०४ पराभिमताधिकरणशरीरपरामर्शः

तादृशत्वाच्च तच्छक्तेः

पराभिमताधिकरणशरीरपरामर्शः

तादृशत्वाच्च तच्छक्तेः

सुधा

अपरे तु ज्योतिश्चरणाभिधानादित्याद्येकमेवाधिकरणं व्याचक्षते । तदयुक्तम् । अथ यदतः परो दिवो ज्योतिरिति वाक्ये चरणाभिधानाभावात् । चरणाभिधानादित्यस्य पादाभिधाना-दित्यर्थ इति चेत् । एवं तर्हि भूतादिपादव्यपदेशोपपत्तेश्चैवमिति पुनरुक्तं स्यात् । न स्यात् । तात्पर्यभेदात् । तथा हि । पूर्वस्मिन्वाक्ये तावनस्य महिमेति चतुष्पाद्ब्रह्म निर्दिष्टम् । तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादस्यामृतं दिवीति द्युसम्बन्धिरूपं निर्दिष्टं तदेवेह द्युसम्बन्धात्प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयातामित्यत्राभिप्रेयते । तत्र तु भूतादिपाद-व्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमिति । उच्यते । एवं हि व्याकुर्वता प्रकृतप्रत्यभिज्ञानं ज्योतिषो ब्रह्मत्वे हेतुर् उत्तरा तु त्रिसूत्री प्रकृतस्य ब्रह्मत्वोपपादिकेत्युक्तं स्यात् । तथा च श्रुतहानाश्रुतकल्पने स्याताम् । अन्यथा ज्योतिः प्रत्यभिज्ञानादित्येव ब्रूयात् । लघु चैवं स्पष्टं च सूत्रं स्यात् । पादाभिधानादित्येव वा वदेत् । श्रुत्यनुगमो ह्येवं सति स्यादित्युक्तमेवोपपन्नमिति ॥ १-१-११ ॥

शेषवाक्यार्थचन्द्रिका

पुनरुक्तं स्यादिति । पादोऽस्य सर्वा भूतानीति पूर्ववाक्यस्थ-पादाभिधानादन्यस्य ज्योतिर्वाक्ये पादाभिधानस्याभावात्तस्यैव चरणाभिधानादित्यत्र विवक्षायां भूतादि सूत्रवैय्यर्थ्यं स्यादित्यर्थः । न च चरणाभिधानादित्यनेन पादोऽस्य सर्वा भूतानीति मन्त्रवाक्यस्थं सर्वभूतानामेकपादत्वममृतस्य त्रिपादत्वं चोच्यते । भूतादिपादेत्यनेन तु सैषा चतुष्पदेति ब्राह्मण-वाक्यस्थानां भूतपृथिवीशरीरहृदयानां पादत्वमुच्यते ब्राह्मणवाक्ये इदं सर्वमिति भूतम्, येयं पृथिवीति पृथिवी, यदिदमस्मिन्पुरुषे शरीरमिति शरीरं यदिदमस्मिन्नन्तः पुरुषे हृदयमिति हृदयं चोक्त्वा सैषा चतुष्पदा षड्विधागायत्रीति भूतादीनां चतुर्णां पादत्वव्यपदेशात्ततो न पौनरुक्त्यमिति वाच्यम् । चरणाभिधानादित्यनेन पादोऽस्य सर्वा भूतानि त्रिपादस्येति मन्त्रस्थपादाभिदानद्वयस्येव ततोऽधि-कार्थस्य ब्राह्मणस्थपादाभिधानस्यापि वक्तुं शक्यत्वेन भूतादिसूत्रवैय्यर्थ्यादित्याशयात् पूर्वं ब्रह्मोक्तावपि कथमुक्तहेतुना ज्योतिषो ब्रह्मतेत्याशङ्क्याह तत्रेति । द्युसम्बन्धादित्यतः परं निर्दिष्टमिति शेषः । अयमाशयः । औत्सर्गिकं तावच्छब्दस्य प्रसिद्धार्थानुवादकत्वम् । यस्याहिताग्नेरग्निर्गृहान्दहेत् । यस्योभयं हविरार्तिमर्च्छदित्यादौ च विधिविभक्तेरपि यच्छब्दबलादपूर्वार्तावबोधनस्वभावात्प्रच्यावनस्याङ्गीकारात् । यत्र सर्वथा न प्राप्तिस्तत्रैव प्रसिद्धार्थत्वपरित्यागः । तदिह यदतः परो दिवो ज्योतिरित्यत्रापि यच्छब्दसामर्थ्याद् द्युसम्बन्धेन ज्योतिषा प्रसिद्धेन भवितव्यम् । न च तस्य मानान्तरात्प्रसिद्धिरस्ति । पूर्ववाक्ये च द्युसम्बन्धि त्रिपाद्ब्रह्म प्रसिद्धमिति तदेव सम्बध्यते । न च वाक्यस्थज्योतिर्लाभे प्रकृतहानं न दोषः । वाक्यापेक्षया प्रकरणस्य दुर्बलत्वदिति वाच्यम् । यच्छतेर्विषयगवेषणायां प्रकरणप्राप्तस्यापि प्रसिद्धस्यैव ग्राह्यतया स्ववाक्यगतस्यापि प्रस्तोष्यमाणस्यापूर्वस्याप्रसिध्द्याऽग्राह्यत्वादिति । यच्छब्दस्य ब्रह्मार्थत्वं हित्वा तेजोवाचित्वे बुद्धिगौरवमुक्त्वा दोषान्तरमाह तदिति । प्राकृतं प्रकृतेर्जातं कार्यमिति यावत् ॥ प्रकृतहानेति । प्रसिद्धापेक्षया पूर्ववाक्यगतं प्रकृतं सन्निहितम् अप्रसिद्धं तु कल्प्यमप्रकृतमत एवोक्तं कल्पयत इति । लिङ्गोपस्थापिताद् ब्रह्मणः श्रुत्युपस्थापिततेजसो बलीयस्त्वेऽपि यच्छब्दार्थे ज्योतिषि सन्निधापकमानापेक्षायां त्रिपाद्ब्रह्मणो ध्याने विनियोगाकांक्षस्यानन्तरवाक्ये श्रुत्युक्ते विजातीयमानाकाङ्क्षश्रुत्युक्ततेजोभिधानालिङ्गोपनीतातिसन्निहितसजातीयश्रुतिसिद्धैकवाक्यताकाङ्क्ष-ब्रह्मोक्तिर्यच्छब्दस्य युक्ता । तस्माद्यत्तच्छब्दार्थप्रयुक्तो ज्योतिःशब्दो ब्रह्मार्थ इति भावः । अत्रेति । ज्योतिः सूत्र इत्यर्थः ॥ तत्रेति । भूतादिसूत्र इत्यर्थः । कथं भूतादिसूत्रे प्रकृतस्य ब्रह्मत्वोपादनमित्यत उक्तं भूतादिपादव्यपदेशबलेनेति । पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मैव भवितुमर्हति । यतो भूतादीन्पादान् व्यपदिशति । भूतपृथिवीशरीरहृदयानि हि निर्दिश्य सैषा चतुष्पदा षडविधा गायत्रीति । न हि ब्रह्मानाश्रयणे केवलस्य छन्दसो भूतादयः पादा उपपद्यन्ते । ब्रह्मणस्तु सर्वात्मकत्वाद्युज्यते भूतादीनां पादत्वमिति भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमित्यर्थः ॥ श्रुतहानेति । श्रूतस्य चरण-शब्दस्य हानम् । अश्रुतस्य प्रत्यभिज्ञानादित्यस्य कल्पनं च स्यादित्यर्थः ॥ अन्यथेति । प्रत्यभिज्ञानस्यैव ज्योतिषो ब्रह्मत्वसाधकतयाऽभिप्रेतत्व इत्यर्थः । अवधारणे हेतुद्वयमाह लघु चेति । अत्राप्यवधारणे हेतुमाह श्रुत्यनुगमो ही ति ॥ १-१-११ ॥

परिमल

सिद्धान्तरीत्या कर्णादिविदूरत्वं चरणशब्दार्थमुपेत्याह चरणाभिधानाभावादिति । शङ्कते न स्यादित्यादिना । पूर्वं त्रिपादस्यामृतं दिवीत्यत्र यद् द्युसम्बन्धितया पुनरुच्यमानं परामृश्यत इत्यर्थः ॥ द्युसम्बन्धादिति । दिवःपरो ज्योतिर्दीप्यत इति दिव इत्युक्तसम्बन्धादित्यर्थः ॥ अत्राभिप्रेयत इति । चरणाभिधानादित्यत्राभिप्रेयत इत्यर्थः । श्रुतहानाद्येव व्यतिरेकमुखेनोपपादयति अन्यथेति ॥

यादुपत्यं

द्युसम्बन्धात्प्रत्यभिज्ञायत इति । यच्छब्देन परामृश्य द्युसम्बन्धितया पुनरुच्यत इत्यर्थः । अयमभिप्रायः । औत्सगिकं तावद्यच्छब्दस्य प्रसिद्धार्थानुवादकत्वम् । तदिह यदतः परो दिवो ज्योतिरिति यच्छब्दसामर्थ्याद् द्युसम्बन्धेनापि ज्योतिषा प्रसिद्धेन भवितव्यम् । पूर्ववाक्ये च द्युसम्बन्धि त्रिपाद्ब्रह्म प्रसिद्धमिति प्रसिद्ध्यपेक्षायां तदेव सम्बध्यतेऽतस्तदेव यच्छब्देन परामृश्य पुरनुच्यत इति । प्राकृतं प्रकृतेर्जातम् । कार्यमिति यावत् । अत्रेति । ज्योतिरिति प्रथमसूत्रेइत्यर्थः ॥ तत्रेति । तदुत्तरत्रि-सूत्र्यामित्यर्थः ॥ भूतादिपादेति । पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मैव, यतो भूतादीन्पादान् व्यपदिशति भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह सैषा चतुष्पदा षड्विधा गायत्रीति । न हि ब्रह्मानश्रयणे केवलस्य छन्दसो भूतादेः पादा उपपद्यन्ते इति भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोप-पादनमित्यर्थः । पौनरुक्त्यपरिहारानुपयोगित्वात् शिष्टसूत्रद्वयोक्तं प्रकृतस्य ब्रह्मत्वोपपादकं नानूदित-मित्यवधेयम् ॥ श्रुतहानेति । प्रथमसूत्रे श्रुतस्य चरणशब्दस्य हानमश्रुतस्य प्रत्यभिज्ञानादित्यादेः कल्पनमित्यर्थः ॥ १-१-११ ॥

वाक्यार्थरत्नमाला

पादाभिधानस्यापीति । सिद्धत्वमिति वक्तुं शक्यत्वेनेत्यर्थः । वक्तुमित्यस्य कर्त्तुमित्यर्थः । धातूनामनेकार्थत्वदित्यप्याहुः । औत्सर्गिकिं तावदित्यादि भामत्यनुसारेणाह । अयमाशय इति । ग्रहान् दहेदित्यस्याग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदिति वाक्यशेषः । तत्र दहेदिति विधिविभक्तिप्रसिद्धार्थयच्छब्दोपहता गृहदाहलक्षणनिमित्तपरा । आर्छेदिति च विधिविभक्तिः स ऐन्द्रं पञ्चशरावमोदनं पचेदिति वाक्यशेषे विधास्यमाननिर्वापनिमित्तं विरातिमनुवदतीति न विधिपरत्वम् । उभयं दधिपयश्च विधिमन्त्रयोरैक्यार्थमेकशब्दादिति द्वितीयस्य प्रथमे यच्छब्दस्य विधिशक्ति-प्रतिबन्धकत्वं विचारितम् । यत्र सर्वथेति । ज्योतिष्टोमगतसोमेषु शेषभक्षो विध्यभावान्न विद्यत इति प्राप्ते सर्वतः । परिहारमाश्विनं भक्षयति तस्मात्सर्वा दिशः ृणोतीत्याद्यर्थवादा अप्राप्तत्वाद्भक्षानुवादा-योगाद्विधायकानि वचनानीत्युक्तं तृतीयस्य पादे अधिकरणे । प्राप्त्यभावे सर्वनाम्नः प्रसिद्धार्थत्वाभाव इत्येतद्यदाग्नेयोष्टाकपाल इत्यत्रापि तुल्यमित्याशयेन भामत्यां यदाग्नेय इत्येतदेव प्राप्त्यभावाद्युदाहरण-तयोक्तमिति ज्ञेयम् । लिङ्गोपस्थापितादिति एतदानन्दङ्गीर्याद्यनुसारिव्याख्येयमस्ति । ननु वाक्यस्थेत्यादि कल्पतर्वनुसारेण प्रसिध्यपेक्षायामित्यंशशङ्कादिमुखेनैवाह । न च वाक्यस्थेत्यादि । शाङ्करभाष्यानु-सारेणाधिकम् ॥

॥ इति गायत्र्यधिकरणम् ॥