ॐ शास्त्रयोनित्वात् ॐ
अथ शास्त्रयोनित्वाधिकरणम्
ॐ शास्त्रयोनित्वात् ॐ
चरकसुश्रुतादिवदित्यत्र ‘चर गतिभक्षणयोः’ ‘‘ृ पाके’’ इति धातुभ्यां भक्षणयोग्यौषधविधायकं वाक्यं चरकम् । वाताजीर्तिव्याधिपरिहारार्थमङ्गविशेषे दाहप्रतिपादकं सुश्रुतम् । आदिपदेन शस्त्रवैद्यज्योतिश्शास्त्रादिकमुच्यते । विवादाध्यासितं कर्मेत्यत्र कर्म जगत्सृष्ट्यादिकर्म । कथञ्चिदस्य हेतुविशेषणत्व इत्यत्र कुलालादिवैलक्षण्याय अप्रतिहतेच्छापूर्वककार्यत्वादिति हेतुविशेषणत्वेऽपीत्यर्थः । व्यतिरेकमुखेन हेतुविशेषणमिति सूचयितुं कथञ्चिदित्युक्तम् । एतेन विवादाध्यासितमित्यत्र एतेनादृष्टो-त्पादकप्रयत्नाधारजीवजन्यत्वेन । संयोगवेगप्रयत्नवदित्यत्र पतदूर्ध्वशाखाया अधस्तनशाखासंयोगः संयोगः, मध्ये शरपातविरोधी वेगः हस्तादिना धारणं प्रयत्न इति विवेकः । सामान्यतो विशेषतश्चेति कथञ्चनेत्याक्षेपस्य विषयनिरूपणम् । अन्यथा वनकर्तरि सिद्धे इत्यत्र त्वयाऽपि प्रसिद्धकर्तृरहितं वनं सकर्तृकमिति वनकर्तुस्साधनात्किमीश्वरसिद्धावायातमिति मयाऽपि वक्तुं शक्यत्वादित्यर्थः । आदिशब्दः प्रकारवचन इत्यत्र पुंस्त्वहेतुना सर्वत्र प्रतिपक्षस्य विवक्षितत्वेनाऽऽदिपदग्राह्यहेत्वन्तरासम्भवादादि-शब्दः प्रकारवचन इत्युक्तम् । अत्र यथा साधितं तथा तत्राप्यनेनैव प्रकारेण साधनीयमिति भावः । तुरगस्य ृङ्गित्वे मद्धेतोः किमायातमिति शङ्कते ननु कथमत्र प्रयोक्तव्यमिति । परेण हि ईक्षितृत्वापरपर्यायसर्वज्ञत्वाज्जगत्कारणं प्रधानं नेति साधितमीक्षत्यधिकरणे । अत्रापि सर्वज्ञत्वात्प्रकृतेर् जगत्कारणत्वं निराक्रियतेऽतः पौनरुक्तयं स्यादित्याह ईक्षत्यधिकरणादिनेति । जन्मादिसूत्रपदेन जन्मादिकं प्रकृतेर्न भवतीत्यर्थसमर्थकं तृतीयसूत्रं गृह्यते । विज्ञानशक्तीत्यत्र विज्ञानशक्तिपदेनाखिल-विषयज्ञानशक्तिरुच्यते ॥ १-१-३ ॥