तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः
समासानुपपत्तिशङ्कापरिहारः
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः
सुधा
तत्तच्छक्तिप्रबोधक इति कथम् । कर्तरि चेति समासप्रतिषेधात् । न । याजकादि-भिश्चेति प्रतिप्रसवात् । यद्वा । प्रकृष्टो बोधो यस्मादिति वा पचाद्यजन्तत्वेन वा प्रबोधः । शक्तीनां प्रबोधः शक्तिप्रबोधः । ततश्च ‘अज्ञात’ (पा.सू.५-३-७२) इति कप्रत्यय इति ।
शेषवाक्यार्थचन्द्रिका
ननु बुध् इत्यस्मात् ण्वुलि तस्येकादेशे लघूपधगुणे च निष्पन्न-बोधकशब्दस्य कर्त्रर्थकाकप्रत्ययान्तत्वेन तद्योगे कर्तरि चेति षष्ठीसमासप्रतिषेधात्कथं शक्तिबोधक इति षष्ठीसमास इत्याशङ्कते तत्तदिति ॥ कर्तरि चेतीति । यद्यप्यत्र तृजकाभ्यां कर्तरीति सूत्रे कर्तृग्रहणं तृजकयोरेव विशेषणं युक्तम् । साक्षात् श्रुतत्वात् तृज्ग्रहणं चेहैवोपयुज्यते अयमेको गुण इति भावः । अन्यथा ह्युत्तरार्थता तस्य वक्तव्या स्यात् (अचान्वयाभावप्रयुक्तोत्तररार्थत्वमत्रैवान्वयसम्भवे नाङ्गीकार्य-मिति भावः) । तृच्प्रयोगे कर्तृषष्ठ्या अभावात्कर्तृकर्मणोरित्यनिभिहिताधिकारस्याकरे स्थितत्वात् । तृचा च कर्त्रर्थस्याभिधानात् । ततश्च कर्तरि यौ तृजकौ ताभ्यां कर्मणि षष्ठ्या न समास इत्येव तदर्थः पर्यवस्यति । कर्तरि चेत्यत्र तु कर्तृग्रहणं षष्ठ्या विशेषणम् । तस्याश्चैकेनैव समासप्रतिषेधः । तस्यैव तृजकाभ्यामित्यतोऽनुवृत्तिः । न च तृचोऽप्यनुवृत्तिः । कर्तर्येव तृज्विधानेन कर्तुरभिहिततया तद्येगे कर्तरि षष्ठ्या एवासम्भवात् । न चैवं कर्तरि चेत्यत्र तृचः सम्बन्धाभावान्नित्यं क्रीडाजीविकयोरित्यत्रानुवृत्तिः कथं स्यादिति वाच्यम् । अत्रैव च तस्योपयोगसम्भवेनानुवृत्तेरिष्टत्वात् । अत एवोक्तं वृत्तिकृता नित्यं क्रीडजीविकयोरित्यत्र तृजत्र नास्तीति । ततश्च कर्तरि चेत्यस्य कर्तरि या षष्ठी साऽकेन न समस्यते इत्येवार्थ उपपन्नः । सम्मतश्च हरदत्तादीनां तृजकाभ्यां कर्तरीत्यत्राथ कस्माद्विपर्ययो नाश्रीयत इत्या-शङ्क्य तथाऽनाश्रित्यैवेति स्पष्टमस्य पक्षस्यैव यौक्तत्वसूचनात्ततश्च तत्तच्छक्तीनामिति कर्मषष्ठ्याः कर्त्रर्थकाकप्रत्यनेन समासानिषेधकत्वान्न कर्तरि चेत्यस्य प्रकृते प्रसङ्गः किन्तु तृजकाभ्यामित्यस्यैवेति तृजकाभ्यां कर्तरीति समासप्रतिषेधादित्येव वक्तव्यम् । तथाऽपि जयादित्यमतमाश्रित्यैवमुक्तम् । तन्मते हि तृजकाभ्यां कर्तरीत्यत्र कर्तरि या षष्ठी सा तृजकाभ्यां न समस्यत इत्यर्थः । अत एव कर्तर्येव तृज्विधानात्कर्तुरभिहितत्वेन तृज्योगे कर्तरि षष्ठी नेति अपां स्रष्टेत्यनुदाहृत्य भवतः शायिकेत्येवो-दाहृतम् । कर्तरि चेत्यत्र तु कर्तरि यौ तृजकौ ताभ्यां कर्मषष्ठ्या न समास इत्यर्थः । अत्रापि कर्तरीत्ये-तदकस्यैव विशेषणं तत्रैव सामर्थ्यात् । सम्भवे व्यभिचारे च सत्येव हि विशेषणविशष्यभावो भवति । न च तृच्कर्तारं व्यभिचरति तस्य कर्तर्येव विधानादकस्तु व्यभिचरति कर्तारम् । तस्य भावेऽपि विधानात् । ततश्च जयादित्यमते कर्तरि चेत्यस्य कर्मषष्ठ्याः कर्त्रर्थकाकप्रत्ययेन समासप्रतिषेधकत्वाद्युक्तस्त-त्तच्छक्तीनामिति कर्मषष्ठ्याः कर्त्रर्थकाकप्रत्ययान्तबोधकशब्दे । समासस्य कर्तरि चेत्यनेन प्रतिषेध इति ध्येयम् । वस्तुतोऽत्र कर्तरि चेत्यनेन तृजकाभ्यां कर्तरीत्यस्याप्युपलक्षणतया ग्रहणाज्जयादित्यमतेन कर्तरि चेत्यनेन यौक्तमतेन तृजकाभ्यां कर्तरीत्यनेन कर्मषष्ठ्याः समासप्रतिषेधान्न षष्ठीसमासो युक्त इत्येवाक्षेपग्रन्थार्थ इति न काऽपि कुसृष्टिरित्यवधेयम् ।
नेति । याजकादिभिः शब्दैः कर्मणि षष्ठी समस्यत इति सूत्रार्थः ॥ प्रतिप्रसवादिति । अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानं प्रतिप्रसव इत्यर्थः । यद्यपि बोधकशब्दो न याजकादिषु पठित-स्तथाऽपि याजकादेराकृतिगणत्वाद्विष्णुबोधकमिति समासः साधुरित्यन्यत्रोक्तेस्तस्याकृतिगण-त्वाद्युक्तः प्रतिप्रसव इति ध्येयम् । यद्यप्यत्र कर्मणो विद्यमानस्यापि कर्मत्वस्याविवक्षया शेषत्वविवक्षया शेषषष्ठी समासो वक्तुं युक्तः । कर्तरि चेत्यस्य तृजकाभ्यां कर्तरित्यस्य वा कृल्लक्षणषष्ठीसमास-प्रतिषेधकत्वेऽपि शेषषष्ठीसमासाप्रतिषेधकत्वात् । न च सतः कर्मत्वस्य कथमविवक्षेति वाच्यम् । यावद्वस्तुनि वर्तते तावदवश्यं प्रयोगे विवक्षितव्यमेवेति नियमाभावेन तत्सम्भवात् । अन्यथा वृक्षस्य शाखेत्यादावधिकरणत्वादेर्विद्यमानत्वेन तद्विवक्षाऽऽपत्त्या सप्तमीप्रसङ्गेन षष्ठ्यभावप्रसङ्गात् । अत एवाह भाष्यकारः । एवं तर्हि कर्मादीनामविवक्षा शेष इति । ततश्च तृजकाभ्यां योगे कर्तृकर्मणोः कृतीति प्राप्तषष्ठ्याः समासासम्भवेऽपि शेषषष्ठ्याः समासो युज्यत एव । अत एवाह कैयटः । कथं तर्हि घटानां निर्मातुस्त्रिभुनविधातुश्च कलह इति शेषषष्ठ्या समास इति । किं च कर्मत्वविवक्षायामपि न कर्तृकर्मणोः कृतीति प्राप्तकृल्लक्षणषष्ठीसमासानुपपत्तिः । जनिकर्तुः प्रकृतिस्तत्प्रयोजको हेतुश्च जातिवाचको गुणो गुणिविशेषक इत्यादित्रिमुनिनिर्देशेन कर्तरि चेति तृजकाभ्यां कर्तरीति वा निषेधस्यानित्यत्वज्ञापनेन क्वचिदप्रवृत्तिसम्भवात् । अत एव ‘भीष्मः कुरूणां भयशोकहन्ता’ । ‘हितकारक’ इत्यादिप्रयोगा अप्युपपन्नाः । तथा च याजकादित्वाश्रयणमनर्थकमिव भाति । तथाऽपि कर्मत्वविवक्षां कर्तरि चेत्यादेः षष्ठीसमासनिषेधस्य नित्यत्वविवक्षां चाश्रित्य याजकादित्वाश्रयणं कृतमिति ध्येयम् । न चैवमपि कर्मणि चेति कर्मणिषष्ठ्याः समासप्रतिषेधात्कथमत्र षष्ठीसमास इति वाच्यम् । कर्मणि चेत्यनेनोभयप्राप्तौ कर्मणीत्यस्या एव समासनिषेधेन कर्तृकर्मणोः कृतीति कृल्लक्षणषष्ठ्याः समासस्योपपन्नत्वात् । यदि च या काचन कर्मणि षष्ठी गृह्येत तथा सति कर्तरि चेति वा तृजकाभ्यां कर्तरीति वा निषेधो व्यर्थ एव स्यात् कर्मणि चेत्यनेनैव सिद्धत्वादिति सर्वमनाकुलम् ।
एवं निषेधप्रसक्तावपि प्रतिप्रसवात्समाससम्भवोऽभिहितः । अधुना प्रतिषेधप्रसङ्ग एव नेति समाधानान्तरमाह यद्वेति । अत्र च बहुव्रीहिपक्षे मत्त्वर्थीयपचाद्यजन्तपक्षेऽपि प्रबोधवत्त्वं कर्तृता-सम्बन्धेनैव विवक्षितमिति न प्रकृतवाक्यार्थासङ्गतिरिति ज्ञेयम् । (इदं विचार्यम्) ॥ शक्तीनां प्रबोध इति । तथा च कर्तरि चेति निषेधप्रसक्तिरेव नेति भावः । नन्वस्मिन्पक्षे शक्तिप्रबोध इत्येव स्यान्न तु शक्तिप्रबोधक इति तत्राह ततश्चेति ॥ अज्ञात इतीति । अज्ञात इति सामान्येनोच्यते । न च सर्वथाऽज्ञातेऽर्थे शब्दप्रयोग एव सम्भवति । न खल्वश्व इत्यजानन्नश्वशब्दं प्रयोक्तुमर्हति । तथा च स्वरूपेण ज्ञाते पदार्थे विशेषरूपेणाज्ञाते कविधानमेतत् । अत एवोक्तं ‘प्रयोगोऽस्य कथं नु स्यादज्ञातः सर्वथैव यः । तस्माद्धर्मान्तराज्ञानमज्ञानं न स्वरूपत’ इति । ततश्च स्वरूपेण ज्ञातस्याप्यश्वस्य स्वामिविशेषसम्बन्धाज्ञानादज्ञातविशेषत्वेनाज्ञातत्ववस्तत्तच्छक्तिप्रबोधस्यापि स्वरूपेण ज्ञातस्य विशेष रूपेणाज्ञानादज्ञातत्वमेवेति युक्तोऽश्वक इत्यादाविवात्रार्थे वर्तमानात्प्रातिपदिकास्स्वार्थे प्रागिवात्क इत्यधिकृतः कप्रत्यय इति भावः ।
परिमल
समासानुपपत्तिमाशङ्कते तत्तच्छक्तिप्रबोधक इति कथमिति ॥ कर्तरि चेति । ‘कर्त्रर्थकतृजकाभ्यां सह षष्ठी न समस्यते’ इति द्वितीयाध्यायद्वितीयपादे निषेधादित्यर्थः । यत्तु ‘तृजकाभ्यां कर्तरि’ इति सूत्रमुदाहार्यम् । तस्यैव ‘कर्त्रर्थकतृजकाभ्यां सह षष्ठी न समस्यते’ इत्यर्थः । न तु ‘तृजकाभ्यां सह कर्त्रर्थकषष्ठी न समस्यते’ इति । तथात्वे तृचः कर्तयैव विधानेन तद्योगेऽ-कर्त्रर्थकषष्ठ्या असम्भवेन तृज्ग्रहणानर्थक्यप्रसङ्गात् । कर्तरि चेति तदुत्तरसूत्रस्य तु तृजकाभ्यां सह कर्त्रर्थकषष्ठी न समस्यत इति । तथैव मञ्जर्यामुक्तेरिति । तन्न । वृत्तौ तृज्ग्रहणमुत्तरार्थमित्युपेत्य कर्तरीति षष्ठीविशेषणं चोपेत्य कर्तरि षष्ठीसमासनिषेधस्य पूर्वसूत्रार्थत्वमुक्त्वा कर्तरि चेत्यस्य कर्त्रर्थकतृजकाभ्यां षष्ठी न समस्यत इत्युक्तत्वात्तदनुरोधेनेयमुक्तिरिति ध्येयम् । मञ्जर्युक्तेर्दूषणं त्वनवसरत्वान्नोच्यते ॥ याजकादिभिश्चेति । याजकपूजकादिशब्दैः कर्त्रर्थकतृजकान्तैरपि षष्ठी समस्यत इति पुनः षष्ठीसमास-विधानाद्याजकादिगणेऽस्यापिशब्दस्य पठितव्यत्वादिति भावः । प्रतिप्रसवो निषेधस्यापवादः । वृत्त्यादौ याजकादिगणमध्ये बोधकशब्दस्यापाठादाह यद्वेति ॥ पचादीति । ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इति सूत्रे पचादिगतशब्देभ्योऽच्प्रत्ययविधानात्पचादिगणस्य च ‘अजपि सर्वधातुभ्यो वक्तव्यः’ इति भाष्योक्तेः ‘यङोऽचि च’ इतिसूत्रेऽज्ग्रहणेन ज्ञापनाद्वा अकृतिगणत्वात्प्रकर्षेण बोधयतीत्यर्थे प्रपूर्वाद्बुध अवबोधने इत्यतो ण्यन्तादच्प्रत्यये पुगन्तेति गुणे णेरनिटीति णिलोपे सति प्रबोध इति रूपम् । तेन‘इगुपधज्ञाप्रीकिरः क’ इति भाव्यमिति चोद्यानवकाशः ॥ अज्ञात इति । अज्ञाते अज्ञातेऽर्थे कप्रत्ययो भवतीति सूत्रस्यार्थः । शक्तिप्रबोधनमन्यैर्न ज्ञायत इत्यर्थः ।
यादुपत्यं
कर्तरि चेति । कर्त्रर्थतृजकाभ्यां षष्ठ्या न समास इति सूत्रार्थः । अपां स्रष्टा सतामर्चक तत्युदाहरणम् । एवं चात्र कर्त्रर्थकेन षष्ठ्याः कथं समासोपपत्तिरित्याशयः ॥ याजकादिभिश्चेति । एतैः षष्ठी समस्यत इत्यर्थः । ननु याजकादिष्वस्थापाठादाकृतिगणत्व-स्याप्यत्राकथनात्कथमिदं समाधानमित्यस्वरसादाह यद्वेति । बहुव्रीहिपक्षे मत्वर्थीयपचाद्यजन्तत्वपक्षे वा प्रबोधवत्त्वं कर्तृतासम्बन्धेनैव विवक्षितम् । अतः प्रकृतवाक्यार्थसङ्गतिरिति ध्येयम् ॥ अज्ञात इतीति । सम्बन्ध्यादिनाऽज्ञातेऽर्थे कप्रत्ययः स्यादिति सूत्रार्थः । कस्यायमश्वो ऽश्वक इत्युदाहरणम् । तथा च प्रबोधक इत्यस्याकत्वाभावान्न ‘कर्तरि चे’ति प्रतिषेधप्राप्तिरिति भावः । न च प्रकृते तत्तच्छक्ति-प्रबोधवतः किंसम्बन्धित्वेनाज्ञानं यदर्थे कप्रत्यय इति वाच्यम् । न ह्यत्र सम्बन्धित्वेनैवाज्ञाते कप्रत्यय इति विवक्षितं किन्तु स्वरूपेण ज्ञातेऽपि धर्मान्तरेणाज्ञात इत्येव । यथाऽऽहुः । ‘प्रयोगोऽस्य कथं नु स्यादज्ञातः सर्वथैव यः । तस्माद्धर्मान्तराज्ञानमज्ञानं न स्वरूपतः’ इति । तथा चैकस्यैकदैवानन्त-पदार्थेषु स्थित्वा तत्तच्छक्तिप्रबोधकर्तृत्वमस्मदादिष्वविद्यमानमैश्वर्यादिकं सम्भावकं विना न ज्ञातुं शक्यमित्यर्थे कप्रत्यय इत्याशयात् ।
श्रीनिवासतीर्थीया
प्रतिप्रसवः निषेधस्यापवादः ।