तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः
पादार्थोपसंहारः
तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः
सुधा
पादार्थमुपसंहरति तस्मादिति ।
अनुव्याख्यानम्
तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ॥
एको नारायणो देवो भण्यते नात्र संशयः ॥
अन्यत्रगैर्नामात्मकैरिति शेषः । तस्मादित्यस्यैव विवरणमुक्तन्यायैरिति । उक्तो न्यायो येषु ते तथोक्ताः । समन्ततः सर्ववेदगतैः । एको मुख्यार्थः ॥ नात्र संशय इति । लक्षणयाऽयं समन्वयोऽभि- धीयत इति केषाञ्चिन्मतं मुख्यवृत्त्येति सिद्धान्तः । अतो विप्रतिपत्तेरत्र संशयो न कार्यो निर्णाय-कस्योक्तत्वादित्यर्थः । अथवोक्तेऽपि न्यायेऽनादिवासनानिमित्तोऽन्यस्य मुख्यवाच्यत्वविषयः संशयो न कार्य इत्यनेनाचष्टे ।
शेषवाक्यार्थचन्द्रिका
अन्यत्रगौः शब्दैरित्येवोक्तेऽन्यत्र प्रसिद्धलिङ्गात्मकानामपि शब्दाना-मुपादानप्रसङ्गात्तेषां चात्र पादेऽसमन्वितत्वात्क्वचित्समन्वयेऽपि तस्य नामसमन्वयार्थत्वेन तात्पर्या-विषयत्वात् । तथा सति वक्ष्यमाणन्यायैरिति वक्तव्यतयोक्तन्यायैरित्यस्यास्वारस्यप्रसङ्गाच्चेत्यत शेषं सम्पूर्य व्याचष्टे नामात्मकैरिति शेष इति । ननूक्तन्यायैरित्यस्य वैय्यर्थ्यं तस्मादित्यनेनैव तल्लाभादित्यत आह तस्मादित्यस्यैव विवरणमिति । ननु तथाऽप्युक्तन्यायैरित्यस्य न प्रत्येकं भण्यत इत्यनेन सम्बन्धो बाधितत्वादित्यतः शब्दैरित्यनेन विशेषणतया सम्बन्धो वाच्यः । न चायमपि सम्भवति । शब्दा-नामुक्तन्यायरूपत्वाभावादित्यतो बहुव्रीह्याश्रयणेन कर्मधारयानाश्रयणान्नानुपपत्तिरिति भावेन व्याख्याति उक्तो न्यायो येषु ते तथोक्ता इति । गावी गौणीत्यादिभाषाशब्दसाधारण्येनान्यत्र प्रसिद्धनामात्मक शब्दमात्रस्य समन्तत इत्यनेन ग्रहणे उक्तन्यायैरित्यस्यानुपपत्तिप्रसङ्गात्समन्तत इत्यस्य तात्पर्यमाह सर्ववेदगतैरिति ॥ एको मुख्यार्थ इति । ‘एके मुख्यान्यकेवला’ इत्यभिधानादिति भावः । नात्र संशय इत्यप्रसक्तप्रतिषेधोऽनुपपन्न इत्यतः प्रसञ्जकसद्भावान्नाप्रसक्तप्रतिषेधोऽयमिति भावेनाह लक्षणयेति । तर्हि तत एव संशयः स्यादेवेति कथं तदभावोक्तिरित्यतोऽभिप्रायमाह निर्णायकस्येति । उक्तत्वादीक्ष-त्यधिकरण इति शेषः ।
परिमल
उक्तत्वादिति । ‘कथं च लक्षणावादी’ ब्रूयाद्ब्रह्मसमन्वयम् । योसौ शब्दस्य मुख्यार्थ स्तत्रेव स्यात्समन्वयः’ इत्यादिनेक्षतिनये समन्वयसूत्रस्थसंशब्दरूपस्य लक्ष्यत्वेऽनवस्थारूपस्य निर्णायकस्य चोक्तत्वादित्यर्थः ॥
यादुपत्यं
ननु करणापेक्षायाः शब्दैरित्यनेनैव पूर्णत्वादुक्तन्यायैरिति किमर्थमित्यतो नोक्त-न्यायानां पृथक्करणत्वकर्मधारयाश्रयणेन वैय्यर्थ्यं किन्तु बहुव्रीह्याश्रयणेन करणभूतशब्दानुग्राहकत्व-मेवेत्याशयेनाह उक्तो न्यायो येष्विति ॥ उक्तत्वादिति । ईक्षत्यधिकरण इति शेषः ।
वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः
सुधा
वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः
सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृत्तेन भगवताऽऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणा-मेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात् । तां निराकर्तुमाह वासुदेवादीति ।
अनुव्याख्यानम्
वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ॥
अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ॥
प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथाऽपि वा ॥
सुधा
वासुदेवादित्वेनेत्यर्थः । चशब्दो वक्ष्यमाणपक्षान्तरसमुच्चयार्थः । प्रथमपादान्ते कथनादस्मिन्नेव पाद इति भाति । तन्निरासायोक्तं सर्वशः सर्वेष्वपि पादेषु अथवेति निपातसमुदायः पक्षान्तरे । पञ्चमूर्तिर्नारयणादित्वेन । प्रतिशब्दो वीप्सायां कर्मप्रवचनीयः । अथापिवेति त्रयोनिपाता यथाक्रमं प्रतिसूत्रमित्यादिभिस्त्रिभिः सम्बध्यन्ते । अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह तैरिति ।
अनुव्याख्यानम्
तैस्तैर्युक्तिश्रुतिन्यायविशेषैः
सुधा
न्यायशब्दः प्रकारवचनः । श्रुतिलिङ्गव्यतिरिक्तन्यायार्थो वा । तस्यां तस्यां मूर्तौ प्रसिद्धैर्लिङ्गैः श्रुतिसमाख्यादिव्यावर्तकैर्विवेको ज्ञातव्य इति शेषः । ननु चतुर्मूर्तिः पञ्चमूर्तिर्वेति प्रत्यधिकरणं प्रतिसूत्रं वा प्रत्यक्षरं वेति च वस्तुविकल्पः कथमित्यत आह योग्यतेति ।
अनुव्याख्यानम्
योग्यता यथा ॥
सुधा
सर्वेऽपि पक्षाः सूत्रकृतो विवक्षिताः । पुरुषाणां योग्यताऽनतिक्रमेण प्रतीयन्ते । तद-पेक्षया विकल्पो युज्यत इति योज्यम् ॥ एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह बृहत्तन्त्रेति ।
अनुव्याख्यानम्
***बृहत्तन्त्रप्रमाणेन ***
सुधा
एवमर्थत्वं सूत्राणां ज्ञेयमिति शेषः । बह्वर्थ इति वक्ष्यमाणं चाऽत्र सम्बध्यते । तर्हि कस्मात्तथा न व्याख्यायत इत्यत आह बह्वर्थमपीति ।
अनुव्याख्यानम्
बह्वर्थमपि सङ्ग्रहात् ॥
उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥
सुधा
सूत्रजातमिति शेषः । उच्यते व्याख्यायते । बुद्धिशब्दस्य ज्ञानार्थत्वे ग्रहो ग्राह्यं भावप्रधानो निर्देशः । ग्राह्यत्वमेवार्थः प्रयोजनं तस्मै । मनोऽर्थत्वे ग्रहणं ग्रहः ।
शेषवाक्यार्थचन्द्रिका
वासुदेवादीत्यादिभाष्यस्याऽऽनर्थक्यं परिहरति सर्वज्ञकल्पेनेति । सर्वज्ञत्वस्येश्वरमात्रनिष्टत्वात्सर्वज्ञकत्पनेत्युक्तम् ॥ वक्ष्यमाणेति । अथवा पञ्चमूर्तिरित्यनुपदमेव वक्ष्यमाणेत्यर्थः । भ्रान्तिनिवर्तकत्वान्न सर्वश इत्यस्य वैय्यर्थ्यमिति भावेन भ्रान्तिनिमित्तकथनेन तामुपपादयति प्रथमपादान्त इति । कथं सर्वश इत्यनेनोक्तभ्रान्तिनिरास इत्यतस्तत्तात्पर्यमाह सर्वश इति ॥ निपातसमुदाय इति । तथा च नान्यतरवैय्यर्थ्यमिति भावः ॥ वीप्सायामिति । अधिकरणमधिकरणं प्रतीत्येवं वीप्सायामित्यर्थः ॥ कर्मप्रवचनीय इति । ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनव’ इति स्मरणादित्यर्थः । तथा च कर्मप्रवचनीयप्रतिशब्दयोगात् ‘कर्मप्रवचनीययुक्ते द्वितीये-त्यधिकरणमि’ति द्वितीयोपपत्तिरिति भावः ॥ त्रिभिः सम्बध्यत इति । तथा चात्र न निपात-समुदायाश्रयणक्लेश इति भावः ॥ कथं ज्ञातव्यमिति । व्यावर्तकाभावादिति भावः ॥ प्रकारवचन इति । युक्तिशब्देन युक्तेर्गृहीतत्वेन न्यायशब्दस्य तदर्थताया अयोगादिति भावः ॥ अतिरिक्तन्यायार्थो वेति । समाख्यादिरूपन्यायार्थ इत्यर्थः । अत एव लिङ्गश्रुतिसमाख्यानादिभिरिति वक्ष्यतीति ध्येयम् । व्यावर्तकाभावशङ्काया मूलेन परिहारसिद्धये व्यावर्तकपरतया विशेषशब्दव्याख्यानं व्यावर्तकैरिति । साकाङ्क्षत्वादपेक्षितशेषं पूरयति विवेको ज्ञातव्य इति शेष इति ॥ अत्रापि सम्बध्यत इति । उपलक्षणं चैतत् । बव्हर्थमिति भावप्रधानत्वं च द्रष्टव्यम् । यद्यप्यत्रापि सूत्राणां ज्ञेयमिति शेषोऽपेक्षित एव । तथाऽपि पूर्वपक्ष इवानेकार्थत्वांशे न तत्पूरणमिति भावेन पक्षान्तराश्रयणमिति बोध्यम् । तया बह्वर्थतया । बह्वर्थस्य बह्वर्थतयाऽव्याख्याने निमित्तभावादिति भावः ॥ ग्रहो ग्राह्यमिति । गृह्यत इति ग्रह इति कर्मसाधनो ग्रहशब्द इति भावः ।
परिमल
वीप्सायामिति । ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनव’ इति सूत्रेण कर्मप्रवचनीयसंज्ञक इत्यर्थः । तथा च कर्मप्रवचनीययुक्ते द्वितीयेति भावः ।
यादुपत्यं
सर्वज्ञकल्पेनेति । सर्वज्ञादीश्वरादीषन्न्यूनेनेत्यर्थः । तेन ईषदसमाप्तौ कल्प-विधानादाचार्याणां च सर्वज्ञत्वात्कथं सर्वज्ञकल्पेनेत्युक्तिरिति शङ्काऽनवकाशः ॥ प्रतिशब्द इति । तथा च तद्योगाद्द्वितीयेति भावः ॥ अतिरिक्तन्यायार्थो वेति । समाख्यादिरूपन्यायार्थ इत्यर्थः ।
श्रीनिवासतीर्थीया
ननु वासुदेवादिरूपेणेत्यत्र रूपशब्दोऽधिकः । तथाहि । वासुदेवादिरूपेण चतुःप्रकार इति वाच्यम् । तथाच रूपपदार्थमूर्तिपदास्वारस्यम् । तत्स्वारस्यापेक्षायां तु वासुदेवादित्वेन चतुर्मूर्तिरिति वक्तव्यम् । तथाच रूपपदास्वारस्यमित्याशङ्कायां रूपापरपर्यायमूर्तिपदस्वारस्यायादि-पदात्परो रूपशब्दो धर्मपरो विवक्षित इत्याशयेनाह वासुदेवादित्वेनेत्यर्थ इति । सर्वेष्वपि पादेष्विति । एतदध्यायगतेषु सर्वेष्वपि पादेष्वित्यर्थः । अन्यथा सर्वाध्यायगतपादेष्वित्यर्थकरणे उत्तरत्र युक्तिपादे ‘मूर्तिनां वर्णमागमादि’त्यत्र वासुदेवादिरूपेणेत्यनेन पुनरुक्तिमाशङ्क्य तत्परिहारः क्रियते । स न युक्तः स्यादित्यवगन्तव्यम् ॥ वस्तुनि विकल्प इति । एकस्याधिकरणादेश्च मूर्तिप्रतिपादकत्वपञ्चमूर्ति-प्रतिपादकत्वरूपविरुद्धधर्मद्वयालिङ्गितत्वमित्यर्थः । तदपेक्षया योग्यतापेक्षया ।
वाक्यार्थरत्नमाला
कल्पेनेत्युक्तमिति । ईषदसमात्पौ‘‘कल्पप् देश्यदेशीयर’’ इति सूत्रेणेष-न्यूनार्थकल्पप्प्रत्यये ईषन्यूनो विद्वान् विद्वत्कल्प इत्यादाविवेशन्यूनः सर्वज्ञः सर्वज्ञकल्प इति सर्वज्ञ-कल्पपदे इषन्यूनताया उक्तत्वान्नेश्वरलक्षणस्य भाष्यकारेऽङ्गीकारप्राप्तिरिति भावः ।