०३ वृत्तिकाराद्यभिमताधिकरणशरीरपरामर्शः

प्रेरकोऽस्यापि यद्धरिः

वृत्तिकाराद्यभिमताधिकरणशरीरपरामर्शः

प्रेरकोऽस्यापि यद्धरिः

सुधा

अत्र केचित् । ‘प्राणस्य प्राणं प्राणबन्धनं हि सोम्य मनः’ इति चोदाहरन्ति । तदयुक्तमित्यपरे । शब्दभेदात्प्रकरणवशाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगेऽन्यः पिता षष्ठीनिर्दिष्टोऽन्यः प्रथमानिर्दिष्टः पितामह इति गम्यते । तद्वत्प्राणस्य प्राणमिति शब्दभेदात्प्राणादन्यः प्राणस्य प्राण इति निश्चीयते । न हि स एव तस्येति भेदनिर्देशो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्प्रकरणनिर्दिष्ट इति गम्यते । यथा ज्योतिष्टोमाधिकारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति । तथा परस्य ब्रह्मणः ‘प्राण-बन्धनं हि सोम्य मनः’ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशया-विषयत्वान्नैतदुदाहरणं युक्तम् । किन्तु ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते ‘कतमा सा देवता’इति । ‘प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभि-संविशन्ति । प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता’ इत्येतदुदाहरणवाक्यमिति ।

शेषवाक्यार्थचन्द्रिका

ननु वृत्तिकृतामुदाहरणस्यैवात्रोदाहरणत्वोपपत्तौ किमित्युदाहरणान्तरा-श्रयणं भाष्यकारस्येत्यतस्तत्रानुपपत्तिप्रदर्शनपूर्वकं भाष्यकारीयमुदाहरणमुपपादयितुं चिरन्तनवृत्तिकृता-मुदाहरणं तावदनुवदति अत्र केचिदिति । सर्वत्र सन्दिग्धमेव वाक्यमुदाहृत्य निर्णीयते इदं त्वसन्देहा-न्नैवमिति ॥ तदिति । अपरे मायावादिनः । कथमेतयोरसन्दिग्धत्वमित्यतः पूर्वस्य शब्दभेदेन द्वितीयस्य च प्रकरणेन निर्णीतत्वादिति भावेनाह शब्दभेदादिति । शब्दभेदं विवृणोति । यथेति । राहोः शिर इतिवव्द्यपदेशमाशङ्कय घटो घटस्येति व्यपदेशादृष्टेर्नैवमित्याह न हीति । अत्र स एव तस्येति भेद-निर्देशार्हो भवतीति मूलपाठः । तत्र स एव तत्प्रतियोगिकाभेदवानेव तस्येति भेदनिर्देशस्यार्हो योग्यो विषय इति यावद् भवतीति न हि दृष्टमिति योजना । क्वचित्स एव तस्येति भेदनिर्देशो भवतीति पाठः । तत्र स एव तस्येति यो भेदनिर्देशः सोऽभेदे न हि भवति घटो घटस्येत्येकस्मिन्नव्यवहारादिति योज्यम् । प्रकरणं प्रपञ्चयति यस्येति । तदेव दृष्टान्तेन स्पष्टयति यथेति । प्राणः परमात्मा बन्धनमाश्रयः स्वरूपं यस्येति विग्रहः । वाक्ययोर्निश्चितार्थत्वे फलितमाह अत इति । तर्हि विषयवाक्याभावादधिकरणा-नारम्भप्रसङ्ग इति शङ्कते । किन्त्विति । सन्दिग्धवाक्यान्तरमेवोदाहरणमित्याह प्रस्तोतर्या देवतेत्यादि । उषस्तिश्चाक्रायणः किल ऋषिर्धनाय राज्ञो यज्ञमभिगम्य ज्ञानवैभवमात्मनः प्रकटयितुकामः प्रस्तोतार-मुवाच । हे प्रस्तोतर्या देवता प्रस्ताव इति साम्नो भक्तिविशेषस्तमन्वायत्ताऽनुगताऽधिष्ठात्रीति यावत् । तां चेदविद्वान्मम विदुषः सन्निधौ प्रस्तोब्यसि मूर्धा ते निपतिष्यतीति । स भीतः पप्रच्छ कतमेत्या-दिना । प्रतिवचनं प्राण इति । मुख्यप्राणं व्यावर्तयति सर्वाणीति । प्राणमभिलक्ष्य लयकाले संविशन्ति जन्मकाले तमेवाभिलक्ष्योज्जिहते उद्गच्छन्ति सैषा परा देवता प्रस्तावं भक्तिविशेषमनुगतेत्यर्थः ।

परिमल

वृत्तिकारादिमतमाह अत्रकेचिदिति ॥ अपर इति । मायावादिप्रभृतयः । अयुक्तत्वं व्यनक्ति शब्देति । पूर्ववाक्ये शब्दभेदात्संशयानुपपत्तिर् द्वितीये तु प्रकरणादिति विवेको द्रष्टव्यः । वाक्यद्वये संशयानुपपत्तौ क्रमादुक्तं हेतुद्वयं क्रमेण व्यनक्ति यथेत्यादिना नैतदुदाहरणं युक्तमित्यन्तेन । ज्योतिष्टोमाधिकारे ज्योतिष्टोमप्रकरणे । तदयुक्तमित्यपर इत्युक्तं तन्मतमाह किं त्वित्यादिना ॥ श्रूयत इति । छान्दोग्ये प्रथमाध्याये । प्रस्तोतरिति सम्बोधनम् । प्रस्तावमन्वायत्ता प्रस्तावप्रतिपाद्या । प्राणमेवेत्यादिवाक्येन प्राणस्य सर्वभूतोत्पत्तिलयहेतुत्वमुच्यते ।

यादुपत्यं

शब्दभेदात्प्रकरणाच्चेति । पूर्ववाक्ये शब्दभेदात्संशयानुपपत्तिः । द्वितीये तु प्रकरणादिति विवेको द्रष्टव्यः ॥ किन्तु प्रस्तोतर्या देवतेति । प्रस्ताव इति साम्नो भक्तिविशेषस्त-मन्वायत्ताऽनुगताऽधिष्ठात्रीति यावत् । चक्रायणः किल ऋषिर्धनाय राज्ञो यज्ञमधिगम्य ज्ञानवैभव-मात्मनः प्रकटयितुकामः प्रस्तोतारमुवाच । हे प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते निपतिष्यतीति । स भीतः पप्रच्छ । कतमा सेति । प्रत्युक्तिः प्राण इत्यादीति विषयवाक्यार्थो ज्ञातव्यः ।

वाक्यार्थरत्नमाला

वृत्तिकृतामिति । सूत्रव्याख्यातॄणामित्यर्थः । शाङ्करभाष्यानुसारेण केचित् प्राणस्य प्राणमित्यादि मूलग्रन्थः । तद्भामत्याद्यनुसारेण टीकाग्रन्थः । यथेतीति । एतच्चानन्दमयाकिरण एवैकदेशोत्कीर्त्तनेन समग्रशब्दलक्षणयेत्यादि मूलव्याख्यावसरे टीकातट्टीकयोः स्पष्टम् । मूलपाठः । मूलकोशानुसारीपाठः । परभिमतं विषयवाक्यार्थमाह । प्राणः परमात्मेत्यादिना । प्रस्तोतर्या देवतेत्यादेः किं वाक्यत्वमिति न प्रतीयते इत्यत उषस्तिर्हि चाक्रायण इभ्यग्राम इत्यादिछन्दोगोपनिषद्गतं पूर्वप्रमेयं कथयन्नेतत्संगमयति । उषस्तिश्चाक्रायण इत्यादिना ।


प्रेरकोऽस्यापि यद्धरिः

प्रेरकोऽस्यापि यद्धरिः

सुधा

एतदप्ययुक्तम् । संशयपूर्वपक्षयोरनुत्थानात् । ‘ननु प्राणबन्धनं हि सोम्य मनः’ ‘प्राणस्य प्राणमि’ति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते । वायुविकारे तु प्रसिद्धो लोकवेदयोः । अतः प्राणशब्देन कतरस्योपादानमिति भवति संशयः । मैवम् । वायुविकारे देवताशब्दस्य प्रस्तावमन्वयायत्तत्वस्य चासम्भवात् । चेतनस्य हि देवताशब्दो मन्त्राधिष्ठानं(नत्वं) चोपपन्नम् । किञ्चात्र भूतानां संवेशनमुद्गमनं च पारमेश्वरं कर्म प्रतीयते । तेन पूर्ववत्तद्ग्रहणमेव युक्तम् । कुतः पूर्वपक्षस्यावकाशः । यतो वा इमानि भूतानीति हि सर्वप्राणिनिकायस्य ब्रह्मण्येव संवेशनं तत एवोद्गमनं च श्रावयति । ‘सुप्तिजागरयोरपि सता सोम्य तदा सम्पन्नो भवती’त्यादि ।

शेषवाक्यार्थचन्द्रिका

अनुत्थानादिति । त्वदुदाहरणेऽपि वाक्यशेषविरोधात्तुल्यमसन्दिग्ध- त्वमिति नास्याप्युदाहरणत्वं युक्तमिति भावः । आकाशादिशब्दवत्प्राणशब्दस्योभयत्र प्रयुक्तिरेव संशय-हेतुरित्याशङ्कते नन्विति । मनःशब्दलक्ष्यं तत्साक्षिचैतन्यं प्राणे परस्मिन्नैक्येन स्थितमित्याद्यवाक्यार्थः । प्राणस्य पञ्चवृत्तेर्वायुविकारस्य प्राणं सत्तास्फूर्तिदमात्मानं ये विदुस्ते ब्रह्म जानन्तीति द्वितीयवाक्यार्थः । अमृतः प्राणो ब्रह्मैवेत्यदिसङ्ग्रहार्थमेवमादावित्यादिपदम् । तथा च कुतः संशय इत्यत्राह वाय्विति । हेतुमुक्त्वा फलमाह अत इति ॥ देवताशब्दस्येति । कतमा सा देवतेति सैषा देवतेति च प्रश्न-प्रतिवचनयोः श्रुतस्येत्यर्थः । न च प्राणशब्दस्य जडवाय्वभिमानिचेतनपरत्वाद्देवताशब्दाद्युपपत्तिरिति वाच्यम् । तथा सति, ‘वायुविकारस्य पञ्चवृत्तेः प्राणस्योपपादनं युक्तमि’ति त्वत्पूर्वपक्षभाष्यविरोध-प्रसक्तेरिति भावः। यद्वैतदस्वरसादाह किञ्चेति । उभयत्र प्रयुक्तस्याप्यकाशशब्दस्य ज्यायस्त्वादिलिङ्ग- बलाद्ब्रह्मपरत्ववत्तादृशस्य प्राणशब्दस्यापि ब्रह्मलिङ्गबलाद् ब्रह्मपरत्वस्य तल्लिङ्गन्यायेन सिद्धत्वान्न पूर्वपक्षावसर इति भावः । आकाशवाक्योक्तं ज्यायस्त्वादिलिङ्गमत्र नास्तीत्याशङ्क्याह अत्रेति । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्तीति वाक्यशेष इति शेषः । कुतो भूतसंवेशनादेः पारमेश्वरकर्मत्वं येन पूर्वपक्षस्यानवकाश इत्यतः किमत्र सृष्टिप्रलयकालीनं तद्विवक्षितं किंवा सुप्ति-जागरकालीनमिति विकल्पं मनसि निधायोभयमपि श्रुतिबलेन ब्रह्ममात्रनिष्ठमित्याह यतो वा इत्यादिना । आदिशब्देनैतस्माज्जीव उत्तिष्ठतीत्यस्य सङ्ग्रहः । तथा च प्रस्ताववाक्यस्य ब्रह्मणि भूतलयादिबोधक‘यतो वे’त्यादिश्रुत्यनुसारेण ब्रह्मणि सर्वभूतलयादिपरत्वेन तल्लिङ्गादिति न्यायेनात्रोक्त-प्राणो ब्रह्मैवेति निर्णयान्न पूर्वपक्षावसर इति भावः ।

परिमल

संशयोत्थानमाशङ्क्य निराह नन्वित्यादिना । जन्मलयहेतुत्वरूपनिरवकाश-ब्रह्मलिङ्गसद्भावेन तल्लिङ्गादिति पूर्वोक्तन्यायेन प्राणस्यापि ब्रह्मत्वनिर्णयसम्भवादिति भावेन पूर्वपक्षा-नुदयं च व्यनक्ति किञ्चेति । कथमिदं पारमेश्वरलिङ्गमित्यतस्तद्वाक्यं प्रलयसृष्टिकालीनलयादिपरमुत सुप्तिजागरणकालीनलयादिपरम् । आद्ये आह यतो वा इति । अन्त्ये आह सुप्तीति ।

यादुपत्यं

सर्वाणि ह वा इमानि भूतानीति वाक्योक्तं भूतसंवेशनादिकं सृष्टिप्रलयकालीनं वा विवक्षितं सुप्तिजागरकालीनं वा । आद्य आह यतो वा इमानीति । द्वितीय आह सुप्तिजागरयोरपीति । आदिपदेनैतस्माजीव उत्तिष्ठतीत्यस्य ग्रहणम् ।

श्रीनिवासतीर्थीया

साधरणधर्मभूतप्राणशब्ददर्शनात्संशय इत्याशयेन कोटिसहचारं तस्योप-पादयति नन्विति । समबलत्वाभावान्न संशय इत्याह मैवमिति । पूर्ववत् प्राणबन्धनं हि सोम्य मन इत्यत्रेवेत्यर्तः । भूतसंवेशनोद्गमनयोः पारमेश्वरकर्मत्वं कुत इत्यतः श्रुत्यन्तरेणोपपादयति यतो वा इति ।

वाक्यार्थरत्नमाला

वाक्यशेषेति । सर्वाणि हवेत्येवंरूपेति पूरणीयम् । मनःशब्दलक्ष्यमिति । प्राणः परमात्माबन्धनमाश्रय इत्यादिरूपे पूर्वव्याख्याने सति कुतो व्याख्यानान्तरमेतदिति चेत्सत्यम् । तट्टीकायां तथा रूपस्यापि व्याख्यानस्य दर्शने नानुवादोपपत्तेः । फलतोऽर्थैक्यत्वस्येवेति ज्ञेयम् । तथापि कुतः संशय इत्यत्राहेति पाठः । मूलकोशे सत्वाच्छङ्कात्वस्य स्पष्टं प्रतीतिसम्भवाच्च । तथाचेति क्वचित् पाठेऽपि चशब्दस्याप्यर्थतया तथापीति लभ्यत इत्यप्याहुः । मत्राधिष्टानमिति मूलम् । मन्त्राधिष्टानत्व-मित्यर्थः । यद्वा मन्त्रेऽधिष्टानमधिष्टितिरिति व्याख्येयम् । लिङ्गन्यायेनेति । आकाशस्तल्लिङ्गादि-त्यधिकरणोक्तन्यायेनेत्यर्थः । आशंक्याद्गात्रेतीत्यत्राहेत्यस्योक्तमित्यर्थः । उक्तमिति पाठस्तु स्वरस एव । ‘‘प्रस्तोतर्या देवते’’ति वाक्ये भूतसंवेशनाद्यप्रतीतेः शेषं पूरयति । सर्वाणीति । ब्रह्मण्येव संशयेन तत एवोद्गमनं चेति मूलम् । अत्र यत्प्रयतीत्याद्युक्ताभि संवेशनस्य पश्चाच्छतिगतक्रममविवक्षितत्वात् ‘‘सर्वाणि हवे’’ति च्छन्दोगोपनिषदनुसारेणायं व्यवहारः । भूतलयादि बोधकेत्युत्तरटीकाप्येवमुपपाद्या ।