ॐ ईक्षतेर्नाशब्दम् ॐ
अथ इक्षत्यधिकरणम्
ॐ ईक्षतेर्नाशब्दम् ॐ
अत्रापि सन्देहः समास्कन्दतीत्यत्र अन्यांशे अन्यथोक्तावत्रापि सन्देहः प्राप्नोतीत्यर्थः । न च व्याप्त्यभाव इत्यत्र उक्ततर्क इति शेषः । अन्यत्र गृहीतसङ्गतिकेन नारपदेनायनपदेन च पदान्तर-समवधाने सत्यपूर्वतया विशिष्यैव वाक्यार्थमर्यादयैव जलशायिनि नारायणे प्रतीते तत्राखिलशब्दानां समन्वय इति वक्तुं शक्यत्वान्नास्माकमनवस्था । अखण्डार्थवादिनः परस्य तु वाक्येऽपि स्वरूप-मात्रलक्षणाङ्गीकारान्नोक्तानवस्थापरिहारोपाय इति वक्ष्यमाणार्थं मनसि निधायाह अभिमान्यधिकरण इति । माधुर्यविशेषादिशब्दैरित्यत्र आदिशब्देन रसशब्दो गृह्यते । रसशब्देनापि तेषां वाच्यत्वादिति ज्ञेयम् । तदा किं तदित्यपेक्षायां शब्दान्तरं ब्रूयादित्यनवस्था स्यादित्युपलक्षणम् । लक्ष्याशब्दादिपदैरपि ब्रह्मणो लक्ष्यत्वे लक्ष्यत्वाशब्दत्वादिरूपमुख्यार्थस्यापि बाधो वाच्यः । तथा च लक्ष्यत्वाभावे वाच्यत्वमेव प्राप्तम् । अशब्दत्वाभावे च ‘‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत’’ इति सुतरां सशब्दत्वमागतमिति त्वदुक्तश्रुतिरेव वाच्यत्वसाधिका स्यात् । तत्पदवाच्यत्वे तु तेनैव वाच्यत्व-सिद्धिरि‘‘त्युभयतः पाशारज्जु’’रित्यपि द्रष्टव्यम् ।
कुण्डपायिनामित्यत्र कुण्डसम्बन्धिसोमपायिनामित्यङ्गीकाराल्लक्षणेत्यर्थः । न मुख्यार्थस्वीकारे बाधकमस्तीत्याचार्यो मन्यत इत्युपलक्षणम् । कदाचित् क्वचिद् गङ्गायां घोष इत्यादिप्रयोगे लज्जा-भावेऽपि सर्वाण्यपि वाक्यान्यप्येवं प्रयुञ्जतां तेषामपि कथं न लज्जा । सकलवैदिकपदमीमांस्य-तयाऽङ्गीकृते ब्रह्मणि यत्किञ्चित्पदस्यागत्या लक्षणाङ्गीकारेऽपि सकलवैदिकपदानां लक्षणैवेत्यङ्गीकारः बहुतरभक्ष्यभोज्यादिबुभुक्षयाऽऽगतस्य जलपानमात्रेण निवृत्तिवत्कथं न लज्जाहेतुः । किञ्च तथासति सत्यनिर्गुणनिर्विशेषादिपदानां मुख्यार्थबाधद्वारकलक्षणाङ्गीकारे स्वाभिलषितसत्यत्वनिर्गुणत्वादेरप्य-सिद्ध्या च कथं न लज्जेत्यपि द्रष्टव्यम् । तस्येक्षणीयत्वे प्रमाणाभावादिति वदन् मोक्षसाधन-निष्प्रकारकनिर्गुणापरोक्षज्ञानं कथमङ्गीकुर्यात् । अतो मन्दाशङ्केयमिति ज्ञातव्यम् । प्रकरणशुद्ध्या व्याचिख्यासुस् तदुल्लङ्घितवानित्यत्र वाच्यत्वप्रतिपादनप्रकरणे तत्पराणि सूत्राणि व्याख्यातव्यानि, अन्यत्तु तदनन्तरमिति प्रकरणशुद्ध्या व्याचिख्यासुरित्यर्थः ।
ननु संशब्दोक्तवाच्यत्वसमर्थनार्थमिदमधिकरणम् । तर्हि षट्सूत्र्येवात्र निबन्धनीया । ‘‘गति-सामान्या’’दिसूत्रं तु संशब्दोक्तसकलवेदार्थसमर्थनपरं चेत्पूर्वाधिकारणान्त एव रचनीयम् । अत्र किमर्थं रचनेति चेत्सत्यं संशब्दोक्तावश्यकवाच्यत्वसमर्थनानन्तरं हि सकलवेदार्थत्वसमर्थनावसरः । वाच्यत्वस्यैवासिद्धौ सकलवेदार्थत्वस्य सुतरामसम्भवात्तदेवादौ समर्थनीयम् । तस्य च पूर्वाधिकरणेन सहैकाधिकरण्येन प्रतिपादने विलक्षणप्रमेयद्वयस्य ग्रहणे श्रोतॄणामायासस्स्यात् । अधिकरणं चातिमहत्स्यात् । अतो भिन्नाधिकरणरचना आवश्यकी । तर्हि ‘‘गतिसामान्या’’दिति सूत्रमेकार्थ-प्रतिपादकषट्सूत्र्या उपर्येवावसरसङ्गत्या रचनीयम् । पञ्चसूत्र्या उपरि ‘‘श्रुतत्वा’’दिति सूत्रस्या-धस्तात्कुतो रचनेति चेत्सत्यम् । ‘‘तन्निष्ठस्य मोक्षोपदेशात्’’ । ‘‘हेयत्वावचनात्’’ । ‘‘स्वाप्यया’’- दिति त्रिसूत्र्यां ‘‘श्रुतत्वा’’दित्युत्तरसूत्रे च प्राप्तशङ्काया अपि निवारकत्वादिति ब्रूमः । तथाहि । शाखान्तरे गौणनिष्ठस्यापि मोक्षोपदेशे हेयत्वावचने स्वाप्ययकथने च सूत्रत्रयोक्तहेतुत्रयस्यापि व्यभिचरितत्वान्न गौणात्मनिषेधे सामर्थ्यं स्यात् । ‘‘श्रुतत्वा’’दिति सूत्रे तु साक्षान्निर्गुणस्य श्रुतत्वाद्वाच्यत्वमित्युक्ते शाखान्तरे सगुणस्य श्रुतत्वे सोऽपि वाच्यः स्यात् । निर्गुणश्रुत्या निर्गुणस्य वाच्यत्वसाधने न काचिद्धानिः । शाखान्तरे निर्गुणस्याश्रुतत्वश्रवणेऽप्यस्यां श्रुतौ स्पष्टं श्रुतत्वसिद्ध्या तद्वाक्यमत्र योग्यतापराहतत्वाद्योग्यार्थान्तरे योजनीयं स्यात् । न तु स्पष्टदृष्टस्य बाधनायालम् । अश्रुतत्वश्रुतिर्हि ‘‘पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चित’’ इतिवदद्भुतत्वादिपरतयाऽपि व्याख्यातुं शक्या । निर्गुणत्वश्रुतिस्तु निर्गुणत्वाख्यमुख्यार्थस्य निर्गुणे सत्त्वेन निर्गुणान्तराभावेन वाच्यान्तराभावादस्याप्यवाच्यत्वे शब्दनैरर्थक्यप्रसङ्गेन नामुख्यवृत्त्या व्याख्यातुं शक्या । ‘‘वागर्थाविव सम्पृक्ता’’वित्याद्यभियुक्तवचनबलाच्छब्दस्य नैरर्थक्यं न बुद्धिमता वक्तुमुचितम् । ‘‘एका क्रिया द्य्वर्थकरी प्रसिद्धे’’तिन्यायेनास्य त्रिसूत्र्यामुत्तरसूत्रे पूर्वाधिकरणसूत्रे चोपयोगित्वान्मध्ये रचना । किंच ‘‘अधिकरणान्ते रचनायामवसरप्राप्तस्यान्ते निर्देश’’ इति न्यायेन पूर्वाधिकरणेनैव सङ्गतं न त्वत्रेति बुद्धिः स्यात् । सूत्रमध्ये सङ्कलय्यकथने तु देहलीदीपन्यायेन पूर्वसूत्रेषूत्तरसूत्रे पूर्वाधिकरणसूत्रे च सङ्गतमेतत्सूत्रमिति बुद्धिमन्तो ज्ञास्यन्तीति सूत्रकारस्याभिप्रायः । भाष्यकारस्तु साक्षादेकार्थता षट्सूत्र्या एव । कथञ्चिदुपयोगस्तु औत्तरव्याख्ययैव बोद्धुं शक्यत इत्युपेक्षितवान् ।
ज्ञानक्रियाशक्तिरहितत्वादित्यत्र ज्ञानपदेन मानसं ज्ञानमुच्यते ‘‘मनसा वा अग्रे सङ्कल्पयति अथ करोती’’ति श्रुतेः कर्तुर्मानसं ज्ञानमेवापेक्षितमिति परस्याशयः । सवितुरिवेत्यत्र प्रकाशनशक्तिः क्रियाशक्तिश्च यथा दिनेदिने परिणामरहितस्य सूर्यस्य तथेत्यर्थः । तदुपपादनायेत्यत्र अशब्दत्वोप-पादनायेत्यर्थः । शशविषाणवदसत्त्वेनैवाशब्दत्वसम्भवादिति भावः । अत्रापि तथाविधज्ञापक-सौलभ्यादित्यत्र ज्ञानाख्योत्तरस्य ब्रह्मत्वमहिम्ना सत्याख्यस्याब्रह्मत्वेन हेयत्वानुमानसम्भवादिति भावः। प्रमाणतोऽप्रतिपन्न इत्यत्र अप्रतिपन्नश्शिष्यादिर् ज्ञाप्यते गुर्वादिनेति शेषः । अतो लिङादिसम्बन्ध
इत्यत्र ‘माङि लुङि’ति माङ्योगे लुङो विधानेन लिङाद्यविधानादिति भावः । भासनोपसम्भाषे-त्यात्मनेपदमित्यत्र ‘‘भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः’’ इत्यनेन सूत्रेण भासनसान्त्व-नाद्यर्थेषु वदेस् तङानोर्विधानाद्वदेरात्मनेपदत्वोपपत्तेरिति भावः। सूत्रपूर्वपक्षिणे वाऽपव्याख्याऽत्रापीत्यत्र ब्रह्मणः शब्दावाच्यत्वं वदन्सूत्रपूर्वक्षी सूत्राणां प्रकृतिनिराकरणार्थतां वदन्नपव्याख्यातेत्यर्थः ॥१-१-५॥