०१ जिज्ञासाधिकरणम्

ॐ अथातो ब्रह्मजिज्ञासा ॐ

श्रीश्रीमद्वादिराजपूज्यचरणविरचिता

श्रीमन्न्यायसुधाटिप्पणी

गुर्वर्थदीपिका

प्रथमाध्याये जिज्ञासाधिकरणम्

ॐ अथातो ब्रह्मजिज्ञासा ॐ

नारायणं हयग्रीवं व्यासं वायुं सरस्वतीम् ।

नत्वा तत्करुणासत्त्वाद्रमे न्यायसुधाम्बुधौ ॥

श्रिय इति भूतिर्महालक्ष्मीरिति च श्रीवाचकपदाभ्यामाद्यन्तयोः सम्पुटीकरणाच्छ्रीकरोऽयं ग्रन्थः । तत्र वयमेव साक्षिणः । ‘‘नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमस’’ इति वदता ज्ञानानन्दादिगुणमाणिक्यविशदप्रभाजालोल्लासेन देशतः कालतश्च पूर्णत्वाख्यमहिम्नाऽज्ञानदुःखादिदोषाणामनवसरदुःस्थतयोपहतत्वस्यापि सूचितत्वात्प्रथमद्वितीयार्थयोर्हेतुहेतुमद्भावरूपाऽपि सङ्गतिरुक्ता वेदितव्या । भगवति पूर्णगुणत्वस्यास्मदादावभावेनासम्भावनाशङ्कानिरासाय जगज्जन्मस्थेमप्रलयरचनाशीलवपुष इत्युक्तम् । शीलेति वदता प्रयोजनापेक्षणेन सृष्ट्यादिकरणे अपूर्णता, तदभावे प्रयोजनाभावेन सृष्ट्यादिकरणमेवानुपपन्नमिति शङ्काऽपि परिहृता । ‘‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहे’’ति हि श्रुतिः । उक्तार्थे प्रमाणाभावशङ्कापरिहारायोक्तम् अशेषाम्नायस्मृतिहृदयदीप्ताय हरय इति । अनेन तृतीयाध्यायार्थोऽपि सूचितः । हरये सांसारिकविविधदुःखापहर्त्र इत्यनेन चतुर्थाध्यायार्थोऽपि सूचितः । यस्य अन्वयव्यतिरेक्यनुमानोपमया प्रमाणत्वेन निरूपितस्याऽऽनन्दतीर्थमुनेः । निजे पक्षे विष्णुसर्वोत्तमत्वसगुणत्वसाकारत्वजगत्सत्यत्वादिरूपप्रमेये । निजेन स्वाभाविकेन । महसा श्रुतिस्मृत्यादिप्रमाणैरुपपादनसामर्थ्येन सह व्याप्तिरस्ति । यथा धूमानुमानस्य निजे पक्षेंऽशतो बाधभागासिद्धयोः परिहाराय निजेन महसा सह व्याप्तिरस्ति तथेति पक्षधर्मत्वाख्यं प्रथमं रूपमुपपादितम् । सपक्षे प्रामाणिकत्वेन स्वपक्षसमाने निर्णीतत्वात् सपक्षस्थानीये ज्योतिष्टोमादेः स्वर्गसाधनत्वादौ प्रमेये निजेन महसा सह स्थितिरस्ति । न तु व्याप्तिः । कदाचित्प्रसङ्गवशात्तमप्यर्थं साधयति नतु नियमेन । अतः सपक्षे सत्त्वाख्यं द्वितीयं रूपमपि निष्पन्नम् । विपक्षतः विरुद्धपक्षादद्वैतादेर् निजेन महसा सह व्यावृत्तिरस्ति । नतु तत्साधनेऽपि कदाचित् स्वसामर्थ्यं घटयति । अनेन विपक्षाद्य्वावृत्त्याख्यं रूपं सम्पादितम् । बाधिते शशृङ्गसत्त्वादौ सक्तिरेव न । अनेनाबाधितविषयत्वाख्यं रूपमुपपादितम् । प्रतिपक्षयुक्तिर्नैवास्तीत्यनेनासत्प्रतिपक्षत्वं स्पष्टीकृतम् । अतुलम् अलौकिकविषयकत्वादसदृशम् । अत एव शुद्धं प्रमाणं प्रमाणस्थानीयः स भगवान् आनन्दतीर्थो मुनिस् तत्त्वविनिर्णयाय भूयादिति समग्रोपमागर्भं रूपकम् । चञ्चरीकति मे मन इत्यत्र चञ्चरीको भ्रमरस् तद्वदाचरतीत्यर्थः । निर्दोषत्वादिशब्दभेदेऽपि तेषां सर्वेषां गुणत्वेन निखिलपूर्णगुणैकदेहमित्यनेनैव गतार्थत्वाद् आर्थिकपुनरुक्तेरित्युक्तम् । स्तोतारो हि महाराज, राजकुलोत्तंस, नृपशिखामणे, इत्यर्थैक्येऽपि शब्दभेदमात्रात् स्तुवन्ति तथेहापीति भावः । तत्र वैशिष्ट्योपपादनायेत्यत्र सर्वोत्तमत्वरूपवैशिष्ट्योपपादनायेत्यर्थः । सम्प्रदानाख्यसम्बन्धविशेषापेक्षायां ‘‘सम्प्रदाने चतुर्थी’’ति वचनाद् अस्मै उद्भवादिदमिति स्यादिति शङ्कापरिहाराय ‘‘एकशतं षष्ठ्यर्था’’ इति सामान्यतः सकलसम्बन्धे ष्वपि षष्ठीविधानात् । सम्बन्धमात्रे षष्ठीत्युक्तम् । विभवादनेकानि लक्षणानीत्यनेन निखिलपूर्णगुणैकदेहत्वनिर्दोषत्वादिग्रन्थोक्तसकललक्षणानि संगृह्यन्ते । उपपादनीयप्रमेयविशेषसद्भावान्निखिलपूर्णगुणैकदेहत्वादिकमेव विवेचितम् । निर्दोषत्वे तु तदभावान्न पृथक्तस्य विवेचनमिति ज्ञातव्यम् ।

निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावादित्यत्र उदयति सूर्ये उदितत्वं तेजोरूपत्वं चेति निमित्तद्वयं चास्ति । तत्र सन्ध्यावन्दनादिनैमित्तिककार्याय वन्दकः पुरुष उदितत्वमात्रं पुरुस्कुरुते । घटाद्यर्थप्रकाशनाख्यनैमित्तिककार्याय क्वचित्तेजोरूपत्वमप्यनुसरति । तन्निमित्तककार्यस्य सर्वथा विलोपो न । एवं लोकशिक्षायै गुरुनमस्काराख्यनैमित्तिककार्याय क्वचिदुरुत्वस्यानुसरणं युक्तमेवेति भावः । अर्थविवक्षापूर्वकस्येत्यत्र बहुतरगहनार्थविवक्षापूर्वकस्येत्यर्थः । प्रणयनमात्रस्य व्यभिचारित्वादित्यस्य शुकबालवाक्ये व्यभिचारित्वादित्यर्थः । गृहीतसङ्गतेरर्थप्रतिभास इत्यत्र यत्किञ्चिदर्थप्रतिभास इत्यर्थः ।

‘‘विद ज्ञान’’ इति धातुव्याख्यानरीत्या मिथ्याज्ञानतत्त्वज्ञानसाधारणज्ञानमात्रे विद्याशब्दप्रसक्तौ सत्यां सार्वत्रिकयोगमात्रलभ्यप्रयोगव्युदासाय संज्ञायामिति रूढ्यपरपर्यायसंज्ञापदेन तदेकदेशं गृह्णता पाणिनिनैव ‘‘मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय’’ इति न्यायेन मुख्ये तत्त्वज्ञाने तत्साधने च विद्यापदस्य रूढिरनुशिष्टेति भावेनोक्तं यथार्थज्ञानेति । नदीतीरे पञ्च फलानि सन्तीति यत्किञ्चिद्यथार्थज्ञानतत्साधनवाक्ये विद्याशब्दस्याप्रयोगेन वेदादौ विद्याशब्दप्रयोगेन च यथार्थज्ञानतत्साधनप्रबन्धविशेषयोरित्यर्थः । तदेव सूत्रैकदेशग्रहणेन स्मारयति समजनिषदेति । ‘‘संज्ञायां समजनिषदनिपतमन विदषुञ्शीङ्भृञिण’’ इति सूत्रे संज्ञायामिति आदावुदितरूढ्यर्थपदस्य समजनिषदनिपतमनविदादिसकलधातुष्वप्यनुवर्तनात् क्यप् प्रत्यये च कृते समज्या निषद्येति पदवद् विद्येति पदं यथार्थज्ञाने तत्साधने च योगरूढिभ्यां प्रवृत्तमित्यर्थः । तैस्तैर्वादिभिः स्वस्वकृतदुर्विद्यास्वपि विद्यापदप्रयोगोऽभिमानमात्रादेव क्रियते न त्वनुशासनबलादिति भावः । व्यासोपज्ञता उपपन्ना अर्था ज्ञाप्यन्तेऽनयेत्युपज्ञा व्यासस्योपज्ञा व्यासोपज्ञा आदौ कृतो ग्रन्थस्तस्या भावः व्यासोपज्ञता तद्विरोधाद् व्यासकृतग्रन्थत्वप्रसिद्धिविरोधादिति फलितोऽर्थः । परशब्दस्यानेकार्थत्वेन अन्यार्थत्वस्यापि विद्यमानत्वेनेत्यर्थः । मन्त्रे प्रयोगदर्शनेन अज्ञप्रयोगदर्शनेनेत्यर्थः । शास्त्रमेव भवितुमर्हतीत्यत्र नतु विषहरमन्त्रादिवन्मन्त्रमात्रमित्येवकारार्थः । अन्यथा सकृदुक्तविद्याशब्दस्येत्यत्र अन्यथा वेदविषये विद्यात्वं ‘‘यया तदक्षरमधिगम्यत’’ इत्यत्र मन्त्रमात्रत्वमित्यङ्गीकारे । अन्यन्न सम्भवतीत्यत्र अन्यद् भिन्नत्वं न सम्भवति । तथासति वेदविद्याया अप्यक्षरविद्याभिन्नत्वेन परविद्यात्वप्रसङ्गादित्यर्थः । सन्निधानाद् अपौरुषेयतया प्रमाणभूतवेदसन्निधानात् । अपरविद्यात्वेनोक्तवेदविद्याऽप्यपौरुषेयत्वाद्यदा प्रमाणं तदा ततोऽप्युत्तमविद्यात्वेनोक्ताक्षरविद्यारूपब्रह्ममीमांसायाः प्रामाण्यं किं वक्तव्यमिति भावः । विवक्षितार्थतत्त्वज्ञानं करणपाटवं चेत्यत्र अविप्रलिप्साऽपि ग्राह्या? यद्यपि यथाश्रुतानामेषां व्यधिकरणतेत्यत्र गुरूणां गुरुः शास्त्राणां प्रभव इत्युक्तविशेषणद्वयस्य व्यासनिष्ठत्वादजादिभ्यस्तदर्थतस्तदुदितमित्यस्य ब्रह्ममीमांसानिष्ठत्वाच्च व्यधिकरणतेत्यर्थः । ननु नेयं व्यधिकरणता दोषाय यतो बादरायणः शास्त्राणां प्रभवः यतश्चाजादिभ्यस्तदर्थतस्तेन बादरायणेनोदितमिदं शास्त्रमतो मानमिति प्रागुक्तगुणवन्तं व्यासं तेनेत्यनूद्यैकवाक्यतायाः सम्पादितत्वादिति चेत्, सत्यम् । तथाऽपि पूर्वोक्तं व्यासनिष्ठं विशेषणद्वयं हेतौ न साक्षात्प्रविशति तेनेत्यनुवादकपदेनैव हेतोश्चरितार्थत्वात् । तत्तु विशेषणद्वयम् अनुवादोपयोगिवादमात्रसमर्पकं हेतौ परम्परयैवोपयोगि न साक्षादुपयोग्यतो व्यधिकरणं तदिति शङ्कितुरभिप्रायः । तथाऽपि तदुदितमिति वचनादित्यत्र प्राचीनयोजनायां तेनोदितमिति वचनेन वक्तरि तृतीयायाः सूचितत्वात् । यतः गुरूणां गुरुणा शास्त्राणां प्रभवेन बादरायणेनाजादिभ्यस्तदर्थतस्तन्मीमांसाशास्त्रमुदितमतो मानमिति विभक्तिविपरिणामेन सकलश्लोकस्याप्येकवाक्यतया योजनासम्भवान्न कश्चित् क्षुद्रोपद्रव इति भावः ।

सपक्षाप्रवेशित्वेन प्रमाणतया सपक्षभूतेषु नदीतीरे पञ्च फलानि सन्तीत्याद्याप्तवाक्येष्ववृत्तित्वेनेत्यर्थः । तेष्वेव हेतुशरीरघटकतयोक्तभारतादिष्वेवेत्यर्थः ।

ननु भारतादावपि तत्पूर्वं प्रामाण्यानिश्चयेन साध्यानिश्चयात्कथं सपक्षतेति शङ्कां वारयति महाजनेति । नन्वेवं सति महाजनपरिगृहीतत्वादिना भारतस्य प्रामाण्ये तेनैव ब्रह्ममीमांसाया अपि प्रामाण्यसिद्धेर् व्यर्थमनुमानमिति चेत्, न । वेदादेरिव भारतस्य सकलवैदिकपरिगृहीतत्ववत् कणादसूत्रानुसारिणां साङ्खकारिकानुसारिणां च ब्रह्मसूत्रे विवाददर्शनेन महाजनपरिगृहीतत्वाभावात् । साधनावच्छिन्न इत्यस्य अनुकूलवक्त्रादिमद्वाक्यत्वे सति यत्प्रमाणमिति साधनावच्छिन्न इत्यर्थः । तेन सिद्धयाऽऽप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण सम्बन्ध इति वदता तदुदितमित्यत्रोक्तमानत्वं वक्ष्यमाणयाऽऽप्तवाक्यतयैव सिद्ध्यति । आप्तवाक्यत्वं वक्त्राद्यानुकूल्येन सिद्ध्यति । वक्त्राद्यानुकूल्यं तु बादरायणेन ब्रह्मादीन् प्रति तन्मोक्षाययतस्तद्ब्रह्ममीमांसाशास्त्रमुदितम्, अतः सिद्ध्यतीति समग्रवाक्ययोजनिका सूचिता । प्रथमहेतौ यद्विवक्षितार्थतत्त्वज्ञानवता स्वप्रियान् प्रति तत्प्रयोजनाय कथितम् । तद्वक्त्राद्यानुकूल्यवद् यथा लौकिकवाक्यमिति सामान्यव्याप्तिरनुसन्धेया । अतो न वक्ष्यमाणप्रमाणत्रित्वभङ्गः । नापि प्राथमिकानुमानद्वयवैयर्थ्यं परम्परयोपयोगित्वात् । अतो न कश्चित् क्षुद्रोपद्रवः। निर्दोषः प्रमितस्यैव वक्तेत्यत्र निर्दोषत्वं नाम वाक्याप्रामाण्यनिमित्तदोषराहित्यं विवक्षितमतो नासम्भवः । सुस्थः प्रतिबन्ध इत्यत्र प्रतिबन्धः साध्यं प्रति सम्बन्धः व्याप्तिरित्यर्थः ।

यत्र वक्त्राद्यानुकूल्यं तत्राप्तिराप्तवाक्यतेति ग्रन्थकाराभिप्रायमजानानः शङ्कते समाधत्ते च । उपाधेस्साधनाभेदमित्यादिना । कृतकत्वानित्यत्वयोः सत्त्वानुप्रवेशेऽपीत्यत्र प्रागसतः सत्तासम्बन्ध इति कृतकत्वे सत्त्वानुप्रवेशः प्रागेव सतोऽभावः प्रध्वंस इत्यनित्यत्वेऽपि सत्त्वानुप्रवेश इत्यर्थः । यदा तु निर्दोषः प्रमितस्यैव वक्तेत्यत्र वाक्याप्रामाण्यकारणीभूतभ्रमादिदोषाभावस्यैवोक्तया विवक्षितार्थतत्त्वज्ञानस्या प्रवेशत्वात् प्रमितस्यैव वक्ता इत्यत्र एवकारोक्ताप्रमाभावस्यैवोक्त्या विवक्षितार्थतत्त्वज्ञानस्याप्रवेशाच्चेत्यर्थः । अन्यथाऽस्तुवक्त्राद्यानुकूल्यमित्यत्र अस्तु वक्त्राद्यानुकूल्यमस्तु च श्रोत्रानुकूल्यं भवतु प्रसङ्गानुकूल्यं च । तथाऽप्यनुकूलमेव श्रोतारं वक्ता विप्रलिप्सतां को दोष इति शङ्कायां लोके सर्वत्र वक्त्राद्यानुकूल्ये सत्यविप्रलिप्सादिमूलत्वरूपाप्तवाक्यत्वस्यैव दर्शनेन प्रकृतेऽपि तथेत्यनुमानविधया प्रतिवक्तुमुक्तपरम्पराया अवश्यमाश्रयणीयत्वादिति भावः । एवं विजातीयसंवादेनेत्यत्र आप्तवाक्यत्वादित्यनुमानस्य ब्रह्मसूत्रप्रामाण्यमात्रसाधकस्य ब्रह्मसूत्रप्रतिपाद्यसमानार्थकत्वाभावाद्विजातीयत्वम् । श्रुतेर्युक्तेर्ब्रह्मसूत्रस्य च ‘‘आनन्दमयोऽभ्यासा’’दित्यादौ विष्णोरानन्दमयशब्दमुख्यार्थत्वरूपस्यैकस्यैवार्थस्य श्रुत्या युक्तया ब्रह्मसूत्रेण च त्रिभिरपि प्रतिपादनेन ब्रह्मसूत्रसमानार्थकत्वात्साजात्यमिति भावेन सजातीयद्वयसंवादमप्याहेत्युक्तम् । संवादस्तु ब्रह्मसूत्रप्रामाण्यरूपार्थस्यानुमानत्रयेणापि साधितत्वादिति ज्ञेयम् । मानमित्यस्यानुकर्षणार्थौ वेत्यत्र श्रुतिमूलतया तथा मानं युक्तिमूलतया च मानमिति स्थानद्वयेऽप्यनुकर्षणार्थावित्यर्थः । रचितस्येत्यस्य मन्वादिरूपवचनस्य परार्थानुमानरूपवाक्यस्य चेत्यर्थः । अत्र समानार्थतासाम्येनेत्यत्र अत्र ब्रह्मसूत्रेषु श्रुतिमूलस्मृतौ युक्तिमूलवाक्ये च या समानार्थताऽस्ति तन्मात्ररूपेण सिंहस्थितशौर्यमात्रसारूप्येण देवदत्ते सिंहशब्दप्रयोगवदयमपि प्रयोग इति भावः । अङ्गाङ्गिभावोऽप्यधिक इत्यत्र ब्रह्मसूत्राणां निर्णायकत्वेनाङ्गत्वं श्रुतेर् निर्णीयमानार्थत्वेनाङ्गित्वं सूत्रयुक्तयोस्तु तार्किकादीनां युक्तिशतकेन निमज्जितसुयुक्तीनां सूत्रोपनिबद्धमणिवत्पुनरुद्धारेणाङ्गाङ्गिभाव इति विवेकः । अपराधिषु चतुर्षु द्वयोरेव वैशसं हिंसा न परयोरित्यस्याप्यनुपपत्तेरिति भावेनाह वैशसासम्भवादिति । त्रिविधमिति क्रियाविशेषणमित्यत्र त्रिष्वप्यनुमानेषु त्रिविधमिति साक्षादनुक्तत्वात्तिस्रो विधा यथा भवन्ति तथा विजातीयानुमानत्रिकेषु दृश्यमानत्वात्क्रियाविशेषणमित्युक्तम् । बहुशाखानिर्णायकत्वरूपविश्वतोमुखत्वस्य सूत्रलक्षणत्वाद्वेदनिर्णायकत्वं तदर्थभूतपरब्रह्मगुणनिर्णायकत्वं सूत्रशब्दार्थ इति भावेनाह सकलवेदार्थभूतस्येति । शरीरान्तः स्थित्वा शरीरनियामकत्वात् शारीरकः परमात्मेति भावेनाह अत इति । न तथा निरवधिकमित्यस्य जैमिनेरसर्वज्ञत्वेन व्यासवदाप्तत्वाभावात्कर्मकाण्डमात्रमीमांसया सकलवेदानां वैदिकयुक्तीनां चाभावेन त्रितयमिति ब्रह्मसूत्रवन्न मुख्यमिति भावः । एतदर्थमपीति वाक्ये त्रिविधमपि प्रामाण्यं महद्यथा भवति तथा ब्रह्मसूत्राणां दृश्यत इति योजना कर्तव्या । देहदेहिभावकृतशङ्कैकशब्दस्यैकीभूतार्थकत्वमादाय परिहर्तुं शक्येति भावेनाह सर्वगुणोदीर्णतोक्तयेति । बहुवचनान्तं पदमित्यस्य माहात्म्यातिशयाद्बहुवचनान्तपदमित्यर्थः । पाक्षिकोऽपि दोषः परिहर्तव्य इत्यत्र दोषाभावपक्षेऽपि विष्णुप्रीतिद्वारा परिसमाप्तिं प्रत्येव कारणत्वात्सार्थक्यमिति ज्ञेयम् । यत्पर्यायान्तरं विहायेत्यत्र ‘‘ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभा’’ वित्यागमोक्तयोरोङ्काराथशब्दयोः पर्यायभूततारानन्तरादिशब्दौ विहाय, अथोमिति क्रमान्तरं च विहाय, अतो ब्रह्मजिज्ञासोमथ कर्तव्येति स्थानान्तरं च विहायाऽऽदावेव प्रयोगादागमोक्तक्रमेणैव सूत्रस्यादौ ताभ्यां शब्दाभ्यामेव प्रयोगान्माङ्गलिकतयोक्तौ तावेवोङ्काराथशब्दौ सूत्रकृताऽपि प्रयुक्ताविति ज्ञायते । ओङ्काराथशब्दौ च तयोरेव ृङ्गग्राहकतया प्रदर्शनार्थं प्रयुक्तत्वान्न सूत्रान्तर्गतौ । अतो न तौ सूत्रकृता गृहीतौ । अतोऽनयोर्मङ्गलार्थत्वेनापि प्रयोगः सूत्रकृतोऽभिमतः । विलक्षणविषयाधिकारादिबोधकत्वेन सूत्रावयवताऽप्यावश्यकी । तेनादिसूत्रेऽर्थविशेषज्ञापकत्वेन सकलशास्त्रे विघ्नविघातद्वारा समाप्तिं प्रति कारणत्वेनोपयोगिता ज्ञायत इति भावः । भाष्यकारस्तु सूत्रकाराभिमतविघ्नाद्यनिष्टनिवर्तकमङ्गलत्वमनुभावयितुं तरत्यनेनानिष्टमिति व्युत्पत्त्या ओङ्कारवाचकतारशब्दं प्रायुंक्तेति विवेकोऽनुसन्धेयः । सर्वास्वपि ब्रह्मविद्यास्वाद्यन्तयोरोङ्कारस्योहः कर्तव्य इत्यत्र स्वसंगृहीतश्रुतिप्रकरणस्थबहुतरगुणैर्ब्रह्मणः पूर्णत्वप्रसाधने प्रत्येकं युक्तिरूपाणि हि ब्रह्मसूत्राणि । साधनफलाध्याययोरपि वैराग्याद्यलौकिकसाधनज्ञेयत्व मुक्तप्राप्यत्वमुक्तनियामकत्वादिगुणपूर्तेः प्रतिपाद्यत्वेन तद्गतसूत्राण्यपि गुणपूर्णत्वे युक्तिरूपाणि । युक्तौ च प्रतिज्ञानिगमनयोरावश्यकत्वेनाऽद्य ओङ्कारः गुणपूर्णत्वप्रतिज्ञारूपः । अन्तिमस्तु तस्मात्पूर्णगुण इति निगमनरूपः । अतः सूत्रावयवताऽप्यनयोरवश्यमङ्गीकार्येति भावः । मन्त्रेष्वप्यूह्यमानस्येत्यस्य स्वाहा न ममेत्यादिपदस्येत्यर्थः ।

त्रिविधा हि पुंसां चित्तवृत्तिरित्यस्यायं भावः । बहुत्वेन गम्भीरत्वेन चात्यायाससाध्यब्रह्ममीमांसायां न स्वरससुन्दरतयेच्छाप्रयत्नश्च भवति । न हि राजदेयधनलाभरूपफलमनिश्चित्य कोऽपि भटः गदायुद्धाद्यायासमिच्छति कुरुते वा । अत आनन्दमय इत्यादिरूपब्रह्मजिज्ञासायां रुचिजननाय प्रवर्तनाय चास्तु फलनिर्णय आवश्यकः । सुखरूपमोक्षमिच्छतः साधुनिकटं गतस्य व्युत्पन्नस्य तैरुच्यमानप्रथमसूत्रानुभवमात्रे न प्रयोजनापेक्षा । प्रमाणवस्तुपरतन्त्रत्वाज्ज्ञानस्य । अतो नानवस्था । नाप्यन्योन्याश्रयः । प्रथमसूत्रोक्तमीमांसायाश्चाल्पत्वात् । ‘‘दृष्ट्वैव तं मुच्यत’’ इति श्रुत्युक्तमोक्षासाधारणकारणज्ञानस्य च परामर्शार्थकातःपदेन बोधने ‘‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’’ इति श्रुत्युक्तज्ञानसाधनब्रह्मजिज्ञासायाश्च ब्रह्मजिज्ञासापदेनैव बोधने अथशब्देन चाधिकारानन्तर्यबोधने व्युत्पन्नस्य प्रयासाभावान्न तत्रापि कश्चित् क्षुद्रोपद्रव इति ।

अत एवाऽऽरम्भसिद्धेरित्यत्र श्रद्धापूर्वकारम्भसिद्धेरित्यर्थः । अवतेष्टिलोपश्चेति सूत्रादित्यस्य अवतेर्धातोर् मन्प्रत्ययो भवति । प्रत्ययस्थटेश्च लोप इति वृत्ता स्पष्टीकृतार्थकौणादिसूत्रादित्यर्थः । एवं च मकाराख्यानुनासिके परतः ‘‘च्छ्वोः शूङनुननासिके चे’’ति सूत्राद् धातुस्थयोश्छकारवकारयोः शु ऊट् इत्येतावादेशौ भवत इत्यवधातुगतवकारस्य ऊकारादेशे कृते ‘‘आद्रुण’ इति गुणे च कृते ओमिति शब्दः निष्पन्नो भवति । ‘‘एत्येधत्यूट्स्वि’’ति सूत्रोक्तवृद्धिस्तु ‘‘ओमाङोश्चे’’ति सूत्रप्रयोगबलान्न भवतीति भावः । कल्याणगुणैर्गुणान्वोततां वक्तीत्यत्र गुणैरोत इति व्युत्पत्तौ गुणानां कर्तृता भगवतः कर्मता, गुणान् ओतः गत इति व्युत्पत्तौ गुणानां कर्मता भगवतः कर्तृतेति भावः । अथवा ऊयते रूपमेतदित्यत्र क्तप्रत्ययबलेन गुणे निषिद्धे गुणैरूतः गुणोत इति समास इति भावः । आत्मानन्तेश्वरादिशब्दा अपीत्यत्र । ‘‘अनन्तमव्ययं कवि’’मिति तत्प्रकरण एवोक्तानन्तपदं ‘‘यः परः स महेश्वर’’ इत्यत्रोक्तमीश्वरपदं चेत्यर्थः ।

भवतेर्बहुत्वार्थस्य क्विपि रूपमेतदित्यत्र ‘‘बहोर्लोपो भू च बहो’’रिति वचनाद् भूधातुनिष्पन्नशब्दस्य बहुशब्दस्य चैकार्थत्वादिति भावः । भवतेरन्तर्णीतण्यर्थस्येत्यत्र ‘‘अचिश्नुधातुभ्रुवां य्वोरियङुवङौ’’ इति सूत्राद् उकारस्योवङादेशे सतीत्यपि द्रष्टव्यम् । सु शोभनं सुखमित्यर्थः । तस्य भावः सुत्वमित्यभिधायोक्तं सुत्वात् सुखत्वादिति ।

अथवा ब्रह्मणः कर्मत्वेनेत्यत्र ब्रह्मजिज्ञासा कर्तव्येति प्रयोगे हि कर्तव्यपदोक्तेष्टसाधनता, अन्नभोजनं कर्तव्यमित्यत्र त्वन्नभोजनस्येव जिज्ञासाया एवेति प्रतीयते । कर्मभूतब्रह्मणस्त्वन्नस्येव व्यावर्तकत्वरूपोपसर्जनत्वमात्रं प्रतीयते । अतः कार्यभूतब्रह्मण्यप्यप्राधान्यशङ्का स्यात् । अयं जिज्ञास्यः जिज्ञासाविषयः कर्तव्य इति प्रयोगे तु कर्तव्यपदोक्तेष्टसाधनत्वस्य ‘‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च स’’ इति वचनादिष्टत्वेन ज्ञानिनामपेक्षितज्ञानमोक्षयोरसाधारणकारणे भगवत्येव प्रतीत्या तस्यैव प्राधान्यं सिद्ध्यति । अतो ब्रह्मजिज्ञासा कर्तव्येति वदत्सूत्रश्रुत्योरपीदमेव तात्पर्यमिति भावः । इष्टसाधनादप्युद्देश्यस्यैव प्राधान्यमिति पक्षेऽपि नास्माकमनिष्टमित्याह ज्ञानविधौ हीति । ब्रह्मज्ञानं कर्तव्यमिति ज्ञानविधौ विधिकोटौ प्रविष्टस्य ब्रह्मण उद्देश्यकोटावप्रवेशादप्राधान्यम् । ब्रह्मज्ञानोद्देशेन जिज्ञासाविधाने ब्रह्मण उद्देश्यकोटौ प्रवेशात्कुतोऽप्राधान्यम् ।

ननु वेदान्तविषयकजिज्ञासेति वदतां स्यादयं परिहारः । ब्रह्मविषयकजिज्ञासा कर्तव्येति मते विधिकोटावपि ब्रह्मणः प्रवेशादप्राधान्यमिति चेत्तर्हि, उद्देश्यकोटौ प्रविष्टस्यापि ब्रह्मण उपसर्जनतया कुतो नाप्राधान्यम् । यथाकथञ्चिदुद्देश्यकोटौ प्रवेशान्नाप्राधान्यमिति तु समं परस्यापि । वस्तुतस्तु कर्तव्यपदोक्तेष्टसाधनताया अन्यगामित्वे स्यादप्राधान्यशङ्का, उद्देश्यकोटावप्रवेशेनाप्राधान्यप्रसङ्गस्तु ‘‘आत्मा वा ओ द्रष्टव्य’’ इति श्रुत्या मोक्षोद्देशेन विहितज्ञानविधावुपसर्जनीभूतात्मन एव स्यादिति ‘‘दत्तेऽप्यौषधे न रोगः शान्तः परस्य’’ । अतः साधूक्तं ‘‘जिज्ञास्योऽयं विधीयत’’ इत्यनेनैवाप्राधान्यशङ्कापरिहारः स्यादिति ।

ब्रह्मज्ञानमपि धर्मतयैव वेदार्थ इति वदता सकलवेदार्थोऽपि धर्म एवेत्युक्तं स्यात् । तच्च न घटत इति भावेन मूलं योजयति तत्र सर्ववेदार्थ इति । गतार्थताशङ्का धर्म एव वेदार्थः न त्वन्यत् । धर्मश्च विचारित इति शङ्का । साध्यनिर्देश इति वदता सप्रमाणकं ‘‘जिज्ञासोत्थज्ञानजात्तत्प्रसादादि’’त्युत्तरवाक्योक्तं प्रमेयं हेतुरिति सूचितम् । यस्माज्जिज्ञासैवाऽऽदिमं कारणं तस्मात्स एव जिज्ञास्य इति योजनाऽपि सूचिता । उत्तरवाक्यमवधारणार्थं चेत्यत्र एवशब्दादन्ययोगव्यवच्छेदाख्यं यदवधारणं सोऽर्थो यस्य तत् । अनेन श्रुतिर्निरवकाशार्थग्राहित्वात्प्रबला । ‘‘कर्मणैव हि संसिद्धिमास्थिथा जनकादय’’ इत्यादिस्मृतिस्तु अर्थत्रयसाधारणैवकारमात्रग्राहितया सावकाशत्वाद्दुर्बलेति सूचितम् । जिज्ञासयैवेति वदता ‘‘आत्मा वै’’ इत्यत्रोक्तवैशब्द एवकारार्थः । प्रसिद्ध्यर्थकत्वेऽपि प्रसिद्धस्यैव ग्राह्यत्वेन, एवकारार्थ एव तात्पर्यमिति सूचितम् ।

निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वक इति वदता बहुतरशास्त्रजन्यं ज्ञानं तज्जन्यमपरोक्षज्ञानं च न भक्तिशरीरे प्रविष्टमिति सूचितम् । अतो न भक्तिज्ञानयोः साङ्कर्यमिति भावः । एतादृशनिरन्तरपे्रमप्रवाहोऽसम्भावित इति शङ्कानिरासाय सम्भावकप्रमाणं सूचयितुमुक्तं यमधिकृत्येति । यत्रेति वाक्ये विषयान्तराभिलाषराहित्येन भगवद्दर्शनस्योक्तत्वादुक्तार्थोऽवगम्यत इति । ‘‘यस्यां जागर्ति लोकोऽय’’मित्युक्तगीतावाक्ये च लोके सर्वभूतानां परलोकसाधनपरमात्मगुणचिन्तनविषयिणी या निशा अज्ञानं तस्यां निशायां तेषु सत्यामेव संयमी जागर्ति । तन्निशाविषयीभूतभगवद्गुणगणार्णवमेकाग्रमनसा ध्यायति । यस्यां हरीतरदुर्विषयभोगाख्यावस्थायामयं लोकः जागर्ति पश्यतो मुनेः साऽवस्था निशेति । विषयान्तराशाशून्यतया भगवच्चिन्तनस्योक्तत्वाद्भगवति निरन्तरप्रेमप्रवाहोऽवगम्यत इति भावः । स्वादिष्ठो गुडरस इति शतशः वाक्यश्रवणेऽप्यनुत्पन्नः स्नेहातिशयः रसनया गुडरससाक्षात्कारे सति जायत इत्येतत्सर्वानुभवसाक्षिकमिति भावेनोक्तं लोके तथा दर्शनादिति ।

यतो जिज्ञासैवापेक्षितसाधनमतः कारणादपेक्षितफलसाधनत्वकारणादिति यतःशब्दापेक्षाऽतश्शब्दाल्लाभात्प्रकृतस्य विचारस्य हेतुत्वे वर्तत इत्युक्तम् । तच्च प्रयोजनं योग्यतया मोक्ष एवेत्याह तत्रेति । ज्ञानेच्छान्तर्णीत इत्यस्य ज्ञातुमिच्छेति विग्रहवाक्योक्तविचारसाधनेच्छाया विचारसाध्यस्यापरोक्षज्ञानस्यान्तर्णीत इत्यर्थः । जीवपदेन जीवस्यैवोक्तौ लक्ष्म्या असंग्रहप्रसङ्गादित्यतो जीव इत्यभिमानी प्रकृत्यादि तत्त्वानामभिमानीत्युक्तम् । ईश्वरदत्तशक्तेर्मणेः स्वसमीपस्थदहनदाहकत्वशक्तिप्रतिबन्धकत्ववत्स्वान्तःस्थितस्वप्रेरकभगवच्छक्तिसमुपबृंहितस्य बहिर्जीवमावृत्य स्थितस्यापि प्रधानस्यान्तःस्थितस्वप्रकाशजीवचैतन्यप्रकाशप्रतिबन्धकत्वसम्भवादिति भावेनोक्तम् अतः परमेश्वर एवेत्यादि । अस्याविद्यमानमित्यस्य परमेश्वरवत् स्वातन्त्र्येणाविद्यमानं तद्दत्तेषत्स्वातन्त्र्येण विद्यमानं चेत्यर्थः ।

सूत्राक्षरेभ्यो भगवत्प्रसादो न लभ्यत इति परदुराग्रहमनुसृत्योक्तम् । वस्तुतस्तु भाष्यदिशा सोऽप्यतश्शब्देनैव लभ्यत इति ज्ञेयम् । ज्ञानस्वभावादेव मोक्ष इति कुत्राप्यश्रुतेः किमनेन ज्ञानेनाप्रमितेनेत्युक्तम् । किञ्च ज्ञानस्वभावेनैव संसारध्वंस इति वदता दीपानयने तम इव ज्ञानाव्यवहितोत्तरक्षण एव कुतो न मोक्षः । ज्ञानेनाज्ञाननाशे तदुपादानकप्रारब्धकर्मादेरपि नाशावश्यंभावेन कार्यविलम्बे कारणाभावात् । ज्ञानादीश्वरप्रसाद इत्यङ्गीकारे तु प्रसन्नो भगवान् विवेकित्वाद्ब्रह्मसदने वाऽमुक्तगम्यस्वसदने वा ‘‘परान्तकाल’’ इति श्रुत्युक्तपराख्यं चतुर्मुखब्रह्मायुषोऽवसानपर्यन्तमवस्थाप्य पश्चादेव मोक्षं ददातीति न काचिदनुपपत्तिरिति भावेनाह भगवान् भाष्यकारः । ‘‘न हरिं विनेति’’ ।

तत्रानिर्वचनीयत्वं सदसद्विलक्षणत्वं चेदित्यत्र सदसतोर्विलक्षणत्वोक्तयाऽनिवर्त्यत्वप्रयोजकतयोक्तयोरनादित्वभावत्वयोरणुमात्रस्याप्यभञ्जनान्न ह्यनादिभावस्य गगनस्य स्वेतरसकलविलक्षणत्वमात्रेण निवृत्तिरपि शक्यसम्पादनेति भावः ॥ पर्वतो निरग्निक इति विशेषव्याप्तिरित्यत्र यः पर्वतः स हि निरग्निक इति निरग्निपर्वतमात्रे दृष्टा व्याप्तिरित्यर्थः । यदनादित्वरहितमित्यत्र शुक्तिरजतादिज्ञानमिति शेषः । सामान्यविशेषभावे तूक्तमित्यत्र सङ्कोचादिकं विना केवलसामान्यविशेषभावे तूक्तमुत्तरमित्यर्थः । व्याप्तिमात्रस्याप्रतिपादकत्वादित्यत्र यदज्ञानं तज्ज्ञाननिवर्त्यमिति व्याप्तिमात्रोक्तावपि प्रकृतस्याज्ञानत्वाभावशङ्कया न स्वाभिलषितप्रमेयप्रतिपादकत्वं स्यादित्यर्थः । दृष्टान्तस्य साधनवैकल्यमित्यत्र उभयवादिसम्प्रतिपन्नज्ञानाभावाख्यदृष्टान्ते नञोऽभावार्थतयाऽज्ञानत्वं पक्षे तु विरोधार्थतयेत्यर्थभेदादिति भावः । अयं विशेष एकं साद्यपरमनादीति विशेषः ।

स्वरूपप्रध्वंस एवेत्यत्र । स्वावयवैः सहैव दग्धपटप्रध्वंसवदिति दृष्टान्तोऽनुसन्धेयः । वातपुत्रीया इत्यत्र वातपुत्रीया वातपुत्रा वातांशास् तत्सम्बन्धिनः वायुवार्तारूपा इति यावत् । पौरुषेयाः पुरुषेणकर्तुं योग्याः । तत्प्रसादसाधनमित्यत्र साक्षात् प्रसादसाधनमित्यर्थः ।

दर्शनजन्यादेवेश्वरप्रसादादिति वदता परमात्मानं दृष्ट्वा जातात्तत्प्रसादादेव मुच्यत इति यथास्थितवाक्यान्वयः सूचितः । यथास्थितैवकारान्वयस्तु जीवन्मुक्तयवस्थाऽभावप्रसङ्गेन परस्यापि न हृदयङ्गमः । यथाऽऽग्नेयादीनामित्यत्र दर्शत्रिकपौर्णमासीत्रिकाख्यानामाग्नेयादीनां षड्यागानां ‘‘दर्शपूर्णमासाभ्यां यजेते’’ति वाक्येनापूर्वकारणभावे श्रुतेऽपि क्रियाषट्कस्य क्रमिकतया परमापूर्वोत्पत्तिकालेऽभावेन कालान्तरभाविप्रधानापूर्वजननायैकैकक्रियाजन्यान्यवान्तरापूर्वाणि कल्प्यन्त इत्यर्थः । यत्कालान्तरभावीत्यत्र व्यवहितपूर्वकाल एव भावीत्यर्थः । न चेह तथाऽस्तीत्यस्य कालान्तरभाविज्ञानकारणत्वस्य प्रमितभक्तिद्वारेणान्यथैवोपपादितत्वेन मिथ्यात्वाक्षेपकाभावात्कल्प्यमानमिथ्यात्वस्योक्तदोषापरिहारकतयोपपादकत्वाभावाच्चेत्यर्थः । न च दर्शनादर्शनमात्रमित्यत्र लोके प्रत्यक्षेण ज्ञानस्याज्ञाननिवर्तकत्वदर्शनं संसारबन्धनिवर्तकत्वादर्शनं चेत्यर्थः । न नियामकमित्यस्य लोकेऽदृष्टपूर्वेश्वरवत् श्रुत्यैवापूर्वस्याप्यर्थस्य सिद्धिसम्भवादित्यर्थः । तर्हि यागेऽपि श्रुतिबलाल्लोके अदृष्टाऽपि विनष्टस्यैव कारणताऽप्यङ्गीक्रियतामित्याशङ्क्य व्याहतमेतन्न श्रुतिशतेनापि साधयितुं शक्यमिति भावेनाह नियतेति । सत्यस्यैव घटादेर् मुद्गरेण निवृत्तिदर्शनादिति भावेनाह क्वेदमुपलब्धमिति । यज्ज्ञानं तत्सर्वं यस्य कस्यचित्सत्यस्य निवर्तकमिति वदन्तं प्रति स्यादिदमनिष्टापादनं यज्ज्ञानं तद्यस्य निवर्तकत्वेन दृष्टमनुमितं श्रुतं वा तत्तस्य निवर्तकमिति वदन्तं प्रत्यसङ्गतमिदमनिष्टापादनमिति भावेनाह उक्तोत्तरत्वादिति । आत्मयाथात्म्यज्ञानस्यैवापादनविषयतायामित्यस्य आत्मयाथात्म्यज्ञानं बन्धनिवर्तकं चेत्स्वाश्रयगतधर्मादिकमपि निवर्तयेदित्यापादनविषयतायामित्यर्थः । ‘‘पुण्यपापे विधूये’’ति श्रुतेस्तदिष्टमिति भावेनाह इष्टापादनमिति । परकीयतर्कस्याश्रयासिद्धिमाह चित्रावयविनीति । बन्धस्याज्ञानतत्कार्ययोरन्यतरत्वमित्यङ्गीकारवादोऽयम् । वस्तुतस्तु ‘‘बन्धमिध्यात्वं नैव मुक्तिरपेक्षते’’ इत्युत्तरोक्तप्रमेये हेतुसूचनाय देहलीदीपन्यायेन ‘‘इत्युक्ते’’रित्यस्योत्तरत्र योगे ‘‘इत्युक्तेर् ज्ञानिनां मोक्षदश्च स’’ इत्युक्तेर् ज्ञानोत्पन्नभक्तया प्रसन्नः भगवान् परमात्मैव बन्धं निवर्तयतीति सिद्धा बन्धनिवृत्तिरूपा मुक्तिर् बन्धमिथ्यात्वं नैवापेक्षते । ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्त्या हि बन्धमिथ्यात्वं पर आशास्ते व्याप्तिश्च परम्परया ज्ञाननिवर्त्यत्वरूपमिथ्यात्वमज्ञानातिरिक्तजगत्यङ्गीकुर्वता परेणैव साक्षाज्ज्ञानमज्ञानस्यैव निवर्तकमिति वाच्या । एवं चोक्तरीत्या भक्तिर् भगवत्प्रसादद्वारा परस्परया ज्ञानेनाज्ञाननिवृत्तौ व्याप्तेः कथमुपयोगः । ज्ञानमज्ञाननिवृत्तिद्वारैवान्यनिवर्तकमिति दुराग्रहेऽस्माकमपि ज्ञानेन भगवज्ज्ञानाभावरूपमज्ञानं प्राक् निवर्तताम् । तेन च भगवति भक्तिरुत्पद्यताम् । भक्तया च प्रसन्नो भगवान् बन्धं निवर्तयतु । एवमप्यज्ञानोपादानकत्वमन्यद्वा मिथ्यात्वं नैव मुक्तिरपेक्षत इति मूलरीत्या सर्वमवदातमिति ज्ञेयम् ।

अध्यासवर्णनस्य का सङ्गतिरित्यस्य विरोधेनैव ज्ञानादज्ञाननिवृत्तिसम्भवे पुनस्तस्य मिथ्यात्वकथने न किञ्चित्कारणमिति भावः । श्रुत्यादिनाऽज्ञानमिथ्यात्वशङ्कामनुवदति अज्ञानस्येति । तथासति नीलविशिष्टद्रव्यादेरित्यत्र, एवंसति नीलविशिष्टद्रव्यस्य मिथ्यात्वेन ज्ञानेन सत्यं निवर्तमानमित्यस्य नेदमापादनस्थलमिति भावः । ध्यानं ज्ञानमेव न भवतीति वदन्तं प्रत्यपरोक्षावभासाभावाद्यापादनस्येष्टापादनत्वमिति चेत्, सत्यम् । अयमभिसन्धिष् टीकाकारस्य । अस्ति तावद्ध्याने काचिद्धेयप्रतिमा । ‘‘मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृते’’ति वचनात् । अस्ति च तस्या रूपं ‘‘हरिन्मणिनिभं’’ ‘‘हरितोपलाभ’’मित्यादिवचनात् । अस्ति च तदुभयावलोकनरूपं ज्ञानम् । ‘‘ईक्षेत चिन्तामयमेन मीश्वरं यावन्मनो धारणयाऽवतिष्ठत’’ इति स्मृतेः । अन्यथा साक्ष्यनुभवविरोधः । हस्तपरिस्पन्दमात्रेणेव मनःपरिस्पन्दमात्रेण गरुडप्रसादानुपपत्तिश्च । एवं च मानसपरिस्पन्दक्रियैव ध्यानमिति वदताऽपि क्रियैव नानारूपवती प्रतिमा । तदवलोकनं च क्रियाया अनिन्द्रियात्मकत्वान्मनसैवेति वक्तव्यम् । तच्चानुपपन्नमिति भावेनाह स तर्ह्यतीन्द्रियाश्रित इत्यादिना । आत्मन्यारोपित एवेत्यादेरयमर्थः । बुद्धीन्द्रियशरीरविषयतद्धर्मलक्षणस्य बन्धस्याज्ञजनैः प्रतीयमानं यत्स्वात्मनि स्वाभाविकत्वं तदपि बध्नातीति बन्धः स चारोपित एवेत्यस्माभिरप्यङ्गीक्रियते । ‘‘प्रमादात्मकत्वाद्बन्धस्ये’’ति वदता भाष्यकारेणापि स्वाभाविकत्वप्रतीतेर्मिथ्याज्ञानत्वकथनात्स्वाभाविकत्वमारोपितमिति तस्यापि मतम् । तथा देहादौ यत्स्वातन्त्र्यं तदपि मिथ्या । एवं दुखादेर्देहादेश्चाज्ञैः प्रतीयमानं स्वाभाविकत्वं तस्य च परनिरपेक्षत्वरूपस्वातन्त्र्यं च मिथ्येत्यस्माभिरप्यङ्गीक्रियते नायं ज्ञानिसाधारणतया सर्वेषां बन्धको बन्धः । तैर्देहादेरस्वाभाविकत्वस्ये श्वराधीनत्वस्य च सदाऽनुभूयमानत्वात् । किं त्वीश्वराधीनदेहान्तःकरणादौ तज्जन्यदुःखादौ च, ईश्वरदत्तं यत्स्वामित्वं स एव मुख्यो बन्धः । भटनिष्ठजयपराजयादौ स्वामित्वमात्रेण राजा जयीत्यादिवद्राजचैतन्येऽप्युच्चत्वदर्शनेनान्तःकरणादौ तज्जन्यदुखादेः स्वामित्वमात्रस्यापि जीवचैतन्ये उच्चत्वनीचत्वापादकत्वात् । स च सत्य एव । ‘‘ज्ञानिनां मोक्षदश्च स’’ इति भाष्यकारस्यायमेव बन्धोऽभिप्रेतः । तस्य च मिथ्यात्वनिरासनिर्बन्धो युक्ततर एवेति भावेन परिहरति सत्यमित्यादिना ।

आत्मीयतयाऽध्यस्यन्त इत्यत्र आत्मीयतया केवलात्मीयतयेत्यर्थः । आत्मीयता स्वस्वाम्यता तांश्चात्मनो विविक्तानपीत्यत्र क्षीरान्तस्थनीरवत् । तथा विविक्ततयाऽनुपलम्भमानः । आत्मीयत्वेन आत्मनिष्ठत्वेन । क्षीराद्विविक्तनीरत्वेनाप्रतीयमाननीरे, क्षीरे सत एव क्षीरत्वस्य संसर्गमात्रारोपवदात्मनो विविक्ततयाऽप्रतीयमानान्तःकरणनिष्ठदुःखादेरेव संसर्गमात्रमारोप्यते । न तु दुःखादीनामप्यारोप इति भावेन तद्धर्मान् दुःखादीन् सत्यानेवेति । अत्रापि तदधिष्ठितत्वमात्रं मिथ्या । भगवद्दत्तदुःखस्वामित्वाख्यसम्बन्धस्सत्य एवेति ज्ञेयम् ।

अत्रापि यः स्थाणुः स पुरुष इतिवदित्यत्र व्याख्येये सति हि व्याख्यानम् । यद्रजतमिति प्रतीतं सा शुक्तिः, यः सर्प इति प्रतीतः सा रज्जुरिति शिष्टानां प्रयोगसद्भावेऽपि यद्रजतं सा शुक्तिः, यः सर्पः सा रज्जुरित्यादिविरुद्धप्रयोगस्य क्वाप्यदर्शनेन यः स्थाणुरिति प्रतीत ऊर्ध्वतालक्षणो धर्मी स पुरुष इति व्याख्यानरूपप्रयोगस्य सम्भवेऽपि त्वदभिलषितविरुद्धव्याख्येयप्रयोगस्यासम्भाविततया दृष्टान्ताभावात् । योऽहमध्यासधर्मी ब्रह्मचैतन्यं तद्ब्रह्मेति हि परस्याऽशा । एवं सति अहमज्ञ इत्यनाद्यज्ञानाध्यासे प्रतीयमानाहंपदार्थः शुद्धचैतन्यमेव भवेत् । अज्ञानाध्यासोत्तरकालसाध्याहमध्यासस्य सृष्टेरुत्तरत्र सम्भवेऽपि प्रलयकालेऽभावादज्ञानाध्यासाप्राप्तज्ञानपदे चैतन्ये उत्तरकालीनाहंपदमात्रप्राप्तौ कारणाभावाच्च । ‘‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथे’’ति स्मृतौ सकलजगदुत्पत्तेः प्राक्सकलजगत्प्रलयादुत्तरत्र च कीर्त्यमानाहंपदवाच्यस्य ब्रह्मचैतन्यस्य निरवधिकत्वादवाच्यत्वाच्च ।

अतो यत्किञ्चिदेतत् । चैतन्यस्य च क्रियावेशशून्यस्य साधकत्वायोगादित्यत्र साधकत्वं हि कार्यस्य या सिद्धिरुत्पत्तिस्तां प्रत्यनुकूलत्वम् । कथमन्यथा निष्क्रियस्य कालादृष्टादेः साधकता । अतः कार्ये क्रियावेशावश्यम्भावेऽपि कारणे क्रियावेशस्य निष्कारणत्वेन ब्रह्मकारणतायामनुपपत्त्यभावात् । अतः परस्यैव ब्रह्मरूपक्रियावेशो न ब्रह्मणः । तत्साधनाय साक्षिप्रत्यक्षं प्रमाणीकृतमित्यत्र तत्साधनाय अज्ञाननास्तित्ववादिनं प्रति तस्याज्ञानस्य साधनायास्तित्वसमर्थनाय । प्रत्यक्षावभासदर्शनादिति प्रत्यक्षावभासरूपसाक्षिण एव लिङ्गतया साधकत्वेन कीर्तनादिति भावः । अज्ञानवशादेव साक्षिणः साधकत्वमित्यत्र अज्ञानविशिष्टस्य साक्षिणः साधकत्वेऽज्ञानस्यापि स्वस्थितिं प्रति स्वस्यैव कारणत्वापत्तेरात्माश्रयप्रसङ्गेन केवलं साक्ष्येव साधक इति वक्तव्यम् । किं च प्रातीतिकाज्ञानप्रतीतिरूपे साक्षिणि प्रतीतेः प्राक् साक्षिसाचिव्यायाज्ञानप्रवेशासम्भवेनाज्ञानस्वरूपनिष्पत्तावपि केवलसाक्षिण एव हेतुत्वाच्च । अतोऽज्ञानवशादेवेति रिक्तं वचः । प्रकाशाश्रयमित्यत्र प्रकाशपदेन चिद्रूपप्रकाशः कथ्यते । तमःपदेन भावरूपमज्ञानम् । सौरालोकवच्चिद्रूपप्रकाशस्याविशेषवादिनेत्यर्थः । कृतकत्वं प्रयत्नानन्तरीयकत्वेन शक्यसाधनम्, अविशेषस्य साधकत्वरूपविशेषसाधनं तु व्याहतत्वादशक्यमिति दूषणे सत्येव दूषणान्तरमाह स प्रष्टव्य इति ॥ एतस्माद्दुःखादिकमेव सत्यमित्येवोक्ते कुतो हेतोरिति शङ्कायां तस्य तद्विषयत्वादिति वाक्यान्तरमध्याहृत्य योजनीयम् । व्यावहारिकपदेनैव दुःखादेर्ग्रहणे तेनैव पदेन तस्य तद्विषयताऽपि लभ्यते । न तु तदर्थमपि वाक्यान्तरमपेक्षितमिति भावेनाह न हीति ।

व्यतिरेके चेत्यत्र मायावादिना क्रियमाणो व्यवहारः प्रमाणादिसत्ताभ्युपगमव्याप्तो भवितुमर्हति साधनबाधनक्षमव्यवहारत्वात्तत्त्ववादिव्यवहारवदित्यनुमानेऽन्वयव्याप्तौ स्पष्टोपाध्यभावेऽपि यो व्यवहारः प्रमाणादिसत्ताभ्युपगमव्याप्तो न स साधनबाधनक्षमव्यवहारोऽपि न यथाऽप्रामाणिकव्यवहार इति व्यतिरेकव्याप्तावित्यर्थः । तत्र हि साध्यं साधनबाधनाक्षमव्यवहारत्वं यत्र यत्र तत्र सद्वचनाभासलक्षण योगित्वमस्ति । अतोऽसौ साध्यव्यापकः । न चैवमित्यत्र प्रमाणसत्ताभ्युपगमसाधनरूपकथान्तरप्रसक्तयादिदोषः । प्रमाणसत्तानभ्युपगम इत्यत्र कथास्वरूपनिष्पादककथनेऽपि कथान्तरत्वे कथाङ्गभूतव्याप्तिदृष्टान्तादिकथनेऽपि कथान्तरत्वं स्यादिति भावः । कथाप्रवेशमभ्युपगम्येति अङ्गीकृत्योक्तम् ।

वस्तुतस्तु प्रमाणसत्तामनङ्गीकुर्वतां चार्वाकादीनां कथकतैव न स्यादिति स्वमते स्वशिष्यान् प्रति बोधयितुं कथायामुपयोग इत्यपि द्रष्टव्यम् । प्रतीतेः पारमार्थिकत्वादित्यस्य अधिष्ठानचैतन्यस्यैव सकलजगत्प्रतीतित्वात्तस्य च पारमार्थिकत्वादित्यर्थः । अस्ति चेत् सत्यत्ववादिनां हि सत्या वृत्तिरेव तत्तदर्थज्ञानं न त्वधिष्ठानचैतन्यं नामास्तीति बाधोऽस्तीति चेत्, तस्याप्यभावस्य ज्ञानं चैतन्यमेवेति वदतो मम सैव परमार्थसती । नहि तस्या अपि बाधः परेण वक्तुं शक्यते । प्राचीनाधिष्ठानचैतन्यस्य पुनरुत्थानप्रसङ्गात् । नन्वेवमप्युत्तरकालीनाभावप्रतीतेरेव बाधाभावेन पारमार्थिकताऽऽगता न प्राचीनप्रतीतेरित्यत आह न च प्रतीतेरिति । इदमपि चिन्त्यम् । बाधितस्य प्राचीनचैतन्यस्याबाधितस्योत्तरचैतन्यस्य चैक्यायोगात् । सर्वस्यापि भावाभावात्मकबाह्यजगतः वृत्तिरेव ज्ञानं न तु तत्तदधिष्ठानचैतन्यं नामास्तीति बाधे यस्यकस्यापि त्वदभिलषिताबाधिताधिष्ठानचैतन्यस्यैवासिद्ध्या, उक्तकुयुक्तेरनवसर एव । एवं च सत्त्वप्रतीतिरेव सत्तेति वदतः प्रतीतिपरम्परया तार्किकादिभिरुच्यमानाऽनवस्था तदवस्थैव । अधिष्ठानचैतन्यभावे घटवृत्तावुल्लिख्यमाना सत्ता ब्रह्मगतैव चेदन्यताख्यातिप्रसङ्गः । घटगता चेत्सैव सत्ताऽस्तु किमनेन निर्वचनेन । किं च जगति सत्ताप्रतीतिरेव सत्ता चेद्ब्रह्मण्यपि सैव सत्ता स्यात् । लाघवात् । श्रुतिबलाद्ब्रह्म सच्चेज्जगदपि तत एव सत्स्यात् । अर्थक्रियाकारिणि जगति तदयोग्यशुक्तिरजतादितो वैलक्षण्याय सत्त्वप्रतीत्यतिरिक्तसत्ताया एव सर्वैरपि वक्तव्यत्वाच्च । अपि च सत्त्वप्रतीतेरेव सत्त्वेऽन्धकारस्थघटादेरसत्त्वप्रसङ्गः । तत्राप्यधिष्ठानचैतन्यमेव सत्त्वप्रतीतिरिति त्वज्ञानावृतमधिष्ठानचैतन्यं न तत्तदर्थप्रतीतिरिति वदता त्वयैव न वक्तुं शक्तया । ऐश्वरीसत्ताप्रतीतिरपि स्वाश्रयाव्यामोहकमायाश्रयमीश्वरं वदतस्तवैव न । सत्ताप्रतीतियोग्यता तत्राप्यस्तीति चेत्तर्हि सत्त्वप्रतीतियोग्यध्वस्तघटादितो व्यवच्छेदायाभावाप्रतियोगित्वापरपर्याया विद्यमानत्वरूपा सत्यता योग्यतानिर्वाहाय भवतैव वाच्या या अतः सैव सत्ताऽस्तु किमनेन बकबन्धन्यायेन । किं चाऽऽविपालगोपालबालं सकललोकानुभवसिद्धा तत्तदर्थगता सत्ता कुतोऽन्यत्र नीयते । श्रुतिस्तु सार्वजनीनबहुतरप्रत्यक्षबाधिता स्वाध्येतृस्वाध्यापकस्वस्वरूपनिष्पादक स्वरवर्णाद्यभावाच्च भीता प्रयत्नशतेनापि न तवोपकर्त्री । अतः केवलं स्वमतरक्षायै कल्पनेयं वाच्या । एवं च ‘‘बहूनामनुग्रहो न्याय्य’’ इति वचनात्सार्वजनीनानुभवसिद्धसकलमतरक्षणाय तत्तदर्थगतैवास्तु सत्ता, किमनेन दुराग्रहेणेत्यादिदूषणं शिष्यैरेवोह्यतामिति भावेनाह अत्रेदं वक्तव्यमिति ।

सद्भेदसंस्थितिरिति साध्यनिर्देशात्सतां पदार्थानां भेदप्रापकमनेकाश्रितं सत्तासामान्यमेवेति भावेनोक्तम् अर्थक्रियाकारित्वमित्यादि । शब्दानां कामदुघत्वादर्थक्रियाकारित्वस्य स्वरूपत्वमुपेत्य जगति तदनधिकरणत्वसाधने सतां विद्यमानानां मनुष्यपशुपक्ष्यादीनामुपभोज्यान्नपानादीनामर्थक्रियाकारित्वाभावे भेदस्य स्वरूपनाशस्य संस्थितिरेव स्यात् । न मिथ्यात्वम् । ज्ञानबाध्यत्वसाधनेऽन्यथाविज्ञातस्य सम्यग्ज्ञानं बाध इति पक्षे सतां प्रमितानां शुक्तयादीनामारोपिताद्भेदेन संस्थितिरेव स्यान् न तु मिथ्यात्वम् । ज्ञानेन त्रिकालनास्तितावगाहनं बाध इति पक्षे तदनधिकणत्वं नाम ज्ञानबाध्यत्वमेवेति सतोऽप्रमिताद्धेतोः सकाशात्साध्यस्य भेदसंस्थितिर् भेदनाशः स्यात् । हेतोः साध्यावैशिष्ट्यमिति यावत् । अतो न तेन जगन्मिथ्यात्वसिद्धिरिति त्रिशरीरविकल्पद्वयदूषणस्य तेन च विकल्पद्वयसूचनस्यापि कथञ्चिन्मूलवचनादेव संग्रहोऽपि शक्यसाधन इति ज्ञेयम् ।

शाब्दादावित्यत्र नेदं रजतं किन्तु शुक्तिरेवेत्यादिरूपेण ृङ्गग्राहकतया बाधबोधकशिष्टव्यवहारः शब्दः । तत्र नेदं रजतमिति निषेध्यतया रजतस्य ‘‘किन्तु शुक्तिरिति’’ प्रतिविधिगोचरतया शुक्तेश्चेत्युभयोरपि बाधव्यवहारगोचरता दृश्यते । अनेन च व्यवहारेण ‘‘अर्थं बुध्वा शब्दरचने’’ति न्यायेन व्यवहारमूलभूतो बाधप्रत्ययोऽप्यनुमीयते । अतः परचित्तवृत्तेरप्रत्यक्षत्वाद् लोकानुभवमात्रकथनेऽनुभवकलहः स्यात् । अतो ज्ञानकार्याभिलापस्यैव प्रथमतो ग्रहणम् । तस्माच्छिष्टाभिलापरूपशब्द बलात्तदुन्नीतानुभवबलाच्चोभयोरपि बाधप्रतीतिविषयत्वरूपं बाध्यत्वमिति समुदायार्थः । अन्यथा विज्ञातस्येत्यत्र अन्यथा विज्ञातस्य अन्यथा रजतत्वादिना विज्ञातस्य शुक्तिशकलादेरेवेत्यर्थः । बाधतिः खलु लोडने पठ्यत इत्यत्र ‘‘इक्श्तिपौ धातुनिर्देश’’ इति वचनाद्बाधतिर् बाधृ इति धातुः ‘‘बाधृ विलोडन’’ इति व्याख्यानाल्लोडने वर्तत इत्यर्थः ।

यथाप्रतिभासमर्थस्येत्यत्र रजतावयवं विना केवलमविद्योपादानकं रजतमलौकिकरजतम् । आदिपदेनालौकिकसर्पादिकं गृह्यते । एवं चार्थस्य प्रातिभासिकेऽप्यङ्गीकारादन्यत्र सुतरामर्थस्य सत्वादर्थरूपनिमित्ताभावे लक्षणस्यासङ्गतत्वेन सत्त्वस्यैव लक्षणं ममानुकूलमिति घटादिकमेव सन्तं कृत्वा तत्रैव लक्षणस्थितेरिति व्याप्तिरुक्ता वेदितव्या । यत्र पुनर्बाधादिपर्यवसानमित्यत्र भावे भावत्वमेव प्रमितं तत्र पुनर्भावत्वस्यैवाभावसाधने बाधः । अभावेऽभावत्वमेव प्रमितम् । तत्र पुनरभावत्वस्यैवाभावसाधने बाध इत्यनुमानपक्षेंऽशद्वयस्य स्थानद्वये बाध उक्तः लक्षणपक्षेऽव्याप्तिस् तयोर्विशेषणयोः परस्पराव्याप्तिरित्यर्थः । आदिपदेन सत्त्वनिषेधेऽसत्त्वमेव प्राप्तं पुनस्तस्यापि निषेधे व्याहतिरिति यो व्याघात उक्तस्तस्य ग्रहणम् । तस्यापि लक्षणपक्षे एकैकांशस्यासत्त्वेनापरांशस्य बाधितत्वेन परस्पराव्याप्तावेवान्तर्भावः । उभयत्रापि मिलितस्य लक्षणस्यासम्भव एव दोष इत्याह अथवेति । दलविभाग इत्यत्र विभागो विभजनं क्रियेति पक्षे दोषमाह । दलविभाग इति ।

गुणत्वपक्षे दोषमाह स्थायित्व इति । तन्नाशे दलविभागाख्यगुणनाशे । परत्वादिवत्स्यादिति चेदित्यत्र यथा परत्वमेकमेवं बाह्यमपि वस्तु दूरस्थं परं प्रति परं, समीपस्थं प्रत्यपरमिति प्रतिपुरुषं नियतं तथा शुक्तिरजतमपीति भावः । विप्रतिपत्तेरित्यस्य दूरस्थदशपुरुषाणां सर्वेषामपि परत्वेनैव प्रतीत्या प्रतिपुरुषनियतत्वस्य विप्रतिपत्तेरित्यर्थः । अन्यथाकारोल्लेख्यन्यालम्बनमित्यत्र अन्यथाकारः पुरोवर्तिनि शुक्तिशकलेऽन्यथा वैपरीत्येन वर्तमान आकारः रजताकारस् तस्योल्लेख्युल्लेखवन्तं कुर्वन्न तु तदालम्बनम् । अन्यत् शुक्तिशकलमालम्बनं विषयो यस्य तदन्यालम्बनं रजतमुल्लिखदेव नतु तद्विषयं विषयलक्षणायोगात् । शुक्तिशकलं तु विषयलक्षणसम्भवाद्विषयीकुर्वदित्यर्थः । इति तु विरुद्धमित्यस्य विषयत्वं नास्ति विषयत्वमस्तीत्येतद्विरुद्धम् । उल्लेख्यत्वातिरिक्तस्य विषयत्वस्य दुर्निरूपत्वादिति भावः । विरोधमेव स्फोरयितुं पराभिमतविषयलक्षणानि दूषयितुमुपक्रमते तथाहीत्यादिना ननु रजतावभासस्य रजतविषयकत्वे इत्यत्र परकीयशङ्काव्याजेनेदं रजतमिति रजतज्ञानं रजतविषयं न भवतीति स्वसिद्धान्तरहस्यमुपोद्बलयितुं काञ्चन शङ्कामुत्थापयतीत्यर्थः । अन्यथा स्वमतविरुद्धशङ्कायास्तार्किकेण करणायोगात् । अत एव कथं न भवितव्यमिति पराशङ्कितप्रमेयस्यैव दृढीकरणं, तटस्थस्यैवेयं शङ्केति ज्ञेयम् ।

विप्रतिपन्नौ भेदाभेदौ विहायेत्यत्र भेदाभेदौ विहाय सामानाधिकरण्यव्यवहारहेतुभूतस्य केवलमिदं रजतमिति ज्ञानस्य पक्षीकारे सत्यरजतज्ञानस्यापि पक्षीकारप्रसङ्ग इति चेत्सत्यम् । भेदाभेदौ विहायेत्यस्य भेदाभेदाभ्यां विमतिविषयत्वं विहायेति नार्थ । किंतु तदुररीकृत्य भिन्नं ज्ञानमिति वा, अभिन्नं ज्ञानमिति वा भेदाभेदयोः पक्षविशेषणताया एव त्याजितत्वादित्यर्थः । तथापि व्याप्तिज्ञानेन सिद्धसाधनतेति चेदित्यत्र रजतार्थिनः शुक्तौ प्रवृत्तिहेतुभूतज्ञानमिति पक्षतावच्छेदकमात्रसम्पादनेऽपि यथार्थप्रत्ययत्वादिसाध्यं साधनं च प्राचीनमेव । अत्र च यः प्रत्ययः स यथार्थ इति व्याप्तिज्ञानेऽपि याथार्थ्यस्य परेणानङ्गीकारात् कथं सिद्धसाधनतेति चेत्सत्यम् । नैतदनुमानजनितं ज्ञानं तत्तदिष्टसाधनं यथा सम्प्रतिपन्नमित्यानुमानिकमिष्टसाधनताज्ञानमेव वक्तव्यम् । तत्र चानुमितं ज्ञानं प्रवर्तकमिति वदताऽपि साध्यमात्रज्ञानस्य प्रतिज्ञामात्ररूपत्वेन प्रवृत्त्यनङ्गत्वाद्यद्रजतं तदिष्टसाधनमितीष्टसाधनतावगाहिव्याप्तिज्ञानमेव प्रवृत्तिजनकं ज्ञानं वक्तव्यम् । तस्य च याथार्थ्यं परस्याप्यभिमतमिति तेन सिद्धसाधनताया गूढाभिसन्धिना ग्रन्थकृता विवक्षितत्वादित्यर्थः ।

उल्लेखार्थस्य विषयत्वेऽसिद्धेरित्यत्र नामविकल्पे रजतशब्दोल्लेखसद्भावेऽपि रजतत्ववदिदं द्रव्यमित्यादि विकल्पे रजतशब्दोल्लेखाभावेनासिद्धेरित्यर्थः । तज्ज्ञानजनितस्मृतिमात्रयोनित्व इत्यत्र ज्ञानेन जनिता या स्मृतिः रजतपदस्मृतिस्तस्या योनित्व इत्यर्थः । रजतपदस्मृतिहेतुत्वज्ञानत्व इति यावत् । सुवर्णं रजतं तण्डुलान्वाऽऽदद्यादिति पदान्तरसमभिव्याहृततयाऽभ्यस्ते वाक्ये पूर्वसंगृहीतपूर्वपदज्ञानेनाप्युत्तररजतपदस्मृतिसम्भवादिति भावः । व्याघातप्रासङ्गादित्यत्र अन्यथोल्लेख्यन्यालम्बनमन्त्रथा व्यातिरिति मते शुक्तिविषयत्वं विहाय रजतविषयत्वस्याप्यङ्गीकारे व्याधातापातादित्यर्थः । शुक्तिरजतयोरभेदप्रसङ्गादित्यत्र प्रवर्तकतया सर्वसम्मते सत्यरजतज्ञाने रजतज्ञानविषयस्य पुरोवर्तिन एव रजताभेदस्य दर्शनादिहापि पुरोवर्तिन एव रजतज्ञानविषयत्वे तद्वदेव पुरोवर्तिनि रजताभेदः स्यात् । अन्यथा प्रवृत्तेरेवायोगादित्यर्थः । अविसंवादिप्रवृत्तिजनकदोषानपेक्षसत्यरजतस्थले तयोरभेदेऽपि विसंवादिप्रवृत्तिजनके वैपरीत्यापादकदोषसापेक्षे शुक्तिरजतस्थले नाभेदो वक्तुं शक्यः । तथासति दोषस्यैव वैयर्थ्यप्रसङ्गात् । तस्मादविचारितरमणीयमेतद्दूषणमिति ज्ञेयम् ।

खण्डो गौः शुक्लः पट इत्यत्र खण्डो गौर्मुण्डो गौरित्यादिव्यवहारे खण्डनं नाम पुच्छप्रध्वंसः, मुण्डनं नाम ृङ्गप्रध्वंसः । अनयोश्च प्रध्वंसयोर् गवि पुच्छखण्डनं ृङ्गखण्डनमिति वा । गवि पुच्छं नास्ति ृङ्गं नास्तीत्येव वा प्रतीतिसद्भावेन प्रतीत्यनुसारिव्यवहारसम्भवेऽपि, ईदृशव्यवहारस्य क्वाप्यभावेन शङ्काया एव निर्मूलत्वात् । सत्त्वे वा स्वस्वानुभवविरुद्धव्यवहारस्य गौण्या लक्षणया वा प्रवृत्तेः स्वेनैव वक्तव्यत्वेन पुनः शङ्कानुत्थानात् । अनुभवस्तु न कस्यापि । अत उक्तलक्षणस्यातिव्याप्तिशङ्का दूरोत्सारितैव । यावद्द्रव्यभाविशुक्लरूपेण पटस्याभेदसद्भावान् न तत्राप्यतिव्याप्तिशङ्का । शुक्लः पट इति व्यवहारस्य चाभेदव्यवहारत्वस्यैव सम्भवान्न समाधानेऽप्यायासः । तथाऽपि परकीयन्यायेनैव परस्योत्तरं दातुं प्रकारान्तरेण समाधानमिति द्रष्टव्यम् ।

लिङ्गस्य साध्यधर्मिसन्निकर्ष इत्यत्र साध्यधर्मी पक्षः । यद्यपि पक्षस्यापि विषयत्वमस्ति तथाप्यसाधारणविषयस्य लिलक्षयिषितत्वादतिव्याप्तिशङ्का । पर्वतस्तु नासाधारणविषयः स्थलान्तरे धूमाद्वह्न्यनुमाने पर्वतोल्लेखनियमाभावादिति द्रष्टव्यम् । अनेनैवेत्यत्र श्रोत्रसन्निकृष्टवाक्यरूपकरणजन्ये पदार्थज्ञाने श्रोत्रस्यापि विषयत्वशङ्का पर्वतस्य विषयत्वनिराकरणन्यायेनैव परास्तेति भावः ।

कामुकस्य कामिनीविभ्रम इत्यत्र परकामिन्यां स्वकामिनीत्वविभ्रमे गुणत्वाभिमानात्स्वेष्टपरालिङ्गनविरोधित्वाभावेन गुणत्वाभिमानादित्यर्थः । यथा विषस्य मारकत्वशक्तिं प्रतिबध्येत्यत्र रसौषधेषु विमिश्रितवत्सनाभ्याख्यविषस्य हि भूमरीचिसैन्धवलवणादिपदार्था इत्यर्थः । गुरुपुस्तके कुरुक्षेत्रे च चक्षुषा स्वासन्निकृष्टेतरपुस्तकेत्रादिभ्यः व्यावृत्ता पुस्तकविषयिणी क्षेत्रविषयिणी च बुद्धिर्जायते । तस्यां बुद्धौ श्रुत्युपनीतानां गुरूणामेव कुरूणामेव चोल्लेख एव यथा निरूपकत्वमित्युच्यते एवं दोषसहितपुरोवर्तिसन्निकृष्टेन्द्रियादितरेभ्यो व्यावृत्ता पुरोवर्तिविषयिणी या बुद्धिर्जायते तस्यां बुद्धौ रजतस्यैव य उल्लेखस्तदेव निरूपकत्वं नाम, तत्र च किमसत्त्वेनापराध्यत इति भावेनोक्तं समं प्रकृतेऽपीति । अत एवेत्यत्र अतः सद्रूपाधिष्ठानसंवलितासत्ख्यात्यङ्गीकारात् ।

बाधकाभावादिना समाश्वासस्तु परोक्तरीत्यैवेत्यत्र परोक्तरीत्यानिरस्तः । तयाऽपि बाधकज्ञानस्य ज्ञानद्वयत्वशङ्कास्कन्दितत्वेन निरस्त इत्यर्थः । अत एव रीत्येत्युक्तम् । प्रत्युत्पन्नकारणेत्यत्र ज्ञानं प्रति कारणतया ज्ञानाव्यवहितपूर्वक्षणोत्पन्नत्वं प्रत्युत्पन्नत्वमित्यर्थः । अनुभूतविषयत्वं स्मृतित्वं चेत् हेतूकृतम् अनाकलितरजतस्यानुत्पद्यमानत्वमपि ‘‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत’’ इति वचनात्, आकलितरजतस्यैव जायमानत्वं स्यात् । अतो हेतुसाध्ययोरर्थत एकत्वात्साध्याविशिष्टतेत्यर्थः ।

अनुभवबाधितत्वादित्यत्र प्रमुषिततत्ताकं रजतस्मरणमिति वदतस्तवैवानुभवबाधितत्वादित्यर्थः । तत्तोल्लेखादीत्यत्राऽदिपदेन संस्कारजत्वादिकं गृह्यते । तेन श्रवणजन्यसंस्कारजनिते हरिहरादिस्मरणे नातिव्याप्तिः । अत एव तिक्तगुडादिप्रत्ययप्रक्रियेत्यत्र तिक्तरहितरसनाग्रस्य शिशोरीदृशज्ञानादर्शनेन जिह्वास्थपित्तगततिक्तानुभवजन्यत्वस्य त्वयाऽपि वक्तव्यत्वेन संस्कारजत्वाख्यस्मृतिचिह्नाभावादित्यर्थः। शिशोः प्राग्भवीयस्तनपानोद्बोधकजीवनादृष्टवत्, इह कल्पकाभावादिति वा । अथ यदि तिक्तो गुड इत्यत्र अगृहीतभेदमनुभवद्वयं परो वदेत् तदा—इदं रजतमित्यत्र ज्ञानद्वित्वनिरसनन्यायेन निरस्यत इति भावः ।

सर्वत्र भेदाग्रहसम्भवेनेत्यत्र इदमस्मात् पृथगिति सावधिकत्वेन प्रतीयमानपृथक्तवस्य सर्वदा ग्रहणाभावात्सर्वत्र पृथक्तवरूपभेदाग्रहसम्भवेनेत्यर्थः । भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमादित्यत्र सविशेषाभेदाङ्गीकारेण धर्मिप्रतीतावपि दोषवशाद्धर्मभूतभेदाप्रतीतिसम्भवादित्यर्थः । कृशानुसदृशाद् गुञ्जापुञ्जादित्यत्र यदि च बहुसादृश्यमपेक्षितं तदाऽप्यतिसदृशयोर् यमयोरन्योन्यकार्यकारित्वा दर्शनादित्यूह्यम् । अविसंवादिव्यवहारजनकत्वविशिष्टेत्यत्र संवादरहितज्ञानद्वयस्थलीयरूपरूप्युपलम्भव्यावृत्त्यर्थं ह्याद्यं विशेषणम् । पटगतरूपघटाख्यरूपिणोः सहोपलम्भव्यावृत्त्यर्थं साकांक्षेति विशेषणम् । इदं रूपम् अयं घट इति समानकालीनरूपरूप्युपलम्भव्यावृत्त्यर्थं सहेति विशेषणम् । धर्मधर्मितयोपलम्भः सहोपलम्भो ऽतो ‘‘घटरूपे’’ इति सहोपलम्भेऽपि नातिप्रसङ्ग इति ज्ञेयम् ।

वस्तुदर्शनसापेक्षदर्शनमित्यत्र धर्मिद्वयदर्शनजन्यदर्शनविषयत्वमित्यर्थः । तर्हि न तत् सम्बन्धिद्वयदर्शनजन्यदर्शनविषयत्वं संसर्गातिरिक्तं नास्तीत्यर्थः । न तु व्यवहरणीयविपर्ययानुपलब्धिनिबन्धन इत्यत्र व्यवहरणीययोः पुरोवर्तिरजतयोः संसर्गस्तस्य विपर्ययानुपलब्धिरभावाग्रहणं तन्निबन्धनो नेत्यर्थः। रजतानुपायत्वे सति तदर्थिप्रवृत्तिविषयत्वादिति हेतौ रजतप्राप्त्युपायभूतापणप्रवृत्तिव्युदासाय रजतानुपायत्वे सतीति विशेषणम् । न च व्यवहारस्य योग्यताप्रतिबन्धकत्वेनेत्यत्र प्रतिबन्धकत्वे तु भ्रमसामग्रया उत्तेजकपुनर्भ्रमसम्भव इतित्वाभावः । आश्रयासिद्धेरित्यत्र प्रतिवादिभिर् गुणगतजातेरनङ्गीकारात्, वादिभिर्जातेरेवानङ्गीकारादिति भावः । मात्रेति व्यर्थमित्यत्र अस्मिन् पक्षे यथार्थवृत्तीत्येतावतैव त्वदभिलषितसिद्धेः साध्ये मात्रपदवैयर्थ्यमित्यर्थः । न हि कारणसद्भावे कार्यसद्भावो नियत इत्यत्र जगत्कारणतया रजतकारणभूततेजोबन्नानां शुक्तिं प्रत्यपि कारणत्वे तदपि रजतमेव भवेदिति नियमस्तवापि नाहि । तथासति तस्यापि कटकयोग्यत्वप्रसङ्गात् । अतः कार्यवैजात्याय कारणेषु वैजात्यं त्वयैव वक्तव्यम् । अतः किं शुक्तिशकले ईदृग्रजतावयवप्रवेशकल्पनयेति भावः । न भाव्यं च विसदृशयोरित्यत्र ‘‘आपोऽभिघर’’ इति श्रुत्युक्तं घृतकार्यं विसदृशीभिरद्भिर् न जायेतेति भावः । परमते शब्दस्य निरवयवत्वादिति भावेनाह कथं ककारखकारयोरिति । सदृशमात्रे प्रवृत्तिप्रसक्तिरित्यत्र सदृशपदमङ्गीकृत्योदितम् । वस्तुतस्तु त्रिवृत्करणमहिम्ना ईषद्रजतावयवानां तन्मते सकलपदार्थेष्वपि सत्त्वाद्यत्किञ्चिदिदमिति दर्शनादपि प्रवृत्तिप्रसङ्ग इत्यपि द्रष्टव्यम् । किमपि तत्रास्तीत्यादिज्ञानादपीत्यत्र भूयसामदर्शनमल्पीयसां दर्शनमिति पक्षेऽप्युक्तरीत्या नाल्पीयस्त्वेन तद्दर्शनं वक्तुं युक्तम् । किंतु तद्दर्शनमात्रमिति वक्तव्यम् । अतः किमपि तत्रास्तीति दर्शनेऽपि प्राचीनतृतीयपक्षदूषणन्यायेनाविवेचितरजतावयवदर्शनसद्भावात्तदपि रजतार्थिप्रवृत्तिजनकं स्यादित्यर्थः । ननु शुक्तिशकले बहवो रजतावयवाः सन्ति, अतस्तेषां दर्शने तत्रैव प्रवृत्तिर्नान्यत्रेति चेन्न । किमिदं श्रुतिबलात्कल्प्यते, उत तत्रैव भ्रान्त्यन्यथानुपपत्त्या । नाद्यः श्रुतेः सर्वत्र साम्यात् । न द्वितीयः दोषवशात्सर्वथा तत्राविद्यमानस्य रजतस्यैवारोपेण भ्रान्तेरुपपादितत्वात् । रजतसत्तामित्यत्र संस्कारजन्यभ्रमात्प्रागेव स्वगृहादावनुभूतरजतसत्तामित्यर्थः ।

ननु कथमन्यविषयसंस्कारस्यान्यभ्रमोपयोगित्वं तर्हि प्रत्यभिज्ञादावपीन्द्रियस्य स्वायोग्यतत्तामात्रग्रहणे सहकारी संस्कारः कथमत्र वस्तुभ्रममप्युपजनयेत् । दोषसहितेन्द्रियाद्वस्तुभ्रमश्चेन्न तर्हि साक्षात् संस्कारस्य वस्तुभ्रमे उपयोगः येन समानविषयताऽऽशङ्क्येत । किं त्वविदितरजतजातेर्बालस्य रजतभ्रमादर्शनात्क्वचिद्रजतानुभवो वक्तव्यः । अनुभूयमानरजतारोपेऽनुभवेनैव चरितार्थता न पुनः संस्कारापेक्षा । चिरनष्टानुभवस्य तु जातिस्मरणाय तदनुभवजन्यस्तद्विषयकश्च संस्कारोऽपेक्ष्यते । अतस्तस्याऽऽरोप्यमाणविषयकत्वशङ्काऽविचारितरमीयैवेति द्रष्टव्यम् । वस्तुगत्या विनष्टे घटे तद्विनाशमजानानस्य तद्धटात्मकतया घटान्तरे भ्रमो जायते । श्वो घटं करिष्यामीत्युक्तवा विस्मृततत्करणस्य कुलालस्य शालायां प्राग्विद्यमान एव घटे करिष्यामीत्युक्तो घटोऽयमिति भ्रमो जायत इति भावेनोक्तं किं चेति ।

रजतासत्त्वप्रमाणस्योपन्यस्तत्वादित्यत्र न चानुभवे विवाद आवयोः समयाभिमानरहितानामविपालगोपालादीनां च रजतभ्रमात्प्रवृत्तानां बाधोदये सति शुक्तिरेवात्रास्ति रजतं नास्त्येवेत्यभिलापरूपो व्यवहारः सर्वैरपि श्रूयते । ‘‘यद्धि मनसा ध्यायति तद्वाचा वदती’’ति श्रुतेरीदृशाभिलापमूलानुभवेऽपि न तावद्विवादः । अत्र चाकारस्य नञर्थ तया, सत्त्वस्य चास्तीत्यनेन समानार्थतया, एवकारस्य चोभयत्र साम्येन नास्त्येवेत्यनुभवोऽस्ति असदेवेत्यनुभवो नास्तीत्यस्य व्याहतत्वात् । इदं चोपलक्षणम् । ‘‘यद्धि यथाऽवभासते तत्तथे’’ति वदताऽप्यत्र रजतमस्तीति प्रतीतस्य रजतस्यात्रैव सत्ता वक्तव्या । न त्वन्यत्रेति त्वदुक्तन्यायस्यैव विरुद्धत्वादित्यपि द्रष्टव्यम् । यथा दूरस्थयोश्चूतपनसयोरित्यत्र दूरस्थत्वदोषाच्चूतान्तरे विलीनस्यात एव चूतात्पृथगदृश्यमानस्य, एकश्चूत एवायमिति दृश्यमानचूतैक्येन भ्राम्यमाणपनसस्य चूतस्य चेत्यर्थः । इदं चोपलक्षणम् । क्षीरतयैव प्रतीयमानक्षीरान्तर्गतनीरस्य क्षीरस्य चेत्यपि द्रष्टव्यम् । ज्ञानसन्ततिरेवात्मेति मते ज्ञानख्यातिरप्यात्मख्यातिरिति भावेन आत्मख्यातिपक्ष इत्युक्तम् । दोषजन्येति विशेषणवैयर्थ्यादित्यत्र ब्रह्मणि क्षणिकत्वादिविभ्रमविषये दोषजन्यज्ञानविषयत्वस्य परमतेऽपि सत्त्वेन सर्वथा भ्रमागोचरमसदेव व्यावर्त्यं वक्तव्यम् । तस्य ज्ञानविषयत्वाभावमते विशेष्येणैव व्यावर्तितत्वाद्विशेषणस्य व्यावर्त्यं नास्तीत्यर्थः ।

अधुना किमिदं दोषजन्यं ज्ञानं वृत्तिरूपज्ञानं वा, अर्थोऽप्यध्यासः मानमप्यध्यास इति पक्षे अविद्याविलसितं किञ्चिद्भ्रमज्ञानं वा चिद्रूपज्ञानं वा, इति विकल्पं मनसि निधाय क्रमेण दूषयति किञ्चेत्यादिना । सत्यत्वाद् अप्रातिभासिकत्वादित्यर्थः । अविद्यापरिणामतया केवलाविद्यापरिणामतया । अन्तःकरणवृत्तिरूपत्वस्य चिद्रूपत्वस्य चाभावेन ज्ञानत्वस्याप्यभावादित्यर्थः । व्यभिचार इत्यत्र पररीत्या व्यभिचार इत्यर्थः । शुक्तिरजतवद्दोषजन्यज्ञानविषयत्वघटकप्रातिभासिकत्वरूपानिर्वचनीयत्वसाधने स्वमतेऽपि व्यभिचारः । अनिर्वचनीयत्वमात्रसाधने घटादौ सपक्षे हेतोरवर्तमानत्वेनासाधारण्यं च स्यात् । अविद्याख्यदोषजन्यज्ञानविषयत्वपक्षेऽन्यतरासिद्धो हेतुरिति द्रष्टव्यम् । शुक्तयादावात्मनि चेत्यत्र रजतभ्रमाधिष्ठानभूतशुक्तयादौ क्षणिकत्वादिभ्रमाधिष्ठाभूतात्मनि च हेतोर्वृत्त्या प्रातिभासिकानिर्वचनीयसाक्षिवेद्यरजतादौ तदभावेन साध्यविपर्ययव्याप्त त्वाद्विरुद्ध इत्यर्थः ।

सत्त्वासत्त्वे इत्यनुमाने यादृशतादृशसत्त्वासत्त्वपक्षीकारो वा, पारमार्थिकत्वरूपसत्त्वात्यन्तासत्त्वयोः पक्षीकारो वा इति विकल्पं मनसि निधाय द्वितीयपक्षे धर्मत्वहेतोर् वक्ष्यमाणसत्त्वासत्त्वयोर्व्यभिचारस्यांशतः सिद्धसाधनत्वस्य गोत्वाश्वत्वे एकत्र स्तः धर्मत्वात्, मूकत्ववाग्मित्वे एकत्र स्तः धर्मत्वादित्यादिरूपेण व्याघातमात्रोच्छेदकानुमानपरम्परया, आभाससाम्यस्य च स्पष्टत्वात्प्रथमपक्षे दूषणमाह सत्त्वासत्त्वयोरिति । एवं च विकल्पमुखेन प्रवर्तनान्न छलादिदोष इति द्रष्टव्यम् । असत्त्वं च प्रत्यक्षादिसिद्धमित्यत्र पूर्वोत्तरकालयोरसत्त्वस्य वर्तमानकाले सत्त्वस्य च प्रत्यक्षसिद्धत्वात्सकलदेशकालासत्त्वरूपात्यन्ताभावप्रतियोगित्वं बाधितमेवेति भावः । एकस्मिन्न स्त इति साध्यत इत्यत्र ईदृशप्रतीतेः संसर्गाभावमात्रविषयत्वेनान्योन्याभावमादाय नार्थान्तरतेति भावः ।

तथाऽप्येकत्वगुणवद्भिन्नाधिकरणेत्यत्र एकत्वगुणवद्भिन्नं निर्गुणं गुणक्रियादिकं तत्र सत्त्वासत्त्वसंसर्गस्य विद्यमानत्वेऽप्येकत्वगुणवदधिकरणक संसर्गाभावप्रतियोगित्वस्य वक्तुं शक्यत्वेनास्याः प्रतिज्ञायाः सर्वत्र त्वदभिलषितसदसद्वैलक्षण्यसाधकत्वासिद्ध्याऽर्थान्तरता, तद्वच्छुक्तिरजतादेरपि निर्गुणत्वात्तन्मात्रेण साध्यसिद्धिसम्भवे त्वदभिमतसदसद्विलक्षणत्वासिद्ध्याऽर्थान्तरता । घटादौ च गुणमात्रप्रतिषेधेनापि साध्यसिद्ध्याऽर्थान्तरता चेति भावः । गुणनिषेधो बाधितश्चेत्सत्त्वनिषेधः सुतरां बाधित इति ज्ञेयम् । वस्तुपदादाने तु सत्त्वानधिकरणे शशविषाणादौ रूपस्याभावेन स्यात् कथञ्चिद्दृष्टान्तता । वस्तुपददाने तु सत्तासामान्यविधुरसामान्यादिष्ववर्तनादेव रूपस्य दृष्टान्तता वाच्या । जातिमनङ्गीकुर्वतामस्माकं सामान्यादिकमपि सत्त्वाधिकरणमेवेति भावेनाह दृष्टान्तस्य साध्यविकलतेति । प्रसक्तौ वाऽन्यथाख्यातिस्वीकारप्रसक्तेरित्यत्र अन्यत्राविद्यमानस्यार्थक्रियाकारित्वस्येहैव प्रसक्तौ तन्निषेधोऽपि रजतनिषेधवत्सार्वत्रिकसार्वकालिकनिषेध एव स्यात् । एवं च कदापि कुत्राप्यर्थक्रियानर्हस्यासत्त्वापरिहारान्नात्यन्तासत्त्वं गृह्यत इत्यस्यालग्नकत्वापातादन्यत्राविद्यमानस्यैवार्थक्रियाकारित्वस्यात्र प्रसक्तिरिति वक्तव्यम् । तथा चान्यथा ख्यातिरपरिहरणीयैवेति गूढाभिसन्धेरुत्तरम् । रजतग्रहणे इत्यस्याविद्योपादानकचिदधिकरणकरजतग्रहण इत्यर्थः । अधिकरणग्रहणस्येत्यस्य शुक्तिरूपाधिकरणग्रहणस्येत्यर्थः । व्यावहारिकत्वादित्यत्र बाह्यव्यावहारिकत्वादित्यर्थः । आन्तरव्यावहारिकसुखादीनां साक्षिवेद्यत्वात् । शुक्तिसम्भेदप्रतीतिनियम इत्यत्र त्वन्मते चिदधिकरणकाऽऽविद्यकरजतस्य शुक्तयधिकरणत्वाभावादित्युपस्कर्तव्यम् । इन्द्रियजन्यवृत्तेरपीत्यत्र इन्द्रियजन्यघटादिवृत्तेरप्यज्ञाननिवृत्तिद्वारा घटोल्लेख एव फलम् । साक्षिणोऽपि वृत्तिद्वाराऽधिष्ठानचैतन्येनैकीभूतस्य घटोल्लेख एव फलमिति फलैक्यादित्यर्थः । शुक्तिकेदमंशस्येत्यत्र शुक्तिकारूपेदमंशस्येत्यर्थः । ब्रह्मणीव पारमार्थिकमित्यत्र ब्रह्मणि पारमार्थिकमिवाम्बरादेर्मायोपाधिकमिवेति योजना ।

अनवस्थितिरित्यत्र विवादपदं शुक्तिरजतमसन्न सत्त्वेनापरोक्षतः प्रतीयमानत्वाद्घटवदिति वदतो मायावादिनः हेतुरस्तु साध्यं मास्त्वित्यप्रयोजकताख्यदूषणं शशृङ्ग एव व्यभिचाराख्यदूषणमन्योन्याश्रयग्रस्ततया व्याप्त्यसम्भवेन व्याप्यत्वासिद्ध्याख्यदूषणं चैकस्मिन्नेव दूषणेऽवस्थितिरवसानं नेत्याद्यर्थोऽप्यनवस्थितिपदेनैव सूचितः । तथा हि सत्त्वेनापरोक्षतः प्रतीतं शुक्तिरजतं नासदिति वदन् प्रष्टव्यः । किमपरोक्षप्रतीताववश्यापेक्षितसन्निकर्षासम्भवादसन्नेत्युच्यते, उतासति सत्तोल्लेखासम्भवात् । नाद्यः दोषवशादसन्निकृष्टमेव रजतं प्रतीयत इति वदता त्वयैव सन्निकर्षासम्भवस्य परिहृतत्वेनापरोक्षप्रतीतौ बाधकाभावात् । न द्वितीयः परोक्षरूपासत्प्रतीतावसति सत्त्वोल्लेखस्यापि त्वयैवाङ्गीकारात् । अतोऽस्तु हेतुः पक्षे साध्यस्य तु नावस्थितिरित्येकस्मिन्नपि पक्षेऽवस्थितिर्नेति चानवस्थितिपदेनैव सूचितत्वात् । अज्ञातशशविषाणाभावेन बालेन दूरमूर्ध्वभूतशशकर्णद्वये आरोप्यमाणशशविषाणयोरसतोः सत्त्वेनापरोक्षतः प्रतीयमानत्वस्य सत्त्वाद्व्यभिचारश्च । साध्यवत्येव हेतोरवस्थितिर्नेत्यनवस्थितिपदेनैव सूचितत्वात् । सत्त्वेनापरोक्षतः प्रतीत्युत्तरकालं शशृङ्गमपि नासदिति तु पूर्वोक्तविकल्पेनैव निरस्तम् । यदपरोक्षतया प्रतीयते तन्नासदिति व्याप्तिसिद्धौ सार्वजनीनतयाऽसत एवास्य शशृङ्गस्यापरोक्षप्रतीत्याऽसत्त्वाभावसिद्धिः । असत्त्वाभावे सिद्धेऽत्र व्यभिचाराभावाद्य्वाप्तिसिद्धिरिति परोक्तहेतोर्व्याप्तिविघटकान्योन्याश्रयकत्वम् । एकस्यावस्थितिं विनाऽन्यस्यावस्थितिर्नेत्यनवस्थितिपदेनैव सूचितत्वादिति द्रष्टव्यम् । हेत्वर्थगर्भमित्यत्र हेतुशब्दस्य लिङ्गवचने प्रसिद्धत्वाद्धेत्वर्थगर्भेत्युक्तम् । युक्तयन्तरमित्यत्र प्राक् ‘‘असत्ये तेन नेष्यते’’ इत्यज्ञानस्य जडाश्रितत्वाङ्गीकारेऽन्योन्याश्रयोऽपसिद्धान्तश्चेति दूषणद्वयं सूचितम् । अधुना जडेऽज्ञानाङ्गीकारेऽप्रकाशस्वरूपत्वादज्ञानस्यैवासिद्धिः स्यात् । अज्ञानस्य ब्रह्माश्रितत्वे हि स्वप्रकाशब्रह्मचितैवाज्ञानसिद्धिः स्यादपि जडाश्रितत्वे तु नाश्रयशक्तयाऽज्ञानसिद्धिस्तस्य जडत्वात्, नाप्यज्ञानस्यैव शक्तया तस्याप्रकाशस्वरूपत्वेन स्वयं प्रकाशत्वाभावात्, नाप्यज्ञानाश्रयप्रकाशशक्तया अज्ञानाश्रये हि प्रकाशः ज्ञाततैव स्यात् । साऽपि जडत्वेनाप्रकाशरूपत्वान्नाज्ञानज्ञानरूपा । लिङ्गतयाऽपि सा ज्ञानमेव ज्ञापयेत् । न त्वज्ञानम् । अहमज्ञ इत्याकारकमज्ञानज्ञानमज्ञानस्य जडाश्रितत्वे न शक्यसम्पादनम् । अतोऽज्ञानस्य जडाश्रितत्वाङ्गीकारेऽज्ञानस्यैवासिद्धिरिति युक्तयन्तरमित्यर्थः ।

प्रसङ्गस्यानिष्टत्वख्यापनायेत्यत्र अभूततद्भावार्थकच्विप्रत्ययबलेन प्रागव्यर्थस्यैव वेदशास्त्रादेर् व्यर्थीकरणमित्यर्थलाभात्प्रामाणिकहानाख्यानिष्टत्वं ख्यायत इति भावः । अनादेरेव बन्धस्य परेण स्वाभाविकत्वानङ्गीकारात् । अज्ञानोपादानकत्वेन सहेतुकत्वाङ्गीकाराच्चानादिभूताज्ञानप्रतिभासेऽपि स्वाभाविकत्वादिविकल्पस्यावसर एवेति भावेनाह स्वाभाविकत्वेति । छन्दांसि वियन्तीत्यत्र वीत्युपसर्गसत्त्वान्नाशार्थकस्य ‘‘इण् गता’’विति धातोर् लटि व्येति वीतः वियन्तीति रूपसिद्धेर् नश्यन्तीत्यर्थः । परोक्तार्थसंख्याशास्त्रार्थानां बाह्यत्वेन साक्षात् साक्षिविषयत्वाभावाज् ज्ञाततया विषयत्वे ज्ञातत्वसम्पादकप्रमाणवृत्तेरपेक्षितत्वात् । प्रमाणावृत्तेश्चाज्ञानविरोधित्वेनावच्छेदकतज्ज्ञाने न पुनस्तत्राज्ञानसम्भवः । अवच्छेदकानां तेषामज्ञाने च न तदवच्छिन्नाज्ञानज्ञानमिति, अतो यदुच्यत इति समाधानं तदसमाधानमिति ज्ञेयम् ।

विवादगोचरापन्नं प्रमाणज्ञानमिति अज्ञानानुमाने ज्ञानप्रागभावं ज्ञोनोत्पाकादृष्टं ज्ञानप्रतिबन्धकादृष्टम् अर्थगताज्ञाततां च व्यावर्तयितुं साध्यगतविशेषणचतुष्टयमिति परस्याशयः । प्रमाणज्ञाततां च व्यावर्तयितुं साध्यगतविशेषणचतुष्टयमिति परस्याशयः । प्रमाणज्ञानस्य ज्ञातृनिष्ठत्वेन अज्ञानस्य च ज्ञेयब्रह्मनिष्ठत्वेन स्वदेशगतत्वाभावात् पररीत्यैव बाध इति दूषणं द्रष्टव्यम् । देवदत्तनिष्ठप्रमाणज्ञानमित्यनुमाने दृष्टान्तीभूतयज्ञदत्तनिष्ठप्रमाणज्ञाने देवदत्तनिष्ठप्रमाप्रागभावातिरिक्तस्यानादेर्यज्ञदत्तनिष्ठप्रमाप्रागभावस्यैव निवर्तकत्वात्साध्यसिद्धिरिति परस्य हृदयम् । तर्हीयमेव सा भवत्वित्यत्र साक्षिणा ज्ञानाभावज्ञानेऽपि अहं न जानामीति वा अहमज्ञ इति वा तदाकारस्त्वया वाच्यः। ततश्च तदुक्तभावरूपाज्ञानप्रतीतिरेवाभावरूपाज्ञानस्य प्रतीतिरभूदित्यर्थः । वस्तुतस्तु नञो विरुद्धार्थकत्वं वदतस्तवापि ज्ञानपदेनाज्ञानाविरोधिसाक्षिज्ञानं परोक्षज्ञानं च विहाय मानसापरोक्षवृत्तिरेव वाच्या । एवं च ममापि परोक्षतः साक्षिणा वा धर्मिप्रतियोगिज्ञानमस्तु । मनसा अपरोक्षतः ब्रह्मज्ञानाभावेन ज्ञानाभावप्रतीतिरप्यस्तु, का नो हानिः । अतः परदूषणाय प्रवृत्तो मायावादी परगृहभित्तेरेव सम्पादकोऽभूदिति ज्ञेयम् । साक्षिचैतन्ये व्यभिचारादित्यस्य साक्षिचैतन्यविषयरजतसुखादेः परमते मिथ्यात्वात्साक्षिणश्च सत्यत्वाद्य्वभिचार इत्यर्थः । ज्ञानस्वभावत्वादित्यनेनावरणस्यावश्यकतामभिप्रैति न तथा संसारे प्रकाशयतीत्यत्र यथा दाहकत्वशक्तिमानग्निर्मणिमन्त्रादिना प्रतिबद्धो न दहति । एनं मा दहेति प्रयोगे एकमेव न दहति, अपरांश्च दहति, तथा ईश्वरशक्तयुपबृंहिताविद्यया बहिष्ठयाऽपि प्रतिबद्धः साक्षी नेश्वरं पश्यति । स्वात्मनि च किञ्चित्पश्यति किञ्चिच्च न पश्यतीति सर्वसम्प्रतिपन्नदृष्टन्तोऽप्यनुसन्धेयः । मन्त्रब्राह्मणोपनिषद्रूपस्येत्यत्र मन्त्रपदेन ऋगादिसंहितावाक्यानि गृह्यन्ते । स्ववचनविरोधस्येत्यस्य ‘‘तत्त्वमसी’’ति वाक्यस्थतत्त्वंपदयोर् मूकोऽहमितिवत्परस्परविरोध इत्यर्थः ।

विरोध्याकारस्य सत्यत्वावगमादित्यत्र तत्त्वंपदोक्तैक्यान्यथानुपपत्त्यैव विरोध्याकारपरित्याग इति या शङ्का साऽप्यस्य वाक्यस्य तत्त्वंपदोक्तजीवब्रह्मैक्यप्रतिपादकत्वे सिद्धे तदन्यथानुपपत्त्या विरोध्याकारपरित्यागः । श्रौततत्त्वंपदप्रमितयोर्विरोध्याकारयोस्तूष्णीं परित्यागायोगात् । तत्त्यागे चायोग्यताख्यदोषाभावाच्छ्रौततत्त्वं पदयोरैक्यप्रतिपादकत्वमित्यन्योन्याश्रयदोषग्रस्तत्वादुपेक्षणीया । किञ्च तत्त्वंपदमुख्यार्थयोरैक्यस्य प्रत्यक्षादिविरुद्धत्वेनायोगे सिंहो देवदत्त इत्यादाविव गौण्या लक्षणया वा अर्थान्तरमेव वक्तव्यम् । नतु श्रौतनित्यपदार्थयोरर्धजरतीयन्यायेन एकांशत्यागम् अपरांशात्यागं चाङ्गीकृत्य तस्यैवार्थस्य घटनाय प्रेक्षावता प्रयतितव्यम् । तथासति मुखमेव कमलमित्युक्तेऽप्राप्तमुखकमलैक्यसम्पादनाय स्वमुखस्थनासिकादेरपि छेदप्रसङ्गात् । सोऽयं देवदत्त इत्यत्रापि योऽतीतदेशकालसम्बद्धोऽभूत्स एवैतद्देशकालसम्बद्ध इति विशेषणद्वयमपि ऐक्याविरोध्येव । नापि तयोरेकस्यापि त्याग उभयांशत्यागस्तु दूरापास्त एव । तथासति प्रत्यभिज्ञया क्वापि स्थैर्यासिद्धेः । तर्हि कथमिदानीं तद्देशकालसम्बन्धो नास्तीति चेत्सत्यम् । तदानीन्तनदेशकालादीनामनित्यत्वेन नाशादेवेदानीं तदभावो न त्वैक्यघटकतयेति सर्वैरपि वक्तव्यत्वात् । कथमन्यथा य एव कुण्डली स एव दण्डीत्यत्रोभयोस्सहैव सद्भावः । अतः परप्रक्रियाया न क्वापि मूलं पश्याम इति च दूषणमनुसन्धेयम् ।

प्रत्युत परत्वादित्यत्र प्रत्येतृप्रतिपत्तेः परत्वेऽपि श्रुतेरनादित्वान्न परत्वमिति दूषणमूह्यम् । प्रत्यक्षाकारस्येत्यत्र प्रत्यक्षविषयः प्रस्तरविलक्षणः करचरणाद्याकारो यस्य यजमानस्य तस्य प्रस्तराभेदप्रदर्शन इयं श्रुतिर् निदर्शिता आपातार्थदर्शिभिर्निदर्शिता । तस्याश्च प्रत्यक्षविरुद्धार्थत्वादपहार इति भावः । समं ममापीत्यस्य तर्हि वाक्यार्थभूतं तप्तेवाकारमुपादाय तत्रापि ममाप्युपजीव्यविरोध ऐक्यवाक्ये तु नैवमिति भावः परस्य । उपजीव्यश्रुतिविरोधादतत्परत्वमाहेत्यभ्युपगमवादोऽयम् । वस्तुतस्तु ‘‘योऽसौ सोऽह’’मित्यत्रापि दुःखित्वासर्वज्ञत्वादिविरुद्धधर्मैर् भगवतोऽत्यन्तभिन्नतया तैस्तैर्जीवैः प्रत्यक्षतोऽनुभूयमानस्वस्वरूपमहमित्यनूद्यास्मीत्यैक्यविधाने उपजीव्यप्रत्यक्षविरोधस्यात्रापि सुवचत्वात् । अत उपजीव्यप्रत्यक्षविरोधमुक्तवा उपजीव्यश्रुतिविरोधं चाहेति टीकाकृतो हृदयम् । अत्रायं विवेकः, अस्ति तावद्यजमानप्रस्तरवाक्ये नाहं प्रस्तरः नापि प्रस्तरोऽहं किंतु आवां सर्वदा भिन्नाविति यजमानस्य त्रिविधभेदानामपि प्रत्यक्षतः प्रतीतिः । अत एव स्वार्थप्रच्यावनम् । तत्त्वमसीति वाक्ये तु नाहं सर्वज्ञः नाप्यसर्वज्ञोऽहमसौ किं त्वावां भिन्नाविति निर्दुःखत्वानिर्दुःखत्वसर्वज्ञत्वासर्वज्ञत्वाद्यनन्तविरुद्धधर्मोपोद्बलितं त्रेधा भेदप्रत्यक्षं जीवस्याप्यस्ति । ‘‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तपे’’त्यादिना स्वस्वरूपं जीवस्वरूपं च निर्दिशत ईश्वरस्यापि नाहमसर्वज्ञः नापि सर्वज्ञस्त्वम् अत आवां भिन्नाविति पूर्ववदनन्तविरुद्धधर्मोपोद्बलितं त्रेधापि वाक्यप्रयोगमूलीभूतं भेदप्रत्यक्षमस्ति । भेदादेर्मिथ्यात्वादिना दौर्बल्यं कथयन् मायावादी दीक्षितः स्वयमेव प्रस्तरः स्यात् । परमते भेदस्य सर्वत्र मिथ्यात्वात् । पराभिधित्सितैक्यस्यावश्यापेक्षितधर्मिप्रतियोगिभूतजीवब्रह्मस्वरूपग्राहकतया सर्वस्यापि भेदप्रत्यक्षस्योपजीव्यत्वं च । अभ्रान्तसर्वज्ञेश्वरप्रत्यक्षस्योक्तषडि्वधभेदगोचरत्वादतिप्राबल्यं च । जैवमानसप्रत्यक्षस्य कदाचित्क्वचिद्य्वभिचारसम्भवेऽपि साक्षिप्रत्यक्षस्य स्वविषयसुखदुःकादौ कदाऽप्यभ्रमदर्शनेन तद्गृहीतदुःखाज्ञत्वादिव्यावर्तकधर्मस्य तदुपोद्बलितभेदस्य चातथात्वशङ्कानर्हत्वेन प्राबल्यमेव । एवं चास्मदीयभेदप्रत्यक्षाणां प्रस्तरयजमानभेदप्रत्यक्षादपि महदन्तरमस्ति । आचार्यैस्तु ईषत्साम्यमादाय वाऽस्मत्प्रत्यक्षस्य आसमन्ताद्विशेषत इति योजनया वा ‘प्रत्यक्षस्याविशेषत’ इत्युक्तम् । अपौरुषेयत्वाच्छतेः प्राबल्यमिति तु प्रत्यक्षविरोधभिया यथाश्रुततत्त्वंपदमुख्यार्थयोरैक्यं त्यजता परेणैव त्यक्तम् । यजमानप्रस्तरवाक्ये बाधितं च । अतः प्रत्यक्षस्यैव प्रबलत्वे यजमानः प्रस्तर इति वाक्य इव मुख्यैक्यं परित्यज्य सादृश्यस्थानमत्याद्यैक्यमेव तत्त्वमसीति वाक्येऽपि योजय । प्रबलप्रत्यक्षसिद्धविरुद्धधर्मत्यागे न कदाप्याशां कुरु । अतस्तवैक्यशशशिशुकोऽपि प्रबलप्रत्यक्षहर्यक्षेणैव भक्षितः । किन्तु प्रबलप्रत्यक्षसिद्धविरुद्धधर्मावनुपमृद्य सादृश्याद्यैक्यं वदतां प्रौढशिरोमणीनां चरणानुसरणशीलो भव । एवं चापौरुषेयतया आप्तवाक्यतया वा प्रमाणीभूतशब्दस्यैव प्राबल्ये तेनैव विरोधिप्रत्यक्षमप्रमाणीकृत्य बाधितमेव मुख्यार्थं तत्त्वंपदयोर्योजय । प्रस्तरमेव यजमानं कुरु । घोषापेक्षी गङ्गाप्रवाहमेव प्रविश । लक्षणा तु न क्वाप्याश्रयणीया । प्रत्यक्षस्यैव प्रबलत्वे च सन् घट इत्यादिप्रत्यक्षविरुद्धत्वदभिलषितमिथ्यात्वमुक्तषड्विधप्रबलभेदप्रत्यक्षविरुद्धं जीवात्मपरमात्मनोरैक्यं च यजमानप्रस्तरैक्यवद् घोषाधारतीरप्रवाहैक्यवच्च परित्यज्य तत्त्ववादी भव । तदुक्तं युक्तिमल्लिकायाम् । ‘‘त्यज वा लक्षणावृत्तिं भज वा तत्त्वविन्मतम् । व्रज वाऽन्यत्र वाणीमुत्सज वा बुधसंसदि’’ इति । तस्माद्विविधवाक्येष्वपि षडि्वधभेदप्रत्यक्षविरोधस्या परिहरणीयत्वान्मृतमारणायैवोत्तरग्रन्थारम्भो न पूर्वदौर्बल्यादिति । व्यवहारास्त्वित्यत्र अस्मिन् ग्रामे अयमेक एवेति स्वातन्त्र्यैक्यस्योदाहरणम् । विशिष्टत्वे उत्तमत्वे वसिष्ठ एव मुनिरित्यादिकम् ।

प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः ।

मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् ॥

इति वाक्योक्तन्यायेनैकस्मिन्नेव देहे जीवपरमयोर्विशिष्टत्वे मिश्रत्वे अन्तःप्रविष्टनीरे क्षीरे क्षीरमेवेदमिति, दूरस्थचूतपनसयोर् एक एवायं चूत इत्यादिकं, स्थानैक्ये गोष्ठे गाव एकीभवन्तीत्यादिकं, मत्यैक्ये एकीभूतास्तु कुरव इत्यादिकं, सादृश्यैक्ये सिंहो देवदत्त इत्यादिकं, टीकोक्तं द्रष्टव्यम् । अगृहीतकार्यताबोधकलिङादिपदसङ्गतेर्बालस्य मध्यमवृद्धस्य च शब्दैकसमधिगम्यत्वदभिलषितकार्यताबोधासम्भवादनुमानादिनेष्टसाधनतामनुमायैव स्तनपानादौ जलपानादौ च प्रवृत्तिरिति त्वयाऽपि वक्तव्यम् । अपूर्वापरपर्यायकार्यत्वस्य मानान्तरबोध्यत्वेऽपूर्वत्वस्यैव भङ्गप्रसङ्गात् । एवं च द्वितीयानुमाने दृष्टान्ते साध्यवैकल्यम् । प्रतिज्ञायामर्थान्तरता च । त्वद्रीत्या गृहीतलिङादिपदसङ्गतेः पुरुषस्य विषसम्पृक्तान्ने शतशः भुंक्ष्वेति प्रयोगेऽपि प्रवृत्त्यदर्शनेनेष्टसाधनताबोधस्यैव प्रवृत्तिहेतुत्वात् । अस्माकं त्वनिष्टसाधनतयाऽवगते तस्मिन्निष्टसाधनताबोधकपदस्यायोग्यतापराहतत्वेनाबोधकता वा स्यात् । विपरीतबोधकता वा स्यात् । नोभयथाऽपि प्रवृत्तिरिति परिहारसम्भवात् । कार्यताबोघादेव प्रवृत्तिरिति वदतस्तव तु कार्यताबोधकपदे सति कुतो न प्रवृत्तिः । ममापि कार्यताबोधे इष्टसाधनताबोधस्य हेतुत्वात्तदभावे कार्यताबोधो न भवतीति चेत्तर्हि आवश्यकत्वादिष्टसाधनत्वमेव लिङाद्यर्थोऽस्तु किमनेन बकबन्धनेन । किञ्च ‘‘ज्योतिष्टोमेन स्वर्गकामो यजेत’’ ‘‘वसन्ते वसन्ते ज्योतिषा यजेत’’ ‘‘अहरहरग्निहोत्रं जुहुयात्’’ इत्यादौ यागादेः स्वर्गादिरूपेष्टसाधनताया मानान्तरागम्यत्वेनेष्टाधनताबोधकाभावान्न कार्यताबोधोऽपि स्यात् । अथेष्टसाधनताबोधकपदान्तराभावेऽपि एतेनैव लिङ्पदेन स्वर्गरूपेष्टसाधनत्वस्यापि बोधने न पुनः कार्यताबोधस्यावसरः शब्दस्य विरम्यव्यापारप्रसङ्गादित्यपि द्रष्टव्यम् ।

तयोरेव हीति सौत्रपदस्य भावकर्मणोरेवेत्यर्थः । कृत्यक्तखलर्था इत्यस्य कृत्यसंज्ञास्तव्यादिप्रत्ययाः क्तप्रत्ययः खलर्थकाश्च प्रत्यया इत्यर्थः । निषिद्धस्यापि ब्रह्महननादेर् इत्यतः परं तस्करस्येति (अकार्यस्येति) योग्यपदमध्याहार्यम् । इदं मे कार्यमित्युक्तवेत्यत्र लौकिकैः कार्यपदेन प्रवृत्तिरूपक्रियाविषयो ग्रामादिरेवोच्यते न तु तदतिरिक्ता कार्यता । प्रवृत्तौ च इष्टसाधनताज्ञानं ममापि कारणम् । अतः परस्यैवेदमननुकूलं न ममेति च दूषणमवगन्तव्यम् । सम्भावनैवोक्तेत्यत्र सुमनःपदेनोक्तेत्यर्थः । जीवस्य प्रियतमत्वमुच्यतइति प्रतिभातीत्यङ्गीकारवादोऽयम् । वस्तुतस्तु ‘‘गौणश्चेन्नात्मशब्दात्’’ ‘‘द्युभ्वाद्यायतनं स्वशब्दात्’’ इत्यात्मशब्दस्य जीवव्यावर्तकतया प्रयुक्तत्वान्न तस्य जीवपरताशङ्का । अतः स्मृत्युच्चारणमभ्युच्चयादेव । न पूर्वास्वरसादिति ज्ञेयम् । अपिच शब्दावित्युपलक्षणम् । अप्येतीत्यत्र विद्यमानोऽपिशब्दः बाल इत्यनेन सम्बध्यते इत्यपि द्रष्टव्यम् । छोटिकावादनपदेनांगुष्ठमध्याङ्गुल्योरन्योन्यघातजोध्वनिरुच्यते । आदिपदेन करसंस्फोटनमुच्यते । पिकः कोकिल इत्यत्र ज्ञातपिकपदार्थ अज्ञातकोकिलपदार्थश्चेत्यध्याहार्यम् । कालत्रयासम्बद्धमित्यत्र वर्तमानार्थको लट् । अतीतार्थका लङ्–लुङ्–लिटः । अनागतार्थका लुट्–लृट्–लृङः । लोट्–लिङोस्तु काले अशिक्षितत्वात् कालत्रयासम्बन्धित्वमिति परस्याशयः । विध्यर्थकतां वदतः पाणिनेस्तु तयोरप्युत्तरकालसम्बन्धित्वमप्यस्तीति हृदयम् । मीमांसकस्तु पाणिनिहृदयानभिज्ञः कालत्रयासम्बन्ध्यर्थतामेवाहेति ज्ञेयम् ।

किं वा शब्दत इत्यत्र शब्दतः कालत्रयानवमर्शो नाम कालत्रयावाचकशब्दवाच्यत्वमित्यर्थः । अगते अनागत इत्यत्र आवृत्त्या गते अतीते इत्यपि द्रष्टव्यम् । परोपदेशं विना स्वोत्प्रेक्षयैव व्युत्पित्सोः प्रौढस्य प्राकृतभाषारहितानां देवलोकस्थानां च व्युत्पत्तेः ‘‘अत्यपूपा’’नित्यादिना क्रम उक्तः । अनयैव दिशा मातृस्वस्रादीनामसकृदुच्चारणेनांगुलिनिर्देशादिना चापूपादिविषयकप्राकृत भाषायां प्राक् व्युत्पन्नेन बालेन गृहीतप्राकृतसंज्ञासङ्गतिकेष्वेव पदार्थेषु पश्चात्पित्रादीनामुपदेशेनापि त्वंपदम् अपरसम्बन्धिभूतस्य तव वाचकम् । भ्रातृपदं च तवैवापरसम्बन्धिभूतत्वात्सहोदरवाचकम् । अपूपपदं च तेन खाद्यमानभक्ष्यविशेषवाचकम् । अत्तिपदं चादनाख्यक्रियाकर्तृत्वविशिष्टस्य तस्यैव वाचकमिति संस्कृतशब्दस्य व्युत्पत्तेर्वृद्धव्यवहारं विनैव सम्भवान्न कार्यान्वित एव व्युत्पत्तिनियम इति लोकसिद्धार्थोऽप्यनेनैव सूचितः । अत एव गामानयति तव भ्रातेत्यादिवाक्यमनुक्तवा बालस्यैवावश्यकम् अत्यपूपानिति वाक्यमुदाहृतम् । एवमेव बालरामायणादिश्लोकेष्वपि व्युत्पत्तिः सूचिता द्रष्टव्या ।

अस्तु वा कार्यपरत्वमित्यत्र कार्यत्वं नाम लिङ् लोट् तव्यप्रत्ययार्थभूतमिष्टसाधनत्वादिकमुच्यते । अष्टाश्रीकरोतीत्यस्य अष्टधारावन्तं करोतीत्यर्थः । प्रत्यक्षादिवैधर्म्यमित्यत्र प्रत्यक्षादिवैधर्म्यपदेन प्रामाण्यातिरिक्ततात्पर्याख्य विलक्षणधर्मवत्त्वमुच्यते । तन्निरासार्थं प्रामाण्यातिरिक्ततात्पर्यनिरासार्थं, प्रमाणबोध्यार्थे तस्य प्रमाणस्यावान्तरतात्पर्यस्याप्यभावे तत्सिद्धेरेवायोगादिति भावः । अर्थपरौ व्यवस्थाऽप्येते इत्यत्र ‘‘बहुलमन्यतरस्या’’मित्यादीनामपि विभाषासंज्ञात्वप्राप्त्यर्थं तौ न वेति शब्दौ अर्थपरौ न वेति पदयोर्योऽर्थस् तत्परावित्यर्थः । तथेहापीत्यत्र अर्थप्रकरणे वैपरीत्यवाचिना इति शब्देनात्मशब्दलाभेऽप्यात्मस्वरूपस्मृतेर्लाभः कथमिति चिन्त्यम् । ‘‘न गिरा गिरेति ब्रूयात्’’ इति वक्ष्यमाणन्यायेनात्राप्यध्याहारसम्भवादिति भावेनोक्तं कुतो नाध्याह्रियत इति । ‘‘स एव सर्ववेदार्थ’’ इति वदताऽऽचार्येणैवान्तःकरणशुद्धिद्वारा कर्मकाण्डस्य ब्रह्मस्वरूपप्रतिपादकत्वेन ब्रह्मकाण्डस्य च भगवत्येव समन्वयस्य सूचितत्वादिति भावेनोक्तम् । यथोक्तं पुरस्तादिति । अभियुक्तवाक्यानुरोधादित्यत्र अभियुक्तपदेन जैमिनिसूत्रभाष्यकारादयो गृह्यन्ते । वेदोषरा इत्यत्र ऊषरपदेन लवणादिमिश्रितत्वात्फलायोग्या असारभूमिर्गृह्यते । उपनिषत्स्वपि वाक्यभेदप्रसङ्गादित्यत्र उद्दालकाद्युक्तब्रह्मविद्यासु श्वेतकेतुप्रभृतीनां भिन्नभिन्नाधिकारिणां श्रूयमाणत्वादित्यर्थः । प्रयाजादिषु तथा दर्शनादित्यत्र पौर्णमासीत्रिकम् अमावास्यात्रिकं चेति यागषट्काज्जन्ये अल्पफलभूतावान्तरफलमात्रे तात्पर्यादर्शनान्मिलित्वा षड्यागजन्ये महाफले महापूर्व एव तात्पर्यदर्शनाच्चेति भावः । ‘‘न गिरा गिरेति ब्रूयात्’’ इत्यत्र पटत्पटदितिवद्गिरा गिरेत्यपि शब्दानुकारी व्यर्थशब्दो गृह्यते । व्यर्थकोलाहलं न कुर्यादित्यर्थः । पार्ष्ठिकान्वय इत्यत्र ‘‘गवा सोमं क्रीणाती’ति साक्षात् क्रियान्वितगोपदेन अरुणया गवेत्यादिरूपेण यः पृष्ठतोऽन्वयः सः पार्ष्ठिकान्वय इत्युच्यते । गौणार्थाङ्गीकारेऽपीत्यत्र तत्सदृशस्त्वमसीति हि गौणार्थः । तदा सादृश्यघटकतया जीवस्याप्यानन्दरूपता वाच्येति भावः ।

यत्प्रमाणं तद्विज्ञानात्मकमित्यत्र प्रमाणं प्रत्यक्षेतरप्रमाणमिति परस्याशयः । बाह्यकरणप्रत्यक्षत्वादित्यत्र बाह्यकरणाख्यप्रत्यक्षविषयत्वादित्यर्थः । अन्तःकरणवेद्यलिङ्गज्ञाने व्यभिचारपरिहार्थं बाह्येति विशेषणम् । अनुमानरूपबाह्यकरणवेद्ये तस्मिन्नेव व्यभिचारवारणाय प्रत्यक्षपदम् । स्वातन्त्र्येण बाह्यार्थज्ञापकजातीयं बाह्यकरणमिति परस्याशयः । चशब्दो व्याख्यानान्तरद्योतक इत्यत्र शब्दस्य प्रमाणत्वाच्चेति अतश्शब्दस्य व्याख्यानान्तरमित्यर्थः । याथार्थ्यं प्रामाण्यमित्यत्र ज्ञाने करणे च साधारणं याथार्थ्यमित्यर्थः । तत्र च चक्षुषः प्रामाण्यमित्यस्य अपरोक्ष एवावान्तरवैजात्यमङ्गीकृत्येति शेषः । सर्वापलापप्रसङ्गादित्यत्र तदानीमेवोत्पन्नविनष्टघटपटादिरूपसर्वेत्यर्थः । परचित्तवृत्तीत्यत्र परचित्तवृत्तिपदेन मूकस्य वा अनुच्चारयतो वा परस्य या चित्तवृत्तिः सोच्यते । आदिपदेन तच्चितस्थं प्रयोजनं गृह्यते । तच्च परस्यानुमानैकवेद्यमिति कृत्वाऽसङ्कीर्णविषयमिति भावः । सममेतच्छब्देऽपीत्यत्र वेदैकवेद्यभगवतः शब्दासङ्कीर्णविषयत्वादित्यर्थः । न च लोकोत्तर इत्यत्र लोकोत्तरे अलौकिके अस्मदादिदृष्ट्यगोचरे इत्यर्थः । तत्कृतसङ्केतः नास्माभिर्दृष्टः । स सङ्केतं कृतवानित्यत्र श्रुतिर्स्मृतिर्वा प्रमाणं नास्तीति भावः । गवि सङ्केतितकरपल्लवादावसाधुशब्दत्वस्याभावात्साध्याव्यापकतेति शङ्कापरिहाराय साधनावच्छिन्नसाध्येत्युक्तम् । किञ्च शब्दानां सहजशक्तयभावे देशे देशे स्वेच्छया भिन्नसङ्केतयितृलौकिकपुरुषवद् ईश्वरोऽपि देशान्तरे कालान्तरे च स्वतन्त्रया स्वेच्छया संस्कृतशब्दानामपि कुतो न भिन्नभिन्नप्रकारेण सङ्केतं कुर्यात् । योगेन भेकादिष्वपि प्रवर्तयितुं शक्यानां पङ्कजादिशब्दानां कुतः पद्मादिष्वेव सङ्केतं कुरुते । अतः सहजैव शक्तिर्वाच्या । नित्यत्वे तु शब्दानामर्थसम्बन्धस्यापि नित्यत्वेन सुतरां न साङ्केतिकत्वमिति बाधितविषयमनुमानमित्यपि द्रष्टव्यम् ।

त्रिः प्रथमामन्वाहेत्यत्र प्रथमाम् ऋचं त्रिस् त्रिवारमाहेत्येकस्यैव वाक्यस्य त्रिःकथनशंसनात्पौनरुक्तयमिति भावः । आपातव्याघातवत इत्यत्र घटोऽस्ति नास्तीति प्रदेशप्रभेदेन परिहारयोग्यो व्याघात आपातव्याघातः । वेदस्यापि प्रामाण्यसम्भवादित्यत्र शाखाभेदेन व्याघातपरिहारे प्रामाण्यसम्भवादित्यर्थः । प्रसङ्गात्स्वीकारार्थमित्यस्य स्वतस्त्वस्वीकारार्थमित्यर्थः । स्वतस्त्वसाधनार्थमिति यावत् । ज्ञानग्राहकेत्यत्र ज्ञानग्राहकमात्रग्राह्यत्वं नाम सकलज्ञानग्राहकग्रहणयोग्यत्वम् । ग्राहकपदेन च यथा ज्ञानमुत्पद्यते तथा तद्ग्राहकं विवक्षितम् । एकामसिद्धिं परिहरतो द्वितीयापन्नेत्यत्र एका असिद्धिः स्वरूपासिद्धिः, द्वितीया विशेषणवैयर्थ्यप्रयुक्तव्याप्यत्वासिद्धिः । धर्मिप्रत्यक्षेत्यत्र सर्वं ज्ञानं धर्मिण्यभ्रान्तमिति न्यायमजानतो मन्दस्य धर्मिप्रत्यक्षे प्रामाण्यसंशयदर्शनादित्यर्थः । तादृशस्थले अर्थनिश्चयादेव प्रवृत्तिरिति शङ्कापनोदायाह । सति च प्रामाण्यसंशय इति दृष्टान्तद्वारिकाया इत्यत्र ज्ञानपदमध्याहार्यम् । नित्यताया बौद्धाद्यागमेष्वित्यत्र नित्यता प्रवाहनित्यता व्यतिरेकाभावो न दोषायेत्यत्र यत्र साध्यं तत्रोपाधिरिति अन्वयेनैवालं यत्रोपाध्यभावस्तत्र साध्याभाव इति व्यतिरेकाभावो न दोषायेत्यर्थः ।

अयं कालः वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानिति विशिष्टव्यतिरेक्यनुमानस्य अयमभिप्रायः । वेदव्यतिरिक्तत्वे सतीदानीन्तनत्वाख्यविशिष्टं वेदत्वे सतीदानीन्तनत्वसहिते वेदे वेदव्यतिरिक्तत्वरूपविशेषणाभावान् न, वेदव्यतिरिक्तत्ववति आगामिनि तु इदानीन्तनत्वाख्यविशेष्याभावान्न । एवं च वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयः वेदोऽपि भवति, आगामिकार्यं च भवति, तत्रागामिपौरुषेयकार्यवत्त्वमादाय न साध्यसिद्धिः पक्षे, आगामिपौरुषेयवत्त्वस्य पक्षीकृतेऽस्मिन् काले स्पष्टं बाधितत्वात् । अतो वेदोऽपौरुषेयत्वस्याद्यापि सन्दिग्धत्वेन बाधाभावाद्वेदाख्यपौरुषेयवत्त्वमादायैव पक्षे साध्यपर्यवसानम् । दृष्टान्ते तु आगामिपौरुषेयवत्त्वमादायैव साध्यपर्यवसानमिति । एवमुत्तरानुमानद्वयेऽपि विशिष्टव्यतिरेको द्रष्टव्यः । अशरीरत्वेन सत्प्रतिपक्षतामित्यस्य ‘‘न च कर्तुः करण’मित्यत्र वक्ष्यतीत्यर्थः । पौरुषेयपदस्थाने अपौरुषेयपदप्रक्षेपेणेत्यत्र न दृष्टान्तानुपपत्तिराशङ्कनीया । इदानीम् इदानीन्तनत्वसहितेऽप्याकाशे कालान्तरे इदानीन्तनत्वरहितत्वस्य सत्त्वादपौरुषेयाकाशमादायैव कालान्तराख्यदृष्टान्ते साध्यसिद्धेरन्यूनत्वात् । श्रुतिस्तु सत्प्रतिपक्षेत्यत्र नित्यत्वश्रुत्या सत्प्रतिपक्षेत्यर्थः । नहि वयं वेदं कूटस्थनित्यं ब्रूम इति अभ्युपगमवादोऽयम् । वस्तुस्थितेः ‘‘वस्तुतत्त्वविचारकं प्रति तु वर्णानां कूटस्थनित्यत्व’’मिति स्वेनैवोक्तत्वात् । वेदः संस्कृत इत्यत्र संस्कारपदेनाभियुक्तकृत व्याख्यानादिकं गृह्यते । यदेकत्र प्रयोगे प्रथममित्यत्र गामानयेति वाक्ये प्राथमिकस्य गोपदस्य सास्नादिमती गौरित्यत्र प्राथम्यादर्शनादित्युदाहरणं द्रष्टव्यम् । आख्यातपदमित्यस्य तिङन्तं क्रियापदमित्यर्थः । गुणविधानेष्वनुपपत्तेरित्यत्र केन जुहोतीत्याकांक्षायां दध्नेत्यादिहोमसाधनद्रव्ये दधित्वदिगुणविधायकेषु वाक्येषु जुहुयादिति लिङन्तपदोदितक्रियानुवादकजुहोतीत्याख्यातपदे प्राधान्यायोगादित्यर्थः । रसवत्यादिप्रदेशस्येत्यत्र रसवतीपदेन महानसमुच्यते । स्मरणस्यानुभववारेत्यत्र वारं वारम् अनुभवो ऽनुभववारमित्यर्थो ऽविद्यमानशक्तयाधान इत्यत्र सर्वथाऽविद्यमानशक्तयाधाने इत्यर्थः ।

नन्वेकं पदमित्यत्र एकं पदमिति एकं वाक्यमिति शब्दादर्थं प्रत्येमीति चशब्दस्य प्रत्येकं सम्बन्धः। ऐक्यप्रतीतिबलादित्यत्र एकं पदमित्येकत्वप्रत्ययबलादित्यर्थः । शक्तिद्वयमित्यत्र पदार्थानामन्वयबोधकत्वशक्तिः पदानां च पदार्थेष्वन्वयबोधकत्वशक्तयाधानशक्तिश्चेति शक्तिद्वयमित्यर्थः । विशेषपर्यवसानस्योक्तत्वादित्यत्र सामान्यतः शक्तौ सत्यां तस्यामेव विशेषशक्तित्वमाधीयते, नतु सामान्यतोऽपि शक्तिरहिते विशेषशक्तिराधीयते, अयोग्येऽपि शक्तयाधानप्रसङ्गात् । अतः सामान्यविशेषभावावलम्बिन्याः शक्तेरेकत्वान्न कल्पनागौरवमिति भावः । प्रथने वावशब्दे इत्यत्र प्रथनेऽर्थे वर्तमानात् तृञ् धातोर् वौ वीत्युपसर्गे सति घञि कृते ‘‘अचो ञ्णि चेति’’ वृद्धौ च कृतायाम् उरण्रपर इति प्रत्याहारपरत्वे च कृते विस्तार इति शब्दनिष्पत्तिर्भवति । नतु शब्दे इति सूत्रार्थः ।

प्रकृतत्वोपपादननिरासार्थमित्यत्र पूर्ववत् प्रकृतत्वस्याप्युपपादनमत्र क्रियत इति शङ्कानिरासार्थमित्यर्थः । प्रवृत्तोऽप्याग्रहादित्यत्र आग्रहात् प्रवृत्त इति योजना ।

‘‘स विष्णुराह हि, तं ब्रह्मेत्याचक्षत’’ इति सूत्रद्वयस्यायमर्थः । देवमीमांसायामन्ते मीमांसितचतुर्मुखादपि परतः कश्चित् सर्वोत्तमोऽस्ति स विष्णुरेव ‘‘एष सर्वेश्वरः’’ ‘‘एको दाधार भुवनानि विश्वा’’ ‘‘यो ब्रह्माणं विदधाति पूर्व’’मित्यादि श्रुतिस्तथा आह हीत्यादिमसूत्रस्यार्थः । ननु वेदान्ते ब्रह्मणोऽपि क्वचित्सर्वोत्तमतोच्यते अतः कथमेतदित्याशङ्कापरिहाराय तं विष्णुं ब्रह्मेत्याचक्षते इत्युक्तम् । ‘‘नारायणः परं ब्रह्म तत्त्वं नारायणः पर’’ इत्यादिश्रुतयस्तं विष्णुमेव ‘‘परं ब्रह्मेत्याचक्षत’’ इति द्वितीयसूत्रस्यार्थः । अत्र छिद्रशब्दोपादानं दृष्टान्तत्वेनेन्यत्र ‘‘छिद्रं रन्ध्रे दूषणेऽपि वक्तत्रं वृत्तान्तरेऽपि चे’’ति नानारत्नमालावचनात् ‘गृहच्छिद्रं बहिर् न प्रकटनीय’मित्याद्यभियुक्तवचनान् न्यूनातिरिक्तमच्छिद्रमस्त्विति भवन्तो ब्रुवन्तु’’ इत्याद्यभियुक्तप्रयोगवशात् ‘‘छिद्रान्वेषणतत्पर’’ इति दुर्जनस्वभावप्रदर्शकसुभाषितप्रयोगाच्च छिद्रशब्दस्य दोषवाचित्वप्रसिद्धेः ।

‘‘अरं शीघ्रेऽपि चक्राङ्गे शीघ्रगे पुनरन्यवत् । महीरुहे शकुन्ते च नेमौ दोषे’’ इति विश्वोक्तेस् तत्समानार्थको ऽरशब्दोऽपि दोषवाचीति निदर्शनार्थमित्यर्थः । उपलक्षणं चैतत् । न विद्यते रं सुखं यस्मादिति व्युत्पत्तिसम्भवाच्चेत्यपि द्रष्टव्यम् । ल्युटष् टित्करणसामर्थ्यादित्यत्र ‘‘टिढ्ढाणञ्’’ इत्यादिसूत्रमर्यादया ल्युट्प्रत्ययान्ते ङीपोविधानं श्रूयते, तच्च स्थानीत्यादिप्रयोगबलादधिकरणार्थमिति गम्यते । ङीपो विधानं च स्त्रीलिङ्गत्व एव स्यान् नतु नपुंसकत्वनियमे । अतस्त्रिलिङ्गत्वमपि सूचितम् । एवमयनशब्दः पुल्लिङ्गोऽपि भवतीति ज्ञेयम् । कथमन्यथा राज्ञः समस्तभाराधिकरणे मन्त्रिणि प्रधानः पुरुष इति प्रयोग इति भावः । यमन्तः समुद्रे कवयोऽवयन्तीत्यत्र अवयन्तीति पदच्छेदः । अवोपसर्गात् ‘इण् गता’विति धातोर् अवैति अवेतो ऽवयन्तीति लट्बहुवचनम् । जानन्तीत्यर्थः ।

इति गुर्वर्थदीपिकायां जिज्ञासाकिरणम् ॥ १११ ॥