शक्तिसद्भाव एव तु
क्रियामात्रमतीन्द्रियमिति पक्षपरामर्शः
शक्तिसद्भाव एव तु
सुधा
ननु च क्रियायां किं प्रमाणम् । प्रत्यक्षद्रव्यवर्तिन्यां प्रत्यक्षमेवेति ब्रूमः । चलतीत्य-परोक्षाऽवभासदर्शनात् । इन्द्रियव्यापारान्वयव्यतिरेकानुसारित्वाच् चलतिप्रत्ययस्य । अन्यथा रूपादेरप्यप्रत्यक्षत्वापातात् । अथ मतम् । न कर्म प्रत्यक्षम्, प्रत्यक्षेण गच्छति द्रव्ये विभाग-संयोगातिरिक्तविशेषानुपलब्धेः । यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः। अनुमापकसंयोगविभागावगमार्थश्चेन्द्रियव्यापार इति । तदयुक्तम् । क्रियाप्रतीतेरनुमितत्वम् इन्द्रिय-व्यापारस्य चान्यत्रोपक्षीणत्वम् अप्रत्यक्षतायां प्रमाणतः सिद्धायां कल्प्यते अन्यथा वा । नाद्यः । प्रमाणाभावात् । यदुक्तमनुपलब्धेरिति । तदसिद्धम् । वाद्यसिद्धेः । न ह्यपरोक्षावभास-मङ्गीकुर्वाणोऽनुपलब्धेरित्येतावता शक्यो बोधयितुम् । घटादावपि तथा प्रसङ्गात् । विवादपदं कर्म, अप्रत्यक्षं कर्मत्वात्परमाणुकर्मवदिति चेन्न । परमाणुकर्मणोऽप्यस्माभिर्योगिप्रत्यक्षताऽङ्गीकारात् । तदर्थमस्मदादीति विशेषणोपादाने परस्य वैय्यर्थ्यम् । किञ्च विवादपदं रूपम् अप्रत्यक्षं, रूपत्वात्, परमाणुरूपवदिति किं न स्यात् । प्रतीतिविरोधान्नेति चेत् । समं प्रकृतेऽपि अनुमानविरुद्धाकर्म-प्रत्यक्षताप्रतीतिर् अप्रमेति चेत् । रूपप्रत्यक्षताप्रतीतिरपि तथाऽस्तु । प्रतीतिविरुद्धेऽर्थेऽनुमानमेव नोदेतेतीति चेत् । एतदपि तुल्यम् ।
शेषवाक्यार्थचन्द्रिका
वाद्यन्तराभिमतं प्रत्यक्षद्रव्यवर्तिक्रियाया आनुमानिकत्वं प्रदूष्य प्रत्यक्षत्वं व्यवस्थापयितुं तत्प्रसञ्जयति ननु चेति । ततश्च प्रमाणाभावेन घटादौ क्रियाया एवासिद्धेर् न तस्या-नित्यत्वादिविचारावसर इति भावः । प्रत्यक्षसम्भवप्रतिपादनाय प्रत्यक्षद्रव्यवर्तिन्यामिति विशेषणम् । प्रतिज्ञातं प्रत्यक्षमभिनयेन दर्शयन्नेव विप्रतिपन्नं प्रति तत्साधकमप्याह चलतीत्यपरोक्षेति । अस्याव-भासस्य अपरोक्षावभासत्वे नियामकान्तरमाह इन्द्रियेति । अनन्यथासिद्धेत्यपि पूरणीयम् । तादृशस्या परोक्षत्वानङ्गीकारेऽनिष्टमाह ॥ अन्यथेति । इन्द्रियव्यापारान्वयव्यतिरेकानुकारिणोऽपि चलतिप्रत्ययस्या परोक्षावभासत्वाभावे तादृशस्य रूपादिप्रत्ययस्य अपरोक्षावभासत्वाभावप्रसङ्गेन रूपादेरप्यप्रत्यक्षत्वं स्यादित्यर्थः । चलतिप्रत्ययस्यानुमितित्वं व्यवस्थापयितुमनुपलम्भयुक्त्याऽप्रत्यक्षत्वं व्यवस्थापयन्नेव तद्वादिमतमुत्थापयति अथ मतमिति । गच्छति द्रव्ये पूर्वदेशविभागोत्तरदेशसंयोगातिरिक्तविशेषस्य प्रत्यक्षेणानुपलम्भान्न कर्मणः प्रत्यक्षत्वमिति भावः । एवमप्रत्यक्षत्वं प्रसाध्य यदुक्तं चलतीत्यपरोक्षाव-भासदर्शनादिति तदन्यथयति यस्त्वयमिति । यद्वा ननु तर्हि चलतीत्यपरोक्षप्रतीतिविरोध इत्यतो न संयोगविभागावजानानः कर्म प्रत्येति । रथस्य देशान्तरप्राप्तिं प्रतिसन्दधानस्यैव रथिनोः, रथो गच्छतीति प्रतीतेः, सारथेस्तु देशान्तरप्राप्त्यप्रत्याकलने स्थिरत्वेनेव प्रतीतेर्न चलतीतिप्रतीतिः प्रत्यक्ष-कर्मविषयेत्याह यस्त्वयमिति । न च तस्यानुमितित्वमसिद्धम् । कर्मप्रत्यक्षत्वेऽपि पूर्वदेशविभागोत्तर-देशसंयोगाभ्यां तद्-व्यञ्जनीयम् । अत एव यत्र संयोगविभागावप्रत्यक्षौ, तत्र कर्मापि न प्रत्यक्षं भूकम्पादौ । तथा चोत्तरदेशसंयोगे सति कर्म नष्टमेव । प्रत्यक्षं च वर्तमानमात्रविषयकम् । किं चात्र संयोगोऽपि ज्ञातो व्यञ्जकः । उत्पन्ने च संयोगे, तत्साक्षात्कारस् तदनन्तरं च कर्मसाक्षात्कार-दशायामव्यवहितप्राक्कालीनमपि कर्म नास्ति । संयोगसाक्षात्कारकाल एव कर्मणो नष्टत्वात् । तत्कथं कर्मप्रत्यक्षं भवेदित्यर्थः । अनुमितिरूपत्वे चलतिप्रत्ययस्येन्द्रियव्यापारान्वयव्यतिरेकानुविधानविरोध इत्यत आह अनुमापकेति । नेन्द्रियव्यापारान्वयव्यतिरेकानुविधानमात्रम् अपरोक्षावभासत्वसाधकम् अतिप्रसङ्गात् । किं त्वनन्यथासिद्धान्वयव्यतिरेकानुविधानमेव । न चैतदत्रास्ति अनुमापकसंयोगादिग्रहे तस्योपक्षीणत्वादिति भावः ॥ न हीति । ननु चोक्तरीत्याऽपरोक्षावभासानुपपत्त्यैव तत्सिद्धिर् नानुपलब्धिमात्रेणेति चेत् । स्यादप्येवं यदि कर्मोत्तरदेशसंयोगमात्रव्यङ्ग्यं स्यात् । न चैवं, किंतु पूर्वदेशविभागव्यङ्ग्यमेव । विभागसाक्षात्कारश्च तदुत्पत्त्यव्यवहितोत्तरक्षणे, तत्काले च कर्मणः सत्त्वात् कुतो न प्रत्यक्षत्वमिति भावः ॥ अस्माभिरिति । तथा चान्यतररीत्या दृष्टान्ते साध्यवैकल्यमिति भावः। अस्मदाद्यप्रत्यक्षत्वस्यैव साध्यत्वान्न दृष्टान्ते साध्यवैकल्यमित्यत आह तदर्थमिति ॥ परस्येति । परेण योगिनामनभ्युपगमाद्वैय्यर्थ्यमित्यर्थः । ततश्च अन्यतररीत्या व्यर्थविशेषणत्वमिति भावः । प्रतिवादि-रीत्या साध्यवैकल्यपरिहार एव वादिमते प्रयोजनमिति न वैय्यर्थ्यमित्यरुचेराह किञ्चेति ॥ विवादपदं रूपमिति ॥ घटादिरूपमित्यर्थः । तथा चाऽऽभाससाम्यमिति भावः । प्रतीतिविरोधभावाभावाभ्यां वैषम्यात् । नाभाससाम्यमित्याशङ्कते प्रतीतिति । रूपं साक्षात्करोमीति रूपप्रत्यक्षताप्रतीति-विरोधादित्यर्थः ॥ सममिति । कर्मणोऽप्यप्रत्यक्षत्वस्य चलनं साक्षात्कारोमीति तत्प्रतीतिविरुद्ध-त्वान्नोक्तरीत्या वैषम्यमिति भावः । कुतः कर्मप्रत्यक्षताप्रतीतेरप्रमात्वमित्यत उक्तम् अनुभवविरुद्धेति । विवादपदं कर्म, अप्रत्यक्षं कर्मत्वादित्यनुमानविरुद्धेत्यर्थः । ततश्च कर्मप्रत्यक्षताप्रतीतेरप्रमात्वान्न बाधकत्वमिति भावः ॥ तथाऽस्त्विति । अप्रमाऽस्त्वित्यर्थः । तस्या अपि रूपप्रत्यक्षत्वानुमान-विरुद्धत्वादिति भावः । नोदेतीति चेदिति । रूपप्रत्यक्षताप्रतीतेरप्रमात्वसिद्धौ बाधकाभावादनुमानो-दयः । तदुदये च तद्विरुद्धत्वात् तत्प्रतीतेरप्रमात्वमित्यन्योन्याश्रयादिति भावः ॥ एतदपि तुल्यमिति । कर्मप्रत्यक्षताप्रतीतेरप्रमात्वसिद्धौ बाधकाभावादनुमानोदयः । तदुदये च तद्बाधितत्वात्कर्मप्रत्यक्षता-प्रतीतेरप्रमात्वमिति तुल्यं समाधानमित्यर्थः ।
परिमल
क्रियाप्रसङ्गात् क्रियामात्रमतीन्द्रियमिति मतमप्यपाचिकीर्षुराह ननु च क्रियायामिति ॥ विभागेति । पूर्वदेशविभागोत्तरदेशसंयोगाभ्यामतिरिक्तस्य विशेषस्यादर्शनादित्यर्थः । विभाग-संयोगातिरिक्तविशेषानुपलब्धिरेव प्रमाणमित्यत आह यदुक्तमिति ॥ परस्येति । योगीश्वरादिक-मनङ्गीकुर्वत इत्यर्थः ।
यादुपत्यं
नन्वेवं शक्तेरतीन्द्रियत्वे तदात्मकक्रियाया अपि सर्वत्रातीन्द्रियत्वमेव किमित्याशयेन पृच्छति ननु क्रियायामिति । शक्त्यवस्थायाः क्रियाया अतीन्द्रियत्वेऽपि व्यक्त्यवस्थायास्तस्याः प्रत्यक्षत्वमपि क्वचित्संभवतीत्याशयेनाह प्रत्यक्षद्रव्येति । अनेनेश्वरादिद्रव्येषु व्यक्त्यवस्थाया अपि क्रियाया न प्रत्यक्षत्वमिति सूचयति प्रत्यक्षद्रव्येति । व्यक्त्यवस्थाया अपि क्रियाया अतीन्द्रियत्वमेवास्तु, किं द्वैविध्यकल्पनयेत्याशयेन शङ्कते अथेत्यादिना ॥ परस्येति । तन्मते योग्यादेरभावादिति भावः ॥ प्रतीतिविरोधादिति । रूपं साक्षात्करोमीत्यनुव्यवसायाविरोधादित्यर्थः ।
श्रीनिवासतीर्थीया
नन्वपरोक्षावभासोऽसिद्ध इत्यत आह इन्द्रियेति । तथाच चलतीति प्रत्ययोऽपरोक्षो भवितुमर्हति इन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वाद् रूपादिप्रत्ययवदित्यनुमानं द्रष्टव्यम् । अस्मिन्ननुमानेऽप्रयोजकताशङ्कापरिहाराय बाधकभूतमतिप्रसङ्गमाह अन्यथेति ॥ विशेषेति । कर्मरूपविशेषेत्यर्थः । ननु चलतिप्रत्ययापरोक्षत्वसाधकोक्तानुमानविरोध इत्याशङ्कायां केवलेन्द्रिय-व्यापारान्वयव्यतिरेकयोर् उक्तासाधकत्वाद् अनन्यथासिद्धेन्द्रियव्यापारान्वयव्यतिरेकावेव तत्साधकाविति वाच्यम् । न चैतादृशान्वयव्यतिरेकौ प्रकृते स्तः । तयोरन्यथासिद्धत्वात् कथमिति चेत्तत्राह अनुमाप-केति । क्रियानुमापकेत्यर्थः ॥ घटादाविति । अपरोक्षावभाससिद्धस्यापि घटादेरनुपलब्धियुक्ति-मात्रेणाप्रत्यक्षत्वं स्यात् । तत्र च वाद्यसिद्धिरेव वाच्या । सा प्रकृतेऽपि समेति । विवादपदं रूपं प्रत्यक्षद्रव्यवर्तिरूपम् । तथाऽस्त्विति । अनुमानविरुद्धत्वादप्रमाऽस्त्वित्यर्थः । प्रतीतीति । रूपं साक्षात्करोमीत्यनुव्यवसायरूपप्रतीतिविरुद्धे रूपाप्रत्यक्षत्वरूपेऽर्थ इत्यर्थः ॥ तुल्यमिति । चलनं साक्षात्करोमीति प्रतीतिविरुद्धे कर्माप्रत्यक्षत्वरूपेऽप्यर्थेऽनुमानमेव नोदेतीति तुल्यमित्यर्थः ॥
शक्तिसद्भाव एव तु
शक्तिसद्भाव एव तु
सुधा
अथ ब्रूषे । परमाणुरूपस्याप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमिति । तन्न । परमाणो-रपि महत्त्वस्य वक्ष्यमाणत्वात् । किं च परमाणुकर्माप्रत्यक्षतायामपि तदेव प्रयोजकं किं न कल्प्यम् । यदि तर्हि कर्म प्रत्यक्षम्, एकस्यामपि कर्मव्यक्तावुत्पन्नायां चलतीति प्रत्ययः स्यात्, इति चेत् । न, संयोगविभागयोरपि तुल्यत्वात् । तथा च न कर्मानुमानमपि स्यात् । अथ मन्यसे सेनावनादिवत् संयोगविभागयोः प्रत्यक्षतोपपत्तिरिति । तर्हि कर्मणोऽपि तथा किं न स्यात् । न द्वितीयः । तन्तवो न प्रत्यक्षाः किन्तु पटकार्यानुमेयाः । पटग्रहण एव च इन्द्रियव्यापारोपयोग इत्यपि कल्पनाप्रसङ्गात् ।
शेषवाक्यार्थचन्द्रिका
सोपाधिकत्वानुपाधिकत्वाभ्यां वैषम्यान् नाभासमाम्यमित्याशङ्कते अथेति । स्वाश्रयामहत्त्वमित्यर्थः । अप्रत्यक्षत्ववति परमाणुरूपे आश्रयामहत्त्वसद्भावेन साध्य-व्यापकत्वाद्रूपत्ववति घटरूपे च तदभावेन साधनाव्यापकत्वादिति भावः ॥ वक्ष्यमाणत्वादिति । ‘परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः’ इत्यादिनेति शेषः । तथा च तत्र साध्याव्यापकत्वान्नोपाधि-त्वमिति भावः । उपलक्षणं चैतत् । कालादिगुणेषु सत्यपि अप्रत्यक्षत्वे आश्रयामहत्त्वाभावात्साध्या- व्यापकत्वमेव । न च कार्यमहदनधिकरणत्वं तदर्थः । तच्च कालगुणेष्वप्यस्तीति वाच्यम् । तथाऽपि घटादिवृत्तिगुरुत्वादौ साध्याव्यापकत्वानिस्तारादित्यपि द्रष्टव्यम् । अङ्गीकृत्याऽऽश्रयामहत्त्वस्योपाधि-त्वमाभाससाम्यमुक्तमक्षतमेव । कर्माप्रत्यक्षतानुमानेऽप्यस्यैवोपाधित्वस्य वक्तुं शक्यत्वादित्याह किञ्चेति ॥ यदि तर्हि कर्म प्रत्यक्षमिति । यदि कर्म प्रत्यक्षं तर्हीति सम्बन्धः ॥ स्यादितीति । न चासावस्ति । ततो न कर्म प्रत्यक्षमिति विपर्यये पर्यवसानं बोध्यम् ॥ संयोगविभागयोरपीति । एकस्यामपि कर्मव्यक्तौ संयोगविभागयोरुत्पन्नयोः संयोगविभागयोः प्रत्ययोऽपि स्यान्न चासावस्ति । ततो न संयोगविभागावपि प्रत्यक्षावित्यापातादित्यर्थः । अस्तु संयोगविभागयोरप्रत्यक्षत्वम्, किं नश्छिन्नमित्यतस्तथा सत्यनुमापक-संयोगाद्यज्ञानान्न कर्मानुमानमपि स्यादित्याह तथा चेति । ततश्च संयोगाद्यनुमितकर्मालम्बनत्वं चलतिप्रत्ययस्य परोक्तं भज्येतेति भावः ॥ सेनावनादिवदिति । आदिपदेन राशिस्थदूरकेशादेर्ग्रहणम् ॥ अयं भावः । यथा ह्येकैकस्मिन्नश्वादौ, वृक्षादौ वा, सेनेति वनमिति च प्रत्ययाभावेऽप्यश्वसमुदाये वृक्षसमुदाये च भवत्येव सेनेति वनमिति च प्रत्ययः । तथैकस्मिन्संयोगे विभागे च संयोगविभाग-प्रत्ययाभावेऽपि संयोगसमुदाये विभागसमुदाये च संयोगविभागप्रत्यक्षं भविष्यति । न चैकैकस्याश्वादेः सेनादित्वाभावात्तत्समुदायस्यैव तथात्वात्प्रत्येकं तत्प्रत्ययाभावेऽपि समुदाये तत्प्रत्ययो युक्तः । इह तु एकैकसंयोगादिव्यक्तेरपि संयोगादित्वात् तत्साक्षात्काराभावो न युक्त इति वाच्यम् । एकैकस्य संयोगादेः कर्मानुमापकत्वाननुभवेन कर्मानुमापकसंयोगादिप्रत्यक्षं तत्समूहमात्रविषयमित्याशयात् । प्रत्येकं केशत्वेऽपि केशसमुदाये तत्साक्षात्कारवत् प्रत्येकं संयोगादित्वेऽपि समुदाये तत्साक्षात्कार इति वा ॥ तथा किं न स्यादिति । सेनावनादिवत्प्रत्यक्षत्वं किं न स्यादित्यर्थः ॥ न द्वितीय इति । अन्यथा वेति द्वितीयो नेत्यर्थः । अविशेषादिति भावः ।
परिमल
वक्ष्यमाणत्वादिति । वैशेषिकनये वक्ष्यमाणत्वादित्यर्थः । तदेवेति । आश्रयामहत्त्व-मेवेत्यर्थः । तथा च घटादिकर्मणः प्रत्यक्षत्वमेव, आश्रयस्य महत्त्वादिति भावः ॥ चलतीतिप्रत्ययः स्यादिति । नास्ति च प्रत्ययः, अतो न कापि क्रिया प्रत्यक्षेति भावः ॥ संयोगविभागयोरपीति । एकस्मिन्संयोगे विभागे वा जातेऽपि तत्प्रत्यक्षं स्यादित्यर्थः । नास्ति च प्रत्यक्षम् अतो न कदापि संयोगादिः प्रत्यक्षः स्यादिति भावः । अस्तु को दोष इत्यत आह तथाचेति । संयोगादेरप्रत्यक्षत्वे इत्यर्थः । लिङ्गज्ञानाभावादिति भावः ॥ सेनावनादिवदिति । सेनावनपदवाक्यादेः सङ्घरूपेण प्रत्यक्षता यथा, तथा पक्षिसञ्चारादौ संयोगादेरपि सङ्घातरूपेण प्रत्यक्षतोपपद्यते । तथानुभवात् । न तु प्रातिस्विक रूपेणेत्यर्थः । अन्यथा वेति पक्षं निराह न द्वितीय इति । द्य्वाश्रयौ द्वयोर्व्यासज्यवर्तिनौ इत्यर्थः ।
यादुपत्यम्
परमाणोरपीति । वैशेषिकपरीक्षायामिति शेषः । तथा च तत्रैव साध्याव्यापकतेति भावः ॥ संयोगविभागयोरपीति । एकस्मिन्संयोगादिके जातेऽपि तत्प्रत्यक्षं स्यात् । तथा च तेन तदा अनुमितिरूपश्चलतीति प्रत्ययोऽपि स्यादित्यर्थः । तर्कफलमाह तथा चेति । यथैकस्यां कर्मव्यक्ता-वुत्पन्नायां तदा चलतीति प्रत्ययाभावात्, न कर्म कदाऽपि प्रत्यक्षमित्युच्यते । एवमेकस्मिन्संयोगादिके जातेऽपि, तस्याप्रत्यक्षत्वेन लिङ्गाज्ञानात् तदा कर्मानुमितेरसंभवेन कदाऽपि कर्मानुमानं संयोगादिना न स्यादित्यपि वक्तुं शक्यमित्यर्थः ॥ सेनावनादिवदिति । यथा इयं सेना, इदं वनमिति प्रत्ययोऽश्वादि-समूहे वृक्षसमूहे वा भवति, न त्वेकैकस्मिन्नश्वादौ, तथा कर्मानुमापक संयोगविभागप्रत्यक्षमपि तत्समूह एव भवति । नैकस्मिन्संयोगादावित्यर्थः । आदिपदेन राशिदूरस्थकेशादेर्ग्रहणम् ॥ संयोगविभाग-योरिति । कर्मानुमापकयोरिति शेषः । एतेनैकस्याश्वादेर्वृक्षस्य वा सेनात्ववनत्वयोरभावादेव तत्प्रत्ययः समूहमात्रविषय इत्यस्तु । प्रकृते तु एकस्यापि संयोगादेः संयोगादित्वात्तत्प्रत्यक्षमेकस्मिन्नपि स्यादेवेति शङ्का निरस्ता । अत्राप्येकैकस्य संयोगादेः कर्मानुमापकत्वाननुभावेन कर्मानुमापकसंयोगादिप्रत्यक्षं तत्समूहमात्रविषयमित्याशयात् ।
श्रीनिवासतीर्थीया
प्रयोजकमिति । तथा च प्रतिबन्दितयोक्ते भवदनुमाने आश्रयामहत्त्व-मुपाधिरित्यर्थः । परमाणुरूप एव साध्यव्यापकत्वान्नायमुपाधिरित्याशयेनाह परमाणोरपीति ॥ किञ्चेति । यथा रूपाप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमित्युच्यते । तथा कर्माप्रत्यक्षतायामपि तदेव प्रयोजकमस्तु । परमाणुगतत्वाविशेषात् । तथाच त्वदनुमानमपि सोपाधिकमित्यर्थः । एवञ्च कर्म-प्रत्यक्षत्वे आश्रयमहत्त्वस्यैव प्रयोजकत्वप्राप्त्या प्रत्यक्षद्रव्याश्रितेऽपि कर्मणि आश्रयस्य महत्त्वात्प्रत्यक्षत्वं भवत्वित्याशयः ॥ स्यादिति । न भवति प्रत्ययस् तस्मात्प्रत्यक्षं नेत्याशयः । तर्हीति । चलतीति प्रत्यक्षमपि कर्मसमूहे एव भवति, नैकस्मिन् कर्मणि; इति किं न स्यादित्यर्थः । अन्यथा वेति द्वितीयं पक्षं प्रतिषेधति न द्वितीय इति । इन्द्रियव्यापारेति । तन्तुप्रत्यक्षत्वसाधकत्वेन सम्मतेत्यर्थः ॥