ॐ अत्ता चराचरग्रहणात् ॐ
अधिकरणविषयवाक्यविचारः
अत्तृत्वाधिकरणम्
क्रियालिङ्गसमन्वयः
ॐ अत्ता चराचरग्रहणात् ॐ
सुधा
ॐ अत्ता चराचरग्रहणात् ॐ ॥ अत्र ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ इति वाक्यमुदाहृत्य, अत्तारं केचिद्वृत्तिकारा विचारित-वन्तः । तद्विहाय ‘स यद्यदेवासृजत तत्तदत्तुमध्रियते’ति वाक्यमुदाहृत्य अत्तारं व्यचीचरद्भगवान् भाष्यकारः । कश्चात्र विशेषः । उच्यते । अत्र ‘अत्तुमध्रियते,’ ‘अत्ति’ इति च अत्ता साक्षात् प्रतीयते । तत्र तु ओदनोपसेचनपदाभ्यामुपलक्षणीयः । अद(दि)धात्वनुगतिश्चात्र । न चोपलक्षिते नियमोऽस्ति । किञ्च चराचरग्रहणादिति हेतुरत्र सर्वं वाऽत्तीति कण्ठोक्तः । तत्र तु ब्रह्मक्षत्रमृत्यु-पदैश्चराचरस्योपलक्षणमित्यस्ति महान्विशेषः । नन्वेवं तर्हि श्रुत्यनुगमाय सर्वग्रहणादिति कुतो न कृतम् । अस्ति प्रयोजनं चराचरग्रहणस्य । सर्वग्रहणादित्युक्ते शक्नोति पूर्ववादी वदितुम् । अदितिरपि सर्वस्य स्वभोज्यस्यान्नपानादेर्भोक्त्रीति । तत्र नायं सर्वशब्दः संकुचितवृत्तिः । किं नाम ‘स तया वाचे’त्यादिपूर्ववाक्यपर्यालोचनया चराचरवाचीति वक्तव्यम् । तदेतदनेन द्योतयतीति ।
शेषवाक्यार्थचन्द्रिका
ॐ अत्ता चराचरग्रहणात् ॐ ॥ वृत्तिकारान्तरोदाहरणपरित्यागे- नोदाहरणान्तराश्रयणं भाष्यकाराणामनर्थकमित्यतस् तस्यानुपपन्नत्वाद्युक्तं, तदनादरेण वाक्यान्तरो-पादानमित्याशयेनोदाहरणद्वयस्वरूपं तावद्दर्शयति अत्रेति । यस्य परमात्मनो ब्रह्म क्षत्रं चोभे जाती प्रसिद्धान्नवद् ओदने भवतः, यस्य च मृत्युः सर्वमारको यम उपसेचनमोदनमिश्रघृतवत्तिष्ठति । तं नाविरतो दुश्चरितादिति पूर्वमन्त्रप्रकाशितोपायवान् यथा वेद इत्थमन्यस् तद्रहितः को वेद । यत्र च सोऽत्ता कारणरूपो वर्तते तं निर्विशेषमात्मानं को वेदेति परकीयविषयवाक्यार्थः ॥ कश्चेति । किमाक्षेपे, न कोऽपीत्यर्थः ॥ अत्रेति । भाष्यकारोदाहृतवाक्य इत्यर्थः ॥ अत्तुमध्रियतेतीति । अत्तीत्यत्रेवात्तु-मित्यत्र न प्रत्ययबलेन कर्तृत्वलाभः । तुमुण्ण्वुलौ क्रियायां क्रियार्थायामिति (तुमुन्ण्वुलौ मान्तत्वात् कृन्मेजन्त इत्यनेनाव्ययत्वम् । अव्ययकृतो भाव इति वचनाद् भावे तुमुन् । कृष्णं द्रष्टुं याति । ण्वुल् कर्तरि । कृष्णं दर्शको याति ।) तुमुनो भाव एव विधानेनात्तीत्यत्रेव कर्तरि प्रत्ययाभावात् । यदि तुमुनपि कर्तर्येव स्यात् तदा सेनादयोऽपि कर्तरि कृदित्येव कर्तरि भविष्यन्ति किं तुमर्थ इत्यनेन, अतस्तुमर्थ-ग्रहणात्कर्तुस्तावदयमपकृष्यते । न चान्यत्रान्योऽर्थो निर्दिश्यतेऽनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति, धातोश्च स्वार्थो भाव एवेति न तद्बलेन कर्तृत्वलाभः । किं त्वध्रियतेति पदसमभिव्याहारादेवेति ज्ञापयितुमत्तुमित्येवानुक्त्वाऽत्तुमध्रियतेत्येतावदुदाहृतम् ॥ साक्षादिति । मुख्यवृत्त्येत्यर्थः ॥ तत्र त्विति । वृत्तिकारान्तरोदाहरण इत्यर्थः ॥ उपलक्षणीय इति । ओदनादिगतादनीयत्वोपलक्षणद्वारेण ओदनोपसेचनपदाभ्यामत्ता लक्षणीय इत्यर्थः । ओदनादिपदस्य तदवाचकत्वादिति भावः । प्रकारान्तरेणापि वैलक्षण्यमुदाहरणयोराह अदी(दे)ति । अत्तुमित्यत्र तुमुनः, अत्तीत्यत्र लटः, अत्तेत्यत्र तृचश्च श्रवणेन श्रुतिसूत्रयोः प्रत्ययकृतवैलक्षण्ये सत्यप्यदधात्वनुगतिरप्यस्मदीयो- दाहरणेऽस्ति न तु परकीयोदाहरणेऽतोऽपि तत्परित्याग इत्यर्थः । अङ्गीकृत्य लक्षणया लाभम्, अत्ता-परमत उपलक्षणीयो, भाष्यकारमते साक्षात् श्रुत इति वैषम्यमभिहितम् । वस्तुतोऽत्रात्तुरेव लक्षणया न लाभः सम्भवतीत्याह न चोपलक्षित इति । अत्तृप्रतियोग्यद्यत्वमेवोदनोपसेचनपदाभ्यामुपलक्षणीय-मिति नियमे हि तत्प्रतियोग्यत्तप्रतीतिर्नियमेन लक्षणया स्यात् । न चैवं नियमोऽस्ति । भोक्तृत्वसंहर्तृत्व-प्रतियोगिभोज्यत्व संहार्यत्वयोरपि ताभ्यामुपलक्षणसम्भवेन तत्प्रतियोगिनोर्भोक्तृसंहर्त्रोरपि लक्षणीयत्व-सम्भवान्नात्तुर्नियमेन प्रतीतिरिति भावः । उदाहरणयोर्वैलक्षण्यान्तरमाह किञ्चेति ॥ अत्रेति । भाष्यकारीयोदाहरण इत्यर्थः ॥ तत्रेति । वृत्तिकारान्तरोदाहरण इत्यर्थः ॥ अस्ति महान्विशेष इति । अतः परकीयोदाहरणपरित्यागेनोदाहरणान्तराश्रयणं भाष्यकाराणां युक्तमित्याशयः।
परिमल
ॐ अत्ता चराचरग्रहणात् ॐ ॥ व्यचीचरदिति । विचारयामासेत्यर्थः ॥ अत्रेति । भाष्यकारोक्तवाक्य इत्यर्थः । न चोपलक्षित इति । ओदनोपसेचनशब्दाभ्याम् अत्तेति कुत उपलक्ष्यं त्वदुक्तरीत्या ओदनादिगतसंहार्यत्वप्रतियोगितया संहर्तेति वा ओदनादिगतभोज्यत्वस्यान्तरङ्गतया ओदनादिपदेन अन्तरङ्गभोज्यत्वस्योपस्थितौ प्रतियोगितया भोक्तेत्येवोपलक्षणासंभवेन अत्तेत्येवोप-लक्षणाऽसम्भवेनात्तैवोपलक्षित इति (नियमश्च)निश्चयश्च नास्तीत्यर्थः ॥ तदनेनेति । चराचरग्रहणा-दिति कथनेन । द्योतयति सूत्रकार इत्यर्थः ।
यादुपत्यम्
॥ ॐ अत्ता चराचरग्रहणात् ॐ ॥ उपसेचनमोदनमिश्रघृतवदित्यर्थः ॥ अत्तुमध्रियतेति । अत्तीत्यत्र च न प्रत्ययबलादत्रात्ता किन्त्वध्रियतेति पदसमभिव्याहारादिति ज्ञापयितु-मत्तुमध्रियतेत्येतावदुक्तम् । तावत्युक्ते हि ‘बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितमि’त्युक्तत्वेनात्ता प्रतीयत एवेति ध्येयम् ॥ उपलक्षणीय इति । ओदनोपसेचनपदाभ्यामुपलक्षितं यदद्यत्वं तदनुरोधेन सूचनीय इत्यर्थः । अदनीयौदनोपसेचनसूचितोऽत्ता प्रतीयत इति भामत्युक्तेः । ‘‘यस्य मृगया-विनोदमृगाः परनरपतय’’ इत्युक्ते क्षत्रिया एव प्रतीयन्ते न श्रोत्रियः कश्चिद्ब्राह्मण एवमिहेति कल्प-तरूक्तेश्च । अथवोपलक्षितेनाद्यत्वेनात्ताऽप्युपलक्षणीय इति लक्षितलक्षणामभिप्रेत्येत्थमुक्तमिति ध्येयम् । अत्तृप्रतियोग्यद्यत्वमेव ओदनोपसेचनपदाभ्यामुपलक्षणीयमिति नियमो न प्रामाणिकः । येन तत्प्रति-योग्यत्तृप्रतीतिर्नियमेन स्यात् । ततश्चादधात्वनुगतिरुपपन्ना स्यात् । न चैवम् । भोज्यत्वसंहारत्वयो-रप्युपलक्षणसम्भवेन तत्प्रतियोगिनोर्भोक्तृसंहर्त्रोरपि प्रतीति संभवेऽदधात्वनुगत्यसम्भवादिति भावः ।
श्रीनिवासतीर्थीया
ॐ अत्ता चराचरग्रहणात् ॐ ॥ व्यचीचरद् विचारितवान् ॥ अत्रेति । अत्तमध्रियतेति विषयवाक्ये अत्तेति सूत्रोक्त अदधात्वनुगतिरस्तीत्यर्थः । नन्वदनोपसेचनपदाभ्या-मत्तर्युपलक्षिते सति तत्रापि सूत्रोक्तादधात्वनुगतिरस्तीत्यत आह । न चोपलक्षित इति । ओदनोप-सेचनयोरद्यत्वादत्तोपलक्ष्यते । तत्कुतः । तयोर्भोज्यत्वादेरपि सत्त्वेन भोक्त्रादिरपि कस्मान्नोपलक्ष्यते । तथाच यदा भोक्त्रादिरुपलक्ष्यते तदोपलक्षिते भोक्तरि अदधात्वनुगतिनियमो नास्तीत्यर्थः ॥ चरा-चरेति । अद्यतयेति शेषः । अनेन एतद्विषयवाक्योदाहरणेनेत्यर्थः । सोऽपि व्यवच्छेदोऽपि । चोद्यस्य अनित्यत्वादिति चोद्यस्य । अत्र क्रियाविषये ।