ॐ अन्तस्तद्धर्मोपदेशात् ॐ
अथ अन्तस्थत्वाधिकरणम्
ॐ अन्तस्तद्धर्मोपदेशात् ॐ
साकाङ्क्षं चेद्विभागे स्यादित्यत्र साकाङ्क्षं भिन्नभिन्नार्थाकाङ्क्षासहितं चेद्विभागे स्याद् वाक्यमपि भिन्नभिन्नं भवेदित्यर्थः । तत्तदधिकरणगतभेदवाक्यप्रदर्शनाय तत्र तत्र भेदसूत्राणि, अतो न पौनरुक्तयमिति प्रागुक्तम् । इन्देण भिन्नता, वायुना भिन्नतेत्यादिरूपेण विशिष्य भेदसमर्थ-नात्तैरेवाभेदसमर्थनाच्च न पौनरुक्तयमिति । अनुपहितधर्माणामुपहिते सम्भवादित्यत्र अनुपहित-धर्माणामुपाध्यनवच्छिन्नशुद्धब्रह्मधर्माणामुपहिते उपाधिसंवलिते चैतन्ये सम्भवादित्यर्थः । इन्द्रं मित्रं वरुणमग्निमाहुरित्यादिनेति ‘‘इन्द्रं मित्रं वरुणमग्निमाहुरथोदिव्यस्स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहु’’रिति वामनसूक्तस्थायाः श्रुतेरयमर्थः । इन्द्रादिशब्दानां विप्रा एकं मुख्यं सद् अभिधेयं सद्वामननामकं विष्णुस्वरूपम् अर्थमाहुरिति द्विप्रयोगेन वदन्तीत्युक्तया अभ्यासेन विद्वद्रूढेस्सताप्तर्यं कथना‘‘द्यो देवानां नामधे’’त्यत्रोक्ताऽपि रूढिर्विष्णुविषयैवेति गम्यते । तस्याश्च रूढेः ‘‘इदि परमैश्वर्य’’ इति धातोः परमैश्वर्यवानिन्द्रः, मिनोति त्रायते चेति मित्रः, वरयत्यङ्गीकरोति भक्तानिति वबयोरभेदाद्वेन बलेन रुणद्धि दैत्यानिति वा वरुणः, अङ्गानि नयतीत्यग्निः, सुपूर्णत्वात् प्रलयकाले शोभनलक्ष्म्यात्मकवटपर्णवत्त्वाद्वा सुपर्णः, हयग्रीवमूर्त्या सकलवेदोद्गिरणवत्वाद्गरुत्मान्, अगं गिरिं नयतीत्यग्निः, यमयति संहरतीति यमः, मातरि ब्रह्मस्वरूपप्रमापयित्र्यां वेदाख्यमातरि श्वा अवगतिर्यस्य स मातरिश्वेति योगस्य न्यायप्राप्तत्वा‘‘त्सा योगादेव लभ्यत’’ इत्युक्तं भाष्यकृतेत्यनु-सन्धेयम् । ‘‘इति कृत्वा हृदि प्रभुरि’’ति वचनाद्गुणिसामान्यवाचिनां गुणवाचिनां च साक्षात् समन्वय निरूपणम् । अशेषशब्दसमन्वयस्तु हार्दः न तु वाचनिको ऽतो गूढाभिसन्धिमजानतां लौकिक
पुरस्कारेणोत्तराधिकरणेष्वपि क्वचित् क्वचित् पूर्वपक्षोत्थानं भाष्योक्तमपि नासम्भावितम् । अभ्यधिका शङ्कानिरूपणं तु प्रौढजनमनोरञ्जनायेति विवेको द्रष्टव्यः । निमित्तान्तरमिति भावेनाह तैरेवेति ॥१.१.७॥