०९ प्राणाधिकरणम्

ॐ अत एव प्राणः ॐ

अथ प्राणाधिकरणम्

ॐ अत एव प्राणः ॐ

ननु लक्ष्मीपतित्वाख्यनिरवकाशलिङ्गेन पूर्वाधिकरणवत्समस्तशङ्कापरिहारसम्भवात्किमधि-करणान्तरारम्भेणेति चेत्पुरुषसूक्तगतस्यास्य लिङ्गस्य स्थानान्तरगतत्वात्तत्रैवान्वयं मन्वानस्य पुनः शङ्कायां भिन्नप्रकरणत्वेऽपि समीपस्थत्वाद्देहलीदीपन्यायेनोभयत्राप्यन्वेतीति युक्तिमतिदेशेन सूचयितु-मधिकरणान्तरारम्भसम्भवादप्युक्तं भाष्यकृता ‘‘अतिदेशो हि तादृश’’ इति ॥ १-१-९,१० ॥