०२ श्रुतिलिङ्गबाहुल्याद् गायत्र्यादिवाच्यः हरिरेव

इति चेत्तद्धरेरेव बाहुल्याच्छतिलिङ्गयोः

श्रुतिलिङ्गबाहुल्याद् गायत्र्यादिवाच्यः हरिरेव

इति चेत्तद्धरेरेव बाहुल्याच्छतिलिङ्गयोः

सुधा

नन्वियमेव गायत्री वाक्यशेषे ज्योतिष्ट्वेन पठ्यते । (छां.३.१३.७) ‘अथ यदतः परोदिवो ज्योतिर्दीप्यत’ इत्यादिना । ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतम् । मैवम् । पूर्वाधि-करणोदाहृतवाक्योक्तस्य ज्योतिषो ब्रह्मत्वेऽप्यत्र तदनुपपत्तेः । तत्र हि कर्णादिविदूरत्वमुक्तम् । अत्र पुनस्तदेतद्दृष्टं च श्रुतं चेति तद्विपरीतम् । युज्यते च ज्योतिरिति पदं छन्दसि । तत्पर्यायस्य ‘तेजो वै ब्रह्मवर्चसं गायत्री’ति तेजःशब्दस्य तत्र दर्शनात् । अस्तु वा ‘अथ यदतःपरोदिवो ज्योतिरि’त्युक्तं ज्योतिर्ब्रह्म । तथाऽपि गायत्री छन्द एव । उपदेशभेदेन भिन्नप्रकरणत्वादिति । अथवाऽत्राप्यथ यदतःपरो दिव इति वाक्योक्ते ज्योतिषि सन्देहः । किं ब्रह्मोतान्यदिति । उपक्रमे गायत्री-शब्दश्रवणादन्यदिति प्राप्तम् । ननु गायत्रीशब्दस्याप्याकाशादिशब्दवदीश्वरपरत्वोपपत्तेः किमनेनेत्यतो नित्यत्वादित्यादिनाऽभ्यधिकाशङ्केयमुक्तेति । एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह इति चेदिति ।

अनुव्याख्यानम्

इति चेत्तद्धरेरेव बाहुल्याच्छतिलिङ्गयोः ॥

सुधा

तत्र ब्रूम इत्यध्याहार्यम् । तज् ज्योतिःप्रकरणं गायत्रीप्रकरणं च हरेरेव प्रतिपादकम् । न च गायत्रीपदविरोधः । यतस् तत् हरेरेव वाचकम् । कथम् । यस्मात् तद् गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो हरेरेव । अन्यगतं च हरेरेवाधीनम् । न च ज्योतिषो ब्रह्मत्वे दृष्टत्वाद्यनुपपत्तिः । यतस् तद् अधिष्ठनादिद्वारा कर्णादिविदूरस्यैव हरेरुपपद्यते । न चोपदेशभेदानुपपत्तिः । यतस्तद्दिवःपरत्वं दिवि स्थितत्वं च विवक्षाभेदाद्धरेरेव युज्यते ।

कुत एतत् । श्रुतिलिङ्गयोर्बाहुल्यात् । तथा हि ‘ततो ज्यायांश्च पुरुषः’ । ‘यद्वैतद्ब्रह्म’ । ‘य एतामेव ब्रह्मोपनिषदं वेदे’ति श्रुतयः । लिङ्गानि च गानत्राणकर्तृत्वं, भूतादिपादत्वम्, ‘एतामेव नातिशीयन्त’ इति सर्वोत्तमत्वमित्यादीनि । अत एव श्रुतिलिङ्गबाहुल्यात् तत् प्रसिद्धबहुल-शब्दजातमपि हरेरेवेति ।

शेषवाक्यार्थचन्द्रिका

ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतमिति । यद्यप्यग्निसूक्तस्थस्य ज्योतिषो ब्रह्मत्वं पूर्वाधिकरणे निर्णीतं न तु छान्दोग्यस्थस्यापि तन्निर्णीतमित्ययुक्तमेतदित्याभाति । तथाऽपि ज्योतिर्हृदय आहितं यदित्यग्निसूक्तस्थस्यैव ज्योतिषश् छान्दोग्येऽपि ज्योतिःश्रुत्या योऽय-मन्तर्हृदय इति हृदयनिहितत्वधर्मेण च शाखान्तराधिकरणन्यायेन प्रत्यभिज्ञायमानत्वेनैकत्वमभिप्रेत्ये-दमुक्तमिति ध्येयम् । पूर्वाधिकरणोदाहृतवाक्योक्तस्येति । न चैवं सति पूर्वपक्षे पूर्वसिद्धान्तेनाक्षेपा-च्चिन्तावैफल्यमिति वाच्यम् । ज्योतिषो गायत्रीत्वे इयं वाव सा येयं पृथिवीति गायत्र्यभिन्नत्वेनोक्त-पृथिव्यामस्यां हीदं सर्वं प्रतिष्ठितमित्युक्तस्य स्थितिहेतुत्वादेरपि तद्धर्मत्वापत्त्या जन्मादिसूत्राक्षेपात् । योऽयमन्तर्हृदय इति छान्दोग्यस्थे ज्येतिष्यानन्दमयधर्मभूतहृदयनिहितत्वश्रवणेन ज्योतिरधिकरण-मनाक्षिप्यैवानन्दमयाधिकरणाक्षेपाच्चेति ध्येयम् । ननु कर्णादिविदूरत्वं न सर्वथा कर्णादिविदूरत्वमिह विवक्षितम् । क्वाप्यसम्भवात् । किन्त्वियदिति परिच्छेदानर्हवैभवत्वमेव । तच्च न दृष्टत्वश्रुतत्वादि-विरुद्धमित्यरुचेराह अस्तु वेति । ज्योतिरधिकरणे विष्णौ निणीतज्योतिःश्रुत्येति शेषः ॥ उपदेशभेदेनेति । दिवःपर इति दिवीति च पञ्चम्युपदेशसप्तम्युपदेशभेदेनेत्यर्थः । न्यायविवरणेऽ-त्राधिकरणेऽधिवेदगतशब्दसमन्वेतव्यताया उक्तत्वात्तदनुसारेण पूर्वपक्षमुपपाद्याधुना ‘अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्युक्तस्य ज्योतिषो गायत्री वा इदं सर्वमिति गायत्र्या समारम्भः कृत’ इति भाष्यस्वारस्यानुरोधेन पक्षान्तरमाह अथवेति । अत्र छान्दोग्यस्थज्योतिषो गायत्री वेत्युपक्रमेण गायत्रीत्वादग्निसूक्तस्थमपि गायत्रीत्येकः पूर्वपक्षः । अन्यस्त्वग्निसूक्तस्थस्य ज्योतिषः कर्णादिविदूर-त्वाद्विष्णुत्वेऽपि छान्दोग्यस्थस्य तदेतद् दृष्टं च श्रुतं चेति तद्विरुद्धदृष्टत्वादिश्रवणान्न विष्णुत्वमिति पूर्वपक्षद्वयमभिमतम् । द्वितीयपक्षे यथा चिन्ताया न वैफल्यं तथोक्तमधस्तान् न चेति । तस्य छन्दसि योगरूढिभ्यां प्रवृत्तेरिति भावः ॥ कथमिति । तच्छब्दप्रवृत्तिनिमित्तस्य भगवद्गतत्वाभावादन्यगतस्य चोक्तरीत्या भगवदनधीनत्वाच्च न तस्य तद्वाचकत्वमित्याशयः ॥ हरेरेवेति । एवं च तस्य तत्स्वभाव-त्वोक्तिराग्रहमूलैव । सिद्धान्ते तस्य भगवदधीनत्ववर्णनं च स्वभावनियामकत्वरूपमहागुण-समन्यवसिध्द्यर्थं कृत्वा चिन्तया वेत्यवधेयम् । न केवलं गायत्रीशब्दप्रवृत्तिनिमित्तस्य भगवति निरवधिकत्वादेव तस्य तत्र मुख्यत्वं किन्त्वन्यगतस्य तदधीनत्वादिति भावेन मूलं योजयति अन्यगतं चेति ॥ न च दृष्टत्वेति । ज्योतिषः कर्णादिविदूरत्वादिति भावः । अनेनोपदेशभेदादिति सूत्रखण्डोऽग्निसूक्तस्थज्योतिनिष्ठकर्णादिविदूरत्वविरुद्धदृष्टत्वाद्युपदेशान्नेदं ज्योतिर्ब्रर्ह्मति प्रकारान्तरेण व्याख्यातो भवति ॥ यत इति । अनेनोभयस्मिन्नप्यविरोधादित्यस्य कर्णादिविदूरत्वदृष्टत्वादिके आकार-भेदेन न विरुद्धे इत्यप्यर्थ इत्युक्तं भवति ॥ न चोपदेश इति । दिव इति दिवीति च पञ्चमी-सप्तम्युपदेशभेदानुपपत्तिरित्यर्थः ॥ विवक्षाभेदेनेति । त्रिसप्तलोकापेक्षयेति भाष्योक्तविवक्षाभेदेनेत्यर्थः ॥ कुत एतदिति । आकाशादिवाक्य इव गायत्रीवाक्ये पारमेश्वरलिङ्गाश्रवणान्न भगवत्परत्वाश्रयणमिति भावः ॥ ‘कथं प्रसिद्धबहुलशब्दानामन्यथार्थते’ति पूर्वपक्षं निराकरोति अत एवेति । तथा च श्रुतिलिङ्गबाहुल्यानुरोधेनैवान्यार्थताश्रयणान्नाव्यवस्थाप्रसङ्ग इति भावः ।

परिमल

ननूपक्रमे श्रुतगायत्र्यां कथं ज्योतिःशब्दो युक्त इत्यत आह युज्यते चेति ॥ उपदेशेति । द्युस्थत्वदिवःपरत्वरूपोपदेशभेदेनेत्यर्थः ॥ अत्रापीति । न केवलं ज्योतिर्नय एव ज्योतिषि सन्देह इत्यपेरर्थः । तद्धरेरेवेति मूलमसकृदावृत्त्याऽनेकधा योजयति तज्ज्योतिः प्रकरणमित्यादिना ॥ यतस्तदिति । तद्द्रष्टृत्वादिकं देहाद्यधिष्ठानद्वारोपपद्यत इत्यन्वयः ॥ विवक्षेति । भाष्याद्युक्तदिशा त्रिसप्तलोकविवक्षाभेदादित्यर्थः । तदित्यनुवादः । प्रसिद्धबहुलशब्दजातमपीति व्याख्या ।

यादुपत्यं

साकल्येन कर्णादिविदूरत्वं पूर्वमुक्तम् । अत्र पुनस्तद्योग्यतानुसारेणाधिष्ठानादिद्वारा वा दृष्टत्वादिकमुच्यते । अतो न विरोध इत्यरुचेराह अस्तु वेति । नन्वेवं पूर्वपक्षद्वयेऽपि पूर्वाधि-करणसिद्धान्ताक्षेपालाभाव्द्यर्थेयं चिन्तेति चेन्न । पक्षद्वयेऽपीयं वाव सेयं पृथिवीति गायत्र्यभिन्न-त्वेनोक्तायां पृथिव्यामस्यां हीदं सर्वं प्रतिष्ठितमित्युक्तस्य स्थितिहेतुत्वादेरपि तद्धर्मत्वापत्त्या जन्माधि-करणाक्षेपोऽयम् अन्तर्हृदय इत्यानन्दमयधर्मभूतहृदयनिहितत्वश्रवणेनानन्दमयाधिकरणाक्षेपश्चेत्या-शयात् । अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्युक्तस्य ज्योतिषो गायत्री वा इदं सर्वमिति गायत्र्या समारम्भः कृत इति भाष्यस्वारस्यानुरोधादाह अथवाऽत्रापीति । न्यायविवरणेऽत्राधिवेदगत-शब्दसमन्वेतव्यताया उक्तत्वात् तदनुसारेण पूर्वमतमुक्तमित्यवगन्तव्यम् । मतद्वये विषयवाक्यभेदेऽपि प्रमेयमेकमेवेत्यतो न विरोध इति द्रष्टव्यम् । अधिष्ठानादिद्वारेत्यत्रादिपदेन योग्यतानुसारेण दृष्टत्वादि सङ्गह विवक्षाभेदादिति । त्रिसप्तलोकापेक्षयेति भाष्योक्तविवक्षाभेदादित्यर्थः ।

श्रीनिवासतीर्थीया

उपदेशभेदेनेति । त्रिपादस्यामृतं दिवीति पूर्वोपदेशः, परो दिव इति पञ्चम्यन्तः पश्चिम इत्युपदेशभेदेनेत्यर्थः ॥

वाक्यार्थरत्नमाला

शाखान्तराधिकरणन्यायेनेति । आनन्दमयाधिकरणेऽनुक्रान्तमेतत् । चन्द्रिकानुसारेणाह । न चैवं सतीत्यादि । एवमितरत्रापि तत्र तत्र । तद्विपरीतमिति मूलम् । कर्णाद्य-गोचरत्वरूपत्वात्तद्विदूरत्वस्य तद्गोचरत्वरूपदृष्टत्वादेस्तद्विपरीतत्वमिति भावः । पूर्वोत्तरपक्षयोर्मूल-कथनेन विरोधं परिहरति । न्यायविवरण इति । भाष्येति । सूत्रभाष्येत्यर्थः । आद्येऽपि छान्दोग्य-स्थेत्यादिना चन्द्रिकानुसारेणाह । अत्र छान्दोग्यस्थेति । न विष्णुत्वमितीति । अत्रेतिशब्द आवर्तते । तत्राद्येति शब्दानन्तरं पूर्वपक्ष इत्यनुवर्तते । द्वितीयस्येति पूर्वपक्षद्वयमिति सम्बन्ध इति ज्ञेयम् । अधस्तादिति । ज्योतिषो गायत्रीत्वे इयं वेत्यादिनेति शेषः । गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो हरेरेवेत्यङ्गीकारे पूर्वपक्षे तत्स्वभावत्वोक्तयादिकं घटयति । एवं च तस्येति । तदधीनत्वादितीति । तदधीनत्वादपीत्यर्थः । न च दृष्टत्वेतीति । न च ज्योतिषो ब्रह्मत्वे दृष्टत्वादिति मूलपाठेऽपि ज्योतिषो ब्रह्मत्व इत्येतदद्गर्भीकृत्य वाक्यलाघवाय न च दृष्टत्वेतीति प्रतीकोपादानमिति न दोषः । उत्सूत्रत्व-परिहारायैतच्छङ्कासमाधानयोरपि सूत्रारूढतां दर्शयति । अनेनेत्यादिना । भाष्योक्तविवक्षेति । भाष्ये ह्येवमभिप्रेतमित्यादिचन्द्रिकानुसारेण तदुपपादनं बोध्यमित्याशयेन भाष्येत्युक्तमिति ज्ञेयम् । एतन्न कुतोऽपीत्याक्षेपार्थत्वं व्याकुर्वन्नाह । आकाशादीति । व्यतिरेकदृष्टान्तश्चायम् । आश्रयणमित्यनन्तरं सम्भवतीति पूरणीयम् । पूर्वपक्षमिति । इत्युक्ताभ्यधिकाशङ्कान्तरेण पूर्वप्रवृत्तपूर्वपक्षमित्यर्थः ।