११ अन्तिमप्राणाधिकरणम्

ॐ प्राणस्तथाऽनुगमात् ॐ

अथ अन्तिमप्राणाधिकरणम्

ॐ प्राणस्तथाऽनुगमात् ॐ

तस्य तदप्रत्यायकत्वादित्यत्र वक्तृपदस्य इन्द्राप्रतिपादकत्वादित्यर्थः । विशिष्टशस्त्रशंसितुरित्यत्र स्वप्रियेत्यपि ग्राह्यम् । शंसितुरित्यनेन वक्तुरित्यस्यार्थकथनम् । बह्वर्थमिति वक्ष्यमाणमित्यत्र बह्वर्थमपीत्यत्रैव विद्यमानं बह्वर्थपदम् एवमर्थत्वमिति परामृष्टं बह्वर्थं सूत्रजातमिति प्रतिज्ञारूपतया पृथक्कृत्य योजनीयमित्यर्थः । बृहत्तन्त्रप्रमाणेन बह्वर्थमपि बह्वर्थतया सिद्धमपि सङ्ग्रहादुच्यत इति योजनाऽपि द्रष्टव्या ॥ १-१-१२ ॥

इति श्रीमद्वादिराजपूज्यचरणविरचितन्यायसुधाटिप्पण्यां प्रथमाध्यायस्य प्रथमः पादः ॥