शक्तिसद्भाव एव तु
नैयायिकमतपरामर्शः
शक्तिसद्भाव एव तु
सुधा
स्वरूपसहकारिसमवधानातिरिक्ता शक्तिरेव नास्तीति केचित् । तेषामुदाहृत-श्रुत्यादिविरोधः । न च तत्स्वरूपमात्रम् । सम्बन्धितया प्रतीतेः । नापि सहकारिपरम् । स्वाभाविकत्वादिश्रवणात् ॥ किं चास्ति तावदित्थं व्यवहारः । स्फोटादिकार्यं प्रति शक्तिमानपि दहनो देहसंयोगादिसहकारिविरहान् न तदजीजनदिति । तत्र न तावच्छक्तिशब्देन वह्निस्वरूप-मात्रमुच्यते । मतुपो वैय्यर्थ्यप्रसङ्गात् । नापि सहकारिसमवधानं तदभावस्योक्तत्वात् । दहनत्व-सामान्यमेव शक्तिरिति चेत् । कथं तर्हि स्वरूपसहकारिसमवधानातिरिक्ता नास्ति । सामान्यमपि सहकारिवर्गान्तर्गतमिति चेत् । तत्किं प्रत्यक्षमप्रत्यक्षं वा । आद्ये दहनदर्शने स्फोटजनन-
शक्तिजिज्ञासा न स्यात् । न द्वितीयः । अपसिद्धान्तापातात् । तथाभ्युपगमे वा सैव शक्तिरस्माकम् । किञ्च मृत्तन्त्वादिस्वरूपं प्रत्यक्षादिसिद्धम् । तस्य घटादिकारणत्वं तु अन्वयव्यतिरेकसमधिगम्यम् । अन्वयव्यतिरेकग्रहणोपायश्च सामान्यम् । तच्च प्रत्यक्षादिसिद्धमिति परेणापि स्वीकृतम् । न च कारणत्वं स्वरूपं, सहकारिसमवधानं वा । स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतत्वात् । कारणस्यैव सहकारिसमवधानान्वेषणात् । ततोऽतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव शक्तिरिति शक्तिवादिभिरभ्युपेयत इत्यास्तां प्रपञ्चः ।
शेषवाक्यार्थचन्द्रिका
ननु न शक्तिव्यक्तिरूपाश्रयणेन परिहारो युक्तः प्रमाणाभावेन स्वरूप-सहकारिसमवधानातिरिक्तशक्तेरेवाभावादिति नैयायिकमतं दूषयितुं शङ्कामुत्थापयति स्वरूपेति । उदाहृतश्रुत्यादीत्यादिपदेनोदाहृतसत्तत्त्ववचनपरिग्रहः । उदाहृतश्रुत्यादेः स्वरूपमात्रपरत्वान्न तेन शक्तिसिद्धिरित्याशङ्कते न चेति ॥ सम्बन्धितयेति । अस्येति षष्ठ्येति शेषः । उपलक्षणं चैतत् । विविधेति बहुविधत्वेनोक्तेरित्यपि द्रष्टव्यम् ॥ सहकारिपरमिति । आगन्तुकसहकारिपरमित्यर्थः ॥ स्वाभाविकत्वादीति । अत्रादिपदेन परत्वसङ्ग्रहः । आगन्तुकसहकारिणश्चोक्तस्वाभाविकत्व परत्वयोर योगान् नोदाहृतश्रुत्यादेस्तत्परत्वमिति भावः । वैयर्थ्यप्रसङ्गादिति । विरुद्धार्थत्वप्रसङ्गादित्यर्थः । शक्तिशब्दोक्तवह्निस्वरूपवत्त्वस्य वह्नावसंभवादिति भावः ॥ उक्तत्वादिति । देहसंयोगादिसहकारि- विरहादित्यनेनेति शेषः । गूढाभिसन्धिः शङ्कते दहनत्वेति । न शक्तिशब्देन वह्निस्वरूपमुच्यते । किन्तु दहनत्वसामान्यमेव । तेन न मतुपो वैयर्थ्यमिति भावः । अविदिताशयः सिद्धान्ती परिहरति कथं तर्हीति । दहनत्वस्यैव शक्तित्व इत्यर्थः । दहनत्वस्यैव वह्निस्वरूपसहकारिव्यतिरिक्तस्य शक्तित्वाङ्गी-कारादिति भावः । पूर्ववादी स्वाशयमुद्घाटयति सामान्यमपि स्वरूपान्तर्गतमिति चेदिति । स्वरूप-सहकार्यतिरिक्तशक्त्यभाववादिना ‘स्वम् असाधारणं प्रतिबन्धकदशाव्यावृत्तं रूपं=धर्मः’ इति व्युत्पत्त्या, प्रतिबन्धकाभावस्येव स्वस्य रूपमिति व्युत्पत्त्या कारणत्वावच्छेदकवह्नित्वादिधर्मस्यापि स्वरूपशब्देन ग्रहणान् न दहनत्वसामान्यस्य शक्तित्वोक्तौ स्वरूपसहकारिव्यतिरिक्तशक्तिसिद्धिरिति भावः । सामान्यमपि सहकारिवर्गान्तर्गतमिति पाठे तु तत्र सहकारिपदस्य प्रयोजकमात्रपरत्वात् सामान्य-स्याप्यवच्छेदकतयोपयोगात् तदपि सहकारिवर्गान्तर्गतमेवेति, न तस्य शक्तित्वोक्तौ स्वरूपसहकारि-व्यतिरिक्तशक्तिसिद्धिरित्यर्थः । सहकार्यभागोक्तिस्तु दहनत्वेतरसहकारिविरहपरेति ज्ञातव्यम् ॥ अप्रत्यक्षं वेति । अतीन्द्रियशक्तिस्थानाभिषिक्तत्वात्सामान्यस्याप्रत्यक्षत्वकोटि प्रसक्तिरिति द्रष्टव्यम् ॥ दहनदर्शन इति । दहनत्वविशिष्टतया दहनदर्शन इत्यर्थः ॥ न स्यादिति । शक्तेर्दृष्टत्वादिति भावः ॥ अपसिद्धान्तेति । योग्यव्यक्तिजातेः प्रत्यक्षत्वस्य तत्सिद्धान्तत्वादिति भावः ।
मृत्तन्त्वादिस्वरूपमिति । एतच्च मृत्त्वादिसामान्यस्य वक्ष्यमाणप्रत्यक्षादिसिद्धत्वोपपादना-योक्तमिति ध्येयम् । अन्वयव्यतिरेकेति । अन्वयव्यतिरेकाभ्यामनुमेयमित्यर्थः ॥ सामान्यमिति । व्यक्तीनामानन्त्येन व्यक्तिपुरस्कारेणान्वयव्यतिरेकग्रहस्य जन्मसहस्रेणाप्यसंभवादिति भावः । ननु सामान्यस्यैवाग्रहान्न तदवच्छेदेनान्वयव्यतिरेकग्रहो युक्त इत्यतो मृत्तन्त्वादेः प्रत्यक्षादिसिद्धतया मृत्त्वादिकमपि प्रत्यक्षादिसिद्धमेवेति युज्यते तदवच्छेदेनान्वयव्यतिरेकग्रह इत्याह तच्चेति । किम-स्येतिहासकथनस्य प्रयोजनमित्यतः शक्तिसिद्धिरेवेति भावेन, साध्यमानं कारणत्वं परिशेषेण शक्ति-रेवेति वक्तुं, प्रसक्तप्रतिषेधं तावत्करोति न चेति । अनुमीयमानं कारणत्वं स्वरूपयोग्यतादिरूपं मृत्त्वादिकं वाऽभिमतं, किं वा सहकारिसमवधानरूपं फलोपधानमिति विकल्पार्थः । आद्यपक्षं दूषयति स्वरूपस्येति । तस्य प्रत्यक्षत्वादिति भावः । द्वितीयं दूषयति कारणस्यैवेति । ततश्च न सहकारि-समवधानमेव कारणत्वमिति तत्साधनं बाधितविषयमिति भावः ॥ अतीन्द्रियमेवेति । न चानन्यथा-सिद्धनियतपूर्ववृत्तित्वरूपमेव कारणत्वमन्वयव्यतिरेकानुमेयं, न त्वन्यदिति, नोक्तदोष इति वाच्यम् । तस्यान्वयव्यतिरेकानुमेयत्वं वदताऽपि पूर्ववृत्तित्वमात्रस्य रासभादिसाधारण्येन नियमविशेषितस्यापि तस्यान्यथासिद्धिसाधारणत्वेन लिङ्गत्वेन वक्तुमशक्यतयाऽनन्यथासिद्धनियतपूर्ववृत्तित्वस्यैव लिङ्गत्वेना-श्रयणीयतया तस्यानुमेयत्वायोगात् । न हि तदेव तेनानुमेयं संभवतीति भावः । ननु शक्तिरेव कारणत्वं चेत् सा कारणं न स्यात् । तथा च न शक्तिर्दाहानुकूला स्यादित्यरुचेराह । आस्तामिति । कारणत्व-स्यापि कारणस्येव कार्यप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपानुकूलत्वाश्रयत्वान् नेयमनुपपत्तिरिति भावः । विस्तरस्तु तर्कताण्डवे द्रष्टव्यम् ।
परिमल
‘शक्तिसद्भावे तु स्वभाव इति श्रुतिः’ इति पैङ्गीश्रुतिश्चास्त्येवेति योजनान्तरमुपेत्य अतीन्द्रियशक्त्यपलापवादिमतनिरासकतया तात्पर्यतो व्याचष्टे स्वरूपसहकारीति । स्वरूपं च सहकारिसमवधानं च ताभ्यामतिरिक्तेत्यर्थः ॥ श्रुत्यादीत्याद्युक्त्या शक्तयः सर्वभावानामचिन्त्याज्ञान-गोचरा इत्यादिस्मृतिरपि विष्णुपुराणादिस्था ग्राह्येति सूचयति । यद्वा सत्तत्त्ववचनमादिपदार्थः ॥ सम्बन्धितयेति । अस्येति परमात्मन इति वा षष्ठ्या सम्बन्धितया प्रतीतेर्न शक्तिपदेन स्वरूपमादाय स्वरूपमात्रपरं वाच्यमित्यर्थः ॥ स्वाभाविकत्वादीति । नित्यत्वमादिपदार्थः । सहकारिण आगन्तुक- त्वादिति भावः । शक्तिव्यवहारान्यथानुपपत्तिं च शक्तिसद्भावे मानमाह किञ्चेत्यादिना ॥ उक्तत्वादिति । देहसंयोगादिसहकारिविरहान्न तदजीजनदित्यनेनोक्तत्वादित्यर्थः ॥ कारणत्वस्यान्वयव्यतिरेकाव गम्यत्वा न्यथाऽनुपपत्त्या च वह्वित्वादिति सामान्यवद्वह्न्यादिस्वरूपतत्सहकारिभ्योऽतिरिक्तशक्तिसिद्धिरित्याह किञ्च मृदिति ॥ कारणस्यैवेति । कारणत्वधर्माक्रान्तस्यैवेत्यर्थः । तथा च कारणत्वं सहकारि-समवधानरूपं कथं स्यादित्यर्थः ॥ आस्तां विस्तर इति । प्रपञ्चस्तु तर्कताण्डवे द्वितीयपरिच्छेदे ध्येयः ।
यादुपत्यं
शक्तिरूपताश्रयणेन क्रियास्थायित्वसाधनं न युक्तम् । स्वरूपसहकारिव्यतिरिक्त-शक्तेरप्रामाणिकत्वादिति तार्किकादयस् तान्निराकर्तुमाह स्वरूपसहकारीति ॥ स्वाभाविकत्वादिति । आगन्तुकसहकारिणां च स्वभाविकत्वमादिपदेनोक्तं परत्वं न सम्भवतीति भावः ॥ उक्तत्वादिति देहसंयोगादिसहकारिविरहादित्यनेनांशेनेति शेषः । गूढाशयः शङ्कते दहनत्वसामान्यमिति । तथा च न मतुपो वैयर्थ्यप्रसङ्ग इति भावः । अविदिताशय इव सिद्धान्ती परिहरति कथं तर्हीति । पूर्वपक्षी स्वाशयमुद्घाटयति सामान्यमपीति । अवच्छेदकत्वोपयोगादित्यर्थः । सहकारिपदं च प्रयोजकमात्र-परमिति ज्ञातव्यम् । सहकार्यभावोक्तिस्तु दहनदहनत्वेतरसहकारिविरहपरेत्याशयः ॥ अप्रत्यक्षं चेति । सामान्यस्य शक्तिस्थानेऽभिषिक्तत्वात् । शक्तेश्चातीन्द्रियत्वादेतत्कोटिप्रसक्तिरिति ध्येयम् ॥ दहनदर्शन इति । दहनत्वविशिष्टदहनदर्शन इत्यर्थः । सामान्यं न शक्तिरित्यत्र युक्त्यन्तरमाह किञ्चेत्यादिना ॥ मृत्तन्त्वादिस्वरूपमिति । एतच्च मृत्तन्त्वादिसामान्यस्य वक्ष्यमाणप्रत्यक्षत्वादिसिद्धत्वोपपादनाय वा, स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतित्वादिति वक्ष्यमाणहेतूपपादनाय वोक्तमिति ज्ञातव्यम् ॥ कारण-त्वमिति । अत्रानुमेयं कारणत्वं तावच्छक्तिरूपमेव नान्यत् । तच्चान्वयव्यतिरेकगम्यम् । सामान्यं च तद्ग्रहणोपयुक्तम् अतः पूर्वमेवावगतं प्रत्यक्षादिना । ततो नानुमेयकारणत्वात्मकशक्तिरूपं भवितुं युक्त-मित्यर्थः ॥ अन्वयव्यतिरेकग्रहणोपाय इति । मृत्त्वावच्छिन्नत्वे सति घटस् तदभावे तदभाव इत्येवमादि रूपेणेत्यर्थः । तथाऽवच्छेदकरूपस्य सामान्यस्याभावे प्रतिव्यक्त्यन्वयव्यतिरेकयोर् आयुः पर्यवसान-प्रसङ्गेन ग्रहीतुमशक्यत्वादिति भावः । नन्वत्रानुमेयं कारणत्वं शक्तिरूपमेवेत्येतदेव कुतः । तदति-रिक्तस्य स्वरूपादेरपि कारणतारूपत्वसम्भवादित्याशङ्कय निराकरोति न चेत्यादिना ॥ स्वरूपं चेति । स्वरूपसम्बन्धरूपत्वादिति भावः । सहकारीति । फलोपधानात्मककारणत्वस्य सहकारिसमवधान रूपत्वात् । एवमाशक्तितमिति द्रष्टव्यम् ॥ कारणस्यैवेति । तथा चात्रानुमेयं कारणत्वं सहकारि-समवधानप्रयोजकमेव, न तु तदात्मकमिति भावः ॥ ततोऽतीन्द्रियमेवेति । न चानन्यथासिद्धनियत-पूर्ववृत्तित्वरूपमेव कारणत्वमत्रानुमेयमिति वाच्यम् । तस्यान्वयव्यतिरेकसहचारदर्शन सहकृतप्रत्यक्ष-गम्यस्य शक्तिरूपकारणत्वे लिङ्गतयाऽनुमेयत्वासम्भवात् । न च तदेव तेनानुमेयमिति सम्भवतीति भावः । तदिदमुक्तम् अतीन्द्रियमेव किञ्चिदिति । न चैवमन्वयव्यतिरेकसमधिगम्यमित्यनेन विरोधः । अन्वयव्यतिरेकसहचारदर्शन सहकृतप्रत्यक्षगृहीतोक्तलिङ्गगम्यमित्यस्यैवार्थस्य तत्रापि विवक्षितत्वात् । अन्वयव्यतिरेक सहचारदर्शनसहकृतप्रत्यक्षेण हि त्वदभिमतोक्तकारणताशरीरनिविष्टा नियमरूपा रसरूपादिसाधारणी व्याप्तिरेव गृह्यते, न शक्तिरूपा कारणता । तस्या नित्यातीन्द्रियत्वात् । एतेन सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वादिरूपमेव कारणत्वमत्रानुमेयमित्यपि निरस्तम् । तस्य सर्वस्यापि प्रत्यक्षत्वेन लिङ्गतया, नित्यानुमेयतया अनुभवसिद्धकारणतारूपत्वासम्भवात् । आत्माश्रयत्वादित्या-दिना दुष्टत्वाच्च । नन्वेवं शक्तिः कारणत्वं चेद् आत्मा कारणं न स्यात् । तथा च शक्तिर्दाहानुकूलेति विशिष्टप्रयोगानुपपत्तिरिति चेन्न । कारणत्वस्यापि कारणस्यैव कार्यप्रागभावव्याप्यप्रागभावप्रतियोगित्व रूपानुकूलत्वाश्रयात् । ननु प्रतिबन्धकेन पूर्वस्याः शक्तेर्नाशात् प्रतिबन्धकापनये वोत्तेजकसमवधाने वा कथं पुनर्दाहः । यदि चैताभ्यां शक्त्यन्तरोत्पादस् तदाऽनेकशक्तिकल्पनागौरवमिति चेन्न । कुठारस्य कदाचित्कुण्ठत्ववत्संस्कारस्य कदाचिदनुद्बोधवत्सत्यामेव शक्तौ तस्याः प्रतिबन्धदशायां कुण्ठीभाव-लक्षणावस्थाविशेषस्यैव कल्पनेन नाशस्यानङ्गीकारात् । ननु तथाऽपि बीजादावङ्कुरानुकूलशक्तिवत् शक्त्यनुकूलाऽपि शक्तिः स्वीकार्या । बीजादिनिष्ठामङ्कुरादि जननशक्तिं प्रति बीजादेः समवायि-कारणत्वात् । एवं तदानुकूल्यतत्पूर्वकालीना बीजादावनादिशक्तिपरम्पराङ्गीकार्येति बीजादेरनादित्वं स्यादिति चेन्न । मन्मते अङ्कुरे शक्तियुक्तस्य बीजस्य बीजे शक्तात् स्वकारणादेवोत्पत्त्या बीजगत-शक्तिपरम्पराऽनपेक्षणात् । न च शक्तावपि स्वकार्यानुगुणशक्तिः स्वीकार्येत्यनवस्था । समवाय-विशेषादिवत्स्वनिर्वाहकत्वादिति न किञ्चिदत्रानुपपन्नम् । तदिदमभिप्रेत्याह इत्यास्तां प्रपञ्च इति ।
श्रीनिवासतीर्थीया
उदाहृतेति । अस्य शक्तिः । शक्तिः परमात्मन इति स्वरूपातिरिक्तायाः शक्तेः ‘ज्ञानं नित्यं क्रिया नित्ये’त्यादिसहकारिरूपज्ञानादिव्यतिरिक्तायाश्च शक्तेः प्रमाणप्रमितत्वा-दित्याशयः । तत् श्रुत्यादि । तथाच शक्तेर्भगवत्स्वरूपत्वप्रतिपादन एव तात्पर्यं स्यात् । स्वाभाविकीति श्रवणात् । न तु भगवत्स्वरूपातिरिक्तत्वेऽतो नोदाहृतश्रुत्यादिविरोध इत्यर्थः । सम्बन्धितयेति । अस्य शक्तिः परात्मनः शक्तिरिति भगवत्सम्बन्धितायाः शक्तेरुक्तत्वात्स्वरूपातिरिक्तता शक्तेस्तत्र विशेष-बलेनाभिप्रेतेति वक्तव्यम् अतः श्रुत्यादिविरोधस्तदवस्थ इति भावः । ननु स्वरूपातिरिक्तत्वस्यात्र शक्तेर्लाभेऽपि न सहकारिव्यतिरिक्तत्वलाभः । श्रुतेः सहकारिकथनपरत्वेन शक्तेः सहकारि-समवधानातिरिक्तत्वालाभादित्याशङ्क्य निषेधति नापीति ॥ स्वाभाविकत्वादीति । आदिपदेन नित्यत्वं ग्राह्यम् । तथाच सहकारिणामागन्तुकानां न स्वाभाविकत्वादिकमिति सहकारिव्यतिरिक्तैव साऽङ्गीकार्येति भावः ॥ मतुप इति । शक्तिमानपीत्यत्रेत्यर्थः । स्वरूपत्वकथनस्य व्यर्थत्वादिति भावः ॥ सहकारिवर्गेति । दहनत्वादिसामान्यस्यापि स्फोटजनकतावच्छेदकतयोपयुक्तत्वेन प्रयोजनकत्वात् सहकारिवर्गेऽन्तर्गतमित्यर्थः ॥ न स्यादिति । दहनत्वविशिष्टदहनस्य सविकल्पके प्रतीयमानत्वेन दहनत्वरूपशक्तेरपि प्रतीतत्वादित्यभिप्रायः ॥ अपसिद्धान्तादिति । प्रत्यक्षयोग्यव्यक्तिवृत्तिदहनत्व-जातेः प्रत्यक्षयोग्यत्वादित्यर्थः ॥ तथेति । अतीन्द्रियतयेत्यर्थः । कारणत्वं त्वित्यतः पूर्वं शक्तिरूपमिति शेषः । अनपेक्षेत्यनन्तरं प्रत्यक्षेति शेषः । अधिगतत्वाद् अधिगतिविषयत्वादित्यर्थः । सहकारिसमव-धानमेव कारणत्वं न भवतीत्याह कारणस्यैवेति । शक्तिमत एव । न हि पटजननाशक्ते मृदादौ पटजन-
नाय तुरीवेमादिसहकारिसमवधानं मृग्यते । किन्तु शक्तिमति तन्त्वादावेवेति तदेव कारणं भवतीत्याशयः।