एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम्
एतत्पादीयाधिकरणोपाधयः
एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम्
सुधा
सर्वगतत्वमत्राधिकरणे प्रतिपाद्यत इत्युक्तम् । तत्किं तन्मात्रमुतान्योपलक्षणम् । आद्ये सूत्राणां विश्वतोमुखत्वहानिः । शास्त्रापर्यवसानं चापद्येत । द्वितीये तूपाधिर्वक्तव्यः । अन्यथाऽधि-करणान्तराभावप्रसङ्गादित्यतः प्रथमाधिकरणोपाधिं वदन्प्रसङ्गत्सर्वाधिकरणोपाधीनाह एतदिति ।
अनुव्याख्यानम्
एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ॥
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥ १ ॥
एतत्सर्वगतत्वं भावाभिधं सत्ताभिधम् । यावन्तः शब्दाः क्वचित्प्रतीके स्थितिवाचिनस्ते सर्वेऽप्यनेनोपलक्ष्यन्त इत्यर्थः । एवमुत्तरत्रापि ज्ञातव्यम् । क्रिये च ते लिङ्गे च । ततः प्रथमाधि-करणात्परं द्वाभ्याम् ‘अत्ता चराचरग्रहणात्’, ‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनादि’त्येताभ्या-मधिकरणाभ्यां चिन्त्येते । नन्वेकमधिकरणं व्यर्थम् । न व्यर्थम् । अ(भ्य)धिकाशङ्कया प्रत्यव-स्थानात् । ‘अन्तर उपपत्ते’रि‘त्यन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशादि’ति चाधिकरणद्वयेन क्रिया-प्रधानकभावाख्यं लिङ्गमुच्यते प्रतिपाद्यते । अत्रापि पूर्ववन्नान्यतराधिकरणवैय्यर्थ्यम् । अत एव क्रिया क्रियया भावो भावेन व्याख्यायत इति परास्तम् । ‘अदृश्यत्वादिगुणको धर्मोक्ते’रित्यत्रोक्त-मदृश्यत्वादिलिङ्गमभावाख्यम् । परा परस्मिन् ‘वैश्वानरः साधारणशब्दविशेषादि’त्यधिकरणे प्रतिपाद्या श्रुतिर्नाम न तु लिङ्गम् । तर्हि पादान्तर्भावो न सम्भवतीत्यत उक्तं लिङ्गाधिकेति । लिङ्गान्यधिकानि समानाधिकरणानि यया सा लिङ्गाधिकेति । यथा प्रथमपादेऽन्तस्तद्धर्मोपदेशादिति लिङ्गनिर्णयो बहुनामसमन्वयलाभार्थस् तथा बहुलिङ्गसमन्वयलाभार्थो नामविचारोऽत्र न विरुध्यत इति । साक्षात्प्रकर(ण)णिनिष्ठत्वात् श्रुतेरुपादनं चोपपद्यते । सा च सूक्तादिव्यावर्तकाग्न्यादि शब्दोपलक्षणमिति ज्ञातव्यम् ॥ १-२-१ ॥
शेषवाक्यार्थचन्द्रिका
उक्तमिति । ‘सर्वगत्वं तु प्रथममि’त्यनेनेति शेषः । शास्त्रापर्यवसानं चेति । प्रत्येकं निर्णये इति शेषः ॥ वक्तव्य इति । अन्यथाऽस्येदमुदाहरणमिति ज्ञातुमशक्यत्वादिति भावः । ननु अस्तु तर्हि सर्वेषामप्युदाहरणत्वमित्यत आह अन्यथेति । अनेनैव सर्वशब्दनिर्णयादिति भावः ॥ एवमुत्तरत्रेति । क्रियालिङ्गे इत्यादावप्येवं यावन्तः क्रियावाचिनः शब्दास् ते सर्वेऽप्य-नेनोपलक्ष्यन्त इति तात्पर्यं वर्णनीयमित्यर्थः । क्रिया च लिङ्गं चेति भ्रान्तिं वारयति क्रिये चेति । संहारकर्मफलभोगरूपक्रियात्मके इत्यर्थः ॥ क्रियाप्रधानकभावाख्यमिति । अन्तःस्थितिरूपभावसहितं रमणनियमनरूपक्रियात्मकं लिङ्गमित्यर्थः ॥ पूर्ववदिति । अधिकाशङ्कया प्रत्यवस्थानादिति भावः ॥ अत एवेति । अधिकाशङ्कया प्रत्यवस्थानादेवेत्यर्थः ॥ परापरस्मिन्निति । वसन्ता ब्राह्मणोऽग्निनादधीत नाभा पृथिव्या इत्यादाविव सप्तम्येकवचनस्य सुपां सुलुगित्यादिना डादेश इत्याशयः ॥ तर्हीति । पादार्थस्यान्यत्रप्रसिद्धलिङ्गसमन्वस्याप्रतिपादनादिति भावः । कथमेतावता पादसङ्गतिरस्येत्यतः फलतः पादसङ्गतिं दृष्टान्तोपदर्शनपूर्वकं दर्शयति यथेति । लिङ्गनिर्णयो ऽन्तःस्थत्वरूपलिङ्गसमन्वय इत्यर्थः ॥ बह्विति । इन्द्रसवित्रादिबहुनामेत्यः ॥ बहुलिङ्गेति । पाचकत्वाद्यनेकलिङ्गेत्यर्थः ॥ नामेति । वैश्वानरनामेत्यर्थः । नन्वत्र वैश्वानरनामसमन्वयेन तत्समानाधिकरणतया श्रुतपाचकत्वाद्यनेकलिङ्ग-समन्वयसिद्धिवद् एतत्प्रकरणगतैकलिङ्गसमन्वयेनापि तत्समानाधिकरणतया श्रुतनामलिङ्गसमन्वय-सिद्धिसम्भवाव्द्यर्थं तदर्थं पादासङ्गतवैश्वानरनाम्न उपादानं सूत्रभाष्ययोरित्यत आह साक्षादिति । लिङ्गानामपि श्रुतिवत्प्रकरणनिष्ठत्वेऽपि न तदुपक्रमनिष्ठत्वम् । ततश्च साक्षात्=व्यवधानेन प्रकरणोपक्रम एव श्रुतत्वाच्छतेः प्रथमातिक्रमे कारणाभावात्तदुपादानं सूत्रभाष्ययोर्युक्तमिति भावः । यद्वा । प्रकरण-निष्ठत्वं सूक्तव्यावर्तकत्वम् । तच्च यद्यपि प्रकरणस्थलिङ्गानामप्यस्ति । तथाऽपि न श्रुतिवत् श्रुतेर्खटिति प्रकरणव्यावर्तकत्वाद् लिङ्गानां च विलम्बेन व्यावर्तकत्वात् । ततश्चोक्तरीत्या प्राबल्यच्छतेरेवोपादान-मुपपद्यते । अत एव वक्ष्यति ‘सा च सूक्तादिव्यावर्तिके’त्यादिना । अथवा । साक्षशदिति श्रुतेरुपादान-मित्यनेन सम्बध्यते । प्रकरणनिष्ठत्वस्य श्रुतिलिङ्गसाधारणत्वेऽप्युपक्रमे श्रुतत्वात् ‘असाधारण्येन व्यपदेशा भवन्ती’ति न्यायेन श्रुतेरेव प्रकरणनिष्ठत्वलाभेन साक्षादित्यस्य तदर्थत्वस्य कल्पयितु-मशक्यत्वात् । लिङ्गानामप्यत्रोपलक्षणतयोपादानेन तत्तौल्यनिरासाय श्रुतेरित्यनेन सम्बन्धस्य सप्रयोजनत्वात् । ततश्च श्रुतिलिङ्गानां सर्वेषामप्यत्रोपादनात्कुतः श्रुतेरेवात्रोपादानमिति शङ्काऽ-नवकाशेऽपि कुतः श्रुतेरेव साक्षात्=मुख्यतः, स्वशब्देनेति यावत्, सूत्रभाष्ययोरुपादानमिति शङ्का-निवृत्त्यर्थमिदमुक्तमिति द्रष्ठव्यम् । सूक्तादीत्यादिपदेन विद्यादिपरिग्रहः ॥ १-२-१ ॥
परिमल
क्वचित्प्रतीक इति । परिच्छिन्नस्थलविशेष इत्यर्थः । अन्तराधिकरणादावत्रत्यन्याय-सिद्धचन्द्राद्यन्तःस्थत्वमुखेनेन्द्रादिनामसमन्वय एव क्रियते । नत्वन्तःस्थत्वं तत्र ब्रह्मणि व्युत्पाद्यते । अत एव सङ्क्षेपभाष्ये व्योमवदित्यत्रोक्तन्याय एव ‘अन्तरःखवदि’ति सञ्चारितः । एवमन्यत्रापि ध्येयम् ॥ उत्तरत्रापीति । क्रियालिङ्गे इत्यत्रापि क्रियावाचिनः सर्वे शब्दा उपलक्ष्यन्त इत्यादिरूपेण ज्ञेयमित्यर्थः ॥ पूर्ववदिति । पूर्वत्र यथाऽधिकाशङ्कया गुहामित्यस्य प्रवृत्तत्वान्नान्यतरवैय्यर्थ्यं तथेहान्तराधिकरणानन्तरमधिकाशङ्कया प्रवृत्तान्तर्यामिनयस्य न व्यर्थतेत्यर्थः । अत एव संक्षेपभाष्ये अधिकरणद्विकद्वयस्याप्यत्ता नियन्ता चेत्येवार्थ उक्तो न तु प्रत्येकमिति भावः । अत एवेति । अधिकाशङ्कया प्रवृत्तत्वादेव क्रियासमन्वयपरपूर्वाधिकरणद्वयेनैवान्तरादिनयद्वये समन्वीयमानक्रिया अपि समन्वितत्वेन व्याख्यायते । भावोऽपि भावसमन्वयपरेण ‘सर्वत्र प्रसिद्धे’ति नयेन ब्रह्मनिष्ठ इति व्याख्यायत इति ॥ किमेताभ्यामधिकरणाभ्यामिति चोद्यं निरस्तमित्यर्थः । यद्वा अन्तराधिकरणोक्त-क्रियाऽन्तर्यामिनये समन्वीयमानक्रियया व्याख्यायते, अन्तराधिकरणोक्तभावो ऽन्तर्यामिनयोक्तभावेन व्याख्यायतेऽतो व्याख्येयव्याख्यानभावान् नान्यतरवैय्यर्थ्यमिति समाधानं निरस्तम् । अधिकाशङ्कयो-त्थानेनार्थवत्त्वादेवेत्यर्थः । अधिकाशङ्का चन्द्रिकायां विवृता ध्येया । अत्राप्यग्रे तत्तदधिकरणे व्यक्ता भविष्यतीति नात्र प्रदर्श्यते ॥ न तु लिङ्गमिति । विश्वजीवान्तरत्वाद्यैर्लिङ्गैस्सर्वैरिति संक्षेपभाष्ये वैश्वानरशब्दस्य सिद्धान्तदिशा विष्णौ यौगिकत्वाभिप्रायेण लिङ्गत्वोक्तावपि इह पूर्वपक्षरीत्या-न्यत्राप्यपातदशाऽऽपन्नरूढिमुपेत्य श्रुतिरेवेयं न तु लिङ्गमित्युक्तमित्यविरोध इति बोध्यम् । समानाधि-करणानीति शेषोक्तिः । ननु पादान्तर्भावसौकर्याय लिङ्गमेव समन्वीयताम् । तत्त्यागेन श्रुत्युपादाने सूत्रकारस्य किं बीजमीत्यत आह साक्षात्प्रकरणीति । प्रकरणमस्यास्तीति प्रकरणि । प्रकरण-प्रतिपाद्यमिति यावत् । वैश्वानरनाम प्रकरणप्रतिपाद्ये वस्तुनि साक्षाच्छयते । लिङ्गानि तु वैश्वानर-विशेषणतया । यद्वा वैश्वानरनाम साक्षाद्वचनवृत्त्या प्रकरणप्रतिपाद्यबोधकं, लिङ्गानि तु तव्द्याप्यार्पकतया वा तव्द्याप्यतया वा न साक्षाद् अतो वैश्वानरनाम्नः साक्षात्प्रकरणिनिष्ठत्वाच्च न केवलमनेकलिङ्ग-समन्वयार्थत्वादिति । यद्वा चस्त्वर्थः । ननु सूत्राणां विश्वतोमुखत्वसिद्ध्यर्थमधिकरणविषयोपाधि-सङ्ग्रहश्लोके वैश्वानरश्रुतिमात्रं वैश्वानर(विद्या)प्रकरणस्थानेकलिङ्गयुतं समन्वीयत इत्युक्तिरयुक्ता । वैश्वानयस्य विश्वतोमुखत्वानापत्तिश्चेत्यत आह सा चेति । इदमग्निसूक्तमिदं वायुसूक्तमिदमिन्द्र-सूक्तमित्यादिरूपेण सूक्तानामसाङ्कर्यप्रतिपादकम् । तथा इयमग्निविद्या इदं प्राणविद्या इत्यादिरूपेणोप-निषद्गतविद्यानाम् असाङ्कर्यप्रतिपादकं च यत् तत्तत्सूक्तादिस्थाग्निवाय्वादिशब्दजातं तस्य सर्वस्योप-लक्षणमित्यर्थः । एवं च न प्रकमविरोधो नाप्यधिकरणस्य विश्वतोमुखत्वभङ्ग इत्यर्थः ॥ १-२-१ ॥
यादुपत्यम्
अत एवेति । अभ्यधिकाशङ्कया प्रत्यवस्थानादेवेत्यर्थः । यद्वा गुणप्रधानभावस्य विवक्षितत्वादेवेत्यर्थः । ननु तत्प्रकरणगतस्य कस्यचिल्लिङ्गस्य भगवत्परत्वसमर्थने तत्समानाधिकरणा-नामितरलिङ्गानां समन्वयः स्वयमेव सेत्स्यतीति, व्यर्थं तदर्थं पादासङ्गतश्रुतेरुपादानमित्यत आह साक्षात्प्रकरणेति । वैश्वानरश्रुतिः साक्षादव्यवधानेनैव प्रकरणगता । प्रथमत एव प्रकरणे श्रूयत इति यावत् । अतः प्रथमातिक्रमे कारणाभावाच्छतिरेवोपात्तेति भावः । यद्वा श्रुतेः साक्षान्मुख्यया वृत्त्या प्रकरणनिष्ठत्वात् प्रकरणव्यावर्तकतया प्रसिद्धत्वादुपादानमित्यर्थः । प्रकरणव्यावर्तकवैश्वानरनामि्न भगवत्परे सति तत्प्रकरणगतं सर्वमपि लिङ्गं भगवत्परं भविष्यतीत्यभिप्रेत्य वैश्वनरनामैवोपात्तमिति भावः । अत एवाहुः सा च सूक्तादिव्यावर्तिकेत्यादि । यद्यपि पाचकत्वादिलिङ्गान्यपि प्रकरणनिष्ठानि तथाऽपि श्रुतिः साक्षान्मुख्यतया प्राधान्येनेति यावत्, प्रकरणनिष्ठा । लिङ्गानि तु श्रुतिशेषतया तन्निष्ठानि । अतः प्राधान्येन प्रकरणनिष्ठत्वाच्छतेरुपादानमित्यर्थ इत्यप्याहुः ॥ १-२-१ ॥
श्रीनिवासतीर्थीया
अन्यथेति । उपाध्यनुक्तौ सर्वशब्दानामप्यत्रैव समन्वेतुं शक्यत्वादित्या-शयः ॥ प्रतीक इति । एतमस्यामेतं दिवीत्यादीत्यर्थः । नन्वधिकरणद्वये क्रियाप्रधानकभावाख्यलिङ्गं समन्वीयते । तत्र क्रिया क्रियारूपलिङ्गसमन्वयप्रतिपादकात्तेत्याद्यधिकरणद्वयोक्तरीत्या व्याख्याता । भावो भावाभिधलिङ्गसमन्वयप्रतिपादकाऽऽद्याधिकरणेन व्याख्यात इत्येतदधिकरणद्वयवैय्यर्थ्यमित्यत आह अत एवेति । अभ्यधिकाशङ्कया प्रवृत्तत्वादेवेत्यर्थः । यद्वा अत एवेत्यर्थस्य क्रियाप्रधानक भावाख्यलिङ्गस्य विशिष्टस्य समन्वयप्रतिपादनादेवेत्यर्थः । सत्यमेवं तथाऽपि न वैय्यर्थ्यम् । भावाभिध-क्रियालिङ्गसमन्वयप्रतिपादकाधिकरणापेक्षयाऽधिकाशङ्कया प्रत्यवस्थानादित्याशयः ॥ यया श्रुत्या । वैश्वानरनाम्नेत्यर्थः ॥ १-२-१ ॥
॥ इति सर्वगतत्वाधिकरणम् ॥