ॐ जन्माद्यस्य यतः ॐ
श्रीश्रीमद्वादिराजपूज्यचरणविरचिता
श्रीमन्न्यायसुधाटिप्पणी
गुर्वर्थदीपिका
प्रथमाध्यायस्य प्रथमः पादः
अथ जन्माधिकरणम्
ॐ जन्माद्यस्य यतः ॐ
साधनफलयोर्ब्रह्मोपहितत्वादित्यत्र ब्रह्मोपहितत्वाद् ब्रह्मोपाधिग्रस्तत्वात् । ब्रह्मवत्स्वप्रधानत्वा- भावादित्यर्थः । सम्भवे व्यभिचारे चेत्यत्र सम्भवे लक्ष्ये सम्भवे सति व्यभिचारे च सतीत्यर्थः । व्यभिचारे सति तद्-व्यावर्तकं विशेषणमित्येवोक्ते पटादौ व्यभिचारवारकस्य घटत्वे सति पटत्वस्यापि घटलक्षणत्वं स्यात् । अतः सम्भवे सतीत्युक्तमिति भावः । तस्योपासनायत्तत्वादित्यत्र तस्य प्रयोजन-स्योपासनाधीनत्वादित्यर्थः । जीवस्य तु देहातिरिक्ततया विचार्यतैव जिज्ञासा न तु उपासनमप्यत्रा-पेक्षितम् । स्वस्य स्वयमुपासनायोगादिति भावः । गुणपूर्णत्वाभिधानमित्यभिप्राय इत्यत्र न च विष्णोरपि विचारसाध्यप्रयोजनस्योपासनासाध्यत्वादुपासनायाश्चाविद्यमानार्थविषयत्वात्किं विद्यमान-चर्चारूपविचारेणेति वाच्यम् । उपासनाया अविद्यमानार्थविषयत्वे विद्यमानार्थविषयकश्रवणमनन-जन्यत्वायोगेन तत्समानार्थकायास्तस्या विद्यमानार्थविषयकत्वावश्यम्भावाद् ध्यानस्य विपरीतभावना-परिहारकत्वेनोत्तराङ्गत्वं वदतस्तवापि मते ध्यानापरपर्यायोपासनस्य विद्यमानविषयत्वावश्यम्भावात् । अन्यथा विपरीतभावनादार्ढ्यहेतोस्त्वदभिलषिताङ्गत्वस्यैवायोगात् । कुतस्तर्हि कमलासनस्या-जिज्ञास्यतेति चेन्न । जिज्ञासाविधायकश्रुतिषूक्तजन्माद्यष्टकहेतुत्वायोगादिति सम्भावितशङ्कासमाधानं च द्रष्टव्यम् ।
हिरण्यगर्भस्समवर्तताग्रे । एको रुद्रो न द्वितीयाय तस्थे इत्यादिश्रुतीनामयमर्थः । हिरण्मय-ब्रह्माण्डाख्यवीर्यं स्वोदरे धृतवतो विष्णोरेव हिरण्यगर्भत्वसम्भवाद् रोदनाद्रुद्रत्वस्याद्वितीय-त्वानुपयोगित्वेन रुजं द्रावयतीति व्युत्पत्तेः कालकूटपानान्नीलकण्ठे शूलिनि अयोगेन च कालिङ्गमर्दने कृष्णे रुद्रत्वस्यापि सम्भवात् ‘‘शिवः शिवोऽभू’’दिति वचनात् शिवशिवीकरणसमर्थस्य हरेरेव शिवत्वसम्भवाच्च आसु श्रुतिषु हिरण्यगर्भरुद्रशिवशब्दाभिधेयो विष्णुरेव । किञ्च शब्दोऽस्तीति कृत्वा नार्थस्वरूपोन्मर्दनं कर्तुं शक्यते । तथासति प्रवाहस्य घोषाधारत्वप्रसङ्गात् । सिंहो देवदत्त इति शब्दबलाद्भार्याया गृहात् पलायनप्रसङ्गात् । किंतु यथायथा अर्थोऽस्ति तथातथा तत्स्वरूपमनुपमृद्यैव मुख्यवृत्त्या अमुख्यवृत्त्या वा शब्दो योजनीयः । एवं च ‘‘एको नारायण आसी’’दिति श्रुत्या हरेः प्रलयकालेऽपि विद्यमानत्वात् हिरण्यगर्भाख्यो हरिर् अग्रे प्रलयकाले समवर्तत सम्यगवर्तत । पुनः सृष्टिकाले जातः ‘‘तत्सृष्ट्वा तदेवानुप्राविश’’दिति श्रुतेः स्वसृष्टपदार्थेषु नानारूपैराविभूर्तः । भूतस्यैकः मुख्यः पतिरासीत् । स पृथिवीमिमां द्यामुत द्यां च दाधार । परमपुरुषरूपेण सर्वाधारशक्ते-रप्याधारत्वादतिशयेन दधार । अत एव संहितायां दीर्घः । कस्मै आनन्दरूपाय स्पष्टं निर्देष्टुमशक्यतया कश्चिदित्येव वक्तव्यतया वा कस्मै हविषा बलिं विधेमेति तत्स्वरूपमनुपमृद्यैव योजना । हिरण्यगर्भविषये तु ‘‘न ब्रह्मा न च शङ्कर’’ इति श्रुतेः ‘‘ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुष’’ इति स्मृतेश्च चतुर्मुखस्य ब्रह्मप्रलये अवस्थानायोगान्नेयं श्रुतिर्युक्ता । अस्तु वा हिरण्यगर्भविषयत्वं तथाऽपि नेयं बाधिका । तथाहि । एकः हिरण्यात्मब्रह्माण्डस्य अन्तर्विद्यमानत्वेन हिरण्यगर्भाख्यश्चतुर्मुखो ऽग्रे प्रलयकाले समवर्तत । ‘‘संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि’’ इत्यभिधानात् संवर्तं प्रलयं प्राप । पुन एको ऽगे्र जगतो ऽग्रे सृष्टिकाले जातः हिरण्यगर्भतया यस्य हरेर्नाभिकमलाज्जातः भूतस्य उत्पन्नस्य प्रपञ्चस्य पतिरासीत्, न त्वभूतस्य नारायणस्य । स नारायणः पृथिवीं पृथिव्यभिमानित्वात् पृथुत्वाच्च पृथिवीनाम्नीं भूदेवीम् इमां द्यामुतदिवोऽभिमानिनीं द्योतमानां श्रीदेवीं च दाधार । प्रलयेऽपि पार्श्वद्वये दधार । जगद्धारणवन् नेदं धारणं किन्तु भार्यात्वेन भुजाभ्यामालिङ्गनमिति सूचनाय संहितायां दीर्घः । चतुर्मुखवत् प्रलये लीनो नाभूदिति भावः । अतो हविषा अन्ते हूयमानजगदाख्यहविषा कस्मै विधेम पूजां विधेम । एकस्य ब्रह्मणो नष्टत्वादपरस्यानुत्पन्नत्वात्तदतिरिक्तजगतः सुतरामभावात् । वटपत्रशायिने कस्मै सुखरूपाय नारायणाय तुभ्यं विधेम । प्रतिकल्पं च ब्रह्मादीनां व्यत्यासान्नित्यश्रौत ब्रह्मेन्द्रादिपदैर् हविषा कस्मै बलिं विधेम । किंतु सनातनाय तुभ्यं नानारूपामराख्यया बलिं विधेमेति च श्रौतपदानामनुपमर्देनैवार्थः प्रतीयते । अत इयमपि श्रुतिर् अस्मत्पक्षस्यैव साधिका न परपक्षस्येति ।
एको रुद्र इति श्रुतेरप्ययमर्थः, एकः रुद्राणां मध्ये प्रधानः रुद्रः ‘‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्व’’मिति श्रुतेः ‘‘यदरोदीस्सुरश्रेष्ठ सोद्वेग इव बालकः । अतस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः’’ इति स्मृतेश्च रोदनाद्रुद्रः द्वितीयाय जगते जगदुद्दिश्येत्यर्थः न तस्थे वैराग्याधिपतित्वाज् जगन्न गणयतीत्यर्थः । ‘‘जगति न गणयेयं त्वत्परानुग्रहेणे’’ति रुद्रेणोक्तत्वात् । किंतु रुद्रः सर्वेभ्यः प्रथमं नारायणमुद्दिश्यैव तस्थे तपसि स्थिरोऽभवत् । ‘‘यमुद्दिश्य सदा नाथं महेशोऽपि दिगम्बरः । जटी भस्मानुलिप्ताङ्गस्तपस्वी वीक्ष्यते जनै’’रिति वासुदेवसहस्रनाम्नोऽवसाने पार्वत्यैवोक्तत्वात् ॥ १ ॥
रुद्रः हरिवद्देहेन्द्रियादिना एक एकीभूतो न किंतु द्वितीयाय प्राकृतदेहाय तस्थे । तत्रापि न प्रथमाय महत्तत्वाख्यदेहाय किंतु द्वितीयाहङ्काराख्यद्वितीयदेहाय इति वा ॥ २ ॥
यद्वा रुद्र एकः गरुडवद् एक एव न किंतु कल्पान्तरे द्वितीयाय शेषाख्यरूपाय तस्थे ॥ ३ ॥
किंच रुद्रः ब्रह्मवदवतारशून्यत्वादेक एकाकी न किंतु द्वितीयाय शुकदूर्वासअश्वत्थामादिरूपाय तस्थे ॥ ४ ॥
किंच एकः सर्वोत्तमो रुद्रो नारायणः नद्वितीयाय भावप्रधानो निर्देशः प्राथमिकत्वाय तस्थे ॥ ५ ॥
एकस्तु रुद्रस्तथा न, किंतु द्वितीयाय द्वितीयकोटिस्थप्रपञ्चाय तस्थे । द्वितीयकोटिस्थप्रपञ्चे अहमेकोऽस्मीत्युद्दिश्य तस्थे ॥ ६ ॥
किञ्च एको रुद्रः रोदनाद्रुद्रः रुद्रः भस्मासुरकृतहृद्रोगद्रावणसमर्थो न नाभूत् । अत एक एकाकी सन् द्वितीयाय स्वरक्षकं सकलजगद्भिन्नत्वाद्द्वितीयं नारायणमुद्दिश्य तस्थे वैकुण्ठं प्रति प्रतस्थे ॥ ७ ॥
नायं रुद्रः किंतु अन्योऽस्तीति मन्दाशङ्कां वारयितुं वा एक इत्यादि । एक एव रुद्रः द्वितीयाय रूपाय न तस्थे ॥ ८ ॥
इत्यादिरूपेण सकलजनमनोरञ्जननानार्थानां लाभान्नेयमपि श्रुतिः प्रतिपक्षिणां पक्षीकारार्हेत्यादि- स्पष्टदूषणान्यपि प्रेक्षावद्भिरूह्यानि ।
ज्ञात्वा शिवमिति श्रुतेरपि ‘‘क्लीबे शिवं भद्रसुखोदकेषु’’ इत्यभिधानात् शिवं सुखस्वरूपं विष्णुं ज्ञात्वाऽत्यन्तं शान्तिमेतीत्यर्थ इति सर्वं समञ्जसम् । यद्यपि गुणा एव भगवति सन्ति, दोषास्तु न सन्तीत्येवानया श्रुत्योच्यते, न तु सर्वाः श्रुतय एतदर्थप्रतिपादिका इति व्याक्रियते, तथाऽपि तत्त्वज्ञान-मात्रोत्पादिका श्रुतिर् एतदुभयप्रतिपादिकैवेत्यस्याप्यर्थात्सिद्धेर् देवे सुविरुद्धा अपि गुणाः श्रुताः श्रुतिप्रतिपाद्यास्सन्ति, तथा अज्ञैः प्रतीता अपि दोषाः श्रुताः श्रुतिप्रतिपाद्या न सन्तीत्यर्थलाभात् सर्वासु श्रुतिषु व्याख्यातास्वित्युक्तम् । विष्णुरिति यजमानस्य यज्ञस्य वा नाम इत्युपलक्षणम् । जनितोत विष्णोरिति श्रुतेरयमर्थः । ‘‘तदहं वच्मि पवमानसोमे’’त्यव्यवहितपूर्ववाक्ये पवमानाख्य-सोमस्यैव प्रस्तुतत्वात् ‘‘सोमः पवते’’ इत्यत्राप्युक्तः पवमानः सोम एव । उमया सहितः सोम इति सोमपदेन रुद्रं वदन् देवानां प्रियो वैदिकेभ्यो बहिष्कर्तव्य एव । तथासति स-जूरित्यादौ सजूरित्या-दाविव सोम इति स उम इत्यपि दुःखण्डत्वप्रसङ्गात् । निघण्ट्वादौ क्वचिद् रुद्रनामसु सोमनाम्नोऽपि ग्रहणप्रसङ्गात् । अतो न श्रौतं नापि लौकिकम् । उक्तविधया प्रकरणविरोधेनात्र सोमपदेन वायोरन्यस्य केनाप्युपायेन ग्रहणासम्भवाच्च । वायोरन्यत्र पवत इत्युक्तपवनायोगात् । पूयमानपवमानयोः पवमान-सूक्तत्वाच्च । वायुश्च मूलरूपे स्वावताररूपेषु च ‘‘तयोर्जुष्टिं मातरिश्वा जगामे’’त्यादिश्रुतेः रामायणभारताख्यस्मृतेश्च भगवद्भक्त एव प्रसिद्धः । तस्य च विष्णुजनयितृत्वं न कस्यापि वादिनो मतम् । अतोऽनया श्रुत्या प्रतिवादिनां न किञ्चिदपि कृत्यम् । श्रुतिरपि ‘‘विष्ऌ व्याप्ताः’’ विति धातु-पर्यालोचनया देशतः कालतश्च व्याप्तत्वाख्यमहिमानं विष्णुपदेनैव भगवति श्रावयन्ती न तस्यो-त्पत्तिरूपां जनिमाह । किंतु ‘‘जनि प्रादुर्भाव’’ इति साक्षाद्घात्वर्थभूतप्रादुर्भावमेव जनिमाह । तच्च मूल रूपवायोर् देवगुरुत्वाद् अवताराणां च मानुषगुरुत्वाद् वायोरेव सम्भवतीत्यतो विष्णोर्जनितेत्युक्तम् ।
अस्तु वा लोकमर्यादया जन्मैव जनिः । तथाऽपि मूलरूपे हनूमद्रूपे भीमरूपे मध्वरूपे च विष्णोर्जनिता जनितेति वीप्सया विष्णुमतिजनकत्वं नियतमिति वदन्ती श्रुतिर् वायोर् गुरुताया एव स्थिरतां चकार । अथवा विष्ण्वितरस्य जनयिता वायुः स्वयं ‘‘स प्राणमसृजत’’ ‘‘प्राणाद्वायु-रजायते’’त्यादिश्रुतेर्विष्णोर्निमित्तात्स्वात्मानं स्वपुण्योद्रेकाच्चतुर्मुखेन सह जनयिता विष्णुकुमारः सोमः मत्यादीनां जनयिता सन् पवते । प्राणाभावे कस्यापि जन्मासम्भवात् । महत्तत्वाभिमानितया चतुर्मुखात्मकमुख्यप्राणस्य स्पष्टं जगज्जनकत्वाच्च सर्वस्यापि जनितेति श्रुतेर्भावः । अथवा प्रथमद्वितीयावताराभ्यां पृथिव्या भाराख्यभयहरणेन दिव उपद्रवाख्यभयहरणेन तृतीयावतारे मिथ्या-त्वाख्यभयहरणेन हनुमदवतारे सुग्रीवरक्षणात्सूर्यस्य भयहरणेन भीमावतारे राजसूयादिनाऽग्नेर्भयहरणे- नार्जुनस्य रक्षणादिन्द्रस्य भयहरणेन च जनयिता । ‘‘अन्नदाता भयत्राता पञ्चैते पितरः स्मृता’’ इति वचनात् । हनुमदवतारे लङ्कायामग्नेर्जनिता भीमावतारे पुरोचनादिदुष्टदाहाय लाक्षागृहे अग्नेर्जनिता मध्वावतारे ज्ञानाग्नेर्जनिता सन् पवते । किञ्च ‘‘कविर्यः पुत्रः स इमा चिकेत यस्ता विजानात्स पितुः पिताऽसत्’’ इति वामनसूक्तोक्तेः कविः सर्वज्ञः विष्णोः पुत्रः विष्णुकुमारो वायुः स इमा भगवतः मूर्तीस् त्रिमूर्तीश्च चिकेत ज्ञातवान् यः वाय्वाख्यो विष्णुकुमारस् ता भगवन्मूर्तीर् विजानाद् व्यजानात् । आन्तं ज्ञानाभावसूचनाय विलक्षणप्रयोगः । स विष्णुकुमारः पितुः स्वपितुर्विष्णोः पिता असदासीत्, इति श्रुत्यैव वायोर् विष्णुपितृत्वं पूयमाने कथ्यमानं तज्ज्ञानित्वेनैव, न तु जनकत्वेनेति श्रुत्यैव श्रुतेः स्पष्टं व्याख्यातत्वान् न वैदिकमन्यमानस्येयं शङ्का किं त्ववैदिकस्यैवेत्युपेक्षणीया । एवं च भगवति दोषमाशङ्कमानः स्वयमेव तच्छत्युक्तार्थान्धत्वाख्यदोषवानभूत् । अतः श्रौतयुक्तियुक्तचित्रार्थवतीयं श्रुतिर् हयग्रीवाद्यवतारैः स्वोपद्रवविद्रावणसमर्थे निरवद्ये हरौ न दोषान्वेषणतत्परेत्यपि द्रष्टव्यम् । तदनुगुणमेव विषयं प्रतिपादयेदित्यत्र मुख्यवृत्तेर् लक्षणागौण्याद्यमुख्यवृत्तेश्च सम्भवेन स्वापेक्षित-प्रामाणिकनानार्थेष्वपि सञ्चारयितुं शक्या श्रुतिः श्रोतृपुरुषार्थानुगुणं विषयं प्रतिपादयेत्, न त्वदाशङ्कित नियतैकार्थवती प्रत्यक्षवदिति भावः । निराकरणार्थं वेत्यत्र ‘‘यावत्स्याद्गुणवैषम्यमित्यादे’’र्य एतत्समुपासीरन् ते मुह्यन्ति शुचाऽर्पिताः’’ इत्युत्तरश्लोकोत्तरार्धे निराकरणार्थत्ववत्प्रकृतेऽपि निराकरणार्थमित्यर्थः । त्रित्वे हुत्वाऽथ पञ्चत्वमित्यत्र देहस्थितभूतानां पञ्चत्वं त्रित्वे प्राधान्या-त्तेजोबन्नात्मकत्वे हुत्वा ध्यानाग्निना हुत्वा तच्च त्रित्वमेकत्वे प्रकृत्यात्मकत्वे हुत्वा देहे ममतां त्यजेदित्यर्थः । व्यवच्छेदो वेति । वाशब्दसूचितलक्ष्यव्यवहारस्यैव लक्षणार्थत्वेऽपि जीवासम्भावित-लक्षणकथनेनैव जीवव्यावृत्तिसिद्धिरिति ज्ञेयम् । ‘‘अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षण’’मिति वदता स्वस्य लक्षणानि स्वलक्षणानीत्यादिशङ्काऽपि परिहृता । ‘‘लक्षितभावनिर्वृति’’मित्युत्तर विशेषणेनैतैर्लक्षणैर्लक्षिता दर्शिता भावनिर्वृतिस्स्वभावभूता निर्वृतिः सुखं यस्य तमित्युक्तम् । अन्यथा ‘‘को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यादि’’ति श्रुत्युक्तरीत्या सूत्रकार एतल्लक्षणान्यथानुपपत्त्या आनन्दरूपतां ब्रह्मणः कथं साधयेत् । नहि चूतफलस्य सरसत्वाद्विषत-रुफलस्य स्वादुतां कोऽपि साधयेत् । अतो ब्रह्मणः सदाऽऽनन्दरूपतां साधयन्तीमानि लक्षणानि यावद्वस्तुभावितया स्वलक्षणान्येव वक्तव्यानि । अन्यथा परज्योतिष्ट्वाद्वयत्वादीनामपि सुष्ट्वलक्षणत्व प्रसङ्गः । अत एवोद्भवनादिहेतुत्वैरिति वक्तव्ये उद्भवनहेतुत्वाद्यष्टलक्षणान्यपि ब्रह्मस्वरूपभूतानीति सूचयितुं हेतुभिरिति भवितृप्रधानतया निर्देशः कृतः । एवं निर्देशे हि हेतुभूतब्रह्मात्मकैरत एव स्वलक्षणैस्स्वरूपभूतजन्महेतुत्वादिलक्षणैरित्यर्थः कथं न प्रेक्षावद्भिरीक्ष्येत । एवं च षष्ठीसमासोऽप्य-नवसरदुःस्थ एव । अद्वयमिति स्वगतभेदवर्जनोक्तेश्च नासौ श्लाघ्यः । अतः सुष्ठूक्तं भगवता पूर्णप्रज्ञा-चार्येण ‘‘विष्णोरेव स्वलक्षण’’मिति अतस्तटस्थत्ववार्ता मठस्थैव न विदुषां निकटस्थेति ज्ञेयम् ।
तस्य लक्ष्यान्तर्भाव इत्यादिः परकीयग्रन्थवाक्यानुवादः । किंतु यदवष्टंभ इत्यत्र यदवष्टंभो यदधिष्ठानक इत्यर्थः । सोल्लुण्ठमित्यत्र ‘‘स्मृतास्सोल्लुण्ठसोत्प्रास सोपहासास्समास्त्रयः’’ इत्यभि-धानात्सोल्लण्ठं सपरिहासमित्यर्थः । सिद्धं तु निवर्तकत्वादित्यत्र ऐक्यस्य शास्त्राविषयत्वेऽपि शास्त्रस्य सविषयत्वं सिद्धम् । निवर्तकत्वाद् भेदभ्रमनिवर्तकत्वादित्यर्थः । परापरसामान्यवाचिनामित्यत्र सत्यपदस्य सत्तारूपसामान्यवाचित्वे ब्रह्मणि तेन पदेन पारमार्थिकसत्त्वासिद्धिप्रसङ्गः । लक्षणस्या-सम्भवश्च । तद्बोधितव्यावृत्तेश्च जगतीव प्रातिभासिकमात्रव्यावृत्तित्वप्रसङ्गेन त्वदभिलषितव्यावर्त्या-सिद्धिप्रसङ्गः । ज्ञानपदस्यापि ज्ञानत्वापरसामान्यवाचित्वे ब्रह्मणि चिद्रूपत्वासिद्धिः । लक्षणस्या-सम्भवश्चेति दूषणदूषितत्वादिति ज्ञेयम् । पारमार्थिकसत्यत्ववाचित्वे च तस्य ब्रह्मण्येव वर्तमानत्वान्न लक्षणा । अन्यत्र वृत्तौ च ब्रह्मणोऽन्यस्य पारमार्थिकत्वादिसिद्धिरि‘‘त्युभयतः पाशारज्जु’’रित्यादि-दूषणमप्यूह्यम् । प्रयोजनं…वक्तुं न शक्यत इत्यत्र निर्हेतुकव्यावृत्तेरेवायोगेन न प्रयोजनतेति भावः । प्रकाशमानमपि न प्रकाशत इत्यत्र ब्रह्मांशेन प्रकाशमानमपि ऐक्यांशेन न प्रकाशत इत्यर्थः । स एव विशेष इत्यत्र यथा घटप्रकाशनार्थमानीतो दीपः स्वप्रकाशमपि स्वशक्तयैव साधयेन्नतु प्रकाशान्तर-मपेक्षते । तथाऽन्यत्र भेदकार्यकारित्वेनानीतो विशेषः स्वस्मिन्नपि भेदकार्यं स्वशक्तयैव साधयेन्नतु विशेषान्तरमपेक्षते । अत एव दीपस्य स्वप्रकाशत्ववत् स्वनिर्वाहकता चास्यैव युक्तियुक्ता न घटादेरिति भावः । नच सर्वभेदकार्यकारित्वे भेदस्यैव विशेष इति नामान्तरमिति शङ्क्यम् । एकसत्त्वेऽप्य-परनाशाख्यभेदासाधारणकार्यस्य विशेषेऽनङ्गीकारेण सिंहासनारोहाख्यराजासाधारणकार्यातिरिक्त-सकलकार्यकारिणि मन्त्रिणि राजप्रतिनिधित्ववद्भेदप्रतिनिधित्वस्यैव न्यायप्राप्तत्वात् । तदुक्तमाचार्यैः । ‘‘खण्डिते भेद ऐक्यं च यावद्वस्तु न भेदवदि’’ति खण्डनं नाम घटादौ एकसत्त्वेऽप्यपरनाशः । सत्येव कपालतन्त्वाद्युपादानकारणे तत्संयोगनाशमात्रेण घटाद्युपादेयनाशस्य दर्शनात् । सच भेदासाधारणकार्य इति भेद ऐक्यं च वक्तव्यमित्यर्थः । अङ्गुलीद्वयवद्भेदेनानुपलम्भादित्यत्र एकपात्रस्थक्षीरनीरयोरेक-पात्रस्थपूर्वोत्तरनीरयोश्चाङ्गुलीद्वयवद्भेदेनादर्शनेऽपि हंसेन गुरुत्वविशेषेण च भेदोपलम्भस्याङ्गुलिद्वय-भेदोपलम्भवदेव सत्त्वान्नानुमानमूलव्याप्तेः शैथिल्यम् । बाधितत्वाभिमानाभावादित्यत्र अत एव नोपचरितत्वम् । व्यवहारस्य सार्वजनीनत्वाच्चेत्यपि ग्राह्यम् । पृथग्दर्शननिन्दयाऽभेदो गम्यत इत्यत्र ‘‘नेह नानास्ति किञ्चने’’ति पूर्ववाक्ये ब्रह्मणि भेदाभावस्य समर्थनाद्भेददर्शननिन्दा मिथ्यादृष्टित्वेनैव न
तु ‘‘न नग्नां स्त्रियमुद्वीक्षे’’दितिवन् निषिद्धत्वमात्रादित्यूह्यम् । अथोभयमित्यत्रोभयं निमित्तत्वमुपादानत्वं चेत्यर्थः । प्रकृत्यधिकरणे निपुणतरं निराकरिष्यत इत्युपलक्षणम् । ‘‘निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभे’’ति भागवतवाक्ये स्पष्टमुपादानत्वस्य मात्रशब्देन व्यावर्तित्वादित्यपि द्रष्टव्यम् ॥ १-१-२ ॥