०५ विशेषस्य स्वनिर्वाहकत्वम्

शक्तिता व्यक्तिता चेति विशेषोऽपि

विशेषस्य स्वनिर्वाहकत्वम्

शक्तिता व्यक्तिता चेति विशेषोऽपि

सुधा

ननु (च) क्रियायाः शक्तिव्यक्तिरूपे परस्परं भिन्नेऽभिन्ने वा । आद्ये शक्तिरेव नित्या क्रियात्वनित्येत्यापन्नम् । द्वितीये त्वनिवृत्तः सदा व्यवहारादिप्रसङ्ग इत्यत आह शक्तितेति ।

अनुव्याख्यानम्

शक्तिता व्यक्तिता चेति विशेषोऽपि

सुधा

अभिन्ने एव शक्तिव्यक्ती । न चोक्तदोषः । यतस्तत्र शक्तितेति व्यक्तितेति च विशेषोऽप्यस्ति । स च भेदकार्यनिर्वाहक इति च प्रागेवोक्तमिति ।

स च विशेषः परस्परं विशेषिणा च यदि भिन्नः, तदा शक्तिव्यक्त्योरपि किं भेदो न स्यात् । अथाभिन्नः पुनर्व्यवहारादिसाङ्कर्यमित्यत आह विशेषवानिति ।

अनुव्याख्यानम्

विशेषवान् ॥

अभिन्नोऽपि

सुधा

विशेष इत्यनुवर्तते । अभिन्न एवायं विशेष इति ब्रूमः । न चोक्तानुपपत्तिः । यतोऽभिन्नोऽपि विशेषवानङ्गीक्रियते । स्वनिर्वाहक इत्यर्थः ।

नन्वेवमन्यत्रापि क्रियाया नित्यत्वमङ्गीकर्तव्यम् । शक्तिव्यक्तिस्वीकारेण सकलदोषपरिहारा-दिति चेत् । अङ्गीक्रियतां यदि तन्नित्यतायां प्रमाणमस्ति । सति निर्बाधे प्रमाणे, तद्विपरीतव्यवहारेषु च तदन्यथाऽनुपपत्त्या कल्पनैषा भवति । न च घटादिक्रियाया नित्यत्वे निर्बाधं प्रमाणमस्ति । अस्ति तु परमेश्वरादिक्रियाया नित्यत्वे तदित्याह क्रियादिश्चेति ।