक्तमेव सूत्रैः प्रतिज्ञातव्यम् । तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह रमणं चेति । न केवलमक्षिस्थत्वम् । किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः । न केवलं सूत्रेऽपि तु श्रुतौ चेति द्वितीयः । आत्मशब्देन एष आत्मेत्यनेन । आदेयम्=उपादेयं सुखं सुखसाधनं च माति=अनुभवतीति निर्वचनेनेत्यर्थः । आङ्पूर्वकाद्ददाते-र्मन्यतेश्च क्विप् ॥

शेषवाक्यार्थचन्द्रिका

ॐ अन्तर उपपत्तेः ॐ ॥ भावस्यैवेति । अन्तरशब्दस्य अन्तःशब्द-पर्यायतयाऽन्तःस्थितिमात्रस्यैव अन्तर इत्यनेन प्रतीतेरिति भावः ॥ उभयार्थतयेति । क्रियाभावरूपो-भयार्थतयेत्यर्थः । कथमेतावतोऽर्थस्यान्तर इत्येतस्माल्लाभ इत्यतः प्रकृतिप्रत्ययविभागप्रदर्शनेन भाष्यकारीयं व्याख्यानमुपपादयति अन्तःशब्दोपपदादिति ॥ ञमन्ताड्ड इति । अत्र ञमिति प्रत्याहारग्रहणं ञमङणनमिति । ञमन्ताद्धातोर्डप्रत्ययो भवतीत्यर्थः । ततश्च मान्ततया ञमन्ताद् रमेः कर्तरि डप्रत्यये चुटू इति डकारस्येत्संज्ञायां डित्वविधिसामर्थ्यादभस्यापि रमे ष्टिलोपे र इति रूप-निष्पत्तिरिति भावः । न चैवं दम् उपशमे इत्यस्माद्दम्यन्तेऽनेनोद्धता जना इति करणे डप्रत्यये डस्येत्संज्ञायां टिलोपे च द इत्येव स्यान्न तु दण्ड इति । तथा च वनषणसंभक्तावित्यस्य भौवादिकस्य वनतेरपि डप्रत्ययान्तस्य द इत्येव स्यान्न तु वण्ड इतीति वाच्यम् । चुटू, षःप्रत्ययस्य, इत्यत्र चुटूषाः प्रत्ययस्येत्येकयोगे कर्तव्ये पृथग्योगकरणमस्य, अनित्यत्वज्ञापनार्थमित्याकरे स्थितत्वेन चुटू इत्यस्या-नित्यत्वाद्वा प्रत्ययाद्यतिरिक्तस्य कस्मैचित्कार्याय उच्चार्यमाणस्यैव वर्णस्येत्संज्ञाया आकरे स्थित्या प्रयोजनाभावाद्वा बाहुलकाद्वलुश् विधाविव लुप्तयकारप्रत्ययादित्वाद्वा डस्येत्संज्ञाभावसिध्या दण्डो इत्यादिरूपसिद्ध्युपपत्तेरप्रत्यूहात्वात् । नन्वेवमपि रोरीत्युपपदान्तरेफलोपे ‘ढ्रलोपे पूर्वस्य दीर्घोऽण’ इति दीर्घतायां च सत्यां पुनारमत इत्यादिवदन्तार इति भवितव्यम् । अन्तर इति तु कथम्, इत्यतः स्यादेतदेव यद्यत्र रोरीति रेफनिमित्तको रेफलोपोऽभिमतः स्यान् न चैवं, किं नाम बाहुलकनिमित्त एव । तथा च रेफलोपनिमित्तकस्य रेफस्य परत्वाभावान्न दीर्घत्वप्रसङ्ग इत्याह उणादय इति ॥ उपपदलोप इति । अलोन्त्यपरिभाषयोपपदान्त्यरेफलोप इत्यर्थः । ‘क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्यचतुर्विधं बाहुलकं वदन्ती’त्यभियुक्तोक्तेर्बाहुलकग्रहणा-दपेक्षिताशेषार्थसिद्धिरिति ध्येयम् । किमनया कुसृष्टिकल्पनया सूत्रेऽन्तःस्थितिमात्रस्यैव प्रतिज्ञा किं न स्यादित्यत आह विवक्षितं चेति । तत्कथमवगम्यत इत्यत आह अन्यथेति । अन्तःस्थितिमात्रस्य तावतैव लाभादिति भावः । भावमात्रस्यैव प्रतिज्ञायामन्तरित्यस्यैव वक्तव्यत्वे निमित्तान्तरमाह लघु चेति । उपलक्षणं चैतत् । श्रुत्यनुगतं च स्यादित्यपि द्रष्टव्यम् । भाष्यकारीयं रमणकर्तृत्वस्यात्म-शब्दार्थत्ववर्णनमनर्थकम् इत्यतः सूत्रस्य श्रुत्यननुगतत्वशङ्कापरिहारार्थं तदिति भावेन, अननुगमशङ्का-परिहारकतया तद्वाक्यं योजयितुं श्रुतिसूत्रयोरननुगममाशङ्कते नन्विति ॥ न तस्य रमणकर्तृत्वमिति । तत्प्रतिपादकशब्दाभावादिति भावः ॥ श्रुत्युक्तमेव चेति । सूत्रस्य श्रुत्यनुसारित्वादिति भावः । असंकीर्णार्थप्रदर्शनेन चशब्दद्वयवैयर्थ्यं परिहरति न केवलमिति ॥ ददातेर्मन्यतेश्चेति । दा दान इत्यस्मात्कर्मणि क्विप्, मन् अवबोधन इत्यस्माच्च कर्तरि क्विबित्यर्थः । तथा च निर्वचनत्वेन धात्वाकार-लोपे दकारस्य तकारे चात्मन्निति प्रातिपदिकनिष्पत्तिरिति भावः ॥

परिमल

॥ ॐ अन्तर उपपत्तेः ॐ । चक्षुरन्तस्थो विष्णुरेवेति भाष्यदिशा वा पररीत्या वा अन्तरशब्दस्यान्तःस्थत्वार्थत्वं मत्वा शङ्कते अत्रेत्यादिना ॥ इत्युक्तमिति । सर्वत्रेतिनये ‘एतद्भावाभिधं लिङ्गमि’त्यादिविषयमालायामुक्तमित्यर्थः ॥ रमतेरिति । रमुक्रिडायामित्यस्माद्धातोः कर्तरि ‘ञमन्ताड्डः’ इति उणादिसूत्रेण ञम्संज्ञककवर्गादिपञ्चवर्गान्तिमवर्णान्यतमवर्णान्ताद्धातोर्डप्रत्यये चुटू इति डकारव्यञ्जनस्य लोपे डित्त्वात् ‘अभस्यापि’ इति धातोर्प्तिलोपे र इति रूपमिति भावः । नन्वन्तर-शब्दस्य ‘रो रि’ इति रेफस्य ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घे अन्तार इति स्यादित्यत आह उणादय इति । ‘कृवापाजिमिस्विदिसाध्यशूभ्य उण्’ इत्युणादिप्रकरणस्थाद्यसूत्रोक्तोऽण्प्रत्ययादयः, ‘प्रत्यया बहुलं भवन्ति’ यतो विहितास्ततोऽन्यत्रापि भवन्ति, केचिदविहिता एव प्रयोगत उन्नीयन्त इत्यष्टाध्यायी गततृतीयाद्यपादीयाद्यसूत्रे वृत्तावभिधानादिति भावः । एवं च उत्तररेफस्य पूर्वरेफलोपानिमित्तत्वान्न दीर्घप्राप्तिरत्रेति हृदयम् । ञमन्ताड्ड इति विहितडप्रत्ययस्योणादिवृत्तौ ‘उणादयो बहुलम्’ इति बहुल-ग्रहणाच् चुटू’ इतीत्संज्ञा डप्रत्ययस्थडकारव्यञ्जनस्य नेत्युक्त्वा रम्यते रमते वा रण्डेत्याद्युदाहरण-स्योक्तत्वेपीहोत्सर्गतश् चुटू इत्यनेन प्राप्तेत्संज्ञा भवत्येव । यद्वा षःप्रत्ययस्य, चुटू इति पृथग्योगकरणं चुटू इत्यस्यानित्यत्वज्ञापनार्थम् । तथाच तेन वित्तश्चञ्चुप्चणपाविति सूत्रोक्तप्रत्यय चकारस्य नेत्संज्ञा । विद्याचञ्चुरित्यादिसिध्यतीति प्रथमाध्याये तृतीयपादे वृत्त्यादावुक्तत्वाद् रण्डेत्यादौ चुटू इति विधेर-प्रवृत्तिर् इह प्रवृत्तिरिति कारव्यञ्जनस्येत्संज्ञा ध्येया ॥ लघु चैवमिति । न केवलं श्रुत्यनुसारीति चार्थः ॥ अन्तर इति कुर्वन्निममेवार्थमिति । अत्र यत्कश्चिदाह । श्रुतौ ‘अन्योतर आत्मे’त्यादाविवान्तरशब्द एव, न तु अन्तः शब्दः । अन्तर अक्षणीति वक्तव्येऽपि सेदुराजेत्यादिवत् ‘अहहारेत्वे’त्यादिवदयं निर्देशः कृतः । तेन श्रुत्यनुसारिणि सूत्रेऽपि तथैव निर्देशः कृत इति नायं निर्देशो भवदभिमतार्थसाधक इति । तन्न । कल्पकाभावात् । सौत्रनिर्देशस्यान्यथोपपत्तेः । अतिशयाभावाच्च । अन्तस्तद्धर्मेत्यादावपि तथानिर्देशापाताच्च । ‘य एषोऽन्तरादित्ये, य एषोऽन्तरक्षणी’त्येवंरूपवाक्ययोरेव तत्र परैरुदाहृतत्वात् । अत एवेतिवदित्युक्तम् । एतेनान्तर इत्येव श्रुतावपि विच्छेदमुपेत्य क्रियाभावपरत्वेन व्याख्यायताम् । किमात्मशब्दार्थनिर्देशपरतयेत्यपि प्रत्युक्तं ध्येयम् । सर्वत्र तथाऽऽपत्तेः । अन्यथोपपत्तौ वृथाक्लेशायोगा-च्चेत्यलम् । क्विबित्युपलक्षणम् । ददातेराकारलोपस् तकारादेशश्चेति ज्ञेयम् । ‘पूर्वान्तवत्स्वरः सन्धौ’ इत्यादिना यतिभङ्गदोषस्याऽऽनन्दमयनये ‘अभेदेऽपि विशेषेणैवान्य’ इत्यत्रैव परिहृतत्वान्नात्र यति-भङ्गः शङ्क्यः ॥ आदेयशब्दस्य पदद्वयसमाहाररूपत्वाद्वा नात्र यतिभङ्गचोद्यावकाशः । परमतमाशङ्क्य निराह सुखसम्बन्धेति ॥

यादुपत्यम्

॥ ॐ अन्तर उपपत्तेः ॐ ॥ सूत्रे भावस्यैवेति । अन्तरशब्दस्यान्तःशब्दपर्या यतयाऽन्तःस्थित इत्येवान्तर इत्यनेन प्रतीतेरिति भावः॥ ञमन्ताड्ड इतीति । ञमिति प्रत्याहारग्रहणम् । ञमङणनमिति । ञमन्ताद्घातोर्डप्रत्ययो भवतीत्युणादिसूत्रार्थः । दम्यतेऽनेनेति दण्डः, रम्यतेऽसाविति रण्डा, इत्याद्युदाहरणं द्रष्टव्यम् । तथा चानेन सूत्रेण रमतेर्डप्रत्यये डित्त्वाद् अमो लोपे र इति रूपं सिध्यतीति भावः । नन्वेवमन्तर इति स्थिते ‘रोरि’ इत्युपपदान्त्यरेफलोपे ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घे च सति अन्तार इति स्यादित्य आह उणादयो बहुलमिति ॥ उपपदलोप इति । अलोन्त्य-परिभाषया उपपदान्त्यरेफलोप इत्यर्थः । तथाच, नात्रोपपदान्त्यरेफलोपो रोरीति सूत्रविहितो रेफ-निमित्तो येनोक्तरीत्या पूर्वस्याणो दीर्घप्राप्तिः । किन्तु प्रत्ययस्य बाहुलिकत्वोक्तनिमित्त एवातो न दीर्घप्राप्तिरिति भावः । ‘क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलिकं वदन्ति’ इति वचनाद्बहुलग्रहणादुक्तार्थसिद्धिरिति द्रष्टव्यम् । ननु ञमन्ता-दित्यनेन विहितस्य डप्रत्ययस्य न डित्वं वैयाकरणानामभिमतम् । डकारस्यानुबन्धसंज्ञा नास्तीत्युणादि-वृत्तावुक्तत्वात् । अन्यथा रण्डेत्यादिरूपानिष्पत्तेः । तथाच टिलोपाप्राप्त्या रम इत्येव स्यान् न र इति रूपमिति चेत् । सत्यम् । बहुलग्रहणादेव तत्सूत्रविहितस्यापि डस्य क्वचिड्डित्वमपि प्रयोगबला-दङ्गीकार्यम् । कथमन्यथा ‘आनन्दरूपो निष्परिमाण एष’ इति रामशब्दनिर्वचनपरायां श्रुतौ रश्चासाव-मश्चेति विग्रहसूचनमुपपन्नं स्यात् । तत्रानन्दार्थकस्य रमतेरेवाभिप्रेतत्वात् । अप्रसिद्धधात्वन्तरकल्पनस्य च गौरवपराहतत्वादिति ज्ञातव्यम् । अत एवोणादिवृत्तावुदाहृतवाक्यात्पूर्वं सत्यपि प्रयोजन इत्युक्तम् । अन्यथा प्रयोजनाभावादित्येवावक्ष्यत् । तेन ज्ञायतेऽनुबन्धसंज्ञाभावेन डित्वं प्रायिकम् । क्वचित्प्रयोजने च सति अनुबन्धसंज्ञा ततश्च डित्वमपि भवतीति तद्वाक्यार्थ इति । अतो युक्तमुक्तमिति प्रतिभाति । सुख-साधनं चेति । तथाच सुखसाधनतयाऽभिमत विषयानुभवाभिव्यक्तसुखानुभवकर्तेत्यात्मशब्दनिर्वचनेन लभ्यत इति भावः ॥ ददातेर्मन्यतेश्चेति । दादान इत्यस्मात्कर्मणि क्विप्, मनु अवबोधन इत्यस्माच्च कर्तरीत्यर्थः । तथा च ‘अतो लोप इति च’ इति धात्वाकारलोपे निर्वचनत्वेन दकारस्य तकारे सत्यात्मन् इति रूपमिति भावः ॥