१० गायत्र्यधिकरणम्

ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ

अथ गायत्र्यधिकरणम्

ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ

गायत्र्याः प्राधान्येनेत्यत्र गायत्रीछन्दोनिबद्धत्वेन गायत्रीशब्दवाच्यायाः ‘‘तत्सवितु’’रित्यादि-रूपाया ऋच इत्यर्थः । छन्दोविशेषे प्रसिद्धत्वादित्यत्र छन्दोविशेषे वेदात्मकमन्त्रविशेषे इत्यर्थः । उक्तं चात्र प्रमाणमित्युपलक्षणम् । कर्तुमकर्तुमन्यथाकर्तुं समर्थस्येश्वरस्य नित्यमनित्ययितुं स्वभाव-मस्वभावयितुं समर्थत्वेऽपि सत्यसङ्कल्पतया तदकरणादेव तत्तदधिकरणादावेव नित्यत्वादिकमस्ति । अन्यथा तदपि न स्यादित्युपपत्तेरेव ‘तादृशत्वाच्च तच्छक्ते’रिति भाष्य एव स्पष्टमुक्तत्वादित्यपि द्रष्टव्यम् । इत्याद्येकमेवाधिकरणमाचक्षत इत्यतः परं ‘‘अथ यदतः परो दिवो ज्योतिर्दीप्यत’’ इत्येक-मेव विषयवाक्यमिति वदन्ति चेति ग्राह्यम् । न स्यादित्यादिना या परस्य सूत्रद्वयपौनरुक्तयपरिहाराशा साऽपि विचार्यमाणे न स्यादित्यावृत्त्या योजने स्ववाक्यं स्वस्यैव घातकम् । एवमपि हि पूर्वप्रकरणे ‘चरणाभिधाना’’दित्युपलक्षणम् । तस्मिन्नेव प्रकरणे दिवीति द्युसम्बन्धस्याभिधानात्तस्यैव द्युसम्बन्धस्य तूत्तरप्रकरणे ‘परो दिव’ इत्यनुसन्धीयमानत्वात्तत्रोक्तं ज्योतिर्ब्रह्मेति सूत्रार्थ उदितः स्यात् । अतो ‘‘भूतादिपादव्यपदेशोपपत्तेश्चैव’’मिति सूत्रस्याप्यपौनरुक्तयै कः परिहार उक्तः स्यात् । भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमिति च रिक्तं वचः । ‘‘चरणाभिधाना’’दिति साक्षादुक्तेन हेतुना ब्रह्मत्वोपपादनस्यापि तत्रैव कर्तुं शक्यत्वाच्चरणाभिधानादितिवद्भूतादिपाद-व्यपदेशोपपत्तेश्चैवमित्यत्रापि पञ्चम्यन्तपदेन श्रुतहेतुतापरित्यागेनोपपादकत्वाङ्गीकारे श्रुतहानिरश्रुत-कल्पनं च स्यात् । उच्यत इति समाधानं तु अभ्युपगमवादः । श्रुतहानाश्रुतकल्पने श्रौतचरणाभि-धानाख्यहेतोर् हानेनाश्रुतानुसन्धानाख्यहेतोः कल्पनेन श्रुतहानाश्रुतकल्पने स्यातामित्यर्थः ॥१-१-११॥