ॐ प्राणस्तथाऽनुगमात् ॐ
श्रुतिलिङ्गबाहुल्यात् प्राणशब्दमुख्यवाच्य इन्द्रादिरिति पूर्वपक्षः
अन्तिमप्राणाधिकरणम्
ॐ प्राणस्तथाऽनुगमात् ॐ
सुधा
॥ ॐ प्राणस्तथाऽनुगमात् ॐ ॥ नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् । ता एताः शीर्षंच्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न । उक्तोत्तरत्वात् । अभ्यधिकाशङ्का-सद्भावान्नेति चेन्न । अदर्शनात् । सद्भावे वा तदनन्तरमेवारम्भणीयत्वादित्यतो निरन्तराधिकरण-सिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह बाहुल्य इति ।
अनुव्याख्यानम्
बाहुल्ये श्रुतिलिङ्गयोः ॥
अन्यस्य मुख्यवाच्यत्वमिति
पूर्वाधिकरणे हि गायत्र्याद्यन्यवाचिशब्दबाहुल्यसद्भावेऽपि श्रुतिलिङ्गबाहुल्याश्रयणेन गायत्री परमात्मैवेति निर्णीतम् । अस्ति चात्रापि परकीयश्रुतिलिङ्गबाहुल्यम् । तथाहि । चक्षुरादिभिः सहपाठस्तावत्प्रधानस्य ब्रह्मणो नोपपद्यते । न च किञ्चिदत्र ब्रह्मणो ज्ञापकमस्ति । येनाप्रधान-प्रायपाठस्यापवादः स्यात् । युज्यते चेन्द्रजीवमुख्यप्राणानाम् । इन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वात् । जीवस्येन्द्रियजन्यफलाश्रयत्वात् । मुख्यस्य च सर्वेन्द्रियस्वामित्वात् । प्राणो वा अहमस्म्यृष इतीन्द्रश्रुतिः । ता अहिंसन्तेत्यादिनोक्तानि प्राणविवादो, देहादुत्क्रमणप्रवेशौ, ततो देहपातोत्थाने, प्राणसंवादश्चेति मुख्यप्राणलिङ्गानि । तथा तं शतं वर्षाण्यभ्यार्चदिति शतायुष्ट्वं प्राणो वंश इति चक्षुरादीन्प्रति वंशत्वमिति जीवलिङ्गानि । सति चैवमन्यदीययोः श्रुतिलिङ्गयोर्बाहुल्येऽन्यस्येन्द्रादेः प्राणशब्दवाच्यत्वं युक्तम् । अन्यथोक्तन्यायस्यानैकान्त्यापातात् । न च वाक्यभेदो दोषः । अनन्यगतिकतया प्राप्तत्वादिति । इतिशब्दः शङ्कासमाप्तिद्योतकः ।
शेषवाक्यार्थचन्द्रिका
॥ ॐ प्राणस्तथाऽनुगमात् ॐ ॥ गतार्थतामिति । सर्वासां प्राण-विद्यानामत एव प्राण इत्यनेनैव भगवद्विषयतायाः समर्थितत्वादिति भावः । विद्याविशेषेऽभ्यधिका-शङ्कया प्रत्यवस्थानान्न गतार्थतेत्यभिप्रेत्य गूढाभिसन्धिः शङ्कते ता वा एता इति । अविदिताशयः परिहरति उक्तोत्तरत्वादिति । वाक्यभेदेनाधिकरणभेदे तेषामानन्त्येन शास्त्रापर्यवसानप्रसङ्गा-दित्युक्तोत्तरत्वादित्यर्थः । आशयमुद्धाटयति अभ्यधिकेति ॥ सह पाठ इति । चक्षुःश्रोत्रमनोवाक्प्राण इति चक्षुरादिभिः सह पाठ इत्यर्थः । अप्रधानचक्षुरादिसाहचर्यात्प्राणोऽप्यप्रधानभूत एवेति भावः । ननु निर्णायकाभाव एव प्रायपाठोऽनुसरणीयो न तु तत्सद्भावेऽपि । अन्यथा छत्रचामराद्यसाधारण-लिङ्गसद्भावेऽपि सामन्तसन्निधिमात्रेण राजा न राजा स्यादित्यत आह न चेति । तर्हि चक्षुरादिभिः सहपाठादेव प्राणस्येन्द्रादित्वमपि न स्यादित्यत आह युज्यते चेति ॥ इन्द्रश्रुतिरिति । अत्र प्रसिद्धेन्द्र-प्रयुक्तोऽहंशब्द एवेन्द्रश्रुतित्वेन द्रष्टव्यः । ‘इन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाचे’त्यादीन्द्रश्रुतीनां वृत्रहन्तृत्वमहाव्रतयजमानत्वादिलिङ्गानामुपलक्षणमेतत् । ततश्चेन्द्रे इन्द्रश्रुतिलिङ्गबाहुल्यसिद्धिरिति द्रष्टव्यम् । प्राणे प्राणश्रुतिलिङ्गबाहुल्यमाह ता अहिंसन्तेत्यादिना । यद्यपि न्यायविवरणटीकाया-मिन्द्रियैः सहाभिधानमपि प्राणलिङ्गत्वेनोक्तमिति तदप्यत्र गणनीयम् । तयाऽप्युक्तरीत्या तस्येन्द्रजीव-प्राणसाधारणत्वादसाधरणलिङ्गकथनावसरे तन्न सङ्गृहीतम् । सर्वसाधारण्यज्ञापनायैव स्वातन्त्र्येणैवो-दाहृतमिति द्रष्टव्यम् । अत्र प्राणविवादादिलिङ्गप्रदर्शनेनैव तल्लिङ्गसहचरिता ‘प्राण उदक्रामत् प्राणः प्राविशदि’त्यादिप्राणश्रुतिरपि दर्शितप्रायैवेति भावेन न पृथग्दर्शिता । भाष्यटीकयोः प्राणविवादस्यैव प्राणसंवादशब्देन ग्रहणेऽपीह टीकायां प्राणविवादस्य प्रत्येकमभिधानेन प्राणसंवादशब्देन तद्ग्रहणा-योगात् । ‘तं देवा अब्रुवन् त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसी’त्यादि-स्तुतिरूपोऽर्थवाद एव संवादो ज्ञेयः । ततश्च प्राणेऽपि तद्बाहुल्यसिद्धिरिति ज्ञेयम् । जीवे श्रुतिलिङ्ग-बाहुल्यमाह तथेति । अत्र शतायुष्ट्वादिलिङ्गसहचरिता ‘पुरुषरूपेण य एष तपति स एष पुरुषः समुद्रः’ इत्यादिका जीवश्रुतिर्लिङ्गप्रदर्शनेन प्रदर्शितप्रायैवेति न पृथग् दर्शिता । अत एव जीवेऽपि श्रुतिलिङ्ग-बाहुल्यसिद्धिरिति ध्येयम् ॥ अन्यथोक्तन्यायस्येति । यदीयश्रुतिलिङ्गबाहुल्यं यत्र तत्र स एवोच्यत इति न्यायस्येत्यर्थः ॥ अनन्यगतिकतयेति । सम्भवत्येकवाक्यत्व एव वाक्यभेदस्य दोषत्वम् । प्रकृते चानेकप्रापकसद्भावेनैकवाक्यत्वायोगान्न वाक्यभोदो दोष इति भावः ।
परिमल
॥ ॐ प्राणस्तथाऽनुगमात् ॐ ॥ उक्तोत्तरत्वादिति । वाक्यभेदेनाधिकरणभेदे शास्त्रपर्यवसानप्रसङ्गादित्यन्तरधिकरणे उक्तत्वादिति भावः । इन्द्रश्रुतिर् अहमितिप्रसिद्धेन्द्रप्रयुक्ताहं श्रुतिः ॥ अन्यथोक्तन्यायस्येति । यदीयश्रुत्यादिबाहुल्यं यत्र स एव तत्र ग्राह्य इत्युक्तन्यायस्येत्यर्थः । अनेकार्थत्वे वाक्यभेददोष इत्याशंक्याह न चेति ।
यादुपत्यम्
॥ ॐ प्राणस्थाऽनुगमात् ॐ ॥ उक्तोत्तरेति । वाक्यभेदेनाधिकरणभेदे शास्त्रा-पर्यवसानप्रसङ्गादित्युक्तोत्तरत्वादित्यर्थः ॥ चक्षुरादिभिरिति । ‘चक्षुः श्रोत्रं मनो वाक् प्राणः’ इत्यत्रेत्यर्थः ॥ इन्द्रश्रुतिरिति । प्राणश्रुतिस्तु विषयवाक्यगतेति नोक्ता । उपलक्षणं चैतत् । पुरुषश्रुतिरपि ग्राह्या । इन्द्रस्य प्रियं धामोपेयाय । तमिन्द्र उवाच । प्राणो वा अहमस्मीतीन्द्रश्रुतेर् वाक्प्राणः, प्राण उदक्रामत्, प्राणः प्राविशत्, प्राण ऋच, इति प्राणश्रुतेः । पुरुषरूपेण स एष पुरुष इत्यपि पुरुषश्रुतेश्च बहुत्वमपि ग्राह्यम् । महाव्रते यजमानत्वप्राणकलहशतायुष्ट्वादिनिरवकाशलिङ्गबलान्नैतासामुक्तरीत्या विष्णुपरत्वशङ्काऽवकाश इति भावः ॥ देहादुत्क्रमणप्रवेशावित्यादि । प्राण उदक्रामत्, तत्प्राण उत्क्रान्ते उदपद्यत, प्राणः प्राविशत्, तत्प्राणे प्रपन्न उयतिष्ठदि । इत्यनेनोक्तानि उत्क्रमणप्रवेश-देहपातोत्थानानीति ज्ञातव्यम् ॥ प्राणसंवादश्चेति । प्राणानामिन्द्रियदेवानां समीचीनः प्रीतिपूर्वको वाद इत्यर्थः । स च तं देवा अब्रुवन् । त्वमुक्थमसि, त्वमिदं सर्वमसि, तव वयं स्मस्त्वमस्माकमसीत्य-त्रोक्तो ज्ञातव्यः ॥ अन्यथोक्तन्यायस्येति । यदीयश्रुतिलिङ्गबाहुल्यं यत्र तत्र स एवोच्यत इति न्यायस्येत्यर्थः ।
श्रीनिवासतीर्थीया
ॐ प्राणस्तथाऽनुगमात् ॐ ॥ इन्द्रश्रुतिरिति । अस्येन्द्रवाक्यत्वादित्यर्थः॥
वाक्यार्थरत्नमाला
ॐ प्राणस्तथानुगमात् ॐ ॥ मूले गतार्थमित्यनन्तरमिदमधिकरणमिति शेषः । तदनन्तरमेवेत्यतःपरं वाक्यस्येति शेषः । चन्द्रिकानुसारेणाह । इन्द्रस्य प्रियं धामोपेयायत-मित्यादि । लिङ्गानां चोपलक्षणमिति पाठः । चशब्दाभावेऽपि तदर्थान्तर्भावेनैवार्थो बोध्यः । उपलक्षणे निमित्तमाह । ततश्चेन्द्र इति । अनेनानुभाष्योक्तश्रुतिलिङ्गबाहुल्यस्योपपादनाय मूले श्रुतिलिङ्ग-योरनेकरूपयोः प्रदर्शनीयतया तदप्रदर्शनायोग इति शङ्का निराकृता श्रुतिलिङ्गयोः कतिपयोक्तेरन्योप-लक्षणत्वादित्याशयप्रदर्शनात् । एवमेव मुख्यप्राणजीवयोरपि श्रुतिबाहुल्यसिद्धये उपलक्षणाभिप्रायेण श्रुत्यन्तरलिङ्गातरप्रदर्शनमुत्तरत्रेति ज्ञेयम् । जीवालिङ्गानीति मूलम् । यद्यप्येतल्लिङ्गद्वयमेवेति बहुवचना-योग इति भाति । तथापि चक्षुरादीन्प्रति वंशत्वमध्ये प्रत्येकं चक्षुर्वंशत्वादिलिङ्गाभिप्रायेण बहुवचन-मित्यदोषः । अभ्यार्चच्छतं वर्षाणीत्यन्तमनुव्याख्यानेऽपि तथैवाभिप्रेतमिति ॥ निरवकाशत्वसिद्धि-स्तथाचेति पाठः । तथाचेत्यस्य निरवकाशत्वस्य सिद्धत्वादित्यर्थः । सिद्धेस्तथाचेति पाठे तत्सिद्धे-रित्यस्य सिद्धत्वामित्यर्थः । तथाचेत्यस्य तु तत्सिद्धौ चेत्यर्थः ।