०६ आनन्दमयाधिकरणम्

ॐ आनन्दमयोऽभ्यासात् ॐ

अथ आनन्दमयाधिकरणम्

ॐ आनन्दमयोऽभ्यासात् ॐ

स्वादिष्वसर्वनामस्थान इत्यत्र ‘‘सुडनपुंसकस्ये’’ति सूत्रात्सुड्प्रत्याहारेण संगृहीतानां प्रथमैक-वचनमारभ्य द्वितीयाद्विवचनपर्यन्तानां सर्वनामसंज्ञा । द्वितीयाबहुवचनमारभ्योपरितनविभक्तीनाम-सर्वनामसंज्ञा । तेषु ‘‘परतः स्थानित्व’’मिति वैय्याकरणानां प्रक्रिया । तेषु परतः पूर्वं पदसंज्ञं स्यादिति सूत्रार्थः । ततश्च इत्यादीतिपदान्त एवावच्छेदान्न यतिभङ्ग इति भावः ॥ अभ्युदयार्थानीत्यत्र ऐश्वर्याद्य-र्थानीत्यर्थः । अद्वितीयत्वेनेत्यत्र समाभ्यधिकराहित्येनेत्यर्थः । सर्वात्मकत्वेनेत्यत्र सर्वान्तर्या-मित्वेनेत्यर्थः, ‘‘अत सातत्यगमन’’ इति धातुः । पराभिमतैक्यवाक्यानां गतिसूचनायेदमुदितम् । पराक्रान्तमिति प्रक्रान्तमित्यर्थः । नशतक्रत्वादिशब्देभ्य इवेत्यत्र कोशेषु प्रयुज्यमाना अपि अन्नमयादि-शब्दा अन्नविकारत्वादिगुणयोगादेव पाचकयाचकादिशब्दवद्गुणिसामान्यवाचित्वेन प्रयुज्यन्ते न तु रूढ्या । लिङ्गानुशासनादावदर्शनात्प्रस्तारितबह्वन्ने पाकस्थानेऽप्यन्नमयशब्दप्रयोगदर्शनाच्चेति भावः । यथायथा वाक्येषु ब्रह्मशब्दस्वरूपमस्ति तथैव विषयत्वेनेत्यर्थलाभेन तत्रतत्र सकृत्सकृद्ब्रह्मशब्द-श्रवणादिति भावेनाह अन्नमयादीति । यद्यप्यानन्दमये ब्रह्मशब्दाभ्यासोऽप्यस्ति तथापि असाधारणैक-ब्रह्मशब्दमात्रेणेह भगवद्विषयत्वसिद्धेस्तत्रापि ब्रह्मशब्दश्रवणमेव हेतुर् विशिष्टस्य हेतुत्वे व्यर्थविशेषणा-सिद्धेस् तात्पर्यावधारणायैव हि द्विर्ग्रहणम् । तच्च ब्रह्मशब्दश्रवणे एकप्रकरणत्वात्सर्वत्रापि तात्पयार्-वधारकमिति श्रुतिसूत्रयोर्हृदयम् । श्रुत्या अर्थाद्वेत्यत्र श्रुत्या समानश्रुत्येत्यर्थः । यदधिकरणान्तर-मारभ्यत इत्यत्र ‘‘अत एव प्राणः’’ इत्याद्यधिकरणान्तरमित्यर्थः । तृतीयेऽप्येतदेवोत्तरमित्यत्र भगवति अवयवावयविनोर्भेद एव न । किं त्वभेद एवेति बहिरेवोत्तरं दातव्यम् । तर्ह्यवयवावयविभावः कथमिति शङ्कायामेतदेवोत्तरमित्यादि योजनीयम् । यस्मादित्यत्र ब्रह्माधिपतिशब्दस्यान्तोदात्तत्वेन ‘अनुदात्तं पदमेकवर्ज्यम्’ बहुव्रीह्यतिरिक्तसमासे यस्य समासस्य अन्त उदात्तः स्यात्तदेकं पदं वर्जयित्वा अन्यत्पदमनुदात्तं स्यात् । संहितायामुक्तस्यापि पदकालेऽनुदात्तत्वदर्शनाद्युक्तमेतत्सूत्रविषयत्वं वेदेऽपि । यथेन्द्रशत्रुः स्वरतोऽपराधादित्यत्र यद्यपीन्द्रगुरोर्विश्वरूपाचार्यस्याधिसभं सहजस्वरं विहाय स्वरान्तर-ग्रहणायोगान्न श्रौतस्वरस्य व्यत्यासस्सम्भवति । तथाऽपि महाव्याकरणन्यायमिममननुसन्दधानस्य तस्य बहुव्रीहित्वप्रापकपूर्वपदान्तस्वरितेऽप्यस्मिन्निन्द्रशत्रुप्रादिपदिके स्वानुकूलस्वरत्वभ्रमोऽस्ति । इदमेव स्वरतो हीनत्वं नाम । अत एव ‘‘मिथ्याप्रयुक्तो वृथा प्रयुक्तो न तमर्थमाहे’’ति ‘स्वरतोऽ-पराधादिति’ चोक्तम् । न तु स्वरव्यत्यासकरणादिति । न ह्याचार्यकृतेयं मीमांसा प्रागाचार्य-प्रवृत्तेस्तस्यापि सिद्धा । अतो वैदिकगुरोरपि तस्योक्तविधस्वरापराधोऽपि स्यादेवेति द्रष्टव्यम् । ‘‘प्रजापते न त्वदेतान्यन्य’’ इति श्रुतौ व्यभिचारपरिहाराय सूत्रे पुंसोरिति विशेषणम् । तस्यार्थः पुल्लिङ्गयोः समस्यमानयोरिति । अत्र केचिदिति अत्र पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमिति सूत्रोक्तन्याये क्वचित् ‘‘इन्द्राग्नी एह गच्छता’’मित्यादौ व्यभिचारं चोदयन्तीत्यर्थः । इन्द्राग्नी इति द्वन्द्वसमासे संहितायां स्वरितान्तेन्द्रपदस्य पदकालेऽनुदात्तस्वरान्तत्वेन प्रकृतिस्वरत्वाभावान्न व्यभिचार इति भावेनाह तथा च कुतो व्यभिचार इति ।

सन्देहं व्युत्पाद्येत्यत्र अनड्वाहीम् अनडुहः सम्बन्धिनीं स्थूला च सा पृषती च स्थूलपृषती तामिति वा । स्थूला पृषती यस्याः सा स्थूलपृषती ताम् अनड्वाहीम् अनडुहः पत्नीं गामिति वा सन्देहं व्युत्पाद्येत्यर्थः । पृषती पृष्ठभाग इत्यर्थः । स्वरितादिपदानां स्वरितस्वर उदात्तस्वर इत्यादौ विशेषणतया विशेष्यभूतस्वरपदाभावे साकांक्षत्वेनासमर्थत्वा‘‘त्समर्थः पदविधि’’रिति सूत्रविहितसमासः कथमिति शङ्कते ननु पूर्वान्तस्वरित इति । ननु तैत्तिरीयश्रुतौ ब्रह्माधिपतिपदस्य पूर्वान्तोदात्तत्वेन वैदिकैः पठ्यमानत्वात्कथं पूर्वान्तस्वरितत्वमित्यतस्तापनीयश्रुतावित्युक्तमाचार्यैः । एकत्र स्वरितस्वरत्वेन बहुव्रीहित्वे निर्णीते ‘‘एकत्र निर्णीतः शास्त्रार्थोऽपरत्रा’’पीति न्यायेनात्रापि बहुव्रीहित्वनिर्णय इति भावः । यद्वा ब्रह्माधिपतिशब्दे हि ब्रह्माऽधिपतिर्यस्येति वा ब्रह्मणो ऽधिपतिरिति वा ब्रह्मा चासावधिपतिरिति वा समासत्रयं सम्भवति । तत्र तैत्तिरीयश्रुतौ ब्रह्मणोऽधिपतिरित्युत्तरवाक्येन ‘‘ब्रह्मा शिवो मे अस्त्वि’’ति तदुत्तरवाक्येन च समासद्वयार्थस्य श्रुत्यैव प्रदर्शितत्वात्ताभ्यां वाक्याभ्यां गतार्थतापरिहारायायं पूर्ववाक्ये उर्वरितबहुव्रीहिसमास इत्येव निर्णेतुं शक्यत्वात्सम्भवत्समासत्रिकं तापनीयवाक्यमेव स्वराख्यविशेषहेतुना निर्णीतमिति ज्ञेयम् । क्रियापेक्षत्वादित्यत्र ‘‘कर्तुरीप्सिततमं कर्मे’’ति सूत्रस्य कर्तुः क्रियया आप्तुमिष्टतमं कर्मसंज्ञं स्यादिति व्याख्यानात् क्रियाऽभावे कथं कर्मतेत्यर्थः । आथर्वणीत्युक्तेत्यत्र तापनीयश्रुतेरप्याथर्वणीत्वस्य सम्भावितत्वादाथर्वणीत्येवोक्ते इयमपि प्रस्तुतत्वादाथर्वणीशाखास्था तापनीयश्रुतिरित्येव प्रतीतिः स्यात् । अतः परा अन्येत्युक्तमिति भावः । परा अन्या तापनीयश्रुतेरन्या आथर्वण्युपनिषद एव भागान्तरस्था नीलग्रीवश्रुतिरित्यर्थः । यद्यपि ब्रह्मविदिति पदे समस्तं ब्रह्मपदं परमित्यत्र नायाति । तथापि अन्यज्ञानादन्यप्राप्त्ययोगेनार्थवशाद्विभज्य योजनीयम् । परपदस्याप्यर्थतस्तत्रान्वयः । एवं च परब्रह्मवित् परं ब्रह्माप्नोतीत्यर्थलाभाद्द्विः प्रस्ताव इति भावेनाह अत्रहीति । यद्यपि मायावादी ‘‘ब्रह्म वेद ब्रह्मैव भवती’’त्युभयत्रापि परंब्रह्मैवाङ्गीकरोति । अस्माकं तु यः ब्रह्म वेद सः मुक्तौ ब्रह्मैव जीव एव भवतीत्यर्थः । अतोऽसम्भवेऽमुख्यार्थ-ग्रहणमप्यस्तीति भावेनाह क्वचिदिति । तत्प्रकृतवचने मयडित्यत्र तत् प्रथमासमर्थात् प्राचुर्येण प्रस्तुतमत्रेत्यर्थे मयट्प्रत्ययस्स्यादित्यर्थः । अत एव ‘‘प्राचुर्यार्थे विकारार्थे’’ इति वचनम् । प्राणानां प्राणविकारत्वासम्भवादित्यत्र त्वक्चर्ममांसरुधिरमेदोमज्जास्थिभेदेन सप्तधा विकृतस्य सर्वत्र तेजोबन्नमयत्वमेव । प्राणमयत्वं तु तेजोबन्नात्मकेषु चतुर्षु कोशेषु प्राणादीनां सञ्चार एव । अतः परमते प्राणानामेव प्राणमयत्वमुक्तं स्यात् । तच्चासम्भावितमित्यर्थः । यथा कथञ्चिद्विकारत्वकल्पने विकृत-कोशान्तर्गतत्वकल्पने इत्यर्थः । अदधातोः कर्मणि कर्तरि चेत्यत्र ‘‘रदाभ्यां निष्ठातो नः पूर्वस्य च द’’ इति सूत्रेणादधातोः कर्मणि कर्तरि च क्तप्रत्यये कृते सति ‘‘क्तक्तवतूनिष्ठे’’ति वचनान्निष्ठातः क्तप्रत्ययतकारस्य नकारो भवति । ततः पूर्वस्य धात्वन्तदकारस्य च नकारो भवतीति सूत्रार्थपर्यवसानात् श्लिष्टोच्चारणे कृते सत्यन्नशब्दनिष्पत्तिरित्यर्थः । भोग्यत्वं च हरेस्सर्वभूतोपजीव्यतयेत्युपलक्षणम् । सर्वभूतोपजीव्यतयेत्यनेनोक्तमुपजीव्यत्वमपि भोग्यत्वम् । ‘‘महाभोक्ता महाभोग्य’’ ति भाष्यकृतो वचनात् । प्रलयकाले महाप्रचुरं जगदाख्यभोग्यं यस्य स महाभोग्यस् तस्य भोग्यस्य महान् भोक्ता प्राचुर्येण भोक्ता अनवशेषेण भोक्ता महाभोक्तेति यथास्थितार्थोऽपि द्रष्टव्यः ।

दुर्भिक्षेत्यत्र अन्नाभाव इत्यर्थः । विद्यते हि परमार्थत इत्युपलक्षणम् । विचित्रानन्तपदार्थगत- सामान्याकाराणामप्यनन्तत्वात्तज्ज्ञानमपि सर्वज्ञत्वपर्यवसायीत्यपि द्रष्टव्यम् । पूर्वान्तवत्स्वरस्सन्धा-वित्यत्र स्वरो ऽजाख्यस्वरः पूर्वान्तवद् अपरपदस्यादिभूतोऽपि पूर्वपदस्यान्तवद्भवतीत्याद्यस्य ‘‘अभेदेऽपि विशेषेणैवान्य’’ इत्युदाहरणम् । उत्तरपदादिभूतैवकारस्य पूर्वपदान्ते स्थितत्वा‘‘दा-समुद्रक्षितीशानामानाकरथवर्त्मना’’मिति द्वितीयस्योदाहरणम् । आमिति स्वरस्यान्तभूतमकारस्य परपादस्यादौ स्थितत्वा‘‘द्यणादेशः परादिव’’दित्यस्य ‘‘सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान् परिवर्तमान’’ इत्युदाहरणम् । पूर्वपदाभिभूतणित्करणस्य परपदादौ प्रविष्टत्वात् । इदं च न वैकल्पिकं किंतु नियतमेवेत्यर्थः । क्वचिदपवाद इत्यस्य क्वचित् पटशौक्ल्यघटघटत्वादावित्यर्थः । प्रतिज्ञामात्रेणोक्त इति स्वकृतव्याख्यानानुसारेणोक्तम् । वस्तुगत्या ‘‘अभेदेऽपि विशेषेणे’’त्यस्य देहलीदीपन्यायेनोभय-त्राप्यन्वयसम्भवान्न प्रतिज्ञामात्रम् । ‘‘अत एकस्स पञ्चधे’’त्युक्तोपसंहार इति द्रष्टव्यम् । अन्न-मित्यादीनाम् अन्नमयमित्यादीनां च शब्दानामविशेषेणेत्यत्र प्रकरणद्वयेऽप्यन्नमयादीनां प्रतिपाद्यत्वेऽ-प्युत्तरानुवाकेऽन्नादिशब्दैरेवोत्कीर्तनं, गुणवाचिनां च समन्वयसूचनार्थमिति द्रष्टव्यम् । बहोर्लोपो भू च बहोरिति वचनादित्यत्र बहोर्भावे ‘‘पृथ्वादिभ्य इमनिज्वे’’ति सूत्रेणेमनिचि कृते ‘‘बहोर्लोपो भू च बहो’’रिति सूत्रेण प्रत्ययादिभूतस्येकारस्य लोपस्स्याद्बहोश्च भूरादेशो भवति तेन भूमेति शब्दनिष्पत्तिरिति भावः । ततोऽत्यन्तभिन्नतयेत्यनेन ब्रह्मणा सहेत्यस्य परब्रह्मणा सहेत्यर्थं सूचयति । कप्रत्यये कृते इत्यत्र ‘‘आतो लोप इटि चे’’ति सूत्रादाकारलोपे सतीत्यपि ग्राह्यम् । सत्पदस्थतकारस्य ‘‘खलां जशोऽन्ते’’ इति सूत्राज् जश्त्वप्रापकपदान्तत्ववारणायोपपदस्य पदसंज्ञापवादकभसंज्ञाकरण-मिति ज्ञेयम् । विशीर्णता च शैथिल्यलक्षणेत्यनेन धातूक्तं विशरणमवयवशैथिल्यापरपर्यायमिति सूचयति । अनधातोश्चेष्टाजीवनार्थकत्वेऽपि सच्छब्दे तावर्थावानेतुं प्रनाडीमाह सदिति धात्वर्थो गतिर्जीवनं चास्ति धात्वर्थ इति । सर्वमेव त आयुर्यन्तीत्युपलक्षणम् । ब्रह्मविदाप्नोति परमित्युप-क्रमवाक्ये ‘‘सर्वं वै तेऽन्नमाप्नुवन्ती’’त्यन्नमयप्रकरणस्थवाक्ये ‘‘कामान्नी कामरूप्यनुसञ्चरन्’’ ‘‘सोऽश्नुते सर्वान् कामान्’’ इत्यादिश्रुत्या सर्वान्नप्राप्तेरपि मोक्षलिङ्गत्वात् ‘‘सर्वमेव त आयुर्यन्ती’’ति प्राणमयप्रकरणे, ‘‘आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चने’’ति मनोमयप्रकरणे, ‘‘शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत’’ इति विज्ञानमयप्रकरणे, ‘‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदु’’रित्यानन्दमयप्रकरणे, ‘‘रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति अथ सोऽभयं गतो भवती’’त्युप-संहारे च मुक्तिश्रवणादिति ग्राह्यम् । अत एवाचार्यैर् अन्यवेदी कथं मुक्तिं प्रयास्यतीति सामान्ये-

नोक्तम् । पैङ्गिश्रुतिरित्युपलक्षणम् । सहस्रशीर्षत्वव्याप्तत्वामृतेशत्वज्यायस्त्वदेवेज्यत्वदेवस्रष्टृत्वादेर् यजुः शाखोक्तह्रीलक्ष्मीपतित्वस्य च विष्णोरन्यत्रासम्भवाच्चेत्यपि द्रष्टव्यम् । त्रैविध्यस्य वक्ष्यमाणत्वादित्यत्र ओषधिमारभ्य पुरुषपर्यन्तेषु ओषध्यन्नदेहाख्यजडानां तत्तदभिमानिजीवानां तत्तदन्तर्यामिपरमात्म-रूपाणां चोक्तया चतुर्णामलाभे त्रैविध्यस्य वक्ष्यमाणत्वाद् वक्ष्यमाणप्रायत्वादित्यर्थः । अन्ने जीवान्तरा-भावे तु अन्नाख्यजडस्य तदन्तर्यामिहरिरूपस्य चेति द्वयोरेव सत्त्वेन द्वयोरपि वक्ष्यमाणत्वादिति ज्ञेयम् । उपसर्गेत्यादि आप इत्यादौ धातुलोपः, अद्भ्य इत्यादौ उपसर्गह्रस्वता धातुलोपश्चेत्यर्थः ।

कर्मण्यधिकरणे चेति किं प्रत्यय इत्यत्र ‘‘आतो लोप इटि चे’’ति याकारलोपश्चेत्यपि ग्राह्यम् । चतुर्विधौषधिसृष्टिं चतुर्विधान्नस्य सृष्टिं प्रोवाचेति तु श्रीदेवीसन्निधानादुक्तम् । वस्तुतस्तु प्रागुक्तरीत्या त्रिविधौषधिसृष्टिं त्रिविधस्य द्विविधस्य वाऽन्नस्य सृष्टिं प्रोवाचेति ज्ञेयम् । अधिकरणे शेतेरित्यत्र अधिकरणे सप्तस्यन्ते उपपदे शेतेरपि ‘अन्येष्वपि दृश्यते’ इति वचनाड् डप्रत्यय इत्यर्थः । अत्र देह-शब्दात् प्राक् आत्मशब्दोऽध्याहार्य इत्यत्र देहपर्यन्तमित्येतावताऽपूर्त्या आदिपदप्रतिसम्बन्ध्य-भावाद्देहपदात्प्राक् आत्मपदाध्याहारे क्रमेण च सम्बन्धे आत्मादिदेहपर्यन्तमित्यर्थलाभाय देहशब्दात् प्रागात्मशब्दोऽध्याहार्य इति भावः । विदित्वा मुक्तिस्स्यादित्युक्ते समानकर्तृकत्वाभावात्त्वाप्रत्ययानु-पपत्तिरित्यतः विदित्वा साक्षात्पश्यत इत्युक्तम् । सर्वानुपपत्तिपरिहारोऽपि सूचित इत्यत्र सिद्धान्तस्य विरुद्धसर्वानुपपत्तिपरिहारोऽपि सूचित इत्यर्थः । तत्रैव कर्तुमुचितमित्यत्रासामपि सिद्धान्त-विरुद्धोपपत्तिनिरसनरूपत्वेन प्राक्कृतानुपपत्तिनिरसनपङ्क्तावेव निरसनीयत्वादिति भावः । व्यवधाने कारणाभावादिति मध्ये ‘‘नेतरोऽनुपपत्ते’’रिति पूर्वपक्षबाधकानुपपत्तिसमर्थनसूत्रव्याख्यानाख्य-व्यवधानानुपपत्तेरित्यर्थः । अन्यथोत्सूत्रितत्वप्रसङ्गादित्यत्र ‘‘नेतरोऽनुपपत्ते’’रिति सूत्रे पूर्वपक्षानु-पपत्तिसमर्थनमात्रस्य सूत्रितत्वेऽपि सिद्धान्तविरुद्धानुपपत्तिनिरसन प्रसक्तेरेवाभावादिति भावः । प्राणादिविकार इत्यत्र निर्विकारस्याप्याकाशस्य यथा घटसम्बन्धात्तद्विकारत्वं तथा प्राणसम्बन्धा-ज्जीवस्यापि प्राणविकारत्वमित्यर्थः । परमात्मनश्च नियामकतयेत्यत्र यथा स्वनियम्यं तुरगं साद्यारुह्य नियमयति तथेति भावः । सम्प्रतिपन्नस्वशरीरेष्वित्यत्र अनादिकालमारभ्य स्वभोगायतनत्वेन सम्प्रति-पन्नशरीरेष्वित्यर्थः । अनुमानत्वेन पराभिमतायथार्थज्ञानकारणं न भवतीत्यत्र अनुमानाभासत्वेनैव परस्य भ्रमं जनयन्ती न त्वनुमानत्वेनेत्यर्थः । प्रत्यक्षबाधितेऽर्थे इमान्यनुमानानि ज्ञानमेव नोत्पादयन्ति तवैव दुराग्रहादाहार्यभ्रमोऽयमिति सूचनाय वक्रमुद्राश्रयणम् । वस्तुतस्तु ‘‘तत्त्वज्ञाने नापेक्ष्यत’’ इति मूल एवोक्तत्वात्तत्त्वज्ञानकरणं न भवतीति साध्यं द्रष्टव्यम् । आकाशस्याप्रत्यक्षत्वाद्द्वितीयानुमाने कथं प्रत्यक्षविरोध इत्यत उक्तं साक्षिप्रत्यक्षविरुद्धमिति । भूताकाशस्याप्रत्यक्षत्वेऽपि पक्षीकृताव्याकृता-काशस्य साक्षिविषयत्वादित्यर्थः । विमत इत्यनुक्तेः सिद्ध्यसिद्धिभ्यां बाध इति शङ्कते नन्वत्र कथमिति । समश्च परानुमान इत्यत्र परशरीराणामपि स्वभोगायतनत्वसाधने प्रतिज्ञापदविरोधस्य समत्वादित्यर्थः । जिज्ञासावाक्येष्वित्यत्र ‘‘तद्विजिज्ञासस्व तद्ब्रह्मे’’ति वाक्येष्वित्यर्थः । तत्पूर्व-वाक्योक्तेत्यत्र ‘‘यतो वा इमानी’’ति वाक्योक्तेत्यर्थः । नियामकेन विनेत्यस्य बाधकादिना विनेत्यर्थः । गुणे त्वन्याय्यकल्पनेत्यत्र गुणप्रधानयोर्विरोधे गुणेऽप्रधानेऽन्याय्यकल्पनेत्यर्थः । तद्धितार्थाद्यभावादित्यत्र ‘‘तद्धितार्थोत्तरपदसमाहारे चे’’ति सूत्रोक्तसंस्कृतत्वादिरूपतद्धितार्था-भावादादिपदोक्तस्तद्धितार्थस्समाहारः । मनोमयश्लोके तदयोगादित्यत्र मनोमयश्लोके ‘‘यतो वाचो निवर्तन्ते’’ इति ‘‘आनन्दं ब्रह्मणो विद्वान्’’ इति श्लोकोक्तानन्दविकारत्वाभावान्मनोमयस्य । किंतु ‘श्रद्धैवशिर’ इत्यादिनोक्तश्रद्धादिविकारत्वस्यैव श्रवणादिति भावः । निदिध्यासनरूपं तपः करणीयमित्येतत् ‘‘तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मे’’त्यस्यार्थकथनम् ।

तस्य परेण स्वयमेवाङ्गीकृतत्वादित्यस्यापौरुषेयपौरुषेययोः श्रुतिसूत्रयोर्विरोधे गुणेऽप्रधाने सूत्र एवान्याय्यकल्पनेति स्वयमेवोक्तत्वादित्यर्थः । अत्रेदं चिन्त्यम् । घटैकदेशस्पर्शेऽपि घटः स्पृष्ट इत्यादाविव ब्रह्मावयवत्वात्तत्पुच्छस्यापि ब्रह्मत्वोक्तिरिति सावकाशमेकं ब्रह्मशब्दमादायान्नमयादीन् प्रत्येवोदाहृतश्रुतिरूपश्लोकपञ्चकोक्तान् षट्ब्रह्मशब्दानुत्तरानुवाके ‘‘अधीहि भगवो ब्रह्मेति’’ ‘‘तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मे’’ति श्रुतौ ‘‘अन्नं ब्रह्मेति व्यजानादि’’ति श्रुतौ अन्नमयादीन् प्रत्येवोदाहृतानष्टौ ब्रह्मशब्दान् तदुपोद्बलितानि स्वभाष्यमूलभूतब्रह्मसूत्राणि चोपेक्षमाणस्य तवैव तूक्तविधया बहुत्वेन प्रबलप्रधानभूतसौत्रन्यायविरुद्धायां सावकाशैकब्रह्मशब्दावलम्बितया गुणभूतायां त्वदीयश्रुतावेवान्याय्यकल्पनेत्यात्मीय एव बाणो भवन्तं प्रहरति । उक्तन्यायमननुसन्दधानस्य तव विवेकाख्यगुण एवान्याय्यकल्पनोचिता नास्मद्ब्रह्मसूत्र इति । किञ्च महदिदं व्याख्यानकौशलं परकीयभाष्यकारस्य यत्स्वभाष्यमूलभूतं समन्वयस्यादिमं सूत्रमपार्थकीकृत्य उत्सूत्रभाष्यतया स्वभाष्ये-णैव स्वभाष्यं भाष्यलक्षणविधुरं चकारेति । स एव शब्दमुख्यार्थ इत्यत्र यदि योगलभ्यार्थस्यातिबहुत्वं तदा शब्दस्यापि परममुख्यता । अल्पत्वे तु मुख्यतामात्रं नतु परममुख्यता । तर्हि बहुपङ्कजनिते पद्मे पङ्कजशब्दस्य परममुख्यताऽन्यत्र मुख्यतेत्यपि शङ्का भवति मन्दमतीनाम् । विवेकिनां तु बहुपङ्कवत्यपि स्थले पद्मस्य स्वयोग्यपङ्कमात्रजनितत्वेन बहुपङ्कस्यानुपयोगाच्छङ्कैव गर्भस्रावगता नोदेतुमर्हति । नृपधन्यादिशब्दानां बहुनृपालके बहुधनवति च राजादौ परममुख्यतया प्रयोगदर्शनात्स्वदारपुत्र-परिजनमात्ररक्षके स्वोदरमात्रपोषकधान्यादिधनवति च राजादिवद्बहुशः प्रयोगादर्शनेन प्रयोगोत्कर्षे शब्दोत्कर्षस्य न्यायप्राप्तत्वाच्चेत्यनुसन्धेयम् । इत्यानन्दमयाधिकरणम् ॥ १-१-६ ॥