तादृशत्वाच्च तच्छक्तेः
नित्यस्यापि ईश्वरशक्तयधीनत्वम्
तादृशत्वाच्च तच्छक्तेः
सुधा
ननूक्तमत्र नित्या गायत्री प्रवृत्तिनिमित्तं च तत्स्वभावः । तत्कथं हरेरधीनमित्यत आह तादृशत्वाच्चेति ।
अनुव्याख्यानम्
तादृशत्वाच्च तच्छक्तेः ॥ ११ ॥
सुधा
पूर्वेण सम्बन्धः । हेतुसमुच्चये चशब्दः । तादृशी खल्वीश्वरशक्तिः । यन्नित्यानित्य-स्वभावास्वभावसर्वविषया । अन्यथा सर्वेश्वरत्वहानेः । अथ तस्याः शक्तेः किं शक्यमिति चेत् । तत्स्वरूपसत्तैव । अनादिसिद्धा सेति चेत् । सत्यम् । अनादीश्वरशक्त्यैवेति वदामः । उक्तं चात्र प्रमाणमिति ।
शेषवाक्यार्थचन्द्रिका
तत्कथमिति । न कथमपीत्यर्थः । विवरत्वादिवद्धर्मिणा सह ध्वनि-वत्स्वयमेव वा तदधीनत्वासम्भवस्योपदर्शितत्वादिति भावः ॥ पूर्वेणेति । तद्धरेरेवेति पूर्वेणेत्यर्थः ॥ हेतुसमुच्चय इति । बाहुल्याच्छतिलिङ्गयोरित्युक्तहेतुसमुच्चय इत्यर्थः । अतो नैतद्वैय्यर्थ्यमिति भावः । किमनादिस्वभावस्य भगवदधीनत्वमसम्भावितमित्यभिप्रेतं किंवाऽप्रामाणिकमिति विकल्पं मनसि निधायाद्यं दूषयति तादृशीति । नित्यानित्येत्युपलक्षणम् । साधनादीत्यपि द्रष्टव्यम् । गूढभिसन्धिः शङ्कते अथेति । उत्तरवाद्यपि तथैव समाधत्ते स्वरूपेति । पूर्ववादी स्वाशयमुद्धाटयति अनादीति । उत्तरवाद्यपि स्वाभिसन्धिमुद्धाटयति सत्यमिति । द्वितीयं प्रत्याह उक्तं चात्र प्रमाणमिति । ‘नभो ददाति श्वसतां मार्गं यन्नियमाददः’ इत्यादिरूपं स्वभावस्यापि भगवदधीनत्वबोधकं प्रमाण-माकाशाधिकरणे उक्तमित्यर्थः । यद्वाऽनादिस्वरूपसत्तायाः कुत ईश्वराधीनत्वमित्यत आह उक्तं चेति । जिज्ञासाधिकरणेऽनादिस्वरूपसत्ताया अपीश्वराधीनत्वे ‘द्रव्यं कर्म च कालश्चे’त्यादिप्रमाणमुक्त-मित्यर्थः । इत्यादीत्यादिपदेन छन्दोभिधानादित्यादित्रिसूत्र्या सङ्ग्रहः ॥
परिमल
पूर्वेणेति । तद्धरेरेवेति साध्येनेत्यर्थः ॥ हेतुसमुच्चय इति । बाहुल्याच्छति-लिङ्गयोरित्युक्तहेतुना तादृशत्वादित्युक्तहेतोः समुच्चय इत्यर्थः ॥ उक्तं चेति । जिज्ञासाधिकरणे ‘द्रव्यं कर्म च कालश्चे’त्यदिप्रमाणमुक्तमित्यर्थः ।
यादुपत्यम्
उक्तं चात्र प्रमाणमिति । प्रथमाधिकरणेऽनादिस्वरूपसत्ताया अपीश्वराधीनत्वे ‘द्रव्यं कर्म च कालश्चेत्यादिप्रमाणमुक्तमित्यर्थः ॥
श्रीनिवासतीर्थीया
अनादिसिद्धा सेति । सा स्वरूपसत्ताऽनादिसिद्धा । ईश्वरशक्तिश्च सादिरिति स्वरूपसत्ता कथं तच्छक्त्या स्यादिति भावः ॥ १-१-११ ॥
वाक्यार्थरत्नमाला
अप्रामाणिकमितीति । भगवदधीनत्वमित्येतदधीनत्वस्येति षष्ट्या विपरिणामेनानुवर्तते ।