२८ प्रश्न-उत्तर

श्रीमन्न्यायसुधा प्रश्नमालिका

**॥ श्रीः ॥
श्रीमन्न्यायसुधा प्रश्नमालिका सौधप्रश्नमाला
**श्रीमन्यायसुधा प्रथमाध्यायः प्रथमपादः ****

  1. जिज्ञासाधिकरणम् 1-1035

  2. जन्माधिकरणम् 1037

  3. शास्त्रयोनित्वाधिकरणम् 1130

  4. समन्वयाधिकरणम् 1165

  5. ईक्षत्यधिकरणम् 1178

  6. आनन्दमयाधिकरणम् 1259

  7. अन्तस्थत्वाधिकरणम् 1443

  8. आकाशादिकरणम् 1463

  9. प्राणाधिकरणम् 1476

  10. ज्योतिरधिकरणम् 1498

  11. गायत्र्यधिकरणम् 1499

  12. पादान्त्यप्राणाधिकरणम् 1512


जिज्ञासाधिकरणम्

**श्रीशः शरणम् ॥
॥ श्रीवेदव्यासाय नमः ॥
॥ श्री समस्तदेवतागुरुभ्यो नमः ॥ ॥ अस्मत्पूज्यगुरुभ्यो नमः ॥
गुरुणां देवतानां च मुख्यप्राणस्य धीमतः । हृद् गायाऽजादिरूपाय सदा वन्दे सुबुद्धये ॥
श्रीमन्यायसुधा

  1. जिज्ञासाधिकरणम्
    **१) प्रथमश्लोकस्य नतिस्तुत्युभयपरत्वे वाक्य भेद ः भवति । तत्परिहारः कथम् २२(२४)%20प्रथमाध्यायः\अधिकरणानि\प्रथमः%20पादः\जिज्ञासाधिकरणम्_1 “दला”)
    २) आर्थिकपुनरुक्ति ः दोष उत न २२
    ३) विशिष्टाधिकृतेष्टदेवतानां वन्द्यत्वे कि निमित्तम् २८
    ४) वियदधिकरणव्युत्पाद्यसमस्तावान्तरोत्पत्यादय ः के २८
    ५) सदा प्रियतमं मम इत्यनेन किं लक्षणम् उक्तम् ३८
    ६) सांकेतिकः शब्द इत्यस्य कोऽर्थः ४१
    ७) नारायणशब्दार्थः कः ४१
    ८) तृतीयाध्यायविषयः केन शब्देन निरुपितः ४३
    ९) व्याख्यां करोमि इति वर्तमानव्यपदेशः कथम् ४७
    १०) नारायणस्य गुरुत्वे किं निमित्तम् ४८-४९
    ११) निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावाद् इत्यत्र पूर्वोत्तरपक्षयोर् उदाहरणं किं ५१
    १२) कीदृशं वाक्यं व्याख्यातव्यम् ५२
    १३) अर्थविवक्षापूर्वकत्वे प्रमाणाभावः कथम् ५२
    १४) विद्याशब्दस्य यथार्थज्ञानतत्साधनयोर् योगरुढी कथम् ५५
    १५) चक्रे शास्त्रमनुत्तमम् इत्यस्य कोऽर्थः ६१
    १६) विद्याशास्त्रशब्दयोर् भिन्नार्थत्वम् एकार्थत्वं च कथम् ६७
    १७) परविद्यात्वं नाम किम् ६७
    १८) केवलानां ब्रह्मसूत्राणां परविद्यात्वम् अस्ति उत न ६९
    १९) सूत्राणां परत्वं कथमुपादनीयम् ६३
    २०) परविद्याशब्देन ज्ञानग्रहणं कुतो न कर्तव्यम् ६३
    २१) वक्त्रानुकूल्यं नाम किम् ७१
    २२) श्रोत्रानुकूल्यं नाम किम् ७१
    २३) प्रसंगानुकूल्यं नाम किम् ७१
    २४) केन विशेषणेन वक्त्रानुकूल्यं सिद्धम् ७१
    २५) श्रोत्रानुकूल्यं केन शब्देन निरुपितम् ७१
    २६) प्रसंगानुकूल्योपपादकः शब्दः कः७१
    २७) तदुदितम् इति वचनाद् विभक्तिविपरिणामेन एकाधिकरणतं कथं भवति ७४
    २८) गुरूणां गुरुणा उदितत्वादिहेतूनां प्रत्येकं व्याभिचारः कथम् ७६
    २९) बादरायणेन मोक्षार्थमुपदिष्टत्वस्यैव हेतुत्वे गुरुर्गुरूणां प्रभवः शास्त्राणाम् इत्यस्य ७६
    वैयर्थ्यपरिहारः कथम्
    ३०) आप्तवाक्यत्वाद्युपाधे ः परिहारः कथम् ८४
    ३१) आप्तवाक्यत्वे प्रामाण्ये च किमनुमानम् ८४
    ३२) सप्तधा आप्तत्वम् उक्तं तत्किम् ८६
    ३३) स्वमतोक्ता आप्तिः का ९०
    ३४) आप्तत्वं सर्वदा अंगीकृतम् उत न ९०
    ३५) अनुकूलवक्त्रादिमत्तया आप्तवाक्यतां प्रसाध्य प्रामाण्यसाधनं कुतः क्रियते ९५

३६) अनुकूलवक्त्रादिमत्वाप्तवाक्यत्वयोर् एकदेशानुप्रवेशपरिहार ः कथम् ९८
३७) कीदृशम् आप्तलक्षणम् अंगीकृतं ९८
३८) श्रुतियुक्ति संवादेन प्रामाण्यानुमानं कथमुक्तम् १०४
३९) ब्रह्मसूत्रशारीरकमीमांसाशब्दयोरर्थ ः कः १०७
४०) एकधा प्रामाण्यविषये दृष्टान्तानि कानि १०९
४१) द्वेधा प्रामाण्यविषये दृष्टान्तानि कानि १०९
४२) त्रेधा प्रामाण्यविषये दृष्टान्तानि किं १०९
४३) प्रामाण्यस्य महत्वं नाम किम् १०९
४४) भारतस्य सर्वोत्तमग्रन्थत्वात् कथं ब्रह्मसूत्राणाम् उत्तमत्वम् उपपद्यते
४५ ) " इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् " इति भारतस्यापि निर्णायकत्वात् कथं
ब्रह्मसूत्राणामेव निर्णायकत्वम ११२
४६) स्पष्टीकरणं कीदृशम् ११४
४७) मगंलाचरणस्य कार्यसमाप्तिहेतुत्वं कथं सिद्धम् ११७
४८) मगंलाचरणस्य प्रचयहेतुत्वं नाम किं ११७
४९) मगंलाचरणस्य समाप्तिहेतुत्वे अन्वयव्यतिरेकव्यभिचार परिहार ः कथम् ११७
५०) स्वमते मंगलस्य समाप्तिहेतुत्वं केन प्रमाणेन सिद्धम् १२०
५१) शिष्टाचारमूला श्रुतिकल्पना कुतः १२०
५२) विघ्नरार्हताः सूत्रकाराः कुतो मगंलाचरणं कुर्यु ः१२०
५३) मगंलस्य ग्रन्थे निवेशने किं कारणम् १२०
५४) सूत्रकारै ः मगंलाचरणं कथं कृतम् १२०
५५) तारशब्दार्थः कः १२५
५६) ओंकाराथशब्दयोर् मांगलिकत्वं कथमुक्तम् १२५
५७) ओंकाराथशब्दौ ज्ञापकतयाऽदिसूत्रस्य कारकतया समस्तशास्त्रस्य च उपयोगित्वेन विवक्षितौ
इत्यस्य कोऽभिप्राय १२५
५८) मङ्गलस्य पदार्थत्वं कुतो नास्ति १२९

५९) मङ्गलस्य वाक्यार्थे अन्वयः कुतो न भवति १२९
६०) स्वमते मङ्गलस्य वाक्यार्थे समन्वयो ऽंगीकृत उत न १२९
६१) ओंकारस्य सूत्रावयवत्वाभावसाधकम् अनुमानं किम् १३०
६२) सूत्राणां प्रत्येकं ब्रह्मविद्यात्वम् उत मिलितानां १३४
६३) स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यते इत्यस्य कोऽर्थः १३४
६४) वाक्येषु ऊह्यमानस्य तदवयवत्वम् अस्ति उत न १३४
६५) सूत्रावयवत्वाभावसाधकानुमाने को दोष उक्तः १३५-९
६६) सूत्रावयवत्वाभावसाधकानुमाने दृष्टान्ते साध्यवैकल्यं कथम् १४०
६७) प्रवृत्तिर् नाम का १४३
६८) प्रयोजनापेक्षा कुत्र वर्तते १४३
६९) आप्तवाक्यतया सूत्रं प्रयोजनादिनिश्चायकामित्युक्ते को दोषः १५०
७०) प्रथमसूत्रे कथं प्रवृत्तिः १५०
७१) जिज्ञासाकर्तव्यता विचारः कृत उत न १५८
७२) आरम्भणीयत्वानारम्भणीयत्वविचारः कुतः कृतः १५८
७३) जिज्ञासाकर्तव्यत्वाभावः केन वक्तव्यः १५८
७४) अविज्ञाततत्वेऽर्थे कारणोपपत्तितस् तत्वज्ञानार्थमूहस्तर्क इत्यस्य अर्थः कः १६३
७५) अधिकारी कः १६३
७६) अनात्मात्मपरात्मानां जिज्ञासा कुतो न युक्ता १६३-६७
७७) ईश्वरजिज्ञासा कुतो न युक्ता १७०
७८) कारणोपपत्तित इत्यस्य कोऽर्थः १७०
७९) प्रयोजनाभावः कथमुपपादनीयः १७५
८०) ओंकाररूपसिद्धिः कथम् १८०
८१) ब्रह्मशब्दरूपसिद्धिः कथम् १८०

८३) गुणोतत इति कथमुक्तम् । अस्य समर्थनं कथम् १९१
८४) ओंकारेण गुणपूर्णत्वार्थः कथं प्रतीयते १८०
८५) गायत्र्या विष्णुपरत्वे किं निमित्तमुक्तम् २०२
८६) सर्वे शब्दा ओंकारस्य साक्षाद् व्याख्यानरूपम् उत परम्परया २०५
८७) ईश्वरविषये प्रमाणे पृष्टे ओंकारब्रह्मशब्दौ विहाय वेदः कुत उक्तः २०५
८८) शास्त्रस्य ईश्वरविषयत्वं कथम् २०७
८९) मीमांसाया सम्भावनादिरूपाया ईश्वरविषयत्वं कथम् २०७
९०) मीमांसाया प्रतिबन्धमात्रनिवर्तकत्वाद् ईश्वरविषयत्वं कथम् २१०
९१) ईश्वरविषये विप्रतिपत्तयः काः २१०
९२) ब्रह्मजिज्ञासा इत्यत्र चतुर्थीसमासः कुतो न उक्तः २११
९३) षष्ठीसमासोऽपि शेषे उत कर्मणि २११
९४) ‘प्रतिपदविधाना षष्ठी न समस्यते ’ इत्यस्य किमुत्तरम् २१८
९५) ब्रह्मणः कर्मत्वेन अप्ताधान्यशंकापरिहारः कथम् २२३
९६) ओंकार प्रयोजनानि पंच उक्तानि । तानि कानि २३५
९७) अतः शब्दस्य पञ्चधाव्याख्यानं कथम् २४१
९८) प्रसादादेव मोक्ष इत्यत्र किं प्रमाणम् २३९
९९) ज्ञानादेव परमप्रसाद इत्यत्र किं प्रमाणम् २३९
१००) ज्ञानं जिज्ञासयैव इत्यत्र किं प्रमाणम् २३९
१०१) भगवान् सिद्धसाधनम् उत साध्यसाधनम् २४४
१०२) सिद्धं साधनं किं करणीयम् २४४
१०३) मोचक ईश्वरप्रसादः कथं भवति २४४
१०४) प्रसादो नाम कः २४४
१०५) परमेश्वरभक्तिर् नाम का २४४

१०६) प्रसादसाधनीभूता भक्तिर् अपरोक्षज्ञानात् पूर्वं भवति वा नवा २४४
१०७) अव्यक्तस्वभावस्य भगवतो दर्शनं कथं भवति २४४
१०८) अपरोक्षज्ञानसाधनं किम् २४४
१०९) ज्ञानसाधनानुग्रहः कदा भवति २४४
११०) निदिध्यासनं कदा भवति २४४
१११) जिज्ञासाया मोक्षसाधनत्वं कथम् २४४
११२) जिज्ञासापदेन विचारलक्षणा कथम् २४७
११३) लाक्षणिकपदप्रयोगः कुतः २४७
११४) दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः २५९
११५) द्रव्यं कर्मच कालश्च इति श् लोकार्थः कः २६१
११६) अनादेरपि बन्धस्य ईश्वराधीनत्वं कथम २६२
११७) परमेश्वरः जीवं संसारे कथं बधाति २६६
११८) सूत्रे प्रसाद उक्त उत न २६६
११९) विवरणमते अनादिनिवृत्तिः कथमुपपादिता २६८
१२०) निवर्तकाभावः कुतो न उपाधिः २७१
१२१) प्रागभावे व्यभिचारपरिहारः कथम् २७१
१२२) परमाणुश्यामता सादिर् उत अनादिः २७१
१२३) अज्ञानस्य अनिर्वचनीयत्वे को दोषः २७५
१२४) सद्विलक्षणत्वस्य भावविलक्षणत्वे असिद्धिर् अत्यन्ताभावे व्यभिचारश्च कथं भवति २७६
१२५) सामान्यविशेषव्याप्त्योः किं प्रयोजनम् २७६
१२६) विशेषव्याप्त्या सामान्य व्याप्तिर् बाध्या इत्यत्र बाधः नाम किम् २७६
१२७) शुक्तिकाज्ञानस्य दृष्टान्तत्वाभावः कथम् २८२
१२८) स्वाश्रयगतोत्तरावस्था विनाश इत्युक्ते को दोषः २८६

१२९) अविद्याया अनादित्वान् न निवर्तते इत्यस्य तर्करूपत्वे को दोषः २८६
१३०) स्वतन्त्रानुमानरूपत्वे को दोषः । २८६
१३१) अनादेस् तृतीयः प्रकारः नाशस्य अंगीकार्य ः इत्युक्तिः स्वमतानुसारेण
उत परमतानुसारेण । २८९
१३२) अनादेः कीदृशः नाशः वक्तव्यः । २८९
१३३) स्वोपादानगतोत्तरावस्था विनाशा इत्यंगीकृतम् उत न । २८९
१३४) स्वमते लिंगदेहानाशः कथं भवति । २८९
१३५) अविद्यानिवृत्तौ सर्वयुक्तिः कुतो न भवति । २८९
१३६) भगवत्प्रसादसाधनं किम् । २९१
१३७) परमभ्कतिर् उत्पन्ना इति कथं ज्ञया । २९१
१३८) भगवतः मोक्षातिरिक्तानन्ददानं नाम किम् । २९५
१३९) भाष्यलक्षणं किम् । २९९
१४०) श्रौतार्थो ऽर्थार्थश्च कः । २९९-३००
१४१) बन्धमिथ्यात्वं कथं प्रयोजनाक्षिप्तं भवति । ३०४
१४२) धमिध्यात्वं विषयाक्षिप्तं कथं भवति । ३०४
१४३) सूत्रलक्षणं किम् । ३०४
१४४) युष्मदस्मदित्यादिभाष्यस्य सकलशास्त्रोपोद्घातत्वं कथम् ३०८
१४५) उपोद्घातो नाम कः । ३०९
१४६) मुक्तिर् बन्धमिथ्यात्वं कुतो अपेक्ष्यते । ३१०
१४७) दृष्ट्यैव तं मुच्यते इत्यस्य कोऽर्थः । ३१२
१४८) सप्तापूर्वीपक्षः नवापूर्वीपक्ष च केषां कथं वक्तव्यम् । ३१३
१४९) निवृत्तौ प्रयोजकः कः । ३१४
१५०) ज्ञानेन सत्यं विषयगतं निवर्तते इत्यस्य कोऽर्थः । ३२१

१५१) चित्रावयविनि नीलविशिष्टरूपज्ञानं मिथ्या कुतः । ३२२

१५२) नैयायिकमतानुसारेण चित्ररूपं नाम किम् । ३२२
१५३) ध्यानं मानसी क्रिया इत्यस्य कोऽर्थः । ३३२
१५४) क्रियायाः परिस्पन्दरूपत्वे अपरोक्षावभासविरोधः रूपरहितत्वेन तदवभासविरोधश्च
कथमुपपादनीयः । ३३२
१५५) ध्यानं नाम किम् । ३३२
१५६) अतीन्द्रियोपादानकस्य द्रव्यस्य प्रत्यक्षत्वे स्वपरमतरीत्या दृष्टान्तकः कः । ३३२
१५७) ध्यानस्य ज्ञानरूपत्वे आत्मानमुपासीत इत्यादिविधि कथम् । ३३२
१५८) विधिजन्येच्छाप्रयत्नयोरुपयोगः कुत्र । ३३२
१५९) सेतुदर्शनजन्यायां पापनिवृत्तौ मध्ये अदृष्टं कल्पनीयम् उत न । ३३९
१६०) विमुक्तश्च विमुच्यते इत्यस्य कोऽर्थः । ३४१
१६१) बन्धमिथ्यात्वं नैवमुक्तिरपेक्ष्यते इत्यत्र अपेक्षा नाम का । ३४६
१६२) अर्थापत्तिसामग्री का । ३४८
१६३) अर्थापत्तिदूषणानि कानि ३४८
१६४) प्रत्यक्षेण मिथ्यात्वाभावः कथं सिद्धः । ३४९
१६५) अद्वैतरीत्या आत्मतत्वं नाम किम् । ३५१
१६६) अनिर्वाच्याविद्या का । ३५१
१६७) अहंकारः क। ३५१
१६८) प्राणः मनो नाम किम् । ५१-३५२
१६९) कर्तृत्वादिप्रतीतिः कथम् । ३५२
१७०) स्वसिद्धान्ते कर्तृत्वादिषु कुत्र भ्रमो ऽंगीकृतः । ३५६
१७१) अद्वैतमतरीत्या इतरेतराध्यासो नाम किम् । ३६०
१७२) अहंकारस्थं कर्तृत्वादिकम् आत्मनि प्रतिभासते इत्युक्ते को दोषः । ३६६

१७३) सौषौप्तिक सुखपरामर्शः विशेषविषयक उत न । ३६६
१७४) अहंकारो ऽहं कर्ता इत्युलेखविषयो न वा । ३६८
१७५) अहंकारस्य ‘अहं कर्ता’ इति प्रतीति विषयत्वे किं बाधकम् ।
। ३६८
१७६) अहंकारात्मार्थकयो अहंशब्दयोः कथं भेदः । ३६९
१७७) अग्रतो मिथ्यात्वं भवेद् इति कथमुक्तम् ।३६९

१७८) मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिन इत्यस्य कोऽर्थः । ३७३
१७९) वाक्यस्य साधकत्वं नाम किम् । ३७४
१८०) वाक्यस्य साधकत्वं कदा न भवति । ३७४
१८१) अविद्यमानस्य वाक्यस्य निर्दोषत्वादिकं विद्यते उत न । ३७४
१८२) अद्वैतमतरीत्या मिथ्याभूतस्य साधकत्वं कथं सिद्धम् । ३७८
१८३) मिथ्याभूतस्य साधकत्वविषये प्रमाणे उक्ते चक्रकापत्तिः कथम् । ३७८
१८४) श्रुतिः स्वव्यतिरिक्तपदार्थस्य प्रतिपदिका इत्युक्ते को दोषः । ३८३
१८५) अद्वैतमतरीत्या मिथ्याभूतानां स्वानादिपदार्थानां साधकत्वं कथमुपपादितम् । ३८५
१८६) यत्साधकं न तन् मिथ्या इत्यस्य दृष्टान्तः कः । ३८५
१८७) यन् मिथ्या न तत्साधकम् इत्यस्य दृष्टान्तः कः । ३८५
१८८) वर्णेषु स्थिता देध्योदयः स्वाभाविका उत औपाधिकाः । ३८५
१८९) वर्णेषु औपाधिकयीर्घत्वाद्यंगीकारे को दोषः । ३८५
१९०) नेह ना नास्ति किंचन इत्यस्य अर्थ - कः । ३८५
१९१) नेह नाना इत्यत्र नानाशब्दस्य भेदार्थकत्वं कथम् । ३८९
१९२) नानाभूतगुणकर्मादिनिषेधे नानात्वनिषेधः कथः भवति । ३८९

१९३) विशिष्टविधिनिषेधो ऽंगीकृत उत न । ३८९
१९४) नेह नाना इति निषेधो ऽप्राप्तस्य उत प्राप्तस्य । ३८९
१९५) मायावादे सतः साधकत्वं कुत्र कथमंगीकृतम् । ३९४

१९६) साक्षिणो ऽज्ञानाधीनसाधनकत्वांगीकारे को दोषः । ३९४

१९७) सविशेषं प्रमाणं साधकम् उत निर्विशेषम् । ३९७-९८
१९८) साध्यप्रमाणस्य साक्षिणः प्रमाणत्वेनोक्ते को दोषः । ३९८
१९९) अविशेषस्य प्रमाणस्य साधकत्वे अनवस्था कथम् । ३९८
२००) विन्धमिथ्यात्वमंगीकुर्वत्यु चार्वाकबौद्धेषु व्यभिचारः कथम् । ४०४
२०१) प्रमाणबाधः कस्य दूषणम् । ४०४
२०२) प्रमाणादि इति रूढपदं विहाय व्यवहृतिरिति योगिकपदोपादानां किमर्थम् । ४०४
२०३) प्रमाणादिसत्वस्यांगीकारे उक्तानुमानानि कानि कति च । ४०६
२०४) सद्वचनाभासलक्षणयोगित्वं कुत्र प्रयोजकमित्युक्तम् । ४०७
२०५) लोकसिद्धत्वहेतौ को दोष उक्तः । ४०८-१३
२०६) साधनबाधनक्षमव्यवहारे पक्षे बाधसिद्धी खण्डनकारैर् उक्तं न वा । ४०८

२०७) सद्वचनाभासलक्षणयोगित्वशब्दस्य अर्थः कः । ४१४
२०८) द्वैतवाद्युक्तो ऽसतः साधकत्वाभावे प्रसंग ः कीदृशः । ४२४
२०९) प्रमाणादिसत्तांगीकारः वाग्व्यवहारकारणत्वे अंगीक्रियते उत न । ४२५
२१०) कथाफलनिष्पत्तौ किं प्रमाणम् । ४२५
२११) प्रामाण्यादिसिद्धि इत्यत्र चक्रकापत्तिः कथमुक्ता । ४२६
२१२) मुख्यामुख्यसतो लक्षणं किम् । ४३७
२१३) अमुख्यसतः भेदः कथम् उदाहरणं किम् । ४३७
२१४) सदसद्वैलक्षण्ये साधकत्वं न भवति इत्यत्र व्याप्तिः कथं समर्थ्यते । ४५१

२१५) सदसद्वैलक्षण्यं नाम किम् इत्यत्र कति पक्षा उक्ताः । ४४६
२१६) तेनानिष्टं कथं भवेद् इत्यत्र कति अर्था वर्णिताः । ४५१
२१७) तेनानिष्टं कथं भवेद् इत्यत्र नयचन्द्रिकारीत्या अर्थः कः । तत्र व्याकरणरीत्या समाधानं किम् । ४६५
२१८) सत्वानधिकरणत्वं - इत्यत्र सत्ताजात्यंगीकारे को दोष उक्तः । ४७१
२१९ ) स्वमतरीत्या सच्छब्दार्थः कः । ४७२
२२० ) अज्ञानस्य स्वकार्येण वर्तमानेन इति वाक्यस्यार्थः कः । ४७६
२२१) न सिद्धं प्रतिवादिन इत्यत्र कीदृशासिद्धिर् उक्ता । कतिविधा च । ४७६-७७

२२२) ज्ञानबाध्यत्वमपि तु इति वाक्येन दृष्टान्तदोषः कथं समर्थ्यते । ४८१
२२३) विज्ञातस्यान्यथा इति बाधलक्षणकथने किं प्रयोजनमुक्तम् । २२४) विज्ञातस्यान्यथा इत्यत्र बाधलक्षणेदलकृत्यं किम् । ४८१
२२५) बाधलक्षणं किमुक्तं - तस्य अर्थः कः । ४८१-८५
२२६) अन्यथाख्यातिशब्देन पंच पक्षाः कथं प्रदर्शिता भवति । ४९८

२२७) पंच पक्षा केषां सिद्धान्तानुसारेण उक्ताः । ४९९
२२८) बाधस्य भ्रमत्वापत्ति कदा उक्ता । ४९८
२२९) विभागरूपविकासस्य क्षणिकता कथमुक्ता । ५०३ - ५०६
२३०) विभागस्य नाशे किं निमित्तम् । ५०३
२३१) परत्वं निमित्तकारणनाशजन्यकार्यनाशे कथं दृष्टान्तः
भवति । ५०७
२३२) शुक्तिकारजतान्तरालम्बनपक्षः कथं वक्तव्यः । ५०३
२३३) अन्याकारोल्लेखि अन्यालम्बनमित्यत्र आलम्बनशब्दस्य कोऽर्थः । ५११
२३४) दोषसहकारेण इन्द्रियाणाम् अन्यथाज्ञानजनकत्वं कुतो नास्ति । ५१८
२३५) एकज्ञानस्य अर्थव्यभिचारे न सर्वत्र व्यभिचारो भवति इत्यस्य कः परिहारः । ५१९
२३६) इदं रजतम् इति ज्ञानस्यव्यवस्था प्राभाकरमतरीत्या कथं ५२२
तस्यां व्यवस्थायां किं प्रमाणम् ।
२३७) रजतज्ञानस्य स्मृतित्वं केन प्रमाणेन कथं साधितम् । ५२३

२३८) रजतज्ञानस्य स्मृतित्वे अनुमानं किम् । ५२६
२३९ ) तिक्तो गुडः शंखः पीत इति व्यवहारव्यवस्था कथम् । ५२६-२७

२४०) प्राभाकरमतरीत्या भ्रान्तिबाधकव्यवस्था कथम् । ५३०

२४१) रजतज्ञानस्य यथार्थत्वविषये कति अनुमानानि उक्तानि । ५३०,५४०-१

२४२) विगीतप्रत्ययत्वं पंचधा विकल्प्य उक्तदोषाः के । ५३०

२४३) प्राभाकरमतरीत्या विगीतप्रत्ययशब्दस्य कोऽर्थ उक्तः । ५३१
२४४) विप्रतिपन्नं परित्यज्य सिद्धस्य पक्षीकरणम् इत्यत्र विप्रतिपत्तिः कथं प्रदर्शिता । ५३५

२४५) रजतज्ञानत्वं नाम रजतशब्दोलिखित्वम् इत्युक्ते को दोष उक्तः । ५४०

२४६) खण्डो गौ इत्यादि सविकल्पकप्रत्ययानां भ्रमत्वं कथमापादितम् । ५४५

२४७) सामानाधिकरण्यशब्देन गुणादीनाम् आश्रयभेदादि कथं प्रतीयते । ५५०

२४८) अस्मत् सिद्धान्तानुसारेण सामानाधिकरण्य प्रतीतिः कथं समर्थिता । ५५०

२४९) स्वमते विषयत्वलक्षणं किमंगीकृतम् । ५५२
२५०) स्वमते आकाशवाक्यात्मसु विषयत्वलक्षणस्यतिव्याप्तिपरिहारः कथम् । ५५२
२५१) अनुमिति शाब्दबोधयोः किं करणम् । ५५३
२५२) प्रत्यभिज्ञायाम् इन्द्रियस्य कः पदार्थसम्बन्धः । ५५३
२५३) लिंगज्ञानवाक्यज्ञानयोः पदार्थस्य च सम्बन्धः कः । ५५३
२५४) सन्निकर्ष नाम किम् । ५५३
२५५) विषयत्वस्य निष्कृष्टलक्षणं किम् । ५५६-६०
२५६) करणे सन्निकर्षे च असाधारण्यं नाम किम् । ५५९
२५७) “शुक्तिकारजते" इति ज्ञानस्य भ्रमत्ववारणं किम् । ५६२
२५८) सहकारिणां कीदृशी शक्ति उक्ता । ५६२
२५९) सहकारिणदोषा भवन्ति उत न । दोषत्वं नाम किम् । ५६५
२६०) असतः निरूपकत्वं वर्तते उत न । निरूपकत्वं नाम किम् । ५६५

२६१) अर्थस्य ज्ञानकारणत्वमस्ति उत न । ५६५

२६२) असता सह सन्निकर्षः पदार्थस्य अस्ति उत न । ५६५
२६३) पारम्पर्येण अर्थस्य ज्ञानकारणत्वम् इत्यस्य कोऽर्थः । ५६८

२६४) साक्षी ज्ञानस्य अप्रामाण्यं गृह्णाति उत न । ५७०

२६५) अनाकलितस्य अनुत्पद्यमानत्वहेतौ के दोषा उक्ता । ५७०-१

२६६) साध्यः भूते स्मरणत्वे कति विकल्पा उक्ता । ५७५-६
२६७) नेदं स्मृति इति व्यवहर्तव्यं तत्तोलेखादिस्मृतिचिन्हाविकलत्वाद् इत्यत्र आदिशब्दः कुतः प्रयुक्तः । ५७६-८
२६८) अन्यथाख्याता आहत्य कति प्रमाणानि उक्तानि । ५८२-६०१
२६९) अगृहीतभेदाद् वेदनद्वयात् प्रवृत्तिर् इत्यत्र भेदो नाम कः । ५८२
२७०) व्यावर्तकधर्माग्रहणं प्रवर्तकम् इत्युक्ते को दोष उक्तः । ५८८
२७१) ज्ञानजनने कस्य स्वातन्त्र्यम् । ५८९
२७२) प्रवृत्तौ कस्य स्वातन्त्र्यम् । ५८९
२७३ ) अस्मसिद्धान्ते भेदाग्रहः दोषत्वेन उच्यते उत न । ५८९
२७४) ज्ञानस्य प्रवृत्तिजनकत्वम् अस्ति उत न । ५८९-९१
२७५) संसर्गो ऽविसंवादिव्यवहारजनकत्वविशिष्टसाकांक्षरूपरूपिसहोपलम्भः हेतु इत्युक्तम् ।
अस्यविवरणं कार्यम् । ५९५-७
२७६) सविकल्पके रूपरूपिभावप्रतीयत इत्युक्तम् । तत्र रूपरूपिभावो नाम किम् । ५९५

२७७ ) इदं रजत इति ज्ञानं पुरोवृतिविषयम् इत्यत्र उक्तानुमानानि कानि । ६००
२७८) बाधकत्वान्यथानुपपत्या विपर्ययस्य सिद्धौ उक्त बाधकत्वकल्पानि कानि । ६०१
२७९) प्रत्ययत्वानुमाने बाधो ऽदुष्टकरणजन्यत्वोपाधिश्च कथम् । ६०१
२८०) यथार्थमात्रवृत्ति इत्यत्र द्वितीयपक्षे अप्रसिद्धविशेषणता अदुष्टसामग्रीजन्यमात्रवृत्तित्वम्
उपाधिश्च कथम् । ६०६-९
२८१) अग्नि अनुष्णः घटः पचति इति अनन्योर् भेदाभावः कथम् आपाद्यते । ६०७
२८२) शुक्तिकादिषु रजतसद्भावे कति प्रमाणानि उक्तानि । ६११
२८३) रामानुजमते भ्रमे बाध्यकबाधकाभावः कथम् । ६११
२८४) पीतः शंख इति प्रतीतिः कथमुपपादिता । ६११
२८५) द्विचन्द्रप्रतीतिः कथम् । ६१३-१५
२८६) श्रुत्यादि कथं परिहृतः । ६१७
२८७) श्रुत्युक्तार्थापत्तिनिराकरणं कथम् । ६१७
२८८ ) सादृश्यं नाम किम् । ६१७
२८९) ककारखकारयोः सादृश्यमस्ति उत न । ६१७

२९०) ब्रह्मज्ञानस्य भ्रान्तित्वं कथमापादितम् । ६२१
२९१) प्राचीनतार्किकरीत्या इदं रजतम् इत्यत्र केषां सत्वम् उक्तम् । कस्य वाधश्च उक्तः । ६३०
२९२) रजतस्य देशान्तरसत्वांगीकारे किं निमित्तम् । ६३०
२९३) शुक्तौ प्रतीतस्य रजतस्य अन्यत्र सत्वे किं वाधकम् । ६३०-३२
२९४) सर्वत्र आरोप्यस्य असत्वं वर्तते उत न । ६३३-३५
२९५) रजतस्य ज्ञानाकारत्वे किं प्रमाणम् । ६३४
२९६) रजतस्य ज्ञानाकारत्वपक्षे किं बाधकम् उक्तम् । ६३४
२९७) आत्मख्यातिपक्षशब्दस्य कोऽर्थः । ६३९
२९८) इदं रजतम् इत्यत्र असत एव प्रतीतिर् इति समर्थनं कथम् ६४१-४२
२९९ ) भ्रान्तौ प्रतीयमानस्य सर्वस्य असत्वे किं बाधकम् । ६४२
३००) केशोण्ड्रादिभ्रमः कथम् । ६४२-४३

३०१) आदिपदगृहीत- कोलाहलभ्रमः कथम् । ६४२
३०२) अनिर्वचनीयविषये किं प्रमाणम् ( आहत्य कति प्रमाणानि ) । ६४५-४९
३०३) अनिर्वचनीयत्वं नाम किम् । ६४५
३०४) दोषप्रयुक्तभानत्वहेतुर् विवरणं किम् । ६४५
३०५) मायावादिमते अधिष्ठानज्ञानम् अन्तःकरणवृत्तिरूपम् इति कथम् । ६४५-४७
३०६) बाध्यत्वहेतौ उक्तदोषाः के । ६४५
३०७) सदसत्वे - इत्यनुमाने रूपरसदृष्टान्तः कथं भवति । ६४९
३०८) अत्यन्तभावप्रतियोगित्वं कस्य । ६४९
३०९) सदसत्वप्रसिद्धिसाधकानुमानानि कति । ६४९
३१०) अविद्यापरिणामभूतं रजतमित्युक्ते को दोषः । ६५९
३११) रजतप्रतीतिस् त्रेधा भवति इति विकल्पनिराकरणं कथम् । ६६०
३१२) साक्षिणैव अधिकरणादिग्रहणम् इत्युक्ते को दोषः । ६६०
३१३) असत्प्रतीतौ हेतुः क उक्तः । ६६७
३१४) प्रतीतिमत्वहेतोर् अप्रयोजकता कथं परिहरणीया । ६६७
३१५) तत्सम्बन्धिधर्मनिषेधकत्वहेतौ अन्वयव्याप्तिर् उत व्यतिरेकव्याप्तिर्
मूले उक्ता व्याप्तिः का । ६६७
३१६) असत् प्रतीतौ आगमोऽपि प्रमाणतया उक्तो न वा । ६६९
३१७) शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इत्यस्यार्थः कः । ६६९
३१८) विकल्पशब्दार्थनिराकरणं कथम् । ६६९
३१९) योग्यतावत्वोपाधेः परिहारः कथम् । ६६९
३२०) असतः कर्तृत्वकर्मत्वादिकं विद्यते न वा । ६७०
३२१) असतः कीदृशं कर्तृत्वादिकं विद्यते । ६७१
३२२) घटो ज्ञायते घटं करोति इत्यादेर् अर्थः कः । ६७०-७१

३२३) असतो ऽपरोक्षतया सत्वेन च प्रतीत्यभावः कथमुपपादितः । ६७५
३२४) असत अपरोक्षाभावे किं बाधकम् उक्तम् । ६७५
३२५) रजतगतसत्वे अपरोक्षतया सत्वप्रतीत्यभावरूपहेतौ व्यभिचारः कथम् । ६७८
३२६) रजतगतसत्वस्यापि अनिर्वचनीयत्वे अनवस्था कथम् । ६८०
३२७) पूर्वोक्तानवस्थाया दूषणत्वं कथम् । ६८२
३२८) सर्वे आरोपा एककाले कुतो न भवन्ति । ६८२
३२९) स्वमते शुक्तिरजतगत सत्वस्य सत्वम् उत असत्वं तत्र पूर्वोक्तदोषपरिहारः कथम्। ६८२-८३
३३०) स्वमते प्रवृत्तिकारणीभूतशुक्तिरजतज्ञानं कीदृशम् । ६८३-८६
३३१) विषेषणभेदेन विशिष्ट प्रत्ययभेदः कथम् उपपादनीयः । ६८५-८६
(३३२) अज्ञानस्य जीवाश्रयत्वे किं बाधकम् । ३८८
३३३) अद्वैतमतरीत्या अविद्याशब्दस्य कोऽर्थः । ६८८
३३४) ब्रह्मगतज्ञानेन आव्रियमाणं - स्वरूपम् इति कुतो न वक्तुं शक्यते । ६९१
३३५) ब्रह्मगतज्ञानेन तद्धर्मस्य आवरणांगीकारे को दोषः । ६९५
३३६) जडे अज्ञानांगीकारे कति हेतव उक्ता । ६९७
३३७) मायावादिना कुत जडेऽज्ञानं न अंगीक्रियते । ६९९
३३८) प्रमाणवैकल्यादेव तदग्रहणसिद्धेर् इत्यस्य कोऽर्थः । ६९९
३३९) अज्ञानाभावे अद्वैतशास्त्रस्य विषयप्रयोजनाभावः कथं सिद्ध्यति । ७०१
३४०) अज्ञानस्य मिथ्यात्वम् अज्ञानाद् इत्यत्र अनवस्था-अन्योन्याश्रय- आत्माश्रयत्वादिकं कथम् । ७०२-३
३४०) अद्वैतमतरीत्या अविद्यालक्षणं किम् । ७०७
३४२) अहमज्ञः मामन्यं च न जानामि इत्यनयोः को विशेषः । ७१०

३४३) अभावस्य षष्ठप्रमाणगोचरत्वं तथा फललिंगाभावानुमेयत्वं द्वेधा कुत उक्तम् । ७०८- ९
३४४) अहमज्ञ इत्यस्य ज्ञानाभावविषयकत्वं कुतो नास्ति । ७०७
३४५) अद्वैतमते सर्ववस्तुनः साक्षिविषयत्वं कथमुक्तम् । ७१२
३४६) अद्वैतमते भावरूपाज्ञानं नाम कोऽर्थः । ७१२
(३४७) भावरूपाज्ञाने साक्षी कथं प्रमाणं भवति । ७१२
३४८) आश्रयप्रतियोगिज्ञाने ज्ञानाभावस्येव इत्यत्र आश्रयग्रहणं कुतः । ७१२
३४९) चित्सुखोक्तं कीदृशं प्रत्यक्षम् अविद्यायां प्रमाणं भवति । ७१७
३५०) न किंचिदवेदिषम् इति प्रत्यक्षस्य ज्ञानाभावविषयकत्वे किं बाधकम् । ७१७
३५१) ज्ञानाभावानुमाने साङ्ग्र्यभावः लिंगमित्युक्ते तस्याप्यनुमेयत्वे
अन्योन्याश्रयता कथं भवति । ७१७

३५२) ज्ञानाभावसाधकस्मरणाभावहेतोः कुत्र व्यभिचारः । ७१७
३५३) अज्ञानविषये कति अनुमानानि उक्तानि । ७१८
३५४) विवादगोचरापन्नम् इत्यनुमाने दलकृत्यं किम् । ७१८-२१

३५५) अभावमानागम्यत्वाद् इत्यस्य कोऽर्थः । ७१८
३५६) अविद्यायां क आगमः प्रमाणम् । ७१८
३५७) विगीतं देवदत्तनिष्ठ - इत्यनुमाने दलकृत्यं किम् । ७१८
३५८) अज्ञानसिद्धौ कति अन्यथानुपपत्तय उक्ता । ७२३-२४
३५९) अनात्मनि अज्ञानं नास्ति । प्रमाणप्रयोजनयोरभावाद् इत्युक्तम् । ७२९-३०
अत्र प्रमाण प्रयोजनभाव उपपादनीयः ।
३६०) ज्ञानाभावस्य अप्रतीतिः कथमापादिता । ७३०
३६१) ज्ञानाभावे अवस्थाविशेषत्वं हेतुर् अत्र अनुमानं कथं व्याप्तिः का । ७३८

३६२) अप्रकाशितार्थप्रकाशकत्वहेतौ असिद्धिबाध दृष्टान्तसाधनवैकल्यादिकं कथम् । ७३९

३६३) स्वरूपसत्वे विषयसत्ताऽनावश्यकी - इति साक्षिचैतन्ये व्यभिचार उक्तः ।
अस्य उपपादनं कथम् । ७४५
३६४) स्वमते भावरूपाज्ञानांगीकारे शास्त्रवैयर्थ्यपरिहारः कथम् । ७४७
३६५) स्वभावाज्ञानवादस्य निर्दोषत्वान् न तद्भवेद् इत्यत्र निर्दोषत्वशब्दार्थः कतिधा उक्तः । ७४७
३६६) स्वप्रकाशात्मस्वरूपभूतधर्माणां कथम् अज्ञानविषयत्वम् । ७४९
३६७) आत्मनः स्वधर्माः संसारे कुतो न प्रतीयन्ते । ७४९
३६८) अविद्याया दुर्घटत्वे किं बाधकम् उक्तम् । ७५१
३६९) ईश्वरशक्ते दुर्घटसुघटत्वे कथमुपपादितम् । ७५२-५३
३७०) अज्ञानाभावाद् आधिकार्याद्यभावः कथम् । ७५४
३७१) मायाज्ञानयो अद्वैतमते विशेष अस्ति उत न । ७५४
३७२) अद्वैतमते साक्षाज् जीवस्य ब्रह्मताबोधक प्रमाणं किम् ।
। ७५७
३७३) तत्-त्वं पदार्थनिरूपणपराणां वाक्यानां समन्वयः कथम् । ७५७
३७४) सृष्ट्यादिकथनस्य उपयोगः कः । ७५७
३७५) प्राणाद्युपासनपराणां वाक्यानाम् उपयोगः कथमुक्तः । ७५७
३७६) तत्त्वमसीति वाक्यस्य अभेदपरत्वे प्रत्यक्षविरोधः स्ववचनविरोधश् च उपपादनीयः । ७५८
३७७) शास्त्रस्य तत्त्वमस्यादिवाक्यस्यवा जहदजहल्लक्षणया अभेदपरत्वे को दोषः । ७५८
३७८) अभेदपरत्वं नास्तीति उक्तानुमाने के । ७६१
३७९) परत्वनिर्दोषत्वयोः कुत्र व्यभिचार उक्तः । ७६१
३८०) अभेदपरवाक्ये कुत्र प्रत्येकम् उपजीव्यप्रत्यक्ष- आगमयोर् विरोध उक्तः । ७६५-६६
३८१) कुत्र उपजीव्यप्रत्यक्षागमोभयविरोध उक्तः । ७६६
३८२) उपजीव्योपजीवकन्यायस्य व्यभिचाराद् अदोष इत्युक्ते किं बाधकम् । ७६७
३८३) अद्वैतश्रुतेः सावकाशत्वं कथम् । ७६९
३८४) परमतनिराकरणं कुतः स्वमतरीत्या व्याख्यानेनैवालम् इति चेत् किमुत्तरम् । ७७३

३८५) अनादेर् बन्धस्य कथं निवृत्तिः । ७७६
३८६) विधि- अर्थवादमन्त्रात्मकः - इत्यस्य कोऽर्थः । ७७८
३८७) मीमांसारीत्या - कार्यमेव सर्वत्र वाक्यार्थ इत्यस्य अर्थः कः । ७७८
३८८) यत्प्रतिपादनेन वाक्यपर्यवसानम् इत्यत्र कोऽर्थः । ७७८
३८९) शब्दः कथम् अर्थं बोधयति - तत्र प्रमाणं किम् । ७८२
३९०) कार्यताबोधक उपयुक्ततया उक्तानि त्रीणि अनुमानानि कानि ।
। ७८२
३९१) शब्दस्य तद्व्यापारस्य प्रवर्तकत्वम् अस्ति उत न । ७८३
३९२) शंखादिशब्दश्रवणानन्तरं कथं प्रवृत्तिः । ७८५
३९३) रागद्वेषयोः प्रवर्तकत्वम् अस्ति उत न । ७८३
३९४) ज्ञानस्य प्रवर्तकत्वम् अस्ति उत न । ७८३

३९५) क्रियाव्याप्त्यत्वं कार्यत्वम् इत्युक्ते को दोषः । ७८८

३९६) भविष्यत्क्रिया कार्यमित्युक्ते किं बाधकम् । ७८९
३९७) अकर्तुमशक्यं कार्यम् इत्युक्ते का हानिः । ७९१
३९८) स्वमते कार्यता नाम किम् । ७९२
३९९) कृतिसाध्यं प्रधानं यत् तत्कार्यमभिधीयते इति लक्षणं कुतो नोक्तम् । ७९२
४०० ) कृतिसाध्यत्वस्य कार्यत्वे को दोष उक्तः । कथं तस्य समर्थनम् । ७९४
४०१) कार्यताफलसाधनत्वयो भेद अस्तीत्युक्ते किम् उत्तरम् । ७९५
४०२) इष्टसाधनताज्ञानाद् अतीतादे अतिप्रसंग ः कथं भवति । ७९८
४०३) इष्टसाधनत्वात् कार्यम् इत्यस्य कोऽर्थः । ८००
४०४) स्वमते कीदृशी कार्यता प्रवृत्तिं जनयति । ८०३
४०५) भगवान् कीदृशः कार्यः । ८०४
४०६) भगवत मुख्येष्टत्वे किं प्रमाणम् । ८०५
४०७) भगवति (वेदरूपशब्दस्य) आकांक्षासन्निधियोग्यताः कथम् उक्ताः । ८०७
४०८) सर्वगतत्वरूपसन्निधिः शब्देन भगवद्बोधने कथमुपयुक्ता भवति ।

४०९) इष्टविशेषे व्युत्पत्तिः कुत्र प्रदिर्शिता । ८११
४१०) मीमांसकोक्तरीत्या मधुकरादिशब्दव्युत्पत्तिर् अंगीक्रियते न वा । ८१२-१३
४११) मीमांसकोक्ता कार्यताव्युत्पत्तिजनिका प्रक्रिया आद्रियते उत सर्वथा निराक्रियते । ८१५ - १६
४१२) वर्तमानातीतभविष्येषु क्रमेण आकांक्षादिकम् अत न कार्यतायां व्युत्पत्तिर्
इति कथमुपपादनीयम् । ८१८
४१३) वर्तमानार्थव्युत्पत्तिर् भविष्यदाद्यर्थव्युत्पत्तौ कारणम् उत न । ८२१
४१४) ज्ञानमेव इष्टावाप्तिसाधनम् इत्यस्य अभिप्रायः कः । ८२३
४१५) प्रवृत्तेर् उपदेशः वर्तते उत न । ८२२
४१६) अत्ति हि रसवित्तये इत्यस्य अभिप्रायः कः । ८२३
४१७) परोक्षज्ञानस्य इष्टसाधनत्वं कथम् । ८२३

४१८) अनुमिते इष्टसाधनत्वं वर्तते उत न । अत्र कुतो नोक्तम् । ८२३
४१९) वेदस्य साक्षाद् इष्टत्वेन तथा इष्टसाधनत्वेन च ईश्वरबोधकत्वं कथम् प्रतिपादितम्। ८२५

४२०) यूपाहवहनीयादिवाक्यवत् सत्यज्ञानादिवाक्यानाम् ईश्वरे तात्पर्यं कथं भवति । ८२७-२८

४२१) यूपस्य खादिरत्वाभावे अपूर्वोत्पत्यभावे आपादिते - अन्योन्याश्रयता कथमुक्ता । ८३१-३२

४२२) आत्मेत्येवोपासीत इत्यत्र इति शब्देन आत्मनि तात्पर्याभावः कथं ज्ञापते । ८३३

४२३) दृष्टान्ततया उक्तस्य न वेति विभाषा इत्यस्य कोऽर्थः । ८३५-३६
४२४) वेदान्वा ब्रह्मनिष्ठा अपरो वेभागः कार्यनिष्ठ इत्यत्र दूषणं किम् । ८३७
४२५) ब्रह्मप्रतिपादकवाक्यानाम् उपासनाकार्यत्वे ब्रह्मणि च तात्पर्यांगीकारे
कल्पनागौरवमुक्तम् - अस्य परिहारः कथमुक्तः । ८४५-४७
४२६) वाक्यभेदः कदा दोष भवति । ८४८
४२७) अरुणया एकहायन्या पिंगाक्ष्या गवा सोमं क्रीणाति - इत्यत्र पाठ उत अन्यथा। ८४९
४२८) अनुवादविधानयो युगपदविरोधः कथम् । ८४९-५७
४२९ ) श्रुतेर् गौणार्थः स्वमते अंगीक्रियते उत न । ८५५
४३०) शब्दस्य अप्राणाण्यसमर्थनाय कति युक्तय उक्ताः । ८५८
४३१) शब्दस्य ज्ञानजनकत्वे किम् अनुमानम् । ८६२
४३२ ) कीदृशः शब्दः प्रमाणम् । ८६५
४३३) शब्द अप्रमाणं प्रमानुदयात् - अत्र सिद्धसाधनता - असिद्धीः कथम् । ८६५
४३४) शब्द अप्रमाणं विषयाभावात् - इत्यत्र उक्तः दोषः कः । ८६६
४३५) शब्दानुमानयोरेकजातीयतापरिहारः कथम् । ८६६
४३६) अविज्ञानात्मकत्वहेतो को दोष उक्तः । ८६७
४३७) बाह्यकरणप्रत्यक्षत्व - आत्मासमवेतत्व- आकाशगुणत्वादिहेतुषु दोषाः के ।
एतेषाम् अप्रयोजकत्वं कथम् । ८६८
४३८) शब्दस्य अर्थेन सह सम्बन्धसत्वे किं प्रमाणम् । सम्बन्धश्च कीदृशः । ८७०
४३९) शब्दस्य स्वाभाविशक्तौ सत्यां सदा प्रत्यायकत्वपरिहारः कथम् । ८७२
४४०) एकस्य शब्दस्य उभयत्र प्रयोगे का व्यवस्था । ८७२
४४१) शब्दस्य सहकारिवशाद् अर्थप्रत्यायकत्वनियमः कथम् । ८७४
४४२) शब्दस्य प्रत्यक्षस्य च को विशेष उक्तो ऽनियमे । ८७४
४४३) सङ्केत एवालम् । स्वाभाविकः सम्बन्धः मास्तु । इत्यत्र को हेतु उक्तः । ८७१
४४४) सङ्केतकरणस्य स्वाभाविकः सम्बन्धप्रतिपादकत्वं कथम् । ८७८
४४५) सङ्केतात् शाब्दबोध कथं भवति । ८७८
४४६) शब्दानां साङ्केतिकसम्बन्धंगीकारे व्याकरणस्य सार्थक्यं कथम् । ८८१
४४७) ईश्वरसंकेतस्य प्रतीतिजनकत्वे को दोषः । ८८२
४४८ ) स्वमतरीत्या शक्तिर् ज्ञाप्यते उत सङ्केतः क्रियते । ८८२

४४९) अस्मदादिसंकेतस्य कारणत्वे को दोषः । ८८२
४५०) उपदेशादिकं स्वीकृत्य शक्ति प्रत्याख्याने को दोषः । ८८३
४५१) औत्पत्तिकशक्ति सदभावे किं प्रमाणम् उक्तम् । ८८६
४५२) गवादिशब्दा साङ्केतिकाः शब्दत्वाद् इत्यत्र को दोष उक्तः । ८८६
४५३) गोशब्दः सास्नादिमत्यर्थे सङ्केतितस् तत्र त्रयुज्यमानशब्दत्वाद् इत्यत्र को दोषः। ८८६-८७

४५४) शब्दस्य यथार्थायथार्थोभमयविद्यज्ञानजनकत्वेऽपि प्रामाण्यं कथम् । ८९०
४५५) शब्दस्य अनुमानान्तर्भावः द्वयोः पक्षयोर् उक्तः । तत्कथम् । तस्य किमुत्तरम् । ८९०

४५६) वेदस्य अप्रामाण्ये अनृतव्याघातपुनरुक्तिदोषेषु दृष्टान्ता के । ८९१
४५७) वेदमात्रस्य अप्रामाण्ये साध्ये को दोष उक्तः । ८९३
४५८) वेदैकदेशाप्रामाण्येः साध्ये को दोष उक्तः । ८९३
४५९) अनृतत्वहेतोः को दोषः । ८९८
४६०) व्याघातेन अप्रामाण्यसाधने वाक्यद्वयपक्षीकारे को दोषः । ८९८
४६१) व्याघातेन अप्रामाण्यसाधने एकवाक्यपक्षीकारे को दोषः । ८९८

४६२) व्यघात आपातत उत सर्वथा इत्यत्र को दोष उक्तः । ८९८
४६३) पौनरुक्त्यहेतोः प्रामाण्यसाधकत्वं कथम् । ८९८
४६४) वेदस्य प्रामाण्यं कथम् । ९०१
४६५) वेदप्रामाण्ये प्रत्यक्षस्य तथा प्रत्यक्षानुमानयोश्च दृष्टान्तः कथमुक्तः । ९०१
४६६) ज्ञानस्य उत्पत्तौ स्वतः प्रामाण्यं नाम किम् । ९०३
४६७) करणानां स्वतः प्रामाण्यं नाम किम् । ९०३
४६८) ज्ञानस्य ज्ञप्तौ स्वतस्त्वं नाम किम् । ९०३

४६९ ) करणानां ज्ञप्तौ स्वतस्त्व कुतो नास्ति । ९०३

४७० ) करणानां ज्ञप्तौ स्वतस्त्वं नाम किम् । ९०३
४७१) उत्पत्तौ स्वतस्त्वं केन प्रमाणेन सिद्धम् । ९०९
४७२) प्रमा ज्ञानहेत्वरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वाद् अप्रमावद् इति
सत्प्रतिपक्षानुमाननिराकरणं कथम् । ९०९
४७३) प्रमात्वपक्षीकारे को दोषः । ९१२
४७४) ज्ञप्तौ स्वतस्त्वं केन प्रमाणेन सिद्धम् । ९१५
४७५) प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वाद् अत्र को दोष उक्तः । ९१५
४७६) शरीराजन्यहेतौ व्यर्थविशेषणत्वं भवति उत न । ९१५
४७७) अनभ्यासदशायाम् इत्यस्य प्रतिज्ञाविशेषणत्वे को दोषः । ९१५
४७८) ज्ञप्तौ स्वतस्त्वानंगीकारे किं बाधकम् । ९१८
४७९) स्वतः प्रामाण्यांगीकारपक्षे अनवस्थापरिहारः कथम् । ९१८
४८०) बौद्धादिवाक्यजनितज्ञानस्य प्रामाण्य परिहारः कथम् । ९२२

४८१) प्रमाणकरणैर् इन्द्रियादिभिः प्रामाण्यमेव उत्पद्यते उत अप्रमाण्यमपि । ९२३
४८२) दोषाभावः प्रामाणस्य कारणम् उत न । ९२३
४८३) साक्षी नियमेन ज्ञानस्य प्रामाण्यं गृह्णाति उत न । ९२३
४८४) बौद्धादिवाक्यजनितज्ञानस्य अप्रामाण्यं कथम् । ९२६
४८५) वेदे मिथ्याज्ञानादिमूलकत्वं कुतो न भवति । ९२७
४८६) वेदे गुणजन्यं प्रामाण्यं कुतो नास्तिभवति । ९२७

४८७) वेदस्य नित्यत्वे किं प्रमाणम् । ९२७
४८८) वेदस्य नित्यता नाम का । ९२७
४८९) वेदो नामः कः । ९२९
४९०) वेदस्य अपौरुषेयत्वं नाम किम् । ९२
४९१) अपौरुषेयवाक्यानंगीकारे को दोष उक्तः । ९३०
४९२) धर्मादिविषये प्रत्यक्षं कथं न प्रमाणं भवति । ९३२
४९३) धर्मादिविषये अनुमानं कुतो नास्ति । ९३२
४९४) धर्मादिविषये पौरुषेयागमः कुतो न प्रमाणं भवति । ९३२
४९५) अपौरुषेयवाक्यं केन प्रमाणेन सिद्धमित्युक्तम् । ९३२
४९६) बुद्धर्षभादिवाक्येन धर्मादिसिद्धिः कथमुक्ता । ९३४
४९७) बुद्धर्षभादिषु आप्तत्वं प्रत्यक्षेण कथं न सिद्धमित्युक्तम् । ९३५
४९८) बुद्धादिवाक्येन धर्मादिसिद्धौ गौरवकल्पना कथमुक्ता । ९३५
४९९) प्रेक्षावतां सर्वत्र प्रवृत्तिः प्रामाण्यं निश्चित्यैव भवति उत न । ९३५
५००) बौद्धादिरीत्या धर्मादिसिद्धिस् तथा बौद्धादीनां करणपाटवदिकं कथमुक्तम् । ९३७
५०१) सामान्यतः धर्मादिद्रष्टृसाधकानुमानं किम् । ९३७
५०२) धर्मादिद्रष्ट्रसाधकपरिशेषानुमानं किम् । ९३८
५०३) पूर्वोक्त परिशेषानुमानस्य प्रतिपक्षानुमानं किम् । ९३८
५०४ ) धर्मादिः कस्यचित् प्रत्यक्षः वस्तुत्वाद् इत्यनुमानस्य अदुष्टता कथम् । ९३९
५०५ ) धर्मादिद्रष्टृत्वं बुद्धनिष्ठम् इति परिशेषानुमानस्य दौषौ कौ उक्तौ । ९३९
५०६) सामान्यानुमाने प्रत्यक्षसामग्रीसद्भावः कथमुपाधिः । ९४०
५०७ ) उपाधौ व्यतिरेकव्याप्ते आवश्यकता अस्ति उत न । ९४०
५०८ ) अपौरुषेयवाक्यं केन प्रमाणेन सिद्धम् । ९४२
५०९) वेद अपौरुषेय इति केन प्रमाणेन सिद्धम् । ९४२
५१०) वेदस्य पौरुषेयत्वे कति अनुमानानि उक्तानि । कानि तानि । ९४४
५१२) वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवान् इत्यत्र दलकृत्यं कथम् । ९४४
५११) कालपक्षकविशिष्टव्यतिरेकि - अनुमानस्य दृष्टान्ते पक्षे च समन्वयः कथम् । ९४५
५१३) आकाशपक्षक विशिष्टव्यतिरेकि - अनुमानं किम् । ९४४
५१४) पूर्वोक्तानुमाने दृष्टान्ते पक्षे च समन्वयः कथम् । ९४४
५१५) वेदव्यतिरिक्ताकाशनिष्ठत्वरहितपौरुषेयवान् इत्यत्र दलकृत्यं कथम् I ९४५
५१६) श्रोत्रपक्षकविशिष्टव्यतिरेकि - अनुमानं किम् । ९४४
५१७) पूर्वोक्तानुमानस्य दृष्टान्ते पक्षे च समन्वयः कथम् । ९४४
५१८) वेदव्यतिरिक्तश्रोत्रग्राह्यत्वरहितपौरुषेयग्राहकम् इत्यत्र दलकृत्यं कथम् । ९४४

५१९) वेदस्य पौरुषेयत्वे क आगम उदाहृतः । ९४४
५२० ) पूर्वोक्तानुमानेषु को दोष उक्तः । ९४७
५२१) ईश्वरे आप्तत्वसाधकानुमानद्वयं किम् । तत्र को दोष उक्तः । ९४७
५२२) ईश्वरे प्रमावत्वमात्रसाधने को दोषः । ९४७
५२३) ईश्वरे अप्रमावत्वव्युदाससाधने को दोषः । ९४७
५२४) ईश्वरत्वस्यैव हेतुत्वे को दोष उक्तः । ९४७
५२५) यथार्थचिख्यापयिषानियतिसाधने को दोषः । ९४७
५२६) अशरीरत्वहेतुना सत्प्रतिक्षता कथम् । ९४७
५२७) वेद ईश्वरप्रणीत वेदत्वाद् इत्यत्र सप्रतिपक्षानुमानं किम् । ९४७
५२८ ) पूर्वोक्तानुमाने असाधारण्यं भागासिद्धिश्च कथमुक्ता । ९४७
५२९) अतीन्द्रियविषयवाक्यत्वे को दोषः । ९४७
५३०) वाक्यत्वमात्रहेतौ को दोषः । ९४७
५३१) ईश्वरोक्त वेदस्य अनादिता कथमुक्ता । ९४७
५३२) पुराणादीनाम् अपौरुषेयतापरिहारः कथम् । ९४७
५३३) पुराणादीनां पुनारचने किं प्रमाणम् इत्यस्य किमुत्तरम् । ९४७
५३४) विशिष्टव्यतिरेक्यनुमानानां सत्प्रतिपक्षता कथमुक्ता । ९४७
५३५) कालपक्षकानुमाने कालशब्दार्थः कः । तत्र को दोषः । ९४९
५३६) आकाशनिष्ठत्वम् आकाशसमवेतत्वम् इत्युक्ते को दोषः । ९४९
५३७) आकाशनिष्ठत्वं तद्वत्वं च समवाय इत्युक्ते दोषौ कौ उक्तौ । ९४९
५३८) वर्णानां द्रव्यत्वम् उत गुणत्वम् । ९४९
५३९) ऋग्वेद एवग्नेरजायत इति श्रुतेः सत्प्रतिपक्षता कथम् । ९४९
५४० ) पूर्वोक्तश्रुत्योः सावकाशता कथमुक्ता । ९४९
५४१) वेदः कूटस्थनित्य उत न । ९५२
५४२) तत्वनिर्णये वर्णानां नित्यत्वं कुत समर्थितम् । ९५२
५४३) असंस्कृतवेदस्य बोधकत्वे को दोषः । ९५२
५४४) संस्कृतवेदस्य बोधकत्वे को दोषः । ९५२
५४५) संस्कृतवेदस्य बोधकत्वे कथं दोषपरिहारः । ९५२
५४६) असंस्कृतवेदस्य बोधकत्वे दोषपरिहारः कथम् । ९५२
५४७) धर्मादि अनंगीकारे को दोषः । ९५४

५४८) धर्माभावस्य अवगत्यर्थं शब्दस्य प्रामाण्यम् अंगीकरणीयम् । ९५५
५४९) धर्माद्यभावस्य प्रत्यक्षता कुतो न भवति । ९५५
५५०) कीदृशसंशयपरिहाराय अपौरुषेयवाक्यम् अंगीकरणीयमित्युक्तम् । ९५५

५५१) पदार्थे वेदः कुतो न प्रमाणम् । ९५७
५५२) ज्ञातज्ञापकत्वे वेदस्य अप्रामाण्यं भवति उत न । तत्र को दोष उक्तः ९५७

५५३) वाक्यार्थे वेदः कुतो प्रमाणं न भवति । ९५७
५५४) शब्दानां शक्त्यवधारणं कथं भवति । ९६१
५५५) व्यवहारः कुत्र भवति । ९६१
५५६) योग्येतरान्विते शक्तिः कथम् उक्ता । ९६१
५५७) वाक्यार्थो नाम कः । ९६१
५५८) पदानाम् इत्यनुक्त्वा शब्दानाम् इति कुत उक्तम् । ९६२
५५९) एकस्य पदस्यैव अन्विताभिधायित्वम् अन्येषां तत्प्रतियोगिसन्निधापकत्वम्
इत्यत्र तदेकं पदं प्रथमम् इत्युक्ते को दोषः । ९६२
५६०) तत् पूर्वोक्तं पदं प्रधानम् इत्यत्र प्राधान्यं द्वेधा उक्तं तत्किम् ।
तस्य निराकरणं कथं कृतम् । ९६२-६३
५६१) अन्विते इति सामान्यपदप्रयोगः कुतः । ९६३
५६२) अन्विताभिध्याने पूर्वपदवैयर्थ्यमुक्त्वा तस्य निराकरणं कथं कृतम् । ९६४
५६३) अन्विताभिधानवादे अन्योन्याश्रयता कथमुक्ता । ९६५
५६४) अन्योन्याश्रयतापरिहारस् तत्र दोषश्च कथमुक्तः । ९६५
५६५) विशेषान्वितवादरीत्या पदान्तरवैयर्थस्य अन्योन्याश्रयतायाश्च कथं परिहारः । ९६६
५६६) पदानाम् अनन्वितस्यार्थबोधकत्वं नास्तीति कथमुक्तम् । ९६६
५६७) वाक्यार्थेः परिनिष्ठितत्वं कुतो न भवति । ९६६
५६८) अभ्यासातिशयस्वार्थे पदानां स्वार्थामात्रबोधकत्वम् अंगीकृत्य पूर्वोक्तान्योन्याश्रयतादि
परिहारः कथस् तस्य सिद्धम् । ९६६
५६९) सामान्यान्विताभिधानवादे अन्योन्याश्रतापरिहारः कथम् । ९७०
५७० ) पदान्तरवैयर्थ्यपरिहारः कथम् । ९७०
५७१) सामान्यान्वितभिधानवादे विशेषान्वयप्रतिपत्तिः कथम् । ९७०
५७२) सामान्यभिन्ना विशेषशक्ति अंगीक्रियते उत न । ९७०
५७३) अन्विताभिधानवादे पुनरुक्ति परिहारः कथम् । ९७०
५७४) आर्थिकी पुनरुक्तिर् भवति उत न । सा दोष उत न । ९७०
५७५) वाक्यरूपस्य स्फोटस्य अर्थप्रत्यायकत्वे को दोष उक्तः । ९७४

५७६) परमते वाक्यस्फोट एव अंगीकृत उत अन्यस्फोटा अपि अंगीकृताः । ९७४-५
५७७ ) खण्डवाक्यस्फोट कुत नोक्तः । ९७५

५७८ ) वर्णानां प्रत्येकम् अर्थप्रत्ययजनकत्वं कुतो नास्तीत्युक्तम् । ९७५
५७९ ) वर्णानां समुदायः कुतो न सम्भवति । ९७५
५८०) अप्रतीयमानानां वर्णानां प्रत्यायकत्वे को दोषः । ९७५
५८१) स्मृत्युपारूढानां वर्णानाम् अर्थप्रतीतिहेतुत्वं कुतो नास्ति । ९७५

५८२ ) वर्णानां क्रमो कुतो न भवति । ९७५-७६
५८३) वर्णनां बुद्धिक्रमः कुतो न भवति । ९७६
५८४) वर्णानां क्रमस्यैव अभावे को दोषः । ९७६
५८५) स्फोटे किं प्रमाणम् उक्तम् । ९७६
५८६) अर्थापत्तिप्रतीतस्य स्फोटस्य प्रत्यायकत्वे को दोषः । ९७८
५८७) एकं पदम् एकं वाक्यम् इति प्रत्यक्षं स्फोटे प्रमाणं कुतो न भवति । ९७८
५८८) पूर्ववर्णाभिव्यक्तस्य शब्दतत्त्वस्य उत्तरवर्णे वैशद्यं जनयति कुतो न वक्तव्यम् । ९७८
५८९) एकार्थप्रत्यायकत्वाद् एकत्वप्रत्यये अन्योन्याश्रयतापरिहारः कथम् । ९७८
५९०) स्मर्यमाणा वर्णमाला वाक्यार्थबोधजननी इत्युक्ते गौरवं कथम् । ९८३
५९१) वर्णानां स्मरणं कुतो न भवति इत्युक्तम् । ९८३

५९२) वाक्यान्त्यवर्णं वाक्यार्थस्य प्रतिपादकम् इत्युक्ते को दोषः । ९८४
५९३) वाक्यार्थस्य अनुमानत्वे को दोषः । ९८५
५९४) अभिहितान्वयवादो नाम किम् । ९८७
५९५) पश्यतः श्वेतमारूपम् इत्युक्तरीत्या पदार्थानाम् अन्वयबोधकत्वं कुतो न युज्यते । ९८७

५९६ ) पदार्थानां बोधकत्वे अनुमानरूपत्वं कथम् । अर्थापत्तिश्च कथमुक्ता । ९८७
५९७) पदार्थानां बोधकत्वे शक्तिद्वयकल्पना कथम् । ९८७
५९८ ) अन्विताभिधानवादे पदार्थे अन्वये च शक्त्यंगीकारे कल्पनागौरवपरिहारः कथम् ।९९०

५९९) अन्विताभिधानवादे शक्तित्रयकल्पना कथमापादिता । तस्याः परिहारः कथम् । ९९१
६०० ) अन्वयव्यतिरेकाभ्यां पदस्मारितपदार्थानां वाक्यार्थ प्रत्यायत्वं कथमुक्तम । ९९१
६०१ ) स्वमते वाक्यार्थबोधार्थं पदार्थस्मृति अंगीकृता उत न । ९९१
६०२) एकैकपदश्रवणे पदार्थस्मृति अस्ति इत्युक्ते किमुत्तरमुगक्तम् । ९३१
६०३) पदार्थबोध्यत्वे अशाब्दत्वं कथमुक्तम् । ९९१

६०४) पदानामेव पदार्थप्रतिपादनद्वारा अन्वयबोधकत्वे को दोषः । ९९२
६०५) पदार्थे अन्वये च शक्त्यंगीकारे को दोष उक्तः । ९९३
६०६) अन्वयस्य लक्ष्यत्वे को दोषः ।९९४

६०७) परमते अथशब्दस्य सत्वाद् अतः शब्दस्यवैय्यर्थं कथमुक्तम् । ९९७
६०८ ) स्वमतरीत्या अथशब्दातः शब्दयोः पौनरुक्त्यपरिहारः कथम् । ९९७
६०९) अथात इति पदम् एकमेव इति कुतो वदन्ति । तत् कुतो न युक्तम् । ९९७

६१०) वेदप्रामाण्यादिकं पूर्वमीमांसायाम् उक्तं पुनः कुत अत्र उक्तम् । ९९७
६११) अतः शब्दार्थस्य पूर्वप्रकृतत्वस्य समर्थनं कथम् । १००१
६१२) चतुर्दशविद्यास्थानानि कानि । १००३
६१३) सर्वथा विद्यानं विषयसम्बन्धाभावे को दोष उक्तः । १००३
६१४) प्रमाणन्यायसच्छिक्षाशब्दस्य कति अर्था उक्ताः । १००५
६१५) ब्रह्मतर्कस्य नारायणवेदव्यासरूपाभ्या कृतत्वं कथम् । १००७
६१६) विस्तराद् इति शब्दप्रयोगः कथम् । १००८
६१७) अत इति संक्षेपादुक्तौ किं कारणम् उक्तम् । १०११-१७
६१८) ब्रह्मशब्दस्य विष्णुपरत्वे को हेतु उक्तः । १०१५
६१९) अथातो इति सूत्रात् पूर्वं विष्णोः प्रसक्तिः कथमुक्ता । १०१६
६२०) शेषपैलाभ्यां किं सूत्रं कृतम् । १०१६
६२१) ब्रह्मशब्दस्यविष्णुपरत्वे मन्दान् को हेतुर् उक्तः । १०१७
६२२) नारायणरूपसिद्धिः कथम् । १०१८
६२३) ब्रह्मशब्दस्य विष्णुपरत्वे का श्रुतिर् उक्ता । १०२६
६२४) तदेव ब्रह्म परमम् इत्यत्र ब्रह्मपदेन नारायण एव कुतो ग्राह्यः । १०२७
६२५) स्वयं श्रिया इत्यत्र स्वयंशब्दप्रयोगः कुतः । १०२८
६२६ ) अम्भृणीशब्दस्य लक्ष्मीवाचकत्वं कथमुक्तम् । १०२८
६२७) ब्रह्मशब्देन विष्णुः प्रकृत इत्यत्र सर्वदेवाश्रयत्वसाधिका श्रुतिः का उक्ता । १०२८
६२८) समुद्रस्थानत्वलिंगेन विष्णुपरामर्शः कया श्रुत्या उक्तः । १०२९
६२९) अक्षरशब्दवाच्यत्वलिंगप्रतिपादिका श्रुतिः का । १०३०
६३०) प्रकृतिकारणत्वलिंगप्रतिपादिका श्रुतिः का । १०३०
६३१) ब्रह्मशब्दस्य जात्यार्थनिराकरणं जन्माद्यस्य इति सूत्रेण भवति इति यदुक्तं
तन्निराकरणं कथम् । १०३१
६३२) जीवाभेदात् प्रसिद्धब्रह्मण एव देहात्मत्वादिविप्रतिपत्या जिज्ञास्यता इति
कुतो न युक्ता । १०३२
६३३) शास्त्रस्य आरम्भणीयत्वं कथमुक्तम् । १०३२
॥ इति जिज्ञासाधिकरणम् ॥