इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः
परमेश्वरक्रियाया नित्यत्वसमर्थनेन परिहारः
इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः
सुधा
परिहरति इति चेदिति ।
अनुव्याख्यानम्
***इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः । ***
नेत्यध्याहारः । कुतः । न केवलमीश्वरः स्थिरोऽपि तु स तदीयो विशेषो धर्मोऽपि क्रियारूपः स्थिरो यत इति शेषः । अत्र (तु) क्रिया स्थिरेत्येतावदेव वक्तव्यं विशेष इति तु क्रियायाः परमेश्वरैक्येऽप्युक्तवक्ष्यमाणन्यायेन तद्धर्मताऽप्यङ्गीकरणीयेति ज्ञापयितुम् । न केवलं स विशेषः सर्वगतत्वादिः स्थिरः, किन्तु क्रियाऽपि पारमेश्वरी स्थिरा यत इति वा योज्यम् । अनेन क्रियाया अपि नित्यत्वप्रतिज्ञानेन विरुद्धधर्माध्यासस्यासिद्धिरुक्ता । तथा हि । ईश्वरस्य संहरणादि-क्रियाणामनित्यत्वं किं प्रमाणबलादङ्गीक्रियते, उत नित्यत्वे बाधकसद्भावात्, अथवा तत्साधक-प्रमाणाभावात् । नाद्यः । ईश्वरस्य तत्क्रियायाश्च अप्रत्यक्षत्वेन तदनित्यत्वस्य प्रत्यक्षेण प्रत्येतुम-शक्यत्वात् । लिङ्गाभावेनानुमानानुपपत्तेः । क्रियात्वं लिङ्गमिति चेत्, तत्किं धात्वर्थत्वं परिस्पन्दत्वं वा । नाद्यः । ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् । न द्वितीयः । सर्वक्रियाणामपरिस्पन्दत्वेन भागासिद्धत्वात् । ईश्वरपरिस्पन्दपक्षीकारे त्वाश्रयासिद्धिः । परेण तस्यानङ्गीकृतत्वात् । अङ्गीकारेऽप्यनैकान्त्यम् । क्वचिदनीश्वरपरिस्पन्दानामपि नित्यत्वस्य वक्ष्यमाणत्वात् । क्रियात्वस्य नित्यत्वेन विना वृत्तौ बाधकाभावादप्रयोजकता च । कार्यत्वेन सोपाधिकत्वं च । तस्यापि साधने बाधः । प्रमाणस्य वक्ष्यमाणत्वात् । असत्यावरणादौ प्रागूर्ध्वं चानुपलम्भो लिङ्गमिति चेत् । अनुपलम्भः किं प्रत्यक्षेणोत प्रमाणमात्रेण । नाद्यः । योग्यतया विशेषणेऽसिद्धेः । अन्यथा गगनादिना व्यभिचारात् । द्वितीये त्वसिद्धिः । आगमादिनोपलब्धेः ॥ एतेनावरणाद्यभावे सति कदाचिदेवोपलब्धिरपि प्रत्युक्ता । वर्णनित्यत्ववादेऽनैकान्त्याच्च । किञ्च नित्योऽपि ईश्वरपरिस्पन्दः कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्यामः । व्यक्तिरप्यादिग्रहणेन गृह्यत इति चेन्न । सन्दिग्धविशेषणासिद्धेः । अस्तु तर्हि फलानुपलम्भो लिङ्गमिति चेन्न । सर्वथाऽनुप-लम्भस्यासिद्धत्वात् । न हीश्वरपरिस्पन्दक्रिया कदाऽपि न संयोगविभागलक्षणं फलं जनयतीति युज्यते । तथा सति परिस्पन्दत्वानुपपत्तेः । नित्यसंयोगविभागजन्मानुपलब्धेरिति चेन्न । नित्य-गुणादिना व्यचिचारात् । कदाचिदेव संयोगादिजन्म विवक्षितमिति चेत् । तथाऽपि गगनादिना व्यभिचारः । कदाचिदेव संयोगाद्यसमवायिकारणत्वमस्त्विति चेन्न । कदाचिदिति विशेषण-वैय्यर्थ्यात् । तत्परित्यागेऽप्यसमवायिकारणत्वस्य दुर्निरूपत्वेनासिद्धेः ।
शेषवाक्यार्थचन्द्रिका
उक्तवक्ष्यमाणन्यायेनेति । भगवद्धर्माणां भगवता सविशेषाभेदस्य जन्माधिकरणे उक्तत्वादहिकुण्डलाधिकरणे वक्ष्यमाणत्वाद्विशेषबलेन तद्धर्मत्वोपपत्तिरिति भावः । ईश्वरस्य संहरणादिक्रियाया अनित्यत्वे प्रमाणं भवत्प्रत्यक्षमनुमानमागमो वेति विकल्पान्मनसि निधायाद्यं तावद्दूषयति ईश्वरस्येति । द्वितीयं दूषयति लिङ्गाभावेनेति ॥ ज्ञानेच्छाप्रयत्नैरिति । ईश्वरीयैरिति शेषः ॥ सत्तया चेति । सर्वपदार्थसम्बन्धिन्येत्यर्थः ॥ व्यभिचारादिति । ज्ञानादीनां धात्वर्थरूपक्रियात्वेऽप्यनित्यत्वाभावादिति भावः । अत्र सत्तायां व्यभिचारो न्यायरीत्या द्रष्टव्यः । मतान्तरेऽनित्यत्वस्यापि तत्र सत्त्वादीश्वरसम्बन्धिसत्ताविवक्षायां च ज्ञानेच्छाप्रयत्नसत्ताभिरिति वक्तव्यतया ज्ञानेच्छाप्रयत्नैः सत्तया चेति पृथगुपादायागयोगादितिध्येयम् । हेतूकृतं क्रियात्वं परिस्पन्दत्वमिति द्वितीयेऽपि वाच्यं, किं पक्षीभूतक्रिया धात्वर्थमात्रमेवाभिमता किंवा परिस्पन्द एवेति, विकल्पं मनसि निधायाद्यं दूषयति सर्वक्रियाणामिति । तथा सति ज्ञानादिरूपक्रियाणामपि धात्वर्थ-त्वेन पक्षतया तासां च परिस्पन्दत्वाभावाद्भागासिद्धिः स्यादित्यर्थः । द्वितीयं दूषयति । ईश्वर-परिस्पन्देति । अनैकान्त्यमेवोपपादयति क्वचिदिति ॥ वक्ष्यमाणत्वादिति ॥ ‘‘शक्तिसद्भाव एव तु । क्रियादिनित्यता ज्ञेये’त्यादिनेति शेषः । क्रियात्वेनैव कार्यत्वस्यापि पक्षेसाधनेन साधनव्यापकत्वात् कथमुपाधित्वमित्यत आह तस्यापीति ॥ बाध इति । आगमबाध इत्यर्थः ॥ प्रमाणस्येति । आगम-स्येत्यर्थः ॥ वक्ष्यमाणत्वादिति । ‘क्रियादिश्च स्वभाव इति हि श्रुतिरि’त्यादिनेति शेषः । क्रियाया अनित्यत्वे लिङ्गान्तरमाशङ्कते असत्यावरणादाविति । आवृततया प्रागूर्ध्वं चानुपलभ्यमाने व्यभिचार-वारणाय विशेषणभागः । प्रागूर्ध्वं चोपलभ्यमाने तद्वारणाय विशेष्यभागः । आदिपदं तु वर्णनित्यत्व-वादे तत्रानैकान्त्यपरिहाराय । तत्राव्यञ्जकेऽसति नानुपलब्धिरिति न व्यभिचारः । एतच्च व्यक्तिरप्यादि-ग्रहणेन गृह्यत इत्यादिनोत्तरत्र वक्ष्यमाणमनुसन्धेयम् । प्रत्यक्षेणानुपलम्भ इति प्रथमेऽपि किं योग्यत्वे सति प्रत्यक्षेणानुपलब्ध्याऽभावनिश्चयोऽभिमतः किंवा प्रत्यक्षेणानुपलब्धिमात्रेण । नाद्य इत्याह योग्य-तयेति ॥ असिद्धेरिति । ईश्वरक्रियाया अयोग्यत्वेन योग्यत्वे सतीति विशेषणासिद्ध्या विशिष्ट-हेत्वसिद्धेरित्यर्थः । द्वितीयं दूषयति अन्यथेति । गगनादेप्यसत्यावरणे प्रागूर्ध्वं च प्रत्येक्षणानुप-लभ्यमानत्वेऽप्यनित्यत्वाभावादिति भावः । अस्तु तर्हि प्रमाणमात्रेणानुपलम्भो हेतुरित्याद्यद्वितीयो निरवद्यत्वादित्यत आह द्वितीय इति ॥ असिद्धिरिति । हेतुविशेष्यासिद्ध्या विशिष्टहेत्वसिद्धिरित्यर्थः । असिद्धिमेवोपपादयति आगमादिनेति । ज्ञानं नित्यं क्रिया नित्येत्यागमेन तन्मूलकानुमानेन चेत्यर्थः ॥
एतेनेति । कदाचिदेवोपलब्धिः किं प्रत्यक्षेणोत प्रमाणमात्रेण । नाद्यः । अयोग्यतया प्रत्यक्षेणोप-लम्भस्य कदाऽप्यभावेनासिद्धेः । नान्त्यः । आगमादिना सर्वदोपलम्भेन कदाचिदेवोपलम्भस्याप्य-सिद्धत्वादिति पूर्वोपन्यस्तासिद्धिरूपदूषणेनैवेत्यर्थः ॥ वर्णनित्यत्वावाद इति । असत्यावरणे प्रागूर्ध्व-मनुपलभ्यमानत्वस्य वा, आवरणाभावे सति कदाचिदेवोपलभ्यमानत्वस्य च वर्णेषु सत्वेऽप्यनित्यत्वा-भावात्तत्रानैकान्त्यमित्यर्थः । न्यायमतेऽनित्यत्वस्यापि तत्र सत्त्वान्नानैकान्त्यमित्यत उक्तं वर्णनित्यत्व-वाद इति । यद्यपि हेतुद्वयस्यादि पदार्थघटितत्वान्न तत्रानैकान्त्यं, तथापि तदन्तर्भावे वक्ष्यमाणदोष-भयात्तदनन्तर्भावं सिद्धवत्कृत्यानैकान्त्याभिधानमिति द्रष्टव्यम् । हेतुद्वयमनैकान्तिकत्वेन दूषयित्वाऽ-प्रयोजकत्वेनापि दूषयति किञ्चेति । एतदप्यादिपदार्थानन्तर्भावं मनसि निधायोक्तमिति द्रष्टव्यम् । आदिपदार्थघटितहेतोर्वर्णेष्वभावान्नानैकान्त्यं नाप्यप्रयोजकत्वमिति शङ्कते व्यक्तिरपीति । एतच्चाद्य-हेत्वभिप्रायेणाव्यञ्जकासत्त्वपरम् । द्वितीयहेत्वभिप्रायेण तु यथाश्रुतपरम् । ततश्चासत्यावरणेऽसति चाव्यञ्जके प्रागूर्ध्वमनुपलभ्यमानत्वमाद्यहेत्वर्थः । सत्यावरणाभावे सति च व्यक्त्यभावे कदाचिदेवोप-लभ्यमानत्वं द्वितीयहेत्वर्थः । न चैतद्धेतुद्वयं वर्णेष्वस्ति । अव्यञ्जकेऽसति प्रागूर्ध्वमनुपलभ्यमानत्वस्य वा, व्यक्त्यभावे कदाचिदेवोपलभ्यमानत्वस्य वाऽभावान्न व्यभिचारः । अव्यञ्जकेऽसतीति हेतु-विशेषणादव्यञ्जकप्रयुक्तं प्रागूर्ध्वमनुपलम्भोपपादनमनुपपन्नम् । व्यक्त्यभावे सतीति विशेषणा-द्य्वक्तिकादाचित्कत्वप्रयुक्तं कदाचिदेवोपलभ्यमानत्वोपपादनं चानुपपन्नमेवेति नाप्रयोजकत्वमपीति भावः । एतच्चाविदितसिद्धान्त्याशयस्य पूर्ववादिनश्चोद्यमिति ध्येयम् । सिद्धान्ती स्वाशयमुद्घाटयति सन्दिग्धेति । अनित्यत्वसिद्धेः प्रागसत्यावरणेऽसत्वव्यञ्जक इत्यादिविशेषणानां पक्षे सन्दिग्धा-सिद्धत्वादित्यर्थः ॥ फलानुपलम्भ इति । अत्र फलाभाव एव लिङ्गमनुपलम्भग्रहणं तत्साधकतयेति द्रष्टव्यम् । किमत्र कदाचिदपि फलाभावो लिङ्गतयाऽभिमतः सर्वदा फलाभावो वेति विकल्पं मनसि निधायाद्यं दूषयति सर्वथेति । कदाचिदपि फलाभावस्येत्यर्थः । असिद्धिमेवोपपादयति न हीति ॥ तथा सतीति । कदाचिदपि संयोगविभागाजनकत्व इत्यर्थः ॥ परिस्पन्दत्वानुपपत्तेरिति । संयोगभाग-जनकत्वस्य तल्लक्षणतया कदापि संयोगाद्यजनकत्वे तल्लक्षणानाक्रान्ततया परिस्पन्दत्वानुपपत्तेरित्यर्थः । सर्वदा फलाभावो हेतुरिति द्वितीयं शङ्कते नित्यमिति । अनुपलम्भग्रहणप्रयोजनमुक्तमनुसन्धेयम् । सर्वदा फलाभावोऽपि किं यथाश्रुत एव विवक्षितः कदाचिदेव फलाभावरूपो वेति विकल्पं मनसि निधायाद्यं दूषयति नित्यगुणादिनेति । साध्याभावप्रदर्शनाय नित्येत्युक्तम् । आदिपदेन सामान्यादि-परिग्रहः सर्वदा संयोगाद्यजनकत्वं=सर्वथा संयोगाद्यजनकनित्यगुणादिष्वनैकान्तिकमित्यर्थः । द्वितीयं शङ्कते कदाचिदेवेति । अतो न सर्वथासंयोगाद्यजनकनित्यगुणादिष्वनैकान्त्यमिति भावः । कदाचिदेव संयोगादिजनकत्वादित्यत्रापि किं जनकत्वसामान्यस्यैव विवक्षा, उत तदसमवायिकारणत्वरूप-तद्विशेषस्येति, विकल्पं मनसि निधायाद्यं दूषयति तथा सतीति । मास्तु तर्हि नित्यगुणादिष्वनैकान्त्यं गगनादिनित्यद्रव्ये कदाचिदेव संयोगादिजनकत्वेन तत्रानैकान्त्यादनुमानमसदेवेत्याशयः । द्वितीयं शङ्कते कदाचिदिति ॥ वैय्यर्थ्यादिति । संयोगाद्यसमवायिकारणत्वस्यानित्यत्वाव्यभिचारादिति भावः ॥ अस्तु तर्हि कदाचिदिति । विशेषणपरित्यागेन संयोगाद्यसमवायिकारणत्वमेव क्रियाया अनित्यत्वे लिङ्गमित्यत आह तत्परित्यागेऽपीति ॥ दुर्निरूपत्वेनेति । वैशेषिकपरीक्षायां समवायस्य निराकरिष्यमाणत्वेन समवायिनोऽसम्भवात् तत्प्रत्यासन्नत्वलक्षणस्यासमवायिकरणत्वस्य दुर्निरूपत्वादित्यर्थः ।
परिमल
उक्तवक्ष्यमाणन्यायेनेति । ‘अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते । एवं धर्मान्’ इत्याद्युक्तन्यायेन भक्तिपादे उभयव्यपदेशादित्यत्र वक्ष्यमाणन्यायेनेत्यर्थः ॥ संहरणादिक्रियाणामिति । संहारस्याप्यदनविशेषत्वात्प्रागदनादिक्रियाणाम् इत्युक्तावप्येवमुक्तेरविरोधः । आद्येऽपि प्रमाणं किं प्रत्यक्षमनुमानमागमोवेति हृदि विकल्प्य क्रमेण निराह नाद्य इत्यादिना ॥ ज्ञानादिरपि कुतो न भवेदित्यन्तेन । ननु लिङ्गाभावेनेत्ययुक्तम् । क्रियात्वस्य वा असत्यावरणादौ प्रागूर्ध्वमनुपलम्भस्य वा आवरणाद्यभावे सति कदाचिदुपलम्भस्य वा क्रियाजन्यफलानुपलम्भस्य वा नित्यं तत्फलानुपलम्भस्य वा कादाचित्कफलजनकत्वस्य ग्राह्यत्वस्य वा बाह्येन्द्रियग्राह्यसजीयत्वस्य वा लिङ्गनवकस्य संभवादित्यतः क्रमेण तत्सर्वमाशङ्क्य निराह क्रियात्वं लिङ्गमिति चेदित्यादिना स्फुटोऽस्य व्यभिचार इत्यन्तेन । ईश्वरगतज्ञानादिधात्वर्थरूपक्रियामात्रं पक्षीकृत्य परिस्पन्दत्वेन हेतुना अनित्यत्वं साध्यते । अथ परिस्पन्दमेव । आद्य आह सर्वक्रियाणामिति । अन्त्य आह ईश्वरपरिस्पन्देति ॥ वक्ष्यमाण-त्वादिति । ‘शक्तिसद्भाव एव त्वि’त्याद्युत्तरग्रन्थ एवेति भावः ॥ असतीति । आवरणेऽन्यस्मिन् प्रतिबन्धके वा असति प्रागूर्ध्वं चानुपलम्भादीश्वरक्रियाऽनित्येति साध्यत इत्यर्थः ॥ एतेनेति । वक्ष्यमाणदिशा नित्यभूतायामनीश्वरक्रियायां व्यभिचारकथनेन उक्तकार्यत्वोपाधिकथनेन प्रत्यक्षेणोप-लम्भेऽसिद्धिकथनेनागमेन सर्वदोपलम्भेन चावरणाद्यभावे सति कदाचिदेवोपलब्धिरूपो हेतुरपि प्रत्युक्त इत्यर्थः । स्थलान्तरेप्यनैकान्त्यमाह वर्णेति । अप्रयोजकश्चायं हेतुरित्याह किञ्चेति ॥ आदिग्रहणेनेति । आवरणाद्यभावे सतीत्यादिपदेन व्यक्त्यभावे सतीति गृह्यत इत्यर्थः ॥ सन्दिग्धेति । व्यक्तभावे सतीतिविशेषणस्यानिश्चयादिति भावः ॥ परिस्पन्दत्वानुपपत्तेरिति । संयोगविभागासमवायिकारणं कर्मेति तार्किकैस्तल्लक्षणोक्तेरिति भावः ॥ नित्यगुणादिनेति । नित्यभूते गुणे सामान्यादौ च गगन-परिणामादौ नित्यसंयोगादिजनकत्वानुपलम्भेऽपि नित्यत्वाभावरूपसाध्याभावाद्य्वभिचारः । यन्नित्यं तत्सदा स्वकार्यं करोतीति सामान्यव्याप्तिविवक्षायामपि लयवर्तीश्वरेच्छादौ सृष्ट्यादिकार्यजनकत्वा-भावाद्य्वभिचार इत्यर्थः । गगनादिनेति । तत्र कदाचिद्घटादिमूर्तसंयोगजनकत्वे सत्यपि अनित्यत्व-रूपसाध्याभावादिति भावः । न च गगनादिकं सदा किञ्चित्संयोगादिकं जनयत्येवेति वाच्यम् । तस्यापि लयेऽभावात् ॥ इति विशेषणवैय्यर्थ्यादिति । व्यभिचारावारकत्वादिति भावः ॥ दुर्निरूप-त्वेनेति । एतच्च वैशेषिकाधिकरणे असमवायिकारणलक्षणदूषणप्रस्तावे स्पष्टीभविष्यतीति भावः ।
यादुपत्यम्
उक्तवक्ष्यमाणेति । भगवद्धर्माणां भगवता सविशेषाभेदसाधकन्यायेनेत्यर्थः । स च न्यायो जन्माधिकरणे उक्तोऽहिकुण्डलाधिकरणे वक्ष्यमाण इति बोध्यम् ॥ ज्ञानेच्छेति । ईश्वरीयैरिति शेषः ॥ सर्वक्रियाणामिति । एतत्पादसमन्वेतव्यानामदनपानान्तर्नियमनरमणरूपाणां सर्वक्रियाणा-मित्यर्थः । पानादेर्भोगरूपतया परिस्पन्दत्वाभावादिति भावः ॥ परेणेति । परममहत्परिमाणवद्द्रव्यस्य परिस्पन्दायोगादिति भावः ॥ क्वचिदनीश्वरेति । ‘शक्तिसद्भाव एव तु, क्रियादिनित्यता ज्ञेये’त्यत्र वक्ष्यमाणत्वादित्यर्थः ॥ वक्ष्यमाणत्वादिति । ‘क्रियादिश्च स्वभाव इति हि श्रुतिः । ज्ञानं नित्यं क्रिया नित्ये’त्यादिप्रमाणस्याकार्यत्वप्रतिपादकस्य वक्ष्यमाणत्वादित्यर्थः । लिङ्गक्रियाऽनित्यत्व इति शेषः ॥ असिद्धेरिति । ईश्वरक्रियाया अयोग्यत्वेन विशेषणासिद्धेरिति भावः ॥ एतेनेति । कदाचिदेवोपलब्धिः किं प्रत्यक्षेणोत प्रमाणमात्रेण । नाद्यः । असिद्धेः । न द्वितीयः । आगमादिना प्रागूर्ध्वमप्युपलम्भ-संभवेन तेन कदाचिदेवोपलम्भस्यासिद्धेरिति पूर्वोक्तासिद्धत्वरूपदूषणेनेत्यर्थः । ईश्वरपरिस्पन्दस्य प्रत्यक्षत्वमप्यभ्युपेत्यापि समाधत्ते किञ्चेति । अत्राभिव्यक्तिः कालविशेषसम्बन्धरूपैव विवक्षिता, नोपलब्धिरूपाऽतोऽभिव्यक्तेरप्युपलब्धिरूपत्वेनाभिव्यक्तेरुपलभ्यत इति कथं साध्यसाधनभाव इति शङ्काऽनवकाश इति ध्येयम् ॥ आदिग्रहणेनेति । आवरणाद्यभावे सतीत्युक्तहेत्वन्तर्गतादिशब्देनेत्यर्थः । तथा च न तथाऽन्यथासिद्धिरिति भावः ॥ न हीश्वरेति । तथा च तदुपलम्भोऽपि कदाचित्प्रमाणान्तरेण वा प्रत्यक्षेणैव वा भविष्यतीति भावः । नित्यगुणादिनेति । साध्याभावप्रदर्शनाय नित्येत्युक्तम् । आदिपदेन सामान्यादिपरिग्रहः । नित्यद्रव्येति नित्यं संयोगविभागजन्म संभावितमतस्तन्नोदाहृतम् । नित्यगुणादिना च कदाऽपि संयोगविभागजन्म नोपलब्धं, संयोगविभागयोः कर्मसंयोगविभागमात्रा-समवायिकारणकत्वात् । यद्यपि निमित्तकारणेन नित्येश्वरेच्छादिना संयोगादिजन्मास्ति । तथाऽप्यत्र नित्यगुणपदेन सर्वथा संयोगविभागाजनकं जलपरमाण्वादिगतरूपादिकमेव ग्राह्यमिति मन्तव्यम् ॥ दुर्निरूपत्वेनेति । इदं चोक्तवक्ष्यमाणन्यायेन द्रष्टव्यम् ।
श्रीनिवासतीर्थीया
ज्ञानेच्छाप्रयत्नैरिति । ईश्वरज्ञानं, ज्ञा अवबोधन इति धात्वर्थः । ईश्वरेच्छा, इषू इच्छायामिति धात्वर्थः । इश्वरप्रयत्नोऽपि, यती प्रयत्न इति धात्वर्थः । सत्ता च भूसत्तायामिति धात्वर्थः । अनित्यत्वे लिङ्गान्तरमाशङ्कते असतीति । सृष्टेः प्राक् संहारादूर्ध्वम् । प्रागूर्ध्वमनुपलम्भोऽ-नित्यत्वं विना आवृत्तत्वेनान्यथासिद्धं कस्मान्न स्यादित्यन्यथासिद्धिपरिहारायोक्तम् ॥ असत्यावरणा-दाविति । आदिपदेन प्रतिपदेन प्रतिबन्धकीभूतदुरदृष्टग्रहणम् । अत्र योग्यत्वे सतीति विशेषणं दीयते न वा । आद्ये आह योग्यतयेति । द्वितीये त्वाह अन्यथेति । अनित्यत्वसाधकं हेत्वन्तरमसिध्द्यतिदेशेन पराचष्टे एतेनेति । अत्रापि पूर्ववदन्यथासिद्धिपरिहाराय सत्यन्तम् ॥ वर्णेति । तेषां ध्वनिना कदाचि-देवोपलब्धेरिति भावः । प्रागूर्ध्वमनुपलम्भः कदाचिदेवोपलम्भश्चानित्यत्वं विना कदाचिदभिव्यक्ति-प्रयुक्तं भविष्यतीत्यप्रयोजकतेत्याह किञ्चेति । असत्यावरणादावित्यत्रादिपदेनाभिव्यक्तेरपि गृहीतत्वेन तदसत्त्वस्योक्तत्वान्न तयाऽन्यथासिद्धिर्हेतोरित्याशङ्कते व्यक्तिरपीति । ईश्वरपरिस्पन्दस्यातीन्द्रियत्वेन तत्र व्यक्त्यसत्त्वं न निश्चेतुं शक्यमिति सन्दिग्धविशेषणासिद्धिरित्याह सन्दिग्धेति ॥ फलेति । ‘कर्म चासमवायि स्याद्यत्संयोगविभागयोः’ इत्युक्तत्वेन संयोगविभागरूपफलेत्यर्थः । ईश्वरक्रियाया नित्यत्वे संयोगविभागरूपकार्योपलम्भः स्यात् । न चैवं, तस्मादनित्यत्वमिति ॥ सर्वथाऽनुपलम्भस्येति । फलसामान्याभावस्येत्यर्थः । जनयतीति । तथाच फलसामान्याभावस्यासिद्धिरिति भावः ॥ परिस्पन्द-त्वेति । संयोगविभागासमवायिकारणत्वरूपकर्मत्वेत्यर्थः ॥ नित्यमिति । फलानुपलम्भपदेन विवक्षितेति शेषः । क्रियाया नित्यत्वे तत्तत्कार्यं सदा स्यात् । न च भवत्यतोऽनित्यत्वमिति भावः ॥ नित्यगुणेति । जलपरमाणुगतरूपेत्यर्थः । आदिपदेन सामान्यादि । विवक्षितं फलानुपलम्भपदेन अस्त्विति । अनित्यत्वे हेतुरित्यर्थः ॥ विशेषणवैय्यर्थ्यादिति । नित्यगुणादौ संयोगाद्यसमवायिकारणत्व रूपहेतोरेवाभावाद् आद्यकर्मणि च हेतुसाध्ययोरुभयोरपि सत्त्वेन व्यावर्त्याभावादित्याशयः ॥ दुर्निरूप-त्वेनेति । न च समवायिकारणप्रत्यासन्नत्वे सत्यवधृतसामर्थ्यं तत् । तुरीतन्तुसंयोगेऽतिव्याप्तेः । न च समवायिकारणमात्रप्रत्यासन्नत्वं विवक्षितमिति वाच्यम् । आत्ममनःसंयोगेऽतिव्याप्तेः । न च समवायि-कारणभिन्नत्वे सति कार्यध्वं सप्रयोजकध्वंसप्रतियोगित्वम् । असमवायिकारणत्वमिति वाच्यम् । द्वित्वनाशप्रयोजकनाशप्रतियोगिन्यपेक्षाबुद्धावतिव्याप्तिरित्यादिप्रकारेण दुर्निरूपत्वेनेत्यर्थः ।