इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः
सृष्ट्यादिकालविशेषसंबन्धरूपः शक्तिरेव व्यक्तिः
इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः
सुधा
ननु केयं शक्तेर्व्यक्तिर्नाम । न तावत्प्रतीतिः । ईश्वरापेक्षया नित्यसिद्धत्वेनोक्तदोषानु-षक्तेः । परापेक्षया कदाऽप्यभावात् । भावेऽपि कार्योत्पादस्य तदनपेक्षत्वात् । अत एव नावरण-निवृत्तिर्व्यक्तिरिति । मैवम् । व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वात् ॥ तत्र यत्ता-वदुक्तम् । यदि सृष्टिसमयेऽपि संहारक्रिया स्यात्तदा तथा व्यवह्रियेतेति । तदसत् । व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् । यदपि जननविनाशौ युगपत्स्यातामिति तदपि व्यक्तयवस्थायामेव शक्ते-र्जनकत्वादनुपपन्नम् । यच्च क्रियाया नित्यत्वे संयोगविभागोत्पत्तिसातत्यप्रसञ्जनं तदप्येवमेव परिहृतम् । किं चैवं पटसामग्य्राः पटोत्पत्तावनपेक्ष(कारण)त्वात्पटोत्पत्तिसातत्यं स्यात् । ननु किं सामग्री तमेव पटं पुनर्जनयतु(येत्), उत पटान्तरम् । नाद्यः । पटप्रागभावस्यापि सामग्रीनिविष्ट-त्वात्तस्य च पटोत्पत्त्या विनष्टत्वेन सामग्य्रा विकलत्वात् । न द्वितीयः । पूर्वपटेन प्रतिबद्धत्वात् । तत्कथं पटोत्पत्तिसातत्यम् । सत्यम् । सममेतत्प्रकृतेऽपीति । यदपीश्वरक्रिया संयोगविभागौ करोति न वेति पृष्ठम् । तत्र करोतीति ब्रूमः । कुर्वन्ती च विरम्यैव । न च तदनुपपत्तिः । व्यक्तया विशिष्टत्वात् । अन्यथाऽवयवक्रियाऽप्युत्तरदेशसंयोगं स्वोत्पत्त्युत्तरक्षण एव कुर्यात् । न च कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तिः । अनित्यक्रियासु तद्-व्यवस्थोपपत्तेः ।
शेषवाक्यार्थचन्द्रिका
उक्तदोषेति घटादेर्युगपज्जननविनाशप्रसङ्गरूपेत्यर्थः ॥ परेति । पुरुषशक्त्या नित्यातीन्द्रियत्वादिति भावः ॥ भावेऽपीति । ईश्वराचिन्त्यशक्त्या प्रतीति सद्भावेऽपीत्यर्थः ॥ अत एवेति । ईश्वरापेक्षया नित्यसिद्धत्वात्परापेक्षया कदाऽप्यभावाद्भावेऽपि कार्योत्पादस्य तदनपेक्षत्वादेवेत्यर्थः । शक्तिव्यक्तिरूपाश्रयणेनोक्तबाधकान्यनूद्य परिहरति तत्रेति ॥ व्यक्तिरूपे-णैवेति । ततश्च सृष्टिसमये संहारक्रियायाः शक्तिरूपेण सद्भावेऽपि तेन रूपेण व्यवहारानालम्बनत्वा-द्य्वक्तिरूपेणैव व्यवहारालम्बनत्वात्, व्यक्तेश्च तदाऽभावान् न श्रुत्यादौ तथा व्यवहार इति भावः ॥ जननेति । घटस्येति शेषः । व्यक्त्यवस्थाया एवेति । व्यक्त्यवस्थोपेतायाः क्रियाशक्तेरेव जनकत्वात् सृष्टिसमये च तदभावान्नोक्तप्रसङ्ग इति भावः । (क्रियाया एव शक्तित्वेनाभिधानानुसारेणेदम्) ॥ एवमेवेति । व्यक्त्यवस्थाया एव क्रियाया जनकत्वान्न क्रियानित्यत्वेऽपि संयोगादिसततोत्पत्तिप्रसङ्ग इति भावः । सामग्रीवैकल्यात्पूर्वसंयोगेन प्रतिबन्धाच्च न संयोगादिसततोत्पत्तिप्रसङ्ग इति भावेन सामग्री-वैकल्यादिकं परमुखेनैवानेतुं प्रतिबन्दीमाह किञ्चेति ॥ सममेतदिति । किं क्रिया तमेव संयोगं पुनर्जनयतु संयोगान्तरं वा । नाद्यः । संयोगप्रागभावस्यापि सामग्रीनिष्ठत्वात्तस्य च संयोगोत्पत्त्या विनष्टत्वेन सामग्रीवैकल्येन क्रियामात्रेण संयोगजननयोगात् । नान्त्यः । पूर्वसंयोगेन प्रतिरुद्धत्वात् । तत्कथं संयोगोत्पत्तिसातत्यमेवं विभागोऽपीति सममेतदित्यर्थः ॥ करोतीति ब्रूम इति । अतो न लक्षणव्याघात इति भावः । तर्ह्येतत्पक्षोक्तविकल्पदोषप्रसङ्ग इत्यत आह । कुर्वन्ती चेति । तथा च स्वसत्तोत्तरक्षण एव संयोगादिजनकत्वानङ्गीकारान्न तत्पक्षोक्तदोषप्रसङ्ग इति भावः । तावता तद्दोष-परिहारेऽपि एतत्पक्षोक्तदोषः स्यादेवेत्याशङ्क्य निषेधति न चेति । पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापाराभावादिति भावः । पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापाराभावेऽपि प्रकृते व्यक्त्या विशिष्टत्वभावाभावाभ्यां क्रियायाः पूर्वोत्तरावस्थयोरविशेषासिद्धेर्युक्तो विरम्यव्यापार इत्याशयवानाह व्यक्त्येति । पूर्वोत्तरावस्थयोर्विशेषं क्रियायाः परमुखेनाप्यानेतुं प्रतिबन्दीमाह अन्यथेति ॥ अनुप-पत्तेरिति । उत्तरसंयोगस्य कर्मविनाशकत्वाद् अन्यथाप्रापणानुपपत्तिप्रसङ्गादिति भावः ।
परिमल
अत एवेति । नित्यसिद्धत्वादित्यादिदोषादेवेत्यर्थः । न कश्चिद्दोष इत्युक्तं तद्-व्यनक्ति तत्र यत्तावदित्यादिना । अवयवक्रियेति । द्वितन्तुकावयव इत्यादिनोक्तावयवक्रियेत्यर्थः ।
यादुपत्यम्
अवस्थाविशेषस्येति । स च कार्यैकोन्नेय इति भावः ।
श्रीनिवासतीर्थीया
प्रतीतिः किमीश्वरस्योच्यते, परेषां वा । नाद्य इत्याह ईश्वरेति । ईश्वर-मपेक्ष्येत्यर्थः । नित्यसिद्धत्वेन शक्तिप्रतीतेरिति शेषः ॥ उक्तदोषेति । तथाहि । यदि सृष्टिसमयेऽ-पीत्यादिनोक्तेत्यर्थः । द्वितीयं निराह परेति । परानपेक्ष्येत्यर्थः । भगवच्छक्तेरतीन्द्रियत्वेन परेषां भगवच्छक्तिप्रतीतिः कदाऽपि नास्तीति भावः । अस्त्यागमादिना परेषां तत्प्रतीतिरिति चेत्तत्राह भावेऽपीति । तदनपेक्षत्वात् परप्रतीत्यनपेक्षत्वादित्यर्थः । परेषां यदा भगवच्छक्तिप्रतीतिस्तदैव कार्यं भवति । नो चेन्नेति न युक्तम् । शक्तिकार्यभूतस्य सतत कार्योत्पादस्य परप्रतीत्यनपेक्षत्वेन परेषां तत्प्रतीतिरस्तु वा मा वा कार्यं तु सदा स्यादेवेति भावः । तथाच क्रियारूपशक्तौ परप्रतीतिरूपव्यक्तौ सत्यां कार्योत्पादस् तस्मिन् सति परेषां प्राप्त्या तत्प्रतीतिरूपव्यक्तिसिद्धिरित्यन्योन्याश्रय इति हृदयम् ॥ अत एवेति । ईश्वरापेक्षयाऽऽवरणस्यैवाभावात्परेषां त्वीश्वरशक्तिप्रतीति प्रसक्तेरेवाभावेन तान्प्रत्यावरण कल्पनाया एवासम्भवेन परापेक्षया कदाऽप्यावरणनिवृत्तेरभावात् । भावे वा कार्योत्पादस्य तदनपेक्ष-त्वादित्यर्थः । अवस्थाविशेषः सृष्ट्यादिकालविशेषसम्बन्धरूपः ॥ व्यक्तिरूपेणैवेति । शक्तेर्यदा सृष्ट्यादिकालविशेषसम्बन्धस्तदैवेति भावः । व्यक्त्यवस्थायाः सृष्ट्यादिकालविशेषसम्बन्धवत्याः । तथाच शक्तेः सृष्टिसंहारकालसम्बन्धस्य युगपदभावान्न युगपत्सृष्टिसंहारावित्याशयः ॥ एवमेवेति । कालविशेषसम्बन्धरूपव्यक्त्यवस्थाया एव शक्तेः संयोगादिजनकत्वाद् व्यक्त्यवस्थायाश्च सदाऽभावान्न तत्सातत्यमिति भावः ॥ एवमिति । क्रियायाः संयोगविभागौ प्रत्यनपेक्षकारणत्वात्तदुत्पत्तिसातत्य-प्रसञ्जन इत्यर्थः । अनपेक्षत्वाद् इतरानपेक्षकारणत्वादित्यर्थः । तमेव पूर्वमुत्पन्नमेव ॥ विनष्टत्वेनेति । प्रतियोग्यापत्तेरेव प्रागभावविपत्तित्वादिति भावः । पूर्वपटेनेति । सामग्य्रा हि तन्तौ पटेनोत्पत्तव्यम् । तत्र च पूर्वपटस्यैव प्रतिबन्धकस्य सत्त्वेन पटान्तरस्यावकाशाभावादित्यर्थः ॥ सममेतदिति । क्रियारूप सामग्री तमेव संयोगादिकं जनयेदुत संयोगान्तरम् । नाद्यः । संयोगादिप्रागभावाभावेन सामग्य्रा विकलत्वात् । न द्वितीयः । पूर्वसंयोगादिना प्रतिबद्धत्वादित्यर्थः ॥ तदनुपपत्तिरिति । पूर्वोत्तरा-वस्थयोरविशिष्टस्य विरम्यव्यापारायोगादित्यर्थः ॥ व्यक्तयेति । कालविशेषसम्बन्धरूपयेत्यर्थः । तथाच पूर्वोत्तरावस्थयोरविशिष्टत्वमेवेति नेति भावः । अवयवक्रिया द्वितन्तुकावयवक्रिया ॥ उत्तरक्षण एवेति । तन्त्वन्तरविभागादिभिर्व्यवधानं न स्यात्पूर्वोत्तरावस्थयोरविशिष्टत्वादित्यर्थः । कर्मण ईश्वरकर्मणः ॥ अनित्येति । ईश्वरक्रिया तु नित्येति भावः ।
इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः
इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः
सुधा
ननु संहारकाले क्रिया व्यक्ता (अथ) न वा । न चेत्कथं तत्र व्यवहारोऽर्थक्रिया वा । आद्ये कथं सृष्टिव्यवहाराद्यभावः । मैवम् । व्यक्तेरप्यवान्तरानन्तविशेषवत्ताऽङ्गीकारात् । तदिदमुक्तं स विशेषोऽपीति । एवमनङ्गीकारे परेषामपि समानः प्रसङ्गः । पारमेश्वरस्य ज्ञानेच्छाप्रयत्नलक्षणस्य संहारव्यापारस्य नित्यत्वात् । नित्यमपि परमेश्वरेच्छादिकं सहकारिसद्भाव एव कार्यकारीति चेन्न । सहकारिणामपि नित्यत्वात्, परमेश्वरेच्छाद्यायत्तत्वाच्च । नेच्छादिमात्रं संहारादिकारणं किन्तु सञ्जिहीर्षादिकम् उत संहारादिविशेषविषिष्टं तदेव । नाद्यः । अनभ्युपगमात् । तत एव संहरादि-सिद्धाविच्छादिकल्पनावैयर्थ्याच्च । संजिहीर्षादेश्च नित्यानित्यविकल्पानुपपत्तेः । न द्वितीयः । सति संहारादौ संजिहीर्षादिकं ततः संहारादिरिति परस्पराश्रयप्रसङ्गात् । न च स्वरूपसता संहारादि-नेच्छादिकमुपधीयते । किन्तु विषयभूतेनेति चेत् । संहारादिविषयता किमागन्तुकी, अथवा नित्येति वक्तव्यम् । नाद्यः ॥ गुणेष्वागन्तुकधर्मोत्पत्तेरनभ्युपगमात् । द्वितीये तु सर्वदा संहारादिप्रसङ्गः । तस्माच्छक्तिव्यक्तिरूपता सर्वथाऽनुसरणीया । सा च समा क्रियायामपीति ।
शेषवाक्यार्थचन्द्रिका
क्रिया व्यक्ता न वेति । अत्र क्रियाशब्दः शक्तिपरः । अत एव तत्तत्कार्यजननशक्तिरेव क्रियेत्युक्तमिति ध्येयम् । संहारक्रियायाः संहारकालेऽव्यक्तत्वे संहारक्रियेति श्रुत्यादौ व्यवहारो न स्यात् । व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् । संहाररूपार्थक्रिया च न स्यात् । व्यक्त्यवस्थाया एव शक्तेर्जनकत्वादित्याह न चेदिति । संहारकाले शक्तेर्व्यक्तत्वे संहारस्येव सृष्टेरपि प्रसङ्गः । संहारक्रियेति श्रौतव्यवहारवत् सृष्टिः क्रियेत्यपि श्रौतव्यवहारस्यापि प्रसङ्ग इत्याह आद्य इति ॥ तदिदमुक्तमिति । अनेन यो व्यवहारहेतुर्व्यक्तिरूपो विशेषः, स सविशेषोऽपि भगवत्यवान्तरानन्त-विशेषसहितोऽपि भवति । अतो न व्यवहारादिसाङ्कर्यप्रसङ्ग इति मूलयोजना सूचिता भवतीति द्रष्टव्यम् ॥ ननु क्रियायां शक्तिव्यक्तिरूपत्वं व्यक्तिरूपेण व्यवहारालम्बनत्वं व्यक्तेरप्यवान्तरानेकविशेषवत्वं चेत्यनेककल्पनादोष प्रसङ्गान्नेश्वरस्य क्रियाङ्गीकारो युक्त इत्यतस्तर्हि ज्ञानेच्छाद्यङ्गीकारेऽपि शक्ति-व्यक्त्यादेरनेकस्य कल्पनीयत्वाज्ज्ञानादिकमपि नेश्वरस्याङ्गीकर्तव्यं स्यादविशेषादिति भावेन ज्ञानादौ शक्तिव्यक्त्यादिकमेव कुतः कल्पनीयं, येन तस्यापलापः स्यादितस्तत्र शक्तिव्यक्त्यादिरूपत्वं परेणा-प्यङ्गीकारयति एवमिति । क्रियायां शक्तिव्यक्त्याद्यनङ्गीकार इत्यर्थः ॥ समानः प्रसङ्ग इति । सृष्टिसमये संहारोऽपि स्यादित्यति प्रसङ्गस्तुल्य इत्यर्थः ।
ननु संहारक्रियाया नित्यत्वेन सृष्टिसमयेऽपि सत्त्वात् त्वत्पक्षे घटादेर् युगपज्जननविनाशप्रसङ्गेऽपि परमेश्वरीयसंहारव्यापारस्यानित्यत्वेन सृष्टिसमयेऽसत्त्वान्न परपक्षे युगपज्जननादिप्रसङ्ग इत्यतः स्यादे-तदेवं यदि परमेश्वरीयसंहारव्यापारोऽनित्यः स्यात् । न चैतदस्तीत्याह परमेश्वरस्येति ॥ नित्यमपीति । तथा च सृष्टिसमये पारमेश्वरसंहारव्यापारसत्त्वेऽपि सहकारिविरहान्न संहारजनकत्वमिति नोक्तप्रसङ्ग इति भावः । स्यादप्येवं यदि सृष्टिसमये संहारकारणपारमेश्वरव्यापारस्य सहकारिविरह एव स्यान्न चैतदस्ति, पारमेश्वरव्यापारवत्तत्सहकारिणामपि नित्यतया सृष्टिसमये सत्त्वावश्यंभावादित्याह सहकारिणामपीति । अनित्यत्वेऽपि सहकारिणामीश्वरेच्छाद्यायत्तत्वेन सतीच्छादौ तदभावायोगान्न सहकारिविरहो वक्तुं युक्त इत्याह ईश्वरेच्छाद्यायत्तत्वाच्चेति ॥ नेच्छादीति । संहारादीत्यादिपदेन सृष्टिपरिग्रहः । सञ्जिहीर्षादिकमित्यादिपदेन संहारसमये च सञ्जिहीर्षावत्सिसृक्षाया अभावान्न सृष्ट्यादि समये जननविनाशयौगपद्यप्रसङ्ग इति भावः ॥ अनभ्युपगमादिति । तथा चापसिद्धान्त इति भावः । तथाऽभ्युपगमेऽप्याह तत एवेति । सञ्जिहीर्षादित एवेत्यर्थः ॥ नित्यानित्येति । सञ्जिहीर्षादिकं नित्यमनित्यं वा । नाद्यः । सर्वदा संहारप्रसङ्गात् । नान्त्यः । तथा सति संजिहीर्षासंहारादौ संजिहीर्षाद्यन्तरं कारणं वाच्यम् । अन्यथा तत्रैव व्यभिचारेण तस्य संहाराद्यकारणत्वप्रसङ्गात् । ततश्चानवस्थेति नित्यानित्यविकल्पानुपपत्तेरित्यर्थः । किन्तु विषयभूतेनेति । विषयत्वं चानागतस्यापि संभवतीति न परस्पराश्रयत्वमिति भावः ॥ गुणेष्विति । इच्छादीनां गुणानां सामान्यसम्बन्धेऽपि नागन्तुकधर्मोत्पत्तिस्तवाभिमता येन संहारादिविषयतोत्पद्येतेत्यर्थः ॥ तस्मादिति । संजिहीर्षाया नित्यत्वेन सृष्टिकाले सिसृक्षायाश्च नित्यतया संहारकाले च सत्त्वेऽपि शक्तिरूपेणैव सत्त्वाद् व्यक्ति-रूपेणैव च कार्यकारित्वात् । यदा सिसृक्षाव्यक्तिस्तदानीमेव सृष्टिः, यदा च संजिहीर्षाया व्यक्ति-स्तदानीमेव संहार इति न सृष्ट्यादौ युगपज्जननविनाशप्रसङ्ग इति शक्तिव्यक्तिरूपताश्रयणेनैवोक्तप्रसङ्ग निरासो वक्तव्यः । स च क्रियायामपि तुल्य इति न मत्पक्षेप्यतिप्रसङ्ग इति भावः ।
परिमल
व्यक्तेरैकरूप्यमुपेत्य शङ्कते ननु संहारकाल इति ॥ संजिहीर्षादेश्च नित्या-नित्यविकल्पानुपपत्तेरिति । सञ्जिहीर्षादिकं नित्यं चेन् नित्यं संहारातिप्रसङ्गः । अनित्यं चेत्तत्संहार-स्यापि सञ्जिहीर्षाधीनत्वेनात्माश्रयाद्यापातात् । सञ्जिहीर्षानधीनत्वेऽन्यसंहारस्यापि तदधीनत्वाभावा-पाताद्य्वभिचारादिति दूषणप्रसङ्गेनेति भावः ॥ विषयभूतेनेति । इच्छां प्रति विषयभूतेन संहारादि-नेच्छायां सञ्जिहीर्षत्वादिरूपो विशेष उपाधीयते । इच्छाविषयत्वं चागामिन्यपि संहारे सम्भवतीति नान्योन्याश्रय इति भावः । इच्छायाः संहारादिविषयता संहारादिविषयकतेत्यर्थः । परममहदिति भिन्नं पदम् । एकपदत्वे वा ‘आन्महतस्समानधिकरणजातीययोरि’ति आत्त्वस्य स्थान्यादेशोक्तिव्यत्ययेन समानाधिकरणजातीययोर् इति द्वन्द्वेऽल्पाच्तरस्य परनिपातेन च ज्ञापनादनित्यत्वमिति ध्येयम् ।
यादुपत्यं
क्रिया व्यक्ताऽथ न वेति । तत्तत्कार्यजननशक्तिरेव क्रियेत्युक्तत्वादत्र क्रियाशब्दः शक्तिपरः ॥ कथं सृष्टीति । तत्तत्कार्यजननशक्तेर् ज्ञानादिवदेकत्वात्तस्याव्यक्तौ तत्साध्यानि सर्वाणि कार्याणि युगपदेव स्युरित्यर्थः ॥ अवान्तरानन्तेति ॥ अनेन शक्तिरूपक्रियाया एकत्वे भगवत्क्रियाणा-मानन्त्यवचनविरोध इत्याशङ्काऽपि निरस्ता ज्ञातव्या । व्यक्तीनामानन्त्येन क्रियानन्त्यवचनानां व्यक्त-क्रियाविषयत्वसम्भवात् ॥ तदिदमुक्तमिति । अनेन यो व्यवहारहेतुर्व्यक्तिरूपो विशेषः स सविशेषोऽपि भवति । अवान्तरानन्तविशेषैः सहितोऽपि भवति, अतो न कार्यसाङ्कर्यप्रसङ्ग इति मूलयोजना सूचितेति ज्ञातव्यम् ॥ व्यापारस्येति । प्रवृत्तेरित्यर्थः ॥ नित्यानित्येति । सञ्जिहीर्षादेरनित्यत्वे सञ्जिहीर्षादि-संहारादावपि सञ्जिहीर्षाद्यन्तरं कारणं वाच्यम् । अन्यथा तत्रैव व्यभिचारेण तस्य संहाराद्यकारणत्व-प्रसङ्गात् । सा चान्या चेदनवस्था, सैव चेदात्माश्रयः । ईश्वरशरीराद्यभावेन तज्जननासंभवाच्च । नित्यत्वे सर्वदा संहारादिप्रसङ्ग इति दूषणप्रसङ्गेन विकल्पानुपपत्तेः ॥ किन्तु विषयभूतेनेति । विषयत्वमना-गतस्यापि सम्भवतीति नान्योन्याश्रय इति भावः ।
श्रीनिवासतीर्थीया
क्रियेति । शक्तिरित्यर्थः । व्यक्तिरेकैवेति हृदयम् ॥ तत्रेति । संहारकाल इत्यर्थः । व्यवहारः संहारव्यवहारः । अर्थक्रिया संहरणरूपा ॥ कथमिति । क्रियानिष्ठायाः सामान्यतः कालसम्बन्धरूपाया व्यक्तेरेकत्वेन तस्याश्च जातत्वात्सृष्टिव्यवहारः सृष्टिरूपक्रिया वा स्यादित्यर्थः । व्यक्तेः क्रियानिष्ठव्यक्तेः । तथा च व्यक्तिर्नाम सामान्यतः कालसम्बन्धरूपा न विवक्षिता येनोक्तदोषः, किन्तु तत्तत्कालविशेषसम्बन्धरूपैवातो नोक्तदोष इत्याशयः । प्रसङ्गः सदा संहारव्यवहारसंहरणरूपार्थ क्रिययोः प्रसङ्गः । सञ्जिहीर्षादिकमित्यत्रादि- पदेन सिसृक्षा ग्राह्याः । तदेव नित्येच्छादिकमेव । अभ्युपगमे त्वाह तत एवेति । नित्येच्छादिव्यतिरिक्त सञ्जिहीर्षादित एवेत्यर्थः ॥ सतीति । तल्लक्षणविशेषणविशिष्टत्वलाभादित्यर्थः। उपाधीयते । उपसंहितं विशिष्टं भवतीति यावत् ॥ किंत्विति । तथाचानागतस्यापि विषयत्वसम्भवेन स्वरूपसत्त्वस्यानपेक्षितत्वात् । संहाराभावेऽपि भाविना संहारेणेच्छादिकमुपाधीयते । ततश्च सञ्जिहीर्षात्वं सम्भवतीत्येवाङ्गीकारेण सति संहारादौ सञ्जिहीर्षादिक मित्यस्यानङ्गीकारान्नान्योन्याश्रय इति भावः । संहारादिविषयकता इच्छादेर्भाविसंहारादिविषयकता ॥ सर्वदेति । इच्छादौ भाविसंहारादिविषयकत्वस्य नित्यत्वेन संजिहीर्षायाः सदा सत्त्वादित्यर्थः । अनुसरणीया सञ्जिहीर्षादाविति शेषः ।