०१ सत्तालिङ्गसमन्वयः

लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे चिन्त्यते

सत्तालिङ्गसमन्वयः

अथ प्रथमाध्यायस्य द्वितीयः पादः

सर्वगतत्वाधिकरणम्

लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे चिन्त्यते

सुधा

द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति लिङ्गात्मकानामिति ।

अनुव्याख्यानम्

***लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ॥ ***

चिन्त्यते

सुधा

लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः । स्वरूपार्थो वाऽऽत्मशब्दः । निमित्तनिमित्तिनोरभेदोपचारात् । सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः ।

शेषवाक्यार्थचन्द्रिका

यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ॥

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥ १ ॥

प्रयोजनोक्त्या किं पादप्रतिपाद्यप्रदर्शनेनेत्याशङ्कां परिहरन्नेव तत्प्रदर्शनपरत्वान्नोत्तरभाष्यवैयर्थ्य-मित्याशयेन तत्सङ्गमयति द्वितीयपादस्येति । द्वितीयपादस्य पूर्वपादेनोत्तरपादाभ्यां च भेदसिद्धय इति च पादप्रतिपाद्यप्रदर्शनप्रयोजनसङ्कीर्तनम् । अत्र च स्वस्मिन्नित्यनुक्तौ प्रकृतत्वात्पूर्वोत्तरपादैरेक-वाक्यतासिद्धय इति प्राप्त्या पूर्वोत्तरभेदसिद्धय इत्यनेन विरोधः स्यात् । तत्परिहाराय स्वस्मिन्नित्युक्तम् । पादप्रतिपाद्ये प्रदर्शिते सर्वत्रेत्यादिसूत्रसन्दर्भस्यान्यत्रप्रसिद्धलिङ्गात्मकशब्दसमन्वयरूपैकार्थ-प्रतिपादकत्वात्स्वस्मिन्नेकवाक्यत्वस्य तस्य चार्थस्य पूर्वोत्तरपादव्यावृत्तत्वात्तद्भेदस्य च सिद्धिर्भव-तीत्यर्थवत् पादप्रतिपाद्यप्रदर्शनमिति भावः । प्रतिपाद्यमित्यत्रापि द्वितीयपादस्येत्यस्य सम्बन्धः । लिङ्गं धर्म इति । निर्वचनलभ्यार्थो धर्म इत्यर्थः । अन्यथा रूढानां घटादिशब्दानामपि घटत्वादिरूप-धर्मप्रवृत्तिनिमित्तकत्वेन लिङ्गात्मकत्वप्रसङ्गात् । उक्तविवक्षायां तु नातिप्रसङ्गः । घटत्वादेर्निर्वचन-लभ्यत्वाभावेन तादृशधर्मप्रवृत्तिनिमित्तत्वाभावात् । इदं चान्तर्यामीत्याद्येकप्रातिपदिकरूपाणामेव लिङ्गात्मकशब्दत्वमित्यङ्गीकृत्योक्तम् । अतो न ‘सर्वभूतेष्वेतं’ ‘यस्मिन्द्यौरि’त्याद्यनेकप्रातिपदिकात्मक-वाक्यरूपलिङ्गात्मकशब्देष्वव्याप्तिरिति ध्येयम् । यद्वा धर्म्युपस्थापकरूपो धर्म इत्यर्थः । अत्राप्येक-प्रातिपदिकरूपाणामेव लिङ्गात्मकत्वेन विवक्षणान्नाव्याप्तिरिति बोध्यम् । ननु शब्दार्थयोर्भेदात्कथं शब्दानामर्थरूपलिङ्गात्मकत्ववचनमित्यतो गौणीं वृत्तिमाश्रित्य व्याचष्टे स आत्मेवेति । यथाऽऽत्मा प्रवृत्तौ निमित्तं तथा लिङ्गमपि शब्दप्रवृत्तौ निमित्तमिति निमित्तत्वसाम्येन लिङ्गे आत्मत्वोपचार इति भावः । नामात्मकेष्वात्मशब्दस्य स्वरूपार्थत्वं लिङ्गात्मकेषु च प्रवृत्तिनिमित्तार्थत्वमिति वैरूप्या-श्रयणमयुक्तमित्यरुच्या पक्षान्तरमाह स्वरूपार्थो वेति । नन्वेवं शब्दानामर्थस्वरूपत्वमुक्तं स्यात्ताच्च बाधितमित्यतोऽनयोर्निमित्तनैमित्तिकभावापन्नत्वात्तद्भावापन्नयोश्च त्रपुसज्वरयोस्त्रपुसं ज्वर इत्यभेद-व्यवहारदर्शनाद्युक्तोऽत्र भेदेऽप्यभेदव्यवहार इत्याह निमित्तेति । कतिपयशब्दवाच्यत्वे गुणपूर्त्यसिद्धि-प्रसङ्गादाह सकलेति । भाषाशब्दव्यावृत्त्यर्थं वेदगतेति । लिङ्गात्मकशब्दसमन्वयप्रतिपादकत्वस्य तृतीयचतुर्थयोरपि सत्त्वेन कथं ततो भेदसिद्धिरित्यत उक्तम् अन्यत्रेत्यादि । ततश्चोभयत्रान्यत्रैवप्रसिद्ध-लिङ्गसमन्वयप्रतिपादकत्वस्य तृतीयपादादौ सत्त्वेऽप्यन्यत्र प्रसिद्धलिङ्गसमन्वयाप्रतिपादकत्वाद्युक्तै-वोत्तरपादाभ्यामस्य भेदसिद्धिरिति भावः ।

परिमल

श्रीहयवदनाय नमः ॐ ॥ द्वितीयपादस्येति । प्रतिपाद्यमर्थं दर्शयतीत्यन्वयः । तस्य फलोक्तिःपूर्वेत्यादि । पूर्वपादोत्तरपादोक्तार्थादर्थभेदोक्त्या पादभेदस्यैकरूपार्थप्रतिपादकत्वोक्त्या स्वस्मिन्द्वितीयपादे एकवाक्यतायाश्च सिद्धेः । अत्र नियामकस्यार्थैकत्वादेकं वाक्यमि’त्यादेरन्तरधिकरण एवोक्तेरिति भावः ।

यादुपत्यं

द्वितीयपादस्येति । प्रतिपाद्यमित्यन्वयः ॥ स्वस्मिन्निति । द्वितीयपाद इत्यर्थः । तथा चान्यत्रप्रसिद्धलिङ्गात्मकशब्दसमन्वयरूपैकार्थप्रतिपादकत्वेन द्वितीयपादस्य सर्वस्यैकवाक्यत्वं पूर्वोत्तरपादानां चातदर्थत्वात्तद्भेदश्च सिद्ध्यतीति भावः ॥ लिङ्गं धर्म इति । धर्म्यनुमापकरूपो धर्म इत्यर्थः । निर्वचनलभ्योऽर्थो धर्म इति व्याख्यानं तु सर्वेषु भूतेष्वेतमेवेत्याद्यनेकप्रातिपदिकात्मक-वाक्यप्रतिपाद्येषु सर्वगतत्वादिलिङ्गेष्वव्याप्तत्वादुपेक्ष्यम् । तथाच लिङ्गात्मकानामित्यस्य व्याप्यधर्मोप-स्थितिद्वारैव धर्म्युपस्थापकानामित्यर्थः पर्यवस्यतीति ज्ञातव्यम् । प्रपञ्चितं चैतदानन्दमयाधिकरणे ॥ प्रवृत्तिनिमित्तमिति । निर्वचनलभ्योऽर्थ इत्यर्थः । इदं चान्तर्यामीत्याद्येकप्रातिपदिकरूपलिङ्गात्मक-शब्दानपेक्ष्योक्तम् । वस्तुतस्तु आत्मा प्रतिपाद्यमित्यर्थः । तेन नोक्तलिङ्गात्मकशब्देष्वव्याप्तिः ॥ निमित्तनिमित्तिनोरिति । पूर्वयोजनायामात्मप्रातिपदिके गौणी वृत्तिरुक्ता । अत्र तु सामानाधिकरण्य-रूपायां विशेष्यविभक्तिसमभिव्याहृतविशेषणविभक्ताविति ततो भेदः । अन्यत्र प्रसिद्धत्वादि-वदित्यत्रादिपदेनोभयत्र प्रसिद्धत्वं ग्राह्मम् ।

श्रीनिवासतीर्थीया

ननु शब्दानां प्रवृत्तिनिमित्तस्वरूपत्वं कथमित्यत आह निमित्तेति ।

वाक्यार्थरत्नमाला

श्रीनृसिंहगुरून् सर्वान् जयार्यं व्यासराजकम् ।

विद्याधीशगुरुं वन्दे तद्गुरुं च विशेषतः ॥ १ ॥

प्रयोजनोक्तयेति ॥ अस्य शङ्कां परिहरन्नित्युत्तरेण सम्बन्धः । तत्प्रदर्शनेत्यत्र तत्पादप्रतिपाद्यस्य परामर्शः । प्रयोजनोक्तयेति प्रागुक्तं प्रयोजनं केन भागेन दर्शितमित्यतः स्पष्टयति । द्वितीयपादस्येति । पूर्वोत्तरपादैरिति । पूर्वपादेनेत्यादेरुक्तत्वात्स्पष्टमेतत् । धर्मद्वारा धर्म्युपस्थापकानीति चन्द्रिकोक्तानु- सारेण पक्षान्तरमाह । यद्वा धर्मीति । धर्मद्वारेत्येतल्लिङ्गत्वमेकपादात्मकानुगतं नानेकपादेष्वपीत्यादि चन्द्रिकायां स्वोक्तिरत्रानुसन्धेयेति सूचयन्नाह । इदं चैकेति । नामलिङ्गभेदविचारस्तु चन्द्रिकाटीका-व्याख्यावसरेऽस्माभिर्लिखितोऽस्ति आनन्दमयाधिकरणे च सोऽत्र विज्ञेयः । यथा आत्मा प्रवृत्ता-विति । शरीरादिप्रवृत्तिरिह प्रवृत्तिपदेन ज्ञेया । त्रपुसं ज्वर इतीति ॥ दधित्रपुसं प्रत्यक्षो ज्वर इति यथेति तृतीयाध्याये ज्ञानपादे उदाहरिष्यते । तत्रोपयुक्तमिहोपात्तम् । तदर्थविचारोऽपि तद्-व्याख्यानावसरे ज्ञेयः । उत्तरेति । उत्तरपदाभ्यां भेदेत्यर्थः ।


लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे चिन्त्यते

लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे चिन्त्यते

सुधा

नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव । यौगिकत्वात् । अन्यथा गुणपूर्त्य-लाभेन समन्वयसमर्थनवैयर्थ्यात् । न च प्रकरणगतगुणलाभेन समन्वयसमर्थनवैयर्थ्यात् । न च प्रकरणगतगुणलाभेन सार्थक्यम् । वचनवृत्त्यङ्गीकारवैफल्यात् । उक्तं च यच्छब्दा योगवृत्तय इति । तत्कथमयं विभागः । सत्यम् । तथाऽप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः । वृत्तिर्लक्षणादिरपि भवतीत्यतः परे मुख्यार्थ इत्युक्तम् । तथा च मुख्यवृत्तिरिति लभ्यते । चिन्त्यते समर्थ्यतेऽस्मिन्पाद इति शेषः ।

शेषवाक्यार्थचन्द्रिका

अस्त्वेवमस्योत्तरपादभेदसिद्धिस्तथाऽपि न पूर्वपादभेदसिद्धिः । तस्याप्यन्यत्रप्रसिद्धलिङ्गसमन्वयप्रतिपादकत्वेन पादप्रतिपाद्यस्य पूर्वपादादव्यावृत्तत्वादित्याक्षिपति नन्विति । ननु पूर्वपादे समन्वितानां रूढत्वेन नामत्वान्न लिङ्गत्वमित्यतो नात्र धर्मिवाचित्वं नामत्वं धर्मवाचित्वं लिङ्गत्वमित्याश्रयितुं युक्तम् । तथा सति धर्मिवाचितयाऽन्तर्याम्यादिशब्दानां नामत्वस्य धर्मवाचितया चानन्दादिशब्दानां च लिङ्गत्वस्य प्रसङ्गात् । किं नाम रूढत्वं नामत्वं यौगिकत्वं च लिङ्गत्वमित्येवाश्रयणीयम् । तथा च पूर्वपादसमन्वितानामपि यौगिकत्वात्कथं न लिङ्गत्वमित्याह यौगिकत्वादिति । अस्तूक्तरीत्या रूढत्वयौगिकत्वाभ्यामेव नामलिङ्गभेदस्तथाऽप्यतीतपादे समन्विता-नामपि रूढत्वादेव न यौगिकत्वमिति कथं लिङ्गत्वमित्यतः स्यादेतदेवं यदि केचिद्रूढा एव केचिद्यौगिका एवेति विभागः स्यात् । न चैतदस्ति । सर्वेषामपि यौगिकत्वादिति भावेन रूढानां यौगिकत्वानङ्गीकारे बाधकमाह अन्यथेति । रूढानां यौगिकत्वानङ्गीकार इत्यर्थः ॥ गुणपूर्त्यलाभेनेति । तत्तच्छब्द-निर्वचनलब्धगुणलाभैकप्रयोजनकत्वात्समन्वयसमर्थनस्य तदभावे वैयर्थ्यमेवेत्यर्थः । प्रयोजनान्तर-सम्भवात् तत्तच्छब्दनिर्वचनलब्धगुणलाभैकप्रयोजनकत्वमसिद्धं समन्वयसमर्थनस्येत्याशङ्कते न चेति । प्रकरणगतगुणलाभेनेत्युपलक्षणम् । तत्तदधिकरणाक्षेपसमाधानेनेत्यपि द्रष्टव्यम् ॥ वचनवृत्तीति । रूढ्यङ्गीकारवैफल्यादित्यर्थः । लक्षणादिना भगवत्परत्वेऽपि प्राकरणिकगुणलाभस्य तत्तधिकरणाक्षेप समाधानस्य च सम्भवादिति भावः ॥ उक्तं चेति । सङ्क्षेप इति शेषः । यतोऽर्थगतं प्रवृत्तिनिमित्तमपेक्ष्य नारायणमभिदधति अतोऽनन्तगुणोऽसाविति पूर्वेण सम्बन्धः । विद्वत्प्रतीत्या सर्वेषां यौगिकत्वेऽप्यज्ञ-प्रतीत्या ये रूढास्ते नामानि तत्प्रतीत्या ये यौगिकास्ते लिङ्गानीत्यज्ञप्रतीत्यनुरोधेन नामलिङ्गविभाग-स्याश्रयणाददोष इत्याह सत्यमिति ॥ आपातप्रतीत्यनुरोधेनेति । यौगिकत्वं लिङ्गत्वमित्युक्तिरापात-प्रतीत्यनुरोधेनेत्यर्थः । आपाततो यौगिकत्वं लिङ्गत्वमिति यावत् । तदपि चापाततो रूढिरहितत्वमेव मन्तव्यम् । तेनानेकपदसमभिव्याहारात्मकेषु ‘सर्वेषु भूतेष्वेतमि’त्यादिरूपलिङ्गात्मकशब्देषु नाव्याप्ति-रिति भावः । यद्यप्यत्र प्रकृतशङ्काऽनुसारेणापातप्रतीत्यनुरोधेनेयमुक्तिरित्येव वक्तव्यम् । तथाऽपि प्रसङ्गादन्यत्रप्रसिद्धोभयत्रप्रसिद्धादिविभागोऽपि न वास्तवः । विद्वत्प्रसिद्ध्या सर्वशब्दानां भगवत् परत्वात् किं त्वज्ञप्रतीत्या केचिदन्यत्रप्रसिद्धाः केचिदुभयत्रप्रसिद्धाः केचिदन्यत्रत्रैव प्रसिद्धा इत्यज्ञप्रतीत्यनुरोधेनैवेति ज्ञापयितुमन्यत्रप्रसिद्धादिवदिति दृष्टान्ततयोपादानं कृतमित्यवधेयम् । परमत इव स्वमतेऽपि नारायणे परापरविभागभ्रान्तिं परिहर्तुं पर इत्यस्य प्रयोजनमाह वृत्तिरिति । कथमनेनोक्तभ्रान्तिनिरास इत्यतो व्याचष्टे मुख्यार्थ इति । नारायणस्य मुख्यार्थत्वोक्तावपि कथं वृत्तेर्मुख्यत्वलाभः परशब्देनेत्यतः परशब्दोक्तमुख्यार्थत्वस्य वृत्तेर्मुख्यत्वं विनाऽनुपपन्नत्वात्तेन तल्लाभ इत्याह तथा चेति । उक्तलिङ्गसमन्वयस्य द्वितीयपादप्रतिपाद्यत्वलाभायानुगुणं शेषमाह अस्मिन्निति ।

परिमल

उक्तं चेति । संक्षेपभाष्ये ॥ अन्यत्रप्रसिद्धत्वादिवदिति । यथाऽन्यत्रोभयत्रान्यत्रैव-प्रसिद्धत्वमापाततस्तद्वदित्यर्थः । प्रपञ्चितश्चायं नामलिङ्गादिभेदश्चन्द्रिकायाम् । मुख्यार्थ इतीति । सप्तम्यन्तं मुख्यार्थपदम् । अत्र विशेष उपासनापादे वक्ष्यत इति भावः ।

यादुपत्यम्

आपातेति । अज्ञप्रतीत्यनुरोधेनेत्यर्थः । तथा च यथा विद्वत्प्रसिद्ध्या भगवत् पराणामपीन्द्रादिशब्दानामज्ञप्रतीत्यनुरोधेनान्यत्रप्रसिद्धत्वादिकं विवक्षितम् । तथा पूर्वपादे समन्वितानां शब्दानां विद्वद्रीत्या यौगिकानामप्यज्ञप्रतीत्यनुरोधेन रूढतया साक्षाद्धर्म्युपस्थापकत्वं विवक्षितम् । अतो युक्तेयं पादभेदोक्तिरिति भावः ।

श्रीनिवासतीर्थीया

अन्यथेति । रूढत्वेऽवयववृत्त्या तन्नामप्रतिपादितगुणालाभादित्यर्थः ॥ न चेति । तथा च तन्नाम्नो रूढ्या भगवद्वाचकत्वमेवास्तु । तन्नामवाच्यगुणालाभेऽपि तन्नामोपेते ये गुणास्तत्प्रकरणोक्तास्तद्वत्त्वं भविष्यतीति गुणपूर्त्यलाभो नेति भावः ॥ वचनेति । तथा च तत्प्रकरण-गतनाम्नो लक्षणया भगवत्परत्वेऽपि तत्प्रकरणगतगुणलाभो भविष्यतीति वचनवृत्तिः कस्मा-दङ्गीकार्येत्यर्थः । यौगिकत्वादित्युक्तं युक्तयोपपाद्य तत्र सम्मतिं चाह उक्तं चेति ।

वाक्यार्थरत्नमाला

यदि रूढत्वयोगिकत्वाभ्यामेव नामलिङ्गभेदस्तर्हि पूर्वपादसमन्विता नामपि योगिकत्वात्कथं नामलिङ्गत्वमिति दोषतादवस्थ्यमित्यत आह । तथापीति । तथाभेदाङ्गीकारेऽपीत्यर्थः । पूर्वपादीयानां यौगिकत्वाङ्गीकार एव तद्विभागानुपपत्तिप्रसरो नान्यथेति भावः । प्रयोजनान्तरेति । समन्वयसमर्थनस्य प्रयोजनान्तरेत्यादि सम्बन्धः । यच्छब्दा इत्यत्रत्ययच्छब्दार्थकथनेनात इत्येतद-पेक्षितहेतुलाभं दर्शयन्नेवातोऽनन्तगुण इति पूर्वेणान्वयं च दर्शयति । यतोऽर्थगतमिति । योगवृत्तस्य इत्यस्य व्याख्यानमर्थगतमित्यादि । विद्वत्प्रतीत्येति । एतदपि प्राचीननामलिङ्गनिष्कर्षानुसारेण योज्यम् । चन्द्रिकानुसारेणाह । तदपि चेत्यादि । परापरविभागेति । पर इति विशेषणेन प्रसक्तामिति शेषः ॥