ॐ आकाशस्तल्लिङ्गात् ॐ
अथ आकाशाधिकरणम्
ॐ आकाशस्तल्लिङ्गात् ॐ
क्वचित्कदाचिदप्यभावाभावादित्यत्र क्वचिद्देशे कस्मिंश्च काले चावकाशत्वाभावाभावादाकाशे दृश्यमानमवकाशत्वं निरवधिकमित्यर्थः । न चाकाशशब्दस्य ईश्वर इत्यत्र आ समन्तात्काशो ऽवकाश रूप इति वा आ समन्तात् काश अवकाशो यस्मादिति वा योगः । पृथक्तद्वत्वं चेत्यत्र गमनागमना-दावाकाशवद्य्वाप्तेन हरिणाऽपि कुड्यवन्निरोधमकृत्वा स्वात्मनि पृथगवकाशदानादा समन्तात् काश अवकाशो यस्मादिति योगस्यापि सम्भवादित्यर्थः । उपपत्तिं तु वक्ष्याम इत्यत्र स्वभावस्यान्याधीनत्वं कथमिति शङ्कापरिहारायोपपत्तिं नित्यगायत्र्या भगवदधीनत्वप्रतिपादनसमये वक्ष्याम इत्यर्थः॥१.१.८॥